SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् ।। चतुर्थः प्रस्तावः। ॥५९॥ गाङ्गेयेनामुना तस्मात् , शुद्धधातुरसात्मिका । निर्माय प्रतिमा नव्या, स्थाप्या स्नात्रपदे खया ॥४७॥ धनकोटिव्ययात्पुण्यं, यत्तीर्थेऽन्यत्र जायते । तदेतस्मिन् कृते स्नात्रे, जिनस्य विधिना भवेत् ॥४८॥ तद्वचः प्रतिपद्यासौ, युक्तियुक्ततया ततः। वस्त्रादिभिः समभ्यर्च्य, तान् न्यधत्त गुणिबजे ॥४९॥ गुणवद्भिः(नतः)श्रितः प्राणी,सत्कृतश्च महीभुजा । लघीयानपि लोकेषु,गरीयान् | जायते जवात् ॥५०॥ द्रम्माणामयुतं दत्त्वा, देवपूजाकृते कृती। क्रमादुद्धृत्य तचैत्यं, चश्चत्काञ्चनकुम्भयुक् ॥५१॥ प्रतोलीनिर्गमद्वारतारतोरणमण्डितम् । नवीनं विदधे मन्त्री, सत्रागारद्वयान्वितम् ॥५२॥ युग्मम् ॥ दुर्ग स्वर्गसदाभेद्यं, वापीकूपप्रपायुतम् । तथा तल्लोकरक्षायै, स दयादीक्षितो व्यधात् ॥५३॥ विधाय प्रतिमां विंशाईतो जाम्बूनदादिभिः । धातुभिः प्रत्ययप्रौढां, शब्दसिद्विमिवानघाम् ॥५४॥ विधिना च प्रतिष्ठाप्य, श्रीजगच्चन्द्रसूरिभिः। स्नात्रपीठे न्यधात्तीर्थे, भृगुक्षेत्राभिधे सुधीः ।।५५।। युग्मम् ॥ अथ भृगुक्षेत्रधर्माधिकारः-चत्वारि चैत्यानि सतोरणानि, मत्री भृगुक्षेत्रपुरे जिनानाम् । तदीयवित्तप्रतिमान्वितानि,विनिर्ममे काञ्चन| कुम्भभाञ्जि ॥५६॥ मत्री भृगुपुरे वस्तुपालो वस्तुविचारवित् । शकुनीविहा(रेभेन)करिणा, भेत्तुमात्मभवार्गलाम् ॥५७।। तन्मुखे देवकुलिकाद्वयं दन्तिद्वयोपमम् । आरादारासनीयाश्ममयं स्फारमकारयत् ।।५८॥ युग्मम् ॥ तद्गृढमण्डपेऽजितशान्त्याख्यं परिकरस्थशेषजिनम् । ललितादेव्याः खस्य च, सुकृताय चकार जिनयुगलम् ॥५९॥ तद्गुढमण्डपक्रोडे, दक्षिणे विशतां सताम् । खमृत्ति कारयामास, ललिताकलितामसौ॥६॥ धातुभिनिर्मितां स्नात्रप्रतिमा सुव्रतप्रभोः। लेपमूरलेपात्मा, तेजःपालोऽत्र तेनिवान् । | ॥६१।। तत्राश्वबोधतीर्थे, परितस्तीर्थेशदेवकुलिकानाम् । दण्डाञ्च पञ्चविंशतिमकारयत्काञ्चनानेषः ॥६२॥ पुरागहिरसौ पुष्पवनं - तालतमालवत् । चक्रे जिनाचनविधावनन्तालतमालवत् ॥६३।। वडऊसणपल्लीस्थचैत्ययोर्मूलनायकौ । नामेयनेमिनौ वस्तुपालस्तु | ॥५९॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy