SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ व्रजन सर्वगुणाकरः। पुनीते चरणाम्भोजैधन्यस्यैव गृहाङ्गणम् ॥३७॥ यतः-कदा किल भविष्यन्ति, मद्गृहाङ्गणभृमयः। श्रीसङ्घचरणाम्भोजरजःपुञ्जपवित्रिताः॥३८॥ नित्यभक्तं समाहूय, तेजःपालं सहोदरम् । ततोऽसौ प्रेषयद्वेगात , श्रीसङ्घाहानहेतवे ॥३९॥ वायुवेगैर्वजन्नेष, रथैरतिरथप्रभः। आससाद क्षणादेव, सङ्घमध्यमनुद्धतः॥४०॥ पूर्णसिंहस्तमालोक्य, लोकनेत्रेन्दुसन्निभम् । प्रमोदं परमं प्रापच्चकोर इव तत्क्षणे ॥४१॥ अन्योन्येन समाश्लिष्टौ, संशोभतेस्म तौ तदा । यथा विश्वाद्धताकारी, प्रद्युम्नपुरुषोत्तमौ ॥४२॥ प्रतिपत्त्या गरीयस्या, तेजःपालस्तमाग्रहात्(तमागृह्य गृहं श्रियः) । ततोऽसौ सङ्घसंयुक्तं, राजधानीमनीनयत् ॥४३॥ तेजःपालाग्रणीः श्रुत्वा, तमायातं पुराद् बहिः । जगाम सम्मुखं वल्गद्वाजिराजिविराजितः॥४४॥ रेणुपूरः स्फुरत्यस्यां, दिशि सङ्घोद्भवो महान । तद्दम्यतां पथानेनेत्यवादीत्कोऽपि तं तदा ॥४५॥ तमुवाच ततो मन्त्री, यस्याङ्गं पुण्यपुञ्जवत् । इदं स्पर्शति तस्याशु, घोरं पापरजो as व्रजेत् ॥४६॥ यतः-श्रीतीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु च भ्रमणतो न भवे भ्रमन्ति। तीर्थव्ययादिह नराः स्थिरसम्पदः | स्युस्तीर्थेश्वरार्चनपरा जगदर्चनीयाः ॥४७॥ घनोदयं जगजन्तुतापोपशमनक्षमम् । सङ्घाग्रणीस्तमालोक्य, केकीव मुमुदेतराम् ॥४८॥ पादन्यासैः सृजन्नूवींमुत्फुल्लाम्बुजशालिनीम् । ननाम मत्रिणं पूर्णसिंहः पूर्णमनोरथम् ॥४०॥ अश्वरत्नं परित्यज्य, मत्री तं बहुमानतः । समालिलिङ्ग सस्नेह, हृदन्तः स्थापयन्निव ॥५०॥ सङ्घप्रष्ठा गुणैर्येष्ठाः, पुण्यैज्येष्ठतमं भुवि । दर्शनोत्कण्ठितस्वान्ता, नेमुरन्येऽपि तं क्रमात् ॥५१॥ ततः श्रेयो* मयालापं, क्षणं निर्माय मत्रिराट् । तमुत्तार्य सरस्तीरे, सर्वर्तुद्रुमशालिनि ॥५२॥ निमन्त्र्य भोजनाद्यर्थ, मत्री स बहुमानतः । आज गाम निजं धाम, धर्मात्मजसमप्रभः ॥५३॥ युग्मम् ।। सर्वे रसवतीभेदाः, सर्वाश्च शाकजातयः। निष्पन्ना मत्रिणो वेश्मन्येकस्मिन्न
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy