SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ *10286028ASHA | हि(तस्य त्राता भवेज्जनः)। यस्य त्राता न (धर्मोऽस्ति) हि धर्मस्तस्य त्राता न कोऽपि हि ॥९१शा क्रमेण यौवनं प्राप्तः, कलाविज्ञान वानपि । न मानं लभते क्वापि, स पुनः सम्पदं विना ॥९॥ उत्तमा मानमिच्छन्तीत्यादिश्लोकं स्मरन् हृदि । विहाय खजनस्थानं, | पापस्थानमिवात्मनः ॥९३॥ इयं श्रीदाधिपेत्यन्तालोदीच्यां व्रजन् क्रमात् । जगाम शालिनामानं, ग्रामं सद्राममण्डितम्(मण्डनम्)। ॥९४॥ मालाकारेण तत्रासीदानन्देन समं पुनः। प्रीतिः स्फीतिमती तस्य, तिष्ठतः पुष्पकानने ॥९५।। अवचित्य सुमान्येषः, तुर्यभागेन सर्वदा । स्ववृत्तिमतनोत्तत्र, किश्चिद्रव्यार्जनात्किल ॥९६॥ अन्येयुः कानने तस्मिन् , मुनिः कोऽपि कृपार्णवः । प्रपन्नप्रतिमो | मूर्चपुण्यराशिरिवागमत् ।।९७।। कुलपुत्रः पवित्राङ्गं, तं निरीक्ष्य मुनीश्वरम् । हृष्टः कोक इवादित्यं, सन्मार्गस्थितिदर्शकम् ॥९८॥ | ततः प्रदक्षिणीकृत्य, स ननाम यतीश्वरम् । उच्चैःपदं पुनश्चित्रं, लेभे प्रौढोदयान्वितम् ॥१९॥ ततो विज्ञपयामास, स यति रचिताअलिः । मनुजत्वे समानेऽपि, पाणिपादादिभिः प्रभो! ॥१०॥भूपभृत्यसुधीमूर्खनिःस्वेश्वरव्यवस्थितिः । देहिनां हेतुना येन, तं मे नाथ निवेदय ॥१॥ मुनिः स्माह महाभाग्य, विश्वे निःशेषवस्तुषु । निदानभेदतः कार्यभेदस्तत्त्वविदो मतः ॥२॥ निदानं प्राक्तनं कर्म, सर्वेषां सुखदुःखयोः । शुभाशुभप्रकाराभ्यां, द्विविधं तनिवेदितम् ।।३॥ मिथ्यात्वं विषयासक्तिः, प्रमादाविरती तथा । ध्यान| मार्त च रौद्रं चेत्यशुभार्जनहेतवः ॥४॥ यतः कर्मविपाके-नृशंसा नास्तिकाः पापाः, परद्रव्यापहारिणः । द्यूतमद्यादिसंसक्ता, मूर्खाः पापरताः सदा ॥५॥ हिंसकाः सर्वजीवानां, ये नरा धृतमत्सराः। ते सर्वे क्रमशो राजन् , दुःखिताः स्युभवान्तरे ॥६॥ शमसंवेग* वैराग्यसमतार्जवसंयमाः। दयाहद्गुरुभक्तिश्च, हेतवः शुभकर्मणाम् ।।७॥ यतः-दीनानुकम्पनं पात्रदानं संसारमीरुता। प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥८॥ *48 -*-*48 *-*
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy