SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 88888888888888888844384881 कुर्वाणं पारणं ततः ॥ १४ ॥ व्ययीकृता पुराशेषवेश्मनीवी त्वया गिरौ । भवता दुर्विदग्धेन दत्तं दध्यपि साम्प्रतम् ||१५|| निर्वाहोऽथ कथं भावी, व्ययमेवं वितन्वतः । भवतो धर्ममूढस्य, मूलनाशितयायतौ || १६ || व्ययमायस्य कुर्वन्ति, चतुर्थांशेन सम्पदः । लक्ष्मीवन्तोऽपि सर्वत्र, योगक्षेमविदो ध्रुवम् ॥ १७॥ ततोऽसौ सामभिर्वाक्यैस्तामुवाच विचारवान् । विषादो नैव कर्तव्यस्त्वया भद्रे मनागपि || १८ || भद्रे भद्रशतैः प्राप्तः, समयोऽयं मयाधुना । धनवीजं यदुतं श्रीसिद्धक्षेत्रे नयार्जितम् ||१९|| अत्र न्यायोद्भवं वित्तं, न्यस्तं स्वल्पमपि प्रिये । लोकद्वयसुखाय स्यादक्षयं भवकोटिभिः ||२०|| अतः परं परं वेश्मन्यावयोः शुक्लपक्षवत् । इन्दाविव कलावृद्धिर्भाविनी सुकृतोदयात् ॥२१॥ अल्पश्रिया जनेनोच्चैः कृतं पुण्यं महाफलम् । अत्रार्थे शृणु दृष्टान्तं भवद्वयसुखावहम् ||२२|| ग्रामे राजगृहासने, शालिग्रामाभिधेऽभवत् । सदाचारपरः श्रेष्ठी, सागरः पुण्यसागरः ||२३|| सम्यग्दृष्टिशिरोरत्नं, द्वादशव्रतपालकः । तादृग्गुणवती तस्य, प्रियाप्यासीत्सुलक्षणा ||२४|| अन्तरायोदयादेष, क्रमेणाजनि निर्धनः । तथापि दृढता धर्मे, तस्यासीन्मानसे|धिकम् ||२५|| विपद्यालम्बनं जन्तोर्धर्म एवाईतोदितः । इत्यालोच्य स्वयं घीमानग्रहीदित्यभिग्रहान् ॥ २६ ॥ एकान्तरोपवासश्च, | प्रत्यहं त्रिर्जिनार्चनम् । सच्चित्तानां परित्यागः, पानं प्रासुकवारिणः ॥४७ || रात्रौ चतुर्विधाहारत्यागः पञ्चनमस्कृतेः । अष्टोत्तरसह| स्रस्य, जापः कार्यश्च सर्वदा ||२८|| अन्यदागाद् गृहे तस्य, भोजनावसरे पुनः । कश्चिन्महाव्रती तीव्रतपसां राशिरङ्गवान् ||२९| भूयसीभक्तिरानम्य, तं मुनिं मुदिताशयः । मधुरस्निग्धसद्वस्तुसंस्कृतैः सक्तुभिः शुभैः ॥ ३०॥ स्वयं श्रेष्ठी समुत्थाय, विधिना प्रत्यलाभयत् । आर्जयद्विपुलं भोगफलं तत्रैव जन्मनि ॥ ३१ ॥ दारिद्र्यानलसन्तप्ता, तं जजल्पान्यदा प्रिया । मत्पितुर्भवने सन्ति, भूयस्यो नाथ सम्पदः ||३२|| अन्तरायावहं स्थानमेतन्मुक्त्वा ततो द्रुतम् । आवाभ्यां गम्यते तत्र, सुखनिर्वाहहेतवे ॥ ३३॥ सोऽवदद्धनही - | 880382838-24838288% 4638% 888884
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy