________________
दादिजिनेशितुः॥६५।। युग्मम् । प्रतिष्ठा विदधे तत्र, बृहद्गच्छाधिपादिभिः । सद्रत्नाद्ब्रह्म)मूरिभिर्मन्त्रिविनिर्मितमहोत्सवम् ॥६६॥ | यतः-श्रीमद्गौजरभीमदेवनृपतेर्धन्यः प्रधानाग्रणीः, प्राग्वाटान्वयमण्डनं स विमलो दण्डाधिपः सप्रियः। अष्टाशीत्यधिके सहस्रगणिते
संवत्सरे वैक्रमे, यः प्रासादमचीकरन्निरुपम श्रीअम्बिकादेशतः ॥६७। कोट्योऽष्टौ व्ययिताः किलार्बुदगिरौ श्रीअम्बिकादेशतो, | येनोत्तुङ्गविहारपित्तलबृहद्विम्बादिसत्कर्मभिः । स श्रीमान् विमलो मलोज्झितमनाः कस्यापि नो विस्मयं, कुर्याद्वाजिवराश्रितो जिनपतेरग्रे स्थितो लीलया ॥६८॥ दृष्टो दृष्टिफलं पुंसां, प्रणतो वासवश्रियम् । स्तुतस्तीर्थकरैश्वर्य, दत्तेव विमलेश्वरः ॥६९॥ अर्बुदोऽपि | गिरिलेमे, विमलो (लाचलतुल्यताम् )विमलात्मताम् । विमलेशस्य साहाय्यान्मरुमण्डलमण्डनम् ॥७०॥ तेन श्रीनेमिनश्चैत्यं, विधा* पयितुमर्हसि । गिरावत्रैव मन्त्रीश!, श्रीमच्चौलुक्यभूभुजः॥७१॥ पुण्यानुभावात्प्रभुतामवाप्य, सत्पुण्यकार्य स्वपदानुरूपम् । करोति * यो नैव किल प्रमादात , कथं पृथिव्यां स भवेत् कृतज्ञः ॥७२।। अस्मिन् विनिर्मितं चैत्यं, रैवताचलसन्निभम् । भविता तु(नु) महा
मात्य !, स्थिरस्थायि स्थिरातले ॥७३॥ एवं गुरुभिरादिष्टं, श्रुत्वा सोमान्वयी तदा । एवं मनोरथं स्वान्तसौधमध्येऽध्यरोपयत् ॥७॥ तथाहि-चत्वारो भ्रातरोऽभूम, जैनधर्मविदो वयं । दैवात् शैशव एवोभौ, तत्राभूतां सुरोत्तमौ ॥७५॥ नाम्ना तु मल्लदेवस्य, कीर्तनानि कियन्त्यपि । कारितानि क्षितौ सन्ति, सतामानन्दकारणम् ॥७६।। यतः
श्रेयसे मल्लदेवस्य, मन्त्री शत्रुञ्जये गिरौ । विदधेऽष्टापदं तीर्थ, साक्षादष्टापदोपमम् ॥७७॥ लूणिगश्रेयसे किन्तु, कीर्तनं नास्ति कारितम् । वश्चनीयो न हि कापि, सोदरः सुकृतस्थितौ ॥७८॥ तन्नाम्नातः परं कार्या, वसतिर्नेमिनो मया। गिरिनारगिरीन्द्रस्यावतारस्य प्रकाशिनी ॥७९॥ इत्यालोच्य स्वयं चित्ते, तेजःपालाय मन्त्रिणे। अनुजाय विनीताय, तं वृत्तान्तमसौ जगौ ॥८०॥ तेनापि