SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् ।। पश्वमः प्रस्तावः। I૬૮ | स्वव्रते हेममहीधर इवाजनि । जगत्यां जगतीजानिरक्षोभ्यस्त्रिदशैरपि ॥५॥ युग्मम् ।। सुधर्माधिपतिः पश्यन्नवधिज्ञानतोऽन्यदा। | समग्रं भरतक्षेत्रं, ग्रामारामपुरादिकम् ॥६॥ विजयायां पुरि प्रौढप्रतापप्रसरत्प्रभम् । नरवर्मनराधीश, दिवस्पतिमिवापरम् ॥७॥ सुरा| सुरनराक्षोभ्यसम्यक्त्वव्रतभूषितम् । सर्वज्ञशासनाम्भोधिसमुल्लासैकमानसम् ॥८॥ ऐक्षिष्ट शिष्टलोकानां, प्रत्यक्षत्रिदशद्रुमम् । प्राञ्जलिश्च नमस्कृत्य, स्तुतिं तस्येति निर्ममे ॥९॥ चतुर्भिः कलापकम् । नरेन्द्रो नरवर्मासौ. प्रथमः प्रथितौजसाम् । विजयी विजयापुर्या | वन्दनीयः सुरैरपि ॥१०॥ इत्याकर्ण्य सुरेन्द्रोक्तं, सुवेलस्त्रिदशाग्रणीः। मनाग्मिथ्यात्वमूढात्मा, जाननपि वचोऽर्हतः ॥११॥ विममर्श निजे स्वान्ते, प्रभवोऽमी यथातथा । ऐश्वर्यविवशात्मानो, भवन्ति खैरभाषिणः ॥१२॥ मनुष्यमात्रे किं सत्वं, का व्रते स्थिरताधिका । विषमे कार्यमात्रेऽपि, यस्य दोलायते मनः ॥१३॥ जपस्तावत्तपस्तावत्तावनियमधीरता। न यावजायते कार्य, नृणां संसारसम्भवम् ॥१४॥ तद्भावं वासवो ज्ञाखा, तमवग् भद्र भूतले । गत्वा तद्गुणमाहात्म्यं, परीक्षस्व ममाज्ञया ॥१५॥ ततोऽसौ भरतक्षेत्रमागत्येन्द्रनिदेशतः । गुणाकरगुरो रूपं, निर्ममे देवमायया॥१६॥ पञ्चशत्यानगाराणां, परितः परिवारितः। क्रमेण विहरन्नुया, मोहयन्मुग्धमण्डलीः ॥१७॥ आयातो विजयापुर्या, राज्ञो वेश्म समाश्रयत् । राजापि स्वगुरून् दृष्ट्वा, ववन्दे दृष्टमानसः ॥१८॥ नरेन्द्रेण स्वयं दत्ते, दत्ताशीर्मुनिपुङ्गवः । निविष्टो विष्टरे हैमे, मुनिमण्डलमण्डितः ॥१९॥ प्रजाग्रणीस्तदने च, धर्मस्य श्रवणेच्छया । वन्दित्वा विधिना सम्यग् , विनयी समुपाविशत् ॥२०॥ ___अथ ते तत्क्षणाद्भूत्वा, खड्गखेटकपाणयः । साधवः सुभटाकारा, विकारविकृताननाः ॥२१॥ प्रोचुः परस्परं क्रुद्धा, महायोद्वार उद्धताः। बन्धयध्वममुं मायाविनं पापाहतं नृपम् ॥२२॥ युग्मम् ॥ क्रौञ्चबन्धं ततः कैश्चिद्वबन्धे वसुधाधिपः । धावित्वा भीष
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy