SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 88883% 70% 8488888438840384888884 न किञ्चिद्भणितं मया । तन्मूल्यतुल्यां वो दत्तिं, कथं गृह्णाम्यनीदृशम् ||२८|| परं विजयतेऽद्यापि, श्रीजिनेन्द्रस्य शासनम् । यदौ| चित्यविदः सन्ति, प्रौढिमन्तो भवादृशाः ||२९|| नाग्रहः सर्वथा कार्यस्ततो युष्माभिरार्हतैः । यतो जैनर्विमात्रस्य, नोचिता वृत्तिरी|दृशी ||३०|| निर्लोभता जिनाधीशमत एवेति चिन्तयन् । मत्री स्माह हसनेवमनूचानं विचारवान् ||३१|| न गृह्णीमो वयं पश्चा| देतद्वेम कथञ्चन । भवद्भ्यः कल्पितत्वेन, गुरुद्रव्यं यतो भवेत् ||३२|| न भोक्तव्यं गुरोर्द्रव्यं देवताया पिशेषतः । यदेतद्विषतामेति, मनागप्युपजीवितम् ||३३|| सर्वेषु धर्मकार्येषु, धनं साधारणं भवेत् । लिङ्गिसत्कं च यद् द्रव्यं, न तत् क्वाप्युपयुज्यते ||३४|| लिङ्गिद्रव्येण यद्धर्मस्थानं जातं क्वचिद्भवेत् । तदपि त्याज्यतां याति सतामित्यार्हतं वचः ||३५|| भवितव्यं कथं हेम्ना, तदनेन निगद्यताम् । सा प्रमाणीभवेद्वाणी, यां प्रमाणी वदेत्पुमान् ||३६|| ऊवाचतमनूचानः, सचिवं शुचिचेतसम् । श्रीसंघसहिता यूयं, साम्प्रतं कुत्र यास्यथ ॥ ३७ ॥ भृगुकच्छमहातीर्थे, देवान्नन्तुं यियासवः । इत्युक्ते मत्रिणा सोऽपि वदतिस्म यथास्थितम् ||३८|| त्रिविधत्रिविधेनैतत्काञ्चनं नातं मया । तेनेदं धर्मकार्येषु, व्ययीकर्तुं हि युज्यते ॥ ३९ ॥ प्रतिभूः पुण्यपुण्यस्य, व्ययोपायोऽस्ति हेमनि । सर्वेषां सम्मतो मन्त्रिन्, मयोक्तः श्रूयतां यथा ||४०|| अश्वावबोधप्रभवं भुवनत्रयपावनम् । शकुनिजीवभूनाथ (ताढ्य ) कन्याकारित| मन्दिरम् ||४१|| भृगुक्षेत्र पुरे तीर्थ, भवकोटिमलापहम् । यदासी त्रिदशाधीश - सेव्यमानं चिरन्तनम् ||४२ ॥ युग्मम् ॥ तन्नर्मदा| पयः पूरप्लावनान्नाशमासदत् । ततस्तत्राग्रदेवेन, देवेशसदृशश्रिया ॥ ४३ ॥ श्रीमत्कुमारपालस्य, दण्डेशपदशालिना । मल्लिकार्जुनभू| पालजयश्री प्रथितौजसा ॥ ४४ ॥ निर्जित्य सिन्धुलां देवीं मिध्यादृग्देवताग्रगाम् । प्रासादे कारिते नव्ये कैलासाचलसोदरे || ४५||| | प्रौढा लेप्यमयी मूर्त्तिः, स्थापिता सुव्रतेशितुः । पूज्यते पूर्यते नैव, सङ्घस्नात्रमनोरथः ॥ ४६ ॥ चतुर्भिः कलापकम् ।। *883% 8483888888888888888888
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy