________________
२४६ भाषारहस्यप्रकरणे स्त. ४. गा. ७३
० आज्ञापन्यां विमर्शविशेषः O
आज्ञावचनं=अकरणस्य बलवदनिष्टानुबन्धित्वाभिधायकं करणवचनं पञ्चम्यादिकं तेन युक्ता = सहिता आज्ञापनी यथा 'इदं कुरु' इति ।
नन्वस्याः कथं सत्यादिभेदः ? इत्याचक्षते आह- 'पूर्वभणितभाषातः करणाकरणानियमाऽदुष्टविवक्षातः सा भिन्नेति । अयं भावः करणनियमे सत्यैवेयं स्यात्, अकरणनियमे तु मृषैव स्यादित्युभयाऽनियमादुभयातिरेकः, दुष्टविवक्षापूर्वकत्वाभावाच्च मृषातिरेकः
बलवदनिष्टेति। करणे यावदनिष्टं ततोऽधिकतरानिष्टावहत्वाभिधायकमिति । ततश्च भयप्रयोज्यप्रवृत्तिजनकेच्छाप्रयोजकभाषात्वमितिलक्षणं प्राप्तं । यत्राऽऽज्ञादानेऽपि तदकरणे आज्ञाप्यस्य न प्रत्यवायः न सा परमार्थत आज्ञापनी यथा कश्चित् 'त्वमद्यैकाशनं कुरु' इत्यादि । तदकरणे प्रत्यवायश्च लौकिकदृष्ट्या ज्ञेयः तेन क्वचिदाज्ञाप्येनेष्टापत्तितया तदङ्गीकरणेऽपि न तत्क्षतिः । प्रज्ञापन्यतिव्याप्तिवारणार्थं 'भयप्रयोज्ये' त्युक्तम् । न च प्रतिषेधकप्रज्ञापन्यामतिव्याप्तिरिति वाच्यम् आज्ञापकसकाशादापत्स्यमानप्रत्यवायनिमित्तकत्वस्य भयविशेषणत्वात् । प्रवृत्तिरित्युपलक्षणं निवृत्तेः तेन न निवर्त्तकाज्ञापन्यामव्याप्तिः । इदं च लक्षणं छद्मस्थाऽऽज्ञापकभाषाऽपेक्षयाऽवगन्तव्यम्। तेन केवल्याज्ञापन्या असङ्ग्रहेऽपि न क्षतिरित्यादि निपुणतरं निभालनीयम् । पञ्चम्यादिकमिति । सिद्धहेमशब्दानुशासन आज्ञार्थप्रत्यये पञ्चमी सञ्ज्ञाकृता । तेन पञ्चम्यादिकमित्युक्तम् । आदिपदेन लोटादिग्रहणम् पाणिनीयेऽत्र लोट्सञ्ज्ञायाः परिभाषितत्वात्। अनेन सान्वर्थतोक्ता 'आज्ञाप्यते = आज्ञासम्पादने प्रयुज्यतेऽनया सा आज्ञापनी' (प्रज्ञा. ११/सू. १६२ वृ.) इति श्रीमलयगिरिसूरिवचनात् ।
सत्यादिभेद इति । सत्याऽसत्या - सत्यामृषाऽन्यतमप्रतियोगिताकभेदवत्त्वमाज्ञापन्याः कथं ? वैलक्षण्याभावादिति नन्वाशयः। श्रीहरिभद्रसूरिप्रदर्शिताज्ञापनीवैलक्षण्यप्रदर्शनेन समाधत्ते पूर्वभणितभाषातः पूर्वभणितसत्यादिभाषात इति। सत्यैवेति। इयं भाषाऽऽज्ञासम्पादनक्रियायुक्ताभिधायिनी आज्ञाप्यमानश्च स्त्र्यादिस्तथा कुर्यादेवेतिनियमस्वीकारेऽस्यास्सत्यत्वमेव स्याद् विसंवादाभावादिति भावः । मृषैवेति । आज्ञाप्यमानः स्त्र्यादिस्तथा नैव कुर्यादितिनियमस्वीकारेऽस्या मृषात्वमेव स्याद् विसंवादित्वात्, आज्ञासम्पादनक्रियावियुक्ते आज्ञासम्पादनक्रियायुक्तत्वाभिधानादिति यावत् । उभयानियमादिति करणाकरणानियमादिति । उभयातिरेक इति सत्यासत्यातिरेक इति । अयं भावः करणाकरणान्यतरनियमेऽस्या अन्यतरप्रवेशः स्यादेव परन्त्वन्यतरनियम एव नास्तिं, उभयभावात्। न हि घटपटोभयाभावे सति घटपटान्यतरः सम्भवति । निश्चयनयानुगृहीतव्यवहारनयाभिप्रेतं मृषात्वं निरसितुं हेत्वन्तरमाह दुष्टविवक्षापूर्वकत्वाभावाच्चेति । न ह्याज्ञापनीत्वावच्छिन्ने दुष्टविवक्षाजन्यत्वनियमोऽस्ति, अदुष्टविवक्षाजन्याज्ञा* आज्ञापनी भाषा २/४ *
=
विवरणार्थ :- आज्ञावचन से युक्त भाषा आज्ञापनी है ऐसा जो यहाँ बताया गया है इसमें आज्ञावचन का अर्थ है करणवचन, जिसके लिए सिद्धहेमव्याकरण में कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरिजी महाराजा ने 'पञ्चमी' ऐसी संज्ञा दी है। पाणिनीकृत व्याकरण में इसके लिए 'लोट्' संज्ञा का प्रयोग किया गया है। करणवचन का अर्थ यह है कि जिसका अकरण = अपालन बलवान् अनिष्ट का अनुबन्धी होता है। अर्थात् जिसको आज्ञा की जाती है उसको आज्ञावचन = करणवचन के अपालन के निमित्त से अनिष्ट की प्राप्ति होती है। जैसे कि 'तुम यह काम करो' ऐसा राजा या अधिकारी का वचन आज्ञावचन है। आज्ञाप्य; जिसको आज्ञा की गई है, यदि आज्ञा का पालन न करे तब उसे बलवान् अनिष्ट की प्राप्ति होती है।
शंका :- न. इति। आज्ञापनी भाषा किसे कहते हैं? यह तो सब को मालुम ही है। मगर आज्ञापनी भाषा का असत्यामृषा के विभाग में समावेश क्यों किया गया है? आज्ञापनी भाषा में सत्यादि भाषा से क्या विलक्षणता है जिसके कारण उसका असत्यामृषा भाषा के विभाग में प्रवेश किया गया ? इसका समाधान नहीं होता है।
* आज्ञापनी भाषा व्यवहारनय से न सत्य है, न मृषा *
समाधान :- पूर्व. इति । भाई साहब! हम यह भी बताते ही हैं, मगर इतनी जल्दी क्या है ? अधीरता को छोड़ दो और हमारी