SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ समतिष्ठिपत् ॥६४॥ तथा-मत्री स्नात्राईपीठे भृगपुरभवने सुव्रतस्वामिचैत्ये, न्यस्योद्दामोत्सवोधैरघशतमथनं हेमबि गरीयः।। | कृखा माङ्गल्यदीपं दलितकलिमलः प्रीतये पूर्वजानां, द्रम्माणां कोटिमेकामयपदमकरोद्वस्तुपालः कृतीशः॥६५॥ तपखिनां ददौ मन्त्री, कष्टानुष्ठानकारिणाम् । क्षमाभृत्प्रीतये पञ्चलक्षान् रेवापगातटे ॥६६॥ शुक्लतीर्थतटे तेषां, लक्षद्वयमसौ ददौ । आहतोऽपि द्विजादीनां, दयया वेदपाठिनाम् ॥६७॥ पुरोऽस्याः परितो मन्त्री, सत्रागारपरम्पराम् । अन्नदानाय लोकानां, स युक्त्याकारयत्तथा ॥६॥ एवं भृगुक्षेत्रपुरे स तीर्थयात्राजिना_लयमुख्यकार्यैः। धनस्य कोटिद्वयमद्वयश्रीधर्माय मन्त्री व्ययतिस युक्त्या ॥६९॥ दर्भावतीमण्ड नतीर्थपति, नत्वा स दवा धनमर्थिनां च । प्रापत्ततः सङ्घजनानुयुक्तश्चौलुक्यराजेश्वरराजधानीम् ॥७०॥ अथागात्स|चिवस्वामी, स्तम्भतीर्थपुरं पुनः । श्रीचौलुक्यनृपादेशाद्वेलाकुलनृपैर्वृतः ॥७१॥ वेलाकुलनरेन्द्राणां, प्राभृतैस्तत्र भूरिभिः। निर्ममे मत्रिराजाभ्यां, धर्मकार्यपरम्पराम् ।।७२।। तद्यथा-स्तम्भतीर्थपुरे वस्तुपालो मन्त्रिपुरन्दरः। प्रासादे सालिगस्योच्चैरुद्दभ्रे गूढमण्डपम् | ॥७३॥ तत्र गर्भगृहद्वारे, श्रियो लीलासरोरुहम् । स्वस्याप्यवरजस्यापि, स तेने मूर्तिखत्तकम् ॥७४|| गौर्जरान्वयिनो लक्ष्मीधरस्य सुकृताय सः। तस्यैव परिधावष्टापादोद्धारमकारयत् ॥७५॥ पुण्याय वडदेवस्य, वैरिसिंहाभिधस्य च । तत्पक्षचैत्ययोः सोऽहदिबे पृथगतिष्ठिपत् ॥७६॥ तथौशवालगच्छीये, पार्श्वनाथ जिनालये । स्वस्यापि स्वाङ्गजस्यापि, मृर्ती कारयतिस्म सः॥७७॥ श्रेयांसमात्माग्रजपुण्यहेतोः, स्वपुण्यहेतोश्च युगादिदेवम् । स्वकान्तयोः पुण्यकृते च नाभिसिद्धार्थजावेष जिनावकार्षीत् ।।७८॥ सैष मोक्षपुरद्वारतोरणस्तम्भसन्निभौ । तद्गृढपण्डपे कायोत्सर्गिणी विदधे जिनौ ॥७९॥ थारापद्रकगच्छीयशान्तिनाथजिनालये । बलानक
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy