SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 888888888888888888888488 सुन्दरं हारं, हृदि पाणौ च दक्षिणे ॥९१॥ रत्नप्रभं च केयूरं, मुद्रां पापापहां तथा । निधाय विधुतारातिराययौ जिनवेश्मनि ॥९२॥ पञ्चभिः कुलकम् ॥ श्रीमूलनायक स्नात्रसामग्री निर्ममे तदा । विधूय सर्वतस्तस्मिन्नार्हतैर्गर्हितस्थितिम् ॥ ९३ ॥ चन्दनेन सुगन्धेन, भालं तिलकसंयुतम् । सकङ्कणौ करौ कृत्वा, सपुष्पं च शिरस्तथा ॥९४॥ धौतवासाः सदाचारः, सालङ्कारः सुधीवरः । पुरो निधाय बिम्बस्य, कलश | जलसम्भृतम् ॥९५॥ निर्माल्यीकरणं सूत्रपाठपूर्वं जगद्गुरोः । विदधे श्रावकः कश्चिद्, धूपोद्गाहपुरस्सरम् ॥ ९६ ॥ यतः - श्राद्धः स्नातानु लिप्तः सितवसनधरो नीरुजोऽव्यङ्गदेहो, दवा कर्पूरपूरव्यतिकरसुरभिं धूपमभ्यस्तकर्मा । पूर्वं स्नात्रेषु नित्यं भृतगगनधनं प्रोल्लसद्धोपघण्टाटङ्काराकारितान्तः स्थितजननिवहो घोषयेत्पूर्णघोषः ॥९७॥ संस्तप्य मूलप्रतिमां, तेन भृङ्गारवारिणा । ततः संक्षेपतोऽभ्यर्च्य, स | व्यधाच्चैत्यवन्दनाम् ||१८|| शुद्धिं विधाय पयसा करपङ्कजानां निर्माय कङ्कणविधिं विधिना व्यधत्त । कर्पूरकेशरविमिश्रितचन्दनेन, | भालस्थलीषु तिलकानि पृथून्नतानि ||१९|| सद्धूपधूपिततमेषु गुणोज्ज्वलस्य, यूयं विमुश्चत कराञ्जलिषु प्रसन्नाः । पुष्पाणि पश्चविधवर्णमनोहराणि प्रत्येकमास्तिकपुरन्दरमण्डलस्य || ३०० || एवं नियोगवचनानि सुधाश्रवाणि, श्रीवस्तुपालवदनाम्बुजसम्भवानि । | श्रुखाभिषेकसमये जिनपुङ्गवस्य, श्राद्धाः सहर्षमनसः ससृजुस्तथैव ॥१॥ त्रिभिर्विशेषकम् ॥ अथ मन्त्रीश्वरः स्नात्रं, विधातुं प्रथमाहतः । स्नात्रपीठं स्वयं चक्रे, पवित्रं पुण्यवारिणा ॥ २ ॥ चन्दनेनाकरोत्तत्र, स्वस्तिकं स्वस्तिहेतवे । पुष्पाक्षतादिभिः पूजां तस्योपरि विनिर्ममे ||३|| अतिष्ठिपत्ततस्तत्र, प्रतिमां पूर्वपू| जिताम् । तदग्रे च व्यधादेवं विधिना चैत्यवन्दनाम् ||४|| चीवराष्ट्रपुटैरास्यकोशं कृत्वा कृताञ्जलिः । अभाणीदिति वृत्तानि सब्र 48888888888888888888888828
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy