SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । ॥१०९॥ 2848888888888888888888888 हनि क्षणात् ॥ ५४ ॥ मण्डपो भुक्तये तेषां, रत्नेन्दुद्योतभासुरः । उच्छ्रितैः केतुभिर्दिव्यै, रम्यस्तद्भवनेऽजनि ॥ ५५ ॥ सिक्ताः सचन्द नाम्भोभिर्धूपोद्ग्राहसुगन्धिताः । भ्रूमयो रेजिरे तस्य, पुष्पस्रग्भिरलङ्कृताः ॥ ५६ ॥ पुरप्रतोलीमारभ्य, मन्त्रीश्वरगृहावधि । एकच्छायोऽ| भवत्पन्था, नव्योल्लोचैस्तदोच्छ्रितैः ॥५७॥ प्रातराकारिताः सर्वे, राजहंसा इवोज्ज्वलाः । विशुद्धोभयपक्षास्ते, सङ्घशाः सपरिच्छदाः ॥ |||५८ || सदाचाराः समं प्रापुरष्टादशशतानि ते । पद्माकरतया ख्यातं, मन्त्रिराजगृहाङ्गणम् ॥ ५९॥ युग्मम् ॥ मुक्ताफलैः फलैर्लाजैः, | सलज्जा ललिता सती । सङ्घ वर्धापयामास, निजगेहाङ्गणागतम् ||६०|| प्रत्येकं सचिवस्तेषां सर्वेषां मुदितस्तदा । दुग्धैर्गन्धोदकैः कोष्णैः, पदाम्भोजानि धौतवान् ॥ ६१॥ पादप्रक्षालनाकर्म कुर्वतोऽस्य महात्मनः । वेलातिक्रममालोक्य, नित्यभक्तोऽनुजोऽवदत् ।। ॥६२॥ उत्सूरो जायते भ्रातर्दुःखश्रान्तिसुधासरः । भवतो भोजनाद्यर्थं, सङ्घभक्तिविधायिनः ॥ ६३॥ अंहिप्रक्षालनं कुर्वे, शेषसङ्घातावले: । ममापि जायतां पुण्यं प्रसादेनाधुना तव ||६४ || गुरुणापि तदाभाणि, नरचन्द्रेण धीसखः । सत्पुण्यसंविभागोऽत्र, तेज:| पालाय दीयताम् ||६५ || वस्तुपालस्ततोऽवादीन्निश्छद्मोत्साहवान् गुरुम् । नैतत्पुण्यं प्रभो कुर्वे, खण्डशोऽहं कथञ्चन ॥ ६६ ॥ यतः - | अस्थिरेण वपुषा स्थिरमाद्यं, वीतरागपदमर्चयतो मे । किं वृथा मनसि विभ्रति खेदं, धर्मकल्पतरवो गुरवोऽमी ॥६७॥ अद्य मे फलवती पितुराशा, मातुराशिषि शिखाङ्कुरिताद्य । यद्युगादिजिनयात्रिकलोकं, पूजयाम्यहमशेषमखिन्नः ॥ ६८ ॥ एवंविधस्तु संयोगः, सुकृतैरेव लभ्यते । न हि चिन्तामणिः प्रायो, निष्पुण्यस्य गृहे वसेत् ॥ ६९ ॥ ततोऽसौ सर्वसङ्घस्य, विदधे विधुतागसः । स्वय| मेव तदा भक्ति, पादप्रक्षालनादिना ॥ ७० ॥ निरीक्ष्य मन्त्रिणो भक्ति, निर्व्याजविनयोज्ज्वलाम् । सङ्घेशा विस्मयं प्रापुः परमं विगतस्मयाः ॥ ७१ ॥ 888888888888888888888803-2 सप्तमः प्रस्तावः । ॥१०९॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy