________________
१००॥ अपारे संसारे कथमपि समासाद्य नृभवं, न धर्म यः कुर्याद्विषयसुखतृष्णातरलितः । बुडन् पारावारे प्रवरमपहाय प्रवहणं, * स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥१॥
धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसम्पत्तयः। कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः॥२॥ स धर्मो द्विविधः प्रोक्तः, साधुश्रावकभेदतः। सद्देवगुरुधर्मादि| तत्त्वश्रद्धानपूर्वकः ॥३॥ इत्यादिदेशनां श्रुत्वा, नृपः श्रीगुरुसन्निधौ । सम्यग्दर्शनसंशुद्धं, श्राद्धधर्म तदाऽग्रहीत् ॥४॥ ततो नखा गुरून् भक्त्या, कौतुकी पृथिवीपतिः। प्रविवेश पुरस्यांतः, पश्यस्तजनसम्पदम् ॥५।। नरेन्द्रपुरुषे रोषारुणैः कञ्चन पूरुषम् । नीयमानं वराकारं, प्रेक्ष्य वध्यावनिं प्रति ॥६॥ पुण्यकारुण्यपीयूषसागरो नागरावलीः। विस्मापयन्महातेजा, व्रजन् वर्त्मनि भूपतिः ॥७॥ | उत्पाठ्य सहसा तेभ्य, उत्पपात नभस्तले । प्रापच्च वायुवेगात्स, (वायुवद्वेगात् ) सत्वशाली पुरे निजे ॥८॥ त्रिभिर्विशेषकम् । उत्तीर्ण नृपतौ तत्र, सप्तभूमे निजे गृहे । ननाश काकनाशं साक् , व्याधिः (शोकः) सर्वोऽपि पूर्जनात् ॥९॥ महीचन्द्रकुमारोऽपि, समत्र्यादिपरिच्छदः । प्रणनाम पितुः पादौ, सम्भ्रमात्खलिताम्बरः॥१०॥ प्रमोदन्ते प्रजाः सर्वा, न्यायधर्माभिवृद्धितः । इत्यपृच्छनृपोऽपि तान्(इत्याख्यात क्षितिभृन्मत्रि)निजाङ्गजमुखान् पुनः॥११॥ ___ अविघ्नेनानुवर्तन्ते सम्पदः सकलाः प्रजाः। तव प्रसादतः स्वामिन्नित्यूचुः सचिवादयः॥१२॥ सत्कृत्याथ सहानीतं, नरं सक्रियया नृपः। तत्स्वरूपं च जिज्ञासुर्यावदाख्याति किञ्चन ॥१३॥ तावत्कश्चिद्वराकार, उत्तीर्य नमसो नरः। तस्मै समर्पयामास, हारं विश्वमनोहरम् ।।१४।। स्वशरीरमिवासाद्य, हारं मुक्तामयं नृपः । तमाख्यत्कोऽसि कं हेतुं, दत्से मुक्तावलीमिमाम् ॥१५॥ स