SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः। श्रीवस्तुपाल युगलः श्रीसिंधुराजोऽभवत् । शङ्खस्तत्तनयः पराक्रमवतामाद्याभिधेयः सतां, वीरः सम्प्रति वस्तुपालसचिवेनासौ क्षणानिर्जितः ॥३४॥ चरितम् ।। जातः कुम्भीतरु(नस)परिवृतः(ढः) किश्चिदुत्तीर्णभार-चक्रे सम्प्रत्यहितवदने नीलनालीकलीला । युत्संरंभाद्विरमति महामात्य | राजे सृजन्तु, दिव्यं प(4खत्प)ट्टांशुकनिरुपमं पत्तनं पौरलोकाः ॥३५।। अथातोद्यमहाध्यानस्वासयन् दिग्गजानपि । विन्ध्याचलमिवो॥४७॥ द्दीप्रं, मत्तवारणमालया ॥३६॥ आवासं श्रीसदीकस्य, निवासं सर्वसम्पदाम् । ससैन्यः प्राविशन्मत्री, धात्रीपालवृतोऽखिलैः ॥३७।। * युग्मम् ॥ चतुर्दशशतैर्वीरैस्तदीयदैत्यविक्रमैः । आरुह्य वाहिनो दिव्यान् , सुवर्णप्रक्षरावृतान् ॥३८॥ अमोघधारदुर्वारकङ्कपत्रप्रव र्षिभिः । चक्रे सचिवसैन्येन, समं सङ्ग्रामसाहसम् ॥३९॥ युग्मम् । तत्र कांश्चिद्यशःशेषीकृत्य निर्जित्य कांश्चन । स्वबुद्धिबलयोगेन, तान् जग्राह सुधीवरः ॥४०॥ | वचांस्युच्चावचान्येष, वितन्वन्( विब्रुवन् ) सदीकस्तदा । लेभे श्रीवस्तुपालाद् द्राग, फलं गर्वमहीरुहः ॥४१॥ संशोध्य धवला| गारं, समग्रं तस्य मन्त्रिराट् । हेमेष्टिकासहस्राणि, पञ्चाश्वानां चतुर्दश ॥४२॥ शतानि रत्नमाणिक्यस्थूलमुक्ताफलावली: । गृहेश इव तेजखी, जग्राह गृहभूमिगाम् (भृद्विषाम् ) ॥४३॥ युग्मम् ॥ ततो जयश्रियं पाणौकखा(त्य) सत्कृत्यतत्परः। मन्त्री स्वावासमायासीदसीममहिमोदधिः ॥४४॥ तत्र स्नात्रोत्सवं मन्त्री, निमन्त्र्य श्रावकव्रजम् । कुमारपालभूपालप्रासादे वृषभप्रभोः ॥४५॥ विधाय विधिना हेमध्वजं धर्मध्वजोपमम् । न्यधात्समग्रं श्रीसङ्घमानर्च च सविस्तरम् ॥४६॥ धवलक्क पुरं प्राप्य,ततश्चौलुक्यभूभुजम् । मन्त्री हेमाश्वमाणिक्यप्राभृतैः समतोषयत् ॥४७॥ तदा कवीश्वरः कश्चिद्वस्तुपालस्य मन्त्रिणः। नरेन्द्रादेशमासाद्य, वास्तव्यां स्तुतिमब्रवीत ॥४८॥ श्रीवस्तुपाल! प्रतिपक्षकाल, खया प्रपेदे पुरुषोत्तमखम् । तीरेऽपि वाढेरकृतेऽपि मात्स्ये, रूपे पराजीयत येन शङ्खः ॥४७॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy