SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः श्रीवस्तुपाला व्यथाकुलान् । तन्निवासिजनान् वीक्ष्य, विस्मृतान्यप्रयोजनान् ॥६३॥ मूलराजादिभूपालमृतिभिः स्फुरितोदयम् । नगर्याः परितो चरितम् । वप्रमभ्रंलिहमसौ सुधीः॥६४॥ विधाय विविधा भङ्गीबिभ्राणं शरणं सताम् । विश्रामायेव देवानाम् , निरालम्बा(धारा)ध्वयायि नाम् ॥६५। तिरश्चक्रेऽखिला भीति, भानुवद् ध्वान्तसन्ततिम् । तादृशानां यतो जन्म, सुखायैव तनुस्पृशाम् ॥६६॥ चतुभिः ॥३७॥ कलापकम् ॥ तत्राथ चैत्यं रचयाश्चकार, प्रेडद्ध्वजश्रेणिविराजितथि । कैलासशैलेशसमं सुवर्णकुम्भाङ्कितं पार्श्वजिनेश्वरस्य ॥६७॥ सतोरणं पूर्वजमूर्तियुक्तं, जगत्रयीनेत्रसुधाञ्जनाभम् । खसप्तचन्द्रप्रमितैर्जिनेन्द्रगृहैः परीतं परितः स मत्री ॥६८॥ युग्मम् ॥ बलानके यत्र गजाधिरूढा, कुमारदेवी सचिवेशमाता । विराजते राजतपुष्पमालापाणियुगादीशविभोर्नु माता ॥६९॥ चौलुक्यभूभुजस्तत्र, हृद्यानakol न्दचिकीर्षया । सोऽन्यान्यपि प्रशस्तानि, कीर्तिस्थानानि निर्ममे ॥७॥ यथा-दर्भावतीपुरे वैद्यनाथावसथमण्डपे । तेजःपालो न्य धात्स्वर्णकुम्भानामेकविंशतिम् ॥७१॥ स्वेशतत्प्रियतमास्वकनिष्ठज्येष्ठमूर्तिनिजमृत्तिसनाथम् । वैद्यनाथहरगर्भगृहाग्रे, जैनचैत्यमकरोत्सुकृतीशः ॥७२॥ नवस्वर्णमयांस्तत्र, पवित्रान् कलशानयम् । नवखण्डधरोद्योतेऽकरोत्प्रद्योतनानिव ॥७३॥ पश्चिमोत्तरयोस्तत्र, शालस्य द्वारयोरयम् । प्रशस्ती न्यस्तवानात्मकीर्तिमङ्गलपाठिके ॥७४॥ स्वयंवरमहावापी, स स्वादुजलशालिनीम् । विधाय वसुधां नव्यसुधास्वादमयीं व्यधात्(सुधास्वादमलम्भयत्) ।।७५॥ उत्तरद्वारपुरतो वैद्यनाथस्य वेश्मनः । असूत्रयदसौ तुझं, तोरणं विशदाश्मभिः ॥७६।। वृषमण्डपिकां द्विभृमिका, विशदैरश्मभिरस्य बान्धवः । इह काश्चनकुम्भशोभितां, पुरतो नृपगृहस्य तेनिवान् ॥ ॥७७॥ तथासौ निजनाथस्य, कालक्षेत्रे तदाख्यया। रेवोरुसङ्गमे वीरेश्वरदेवकुलं व्यधात् ॥७८॥ कुम्भेश्वराभिधे तीर्थे, तपखिमठ ॥३७॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy