________________
१० भाषारहस्यप्रकरणे - स्त.१. गा.१
0 बदरीनाथशुक्लवचनसमीक्षा ० असमवेतभावकार्यरूपो यागफलपर्यन्तस्थायी यागफलनाश्यः तादृशाकारो जन्यते। युक्तञ्चैतत् अवश्यक्लृप्तत्वात् 'कदा कियदवधिकं यागफलं सम्पद्यतां?' इत्यादिज्ञानस्येश्वर एव सम्भवात, तत एवोचितकाले उचितावधिकयागफलव्यवस्थाया उपपत्तेः । अपूर्वादीनामचेतनत्वेन तादृशफलव्यवस्थापकत्वासम्भवादिति' - उक्तं तदेतत् क्षिरं विहायारोचकग्रस्तस्य सौवीररुचिमनुभवति, ईश्वरेच्छाया जन्यत्वाभ्युपगमेऽपसिद्धान्तापातात्, ईश्वरस्यानित्यत्वापत्तेश्च । एतेन नित्येश्वरेच्छायां गुणाऽसमवेतसङ्ख्येवाऽसमवेतभावकार्यरूपतादृशाकारोत्पत्तिकल्पनाऽपि प्रत्युक्ता, नित्येच्छायां तादृशाकारोत्पादासंभवात् सम्भवे वेच्छानित्यत्वव्याहतिप्रसङ्गात् द्रष्टान्तवैषम्याच्च। तथाहिनैयायिकैर्गुणे यथा सामानाधिकरण्यसंबन्धेन संख्याभ्युपगम्यते तथा नित्येश्वरेच्छायां सामानाधिकरण्यसम्बन्धेन तादृशाकारोत्पादकल्पनाया वक्तुमशक्यत्वात्। न हि द्रव्ये सङ्ख्येव ईश्वरे तादृशाकार उत्पद्यते, ईशानित्यत्वप्रसङ्गात । न हि वरविघाताय कन्योताहो भवति ।
किञ्च ईश्वरेच्छायाः तादृशाकारस्य वा ईश्वरभिन्नत्वेनाऽचेतनत्वात् न ततोऽपि नियतावधिकफलव्यवस्थोपपत्तिरिति भक्षितेऽपि लशुने न शान्तो व्याधिः । न च सामानाधिकरण्यसम्बन्धेन तत्र चेतनत्वाभ्युपगमान्न क्षतिरिति वाच्यम् अपूर्वेऽपि तथा वक्तुं शक्यत्वात्, तस्य त्वन्मते आत्मगुणत्वात्। किञ्च, एवं अदृष्टानभ्युपगमे आत्मविभुत्ववादाय जलाञ्जलिः दत्तः स्यात्, अणुपरिमाणत्वकल्पनयाऽपि आत्मनित्यत्वोपपत्तेः । एवं च मनोद्रव्यस्याऽप्युच्छेदः स्यादिति एकं सन्धित्सतोऽपरप्रच्युतिः। वस्तुतः त्वदभिमतेश्वर एव मानाभावेन कुड्यं विना चित्रकर्मतुल्यं तत्सर्वमित्यलं प्रसङ्गेन। ___फलहेतुत्वमिति। ग्रन्थपरिसमाप्तिरूपफलहेतुत्वमित्यर्थः। समाप्तिश्च चरमवर्णध्वंसः। यत्त-चरमवर्णत्वं वर्णविशिष्टवर्णाऽन्यवर्णत्वम्। वैशिष्ट्यं च स्वाऽव्यवहितपूर्वत्व-स्वसमानकर्तृकत्व-स्वप्रयोजकाभिप्रायप्रयोज्यत्वरूपसम्बन्धत्रितयेन बोध्यम् । तथा च तादृशसम्बन्धत्रितयेन वर्णविशिष्टो यो वर्णस्तदन्यो यो वर्णस्तत्प्रतियोगिकध्वंसः समाप्तिरिति फलितमिति-केनचिदुक्तं तन्मन्दम्, अव्याप्त्यतिव्याप्त्यादिदोषकलंकितत्वात् । तथाहि अन्येन प्रारब्धेऽन्येन च समाप्ते कादम्बरीश्रीपालरासादौ समाप्तिव्यवहारो न स्यात्, मूलग्रन्थकृदपेक्षया समानकर्तृकत्वाभावात् । न च कादाचित्कत्येन तस्याउलक्ष्यत्वान्नाव्याप्तिरिति वाच्यम्, एवं सति साध्याभाववदवृत्तित्वरूपस्याऽपि व्याप्तिलक्षणस्य निर्दोषत्वापत्तेः, केवलान्वयिस्थलीयव्याप्तेरल्पत्वेनाऽलक्ष्यत्वादित्यस्याऽपि वक्तुं शक्यत्वात् । न च व्याप्तिपदवाच्यत्वेन तस्या लक्ष्यताक्रान्तत्वमिति वाच्यम्, समाप्तिपदवाच्यत्वेन कादम्बर्यादिसमाप्तेरपि लक्ष्यत्वाऽऽक्रान्तत्वोक्तेः जागरूकत्वात् अन्यथाऽर्धजरतीयप्रसङ्गात्। एतेन तत्र वैजात्यकल्पनाऽपि प्रत्युक्ता कल्पनागौरवात्, प्रमाणाभावाच्च । किञ्च विघ्नप्राचुर्येणाऽसमाप्तेऽपि ग्रन्थे समाप्तिव्यवहारः प्रसज्येत, अपूर्णग्रन्थान्तिमवणे तादृशचरमवर्णत्वस्य सत्त्वात् । किञ्च मौनव्रतिकपुरुषप्रणीतलिप्यक्षरग्रथितग्रन्थसमाप्तावव्याप्तिबुभुक्षितराक्षसी कण्ठपीठनिविष्टा नैव पश्चात्कर्तुं शक्यते, लिप्यक्षराइसलिए अपने इष्ट फल की सिद्धि के साधनभूत अपूर्व का सम्पादन करने के लिए मङ्गल में प्रवृत्तिरूप शिष्टाचार का परिपालन समीचीन ही है, क्योंकि कार्यार्थी की कारण में प्रवृत्ति दोषरूप नहीं है किन्तु गुणरूप ही है। आप दूर की नहीं सोचते हैं। अतएव तीर नहीं तो तुक्का समझ कर निराधार उपालंभ दे रहे हो! धन्य है आपकी अक्कलमंदता!
* मङ्गलजन्य अपूर्व की कल्पना अप्रामाणिक है - पूर्वपक्ष जारी * समाधान :- वाह उस्ताद! छोटे मुँह बडी बात! शिष्टाचारपरिपालन अपूर्व को उत्पन्न कर के ग्रन्थसमाप्तिरूप फल का हेतु होने से उपादेय है - यह वक्तव्य ठीक नहीं है, क्योंकि "यह अपूर्व ग्रन्थसमाप्ति के विघ्नों का ध्वंस किये बिना ही प्रस्तुतग्रन्थसमाप्तिरूप फल को उत्पन्न करेगा या विघ्नों का ध्वंस करने के बाद समाप्तिरूप कार्य को उत्पन्न करेगा?" इन दो विकल्प में से एक भी विकल्प नहीं घट पाता। वह इस प्रकार, विघ्नध्वंस किये बिना तो अपूर्व समाप्तिरूप फल को उत्पन्न नहीं कर सकता, क्योंकि विघ्न