________________
ग्रीमन्तरा कार्यसिद्धिर्न स्याद्धनैरपि ॥३६॥ इत्यन्योन्यं तयोर्वाता, श्रुत्वागत्य बहिर्जवात् । सर्वसूत्रभृतामाद्यं, शोभनं सचिवोऽभ्यधात् ॥३७॥ किं ब्रूतेऽनुपमादेवी, भवन्तं भाग्यशालिनी । तेनोक्तं देवपादैर्यत् , श्रुतिभ्यामवधारितम् ॥३८॥ ततः प्रणयिनी प्रोचे, | सचिवः सस्मिताक्षरम् । त्वया किमुक्तमेतेषां, सत्कर्मस्थितिवद्धिनि ॥३९॥ सलज्जा तद्वचःपुष्पैः, शुचिभिः पर्यपूजयत् । स्वामिन्नैवोचितः कर्तु, विलम्बश्चैत्यकर्मणि ॥४०॥ न वर्धते यतस्तेजः, सर्वदा महतामपि । सायं सूर्योऽपि निस्तेजाः, पतत्यर्णववारिणि ॥ | ॥४१॥ व्यापारप्रभुता चैषा, प्रदीपकलिकोपमा । सम्पदोऽपि पदं नैव, शाश्वतं दधते क्वचित् ॥४२॥ यतः-लक्ष्मीः सर्पति नीचम
वपयःसङ्गादिवाम्भोजिनीसंसर्गादिवकण्टकाकुलपदा न क्वापि धत्ते पदम् । चैतन्यं विषसन्निधेखि नृणामुज्जासयत्यञ्जसा, धर्मस्थाननियोजनेन सुधिया ग्राह्य तदस्याः फलम् ॥४३॥ श्रियो वा स्वस्य वा नाशो, येनावश्यं भवेदिह । श्रीसम्बन्धे मुधा स्थैर्यबुद्धिं
बध्नन्ति तत्र किम् ॥४४॥ वृद्धानाराधयन्तोऽपि, तर्पयन्तोऽपि पूर्वजान् । पश्यन्तोऽपि गतश्रीकानहो मुह्यन्ति जन्तवः ॥४५॥ भूपII भ्रपल्लवप्रान्तनिरालम्बविलम्बिनीम् । स्थेयसीं बत मन्यन्ते, सेवकास्तामपि श्रियम् ॥४६॥ इतो विपदितो मृत्युरितो व्याधिरितो
| जरा । जन्तवो हन्त पीड्यन्ते, चतुभिरपि संततम् ॥४७॥ सुधासेकोपमं वाक्यं, निशम्येति तयोदितम् । तेजःपालोऽवदत्पद्मदलदीर्घाक्षि सन्मते ॥४८॥ एवं वक्तुं न जानाति, खां विना कश्चन ध्रुवम् । ताम्रपर्येव सूते स्म, नान्या मुक्तामणीन् सरित् ॥४९॥ है | ताम्रपर्णीतटोत्पन्नमौक्तिकैरिक्षकुक्षिजैः । बद्धस्पभिरा वर्णाः, प्रसन्नाः स्वादवस्तव ॥५०॥ गृहचिन्ताभरहरणं, मतिवितरणमखिलपात्रसत्करणम् । किं किं फलति न कृतिनां, गृहिणी गृहकल्पवल्लीव ॥५१॥ सिद्धिः श्रीनेमिचैत्यस्य, निर्विलम्बं भवेदिह । तं ब्रूहि | परिणामैकशुद्धबुद्धे ममाधुना ॥५२।। भर्तुरादेशमासाद्य, सा ततो मुदिताऽवदत् । सूत्रधारा विधीयन्ते, पृथगति पृथग्निशि ॥५३॥