SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् ।। षष्ठः प्रस्तावः। ॥८७|| **88-8960**83%80-398-988888 मत्री, पवित्रं तत्र निर्ममे ॥४१॥ ततः सर्वेषु चैत्येषु, विधिना मजनोत्सवम् । विधाय सध्वजारोपं, दानानन्दितमार्गगम् ॥४२॥ | आतोद्यध्वनिभिस्तत्र(यात्रा), भापयन्(ज्ञापयन्) दिक्पतीनपि । आतपत्रैः सृजन छायाद्वैतं सर्वत्र वर्त्मनि ॥४३॥ ततो ब्रजन समं | सङ्घलोकेन सुखशालिना । धुन्धूककपुरं प्रापत् , कुशलः कुशलेन सः॥४४॥ त्रिभिर्विशेषकम् । प्राभृतीकृत्य यत्नेन, मणिमाणिक्य| मण्डलीः। नियुक्त भुजा तत्र, वस्तुपालस्य मत्रिणः ॥४५॥ अकारि करिणां स्कन्धेष्वारोप्य श्रीजिनालयान् । पू:प्रवेशोत्सवः सर्व सङ्घलोकप्रमोदभाक् ॥४६॥ युग्मम् ॥ तत्राप्येष विशेषेण, संतोषाय निवासिनाम् । अर्हच्चैत्यादिकृत्यानि, सुकृतार्थमकारयत् ॥४७॥ | यतः-धुन्धूकके च श्रीवस्तुपालो नष्टापदेष सः। अष्टापदे चतुर्विंशत्यहदिम्बान्यतिष्ठिपत् ॥४८॥ पापसंतापनिर्वापकृते तनुभृताम| यम् । तत्रैव चैत्ये श्रीवीरविम्बमेकमतिष्ठिपत् ॥४९॥ कुमारपालभृपालवसतौ मूलनायकम् । निधाय कारयामास, हेमकुम्भं पुनर्नवम् | ॥५०॥ उद्दधार पुनर्जन्मवसतिं विदुराग्रणीः । नवीनं काञ्चनं कुम्भ, तस्य शृङ्गे न्यवीविशत ॥५१।। श्रीमोढवसतौ रङ्गमण्डपं विश-| दाश्मभिः । तेजःपालो व्यधान्नव्यं, दिव्यपाञ्चालिकान्वितम् ॥५२॥ धर्मार्थ धर्मशालाच, तिस्रो विद्यामठद्वयम् । सत्रागारत्रयं मत्री, | स तत्परिसरे व्यधात् ॥५३॥ धुन्धककहडालायप्रान्तरे सप्रपं सरः। स्वस्वामिसुकृताय श्रीतेजःपालस्तु तेनिवान् ॥५४॥ मन्दीकृतil कलिगुन्दीग्रामे दैन्यमुदन्यया । तेजःपालो व्यधाद्वयर्थ, प्रपावापीविधानतः ॥५५॥ पुनस्तत्रैव वामेयमन्दिरं प्रतिमान्वितम् । तेजःपालाग्रजश्चक्रे, गाङ्गेयकलशाश्चितम् ॥५६॥ तत्राप्यशेषचैत्येषु, ध्वजारोपान् विधाय सः। तत्रत्यास्तिकलोकानां, वात्सल्यं विदधे सुधीः॥५७॥ यतः-यावन्ति बिम्बानि जिनेश्वराणां, तथा स तच्चैत्य(श्वेताम्बराणां च)कदम्बकानि । मार्गेषु तेषां मुषिताश्रितातिः, पूजां विधायैव ततः प्रतस्थे ॥५८॥ भुङ्के स्म सर्वेष्वपि भुक्तवत्सु, शेते स सुप्तेषु स यात्रिकेषु । प्रबुध्यतेस्म प्रथमं तदेत्थं, सङ्घप्रभुत्व ॥८७॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy