________________
२६८ भाषारहस्यप्रकरणे - स्त.४. गा. ७८
० प्रकरणादीनां तात्पर्यग्राहकत्वविचारः ० 'इदमिदानी कर्तव्यमिति साऽभिगृहीता । अथवा घट इत्यादिप्रसिद्धप्रवृत्तिनिमित्तकपदाभिधानं सेति' द्रष्टव्यम् । उक्ताऽभिगृहीता, ९। धारण यथा 'इदमिदानी कर्तव्यमिदं नेति' (प्रज्ञा. भा. प. सू. १६५ वृत्तिः नन्वितरांशनिषेधेनेयं प्रत्याख्यानी कथं न स्यात्? विनिगमनाविरहात् यद्वा मिश्रमोहनीयवदियमतिरिक्तधर्मान्तराक्रान्ता स्यादिति चेत्? उच्यत निषेधांशसत्त्वेऽपि प्रतिनियतार्थावधारणाशंप्राधान्येनेयमभिगृहीतोच्यते। __ वस्तुतस्तु अभिगृहीतत्वानभिगृहीतत्वयोरेव व्याकृतत्वाव्याकृतत्वयोरेव वाऽसत्यामृषात्वसाक्षाद्व्याप्यधर्मत्वं आमन्त्रणीत्वादेस्तु असत्यामृषात्वसाक्षाद्व्याप्यव्याप्यधर्मत्वमेव । एतेन 'अनयोरन्यतरत्कर्तव्यम, इदं ने'त्यादेः कर्तव्यत्वप्रतिपादकत्वेन प्रज्ञापनीत्वं स्याद्, निषेधकरणेन प्रत्याख्यानीत्वं वा स्यान्न तु अनभिगृहीतत्वमिति कुचोद्यमपहस्तितम् असत्यामृषात्वपरम्परव्याप्यानेकधर्माक्रान्ताया भाषायाः तत्साक्षाव्याप्यधर्मावच्छिन्नसमावेशप्रदर्शनस्य न्याय्यत्वात, धर्मान्तरत्वाभ्युपगमे 'हे देवदत्त! इदं कुरु' इत्यादौ आमन्त्रणीत्वाज्ञापनीत्वादिसाङ्कर्येणाऽसत्यामृषाया अपरिमितभेदप्रसङ्गात्, तत्प्रदर्शनस्य व्यवहारानुपयोगित्वाद् गौरवाच्च । न च तत्र वाक्यान्तरकल्पना युक्ता कल्पनागौरवात्, तथाननुभवाच्चेति भावनीयं तत्त्वमेतत्।।
अगस्त्यसिंहसूर्यादिमतेनाऽऽदेशान्तरमाह अथवेति। अतिरोहितार्थमिति न प्रतन्यते। लवण-घोटकादिष्विति। आदिशब्देन वस्त्रपुरुषयोर्ग्रहणम्। प्रकरणादीनामिति तात्पर्यग्राहकप्रकरणादीनामिति। आदिशब्देन संयोगविप्रयोगसाहचर्यादीनां ग्रहणम्। विशिष्य विशेषरूपेण हेतुत्वेन। प्रकरणाऽव्यवहितोत्तरजायमानाशाब्दबोधं प्रति प्रकरणस्य हेतुत्वं संयोगाऽव्यवहितोत्तरजायमानशाब्दबोधं प्रति च संयोगस्य हेतुत्वं; स्वाऽव्यवहितोत्तरजायमानत्वसम्बन्धेन प्रकरणादीनां शाब्दबोधहेतुत्वमिति यावत्। तेन न कोऽपि व्यभिचारः । अयं भावः यावद्धर्मावच्छिन्ने पदशक्तिः गृह्यते तावद्धर्मावच्छिन्नं तत्पदेनोपस्थाप्यत इति नियमः। ततो लवणत्वाश्वत्वाद्यवच्छिन्नेषु सैन्धवपदशक्तिग्रहात् तत्पदं तावद्धर्मावच्छिन्नोपस्थापकं भवति। तात्पर्यज्ञानस्य शाब्दबोधहेतुत्वेनार्थविशेषनिर्णयार्थ प्रकरणादिभिः तन्मृग्यते। ततोऽर्थविशेषविश्रान्तः शाब्दबोधो जायते यथा प्रकृते लवणतात्पर्यग्राहकभोजनप्रकरणे सति 'लवणानयनं मम कर्तव्यमिति'त्याकारकः, अश्वतात्पर्यग्राहकप्रयाणप्रकरणे सति' अश्वानयनं मम कर्तव्यमि'त्याकारकः शाब्दबोधो जायते। क्वचित्तात्पर्यग्रहः संयोगात् यथा घटोऽपसारणीय इत्यादौ समीपस्थे घटे, क्वचित् विप्रयोगात् यथा 'घटमत्रानय' इत्यादौ घटपदस्य दूरस्थे घटे, क्वचित् साहचर्यात् यथा घटं पटञ्चानयेत्यादौ एकदेशवृत्तिघटपटयोः । एवमाभिमुख्यादितोऽपि द्रष्टव्यम् । स्वाऽव्यवहितोत्तरत्वसम्बन्धेन तेषां हेतुतेति न व्यभिचारः
न च प्रकरणादीनामननुगमाच्छाब्दबोधहेतुत्वं नास्तीति वाच्यम् तेषु जनकतासम्बन्धेन तात्पर्यज्ञानत्वावच्छिन्नवत्त्वस्याऽनुगतधर्मस्य सत्त्त्वात्। एतेन तात्पर्यज्ञानजनकत्वेन तेषामनुगमे तु तात्पर्यज्ञानमेव लाघवात् कारणमस्तु
* अभिगृहीत भाषा - ९/४ * विवरणार्थ :- यद्यपि मूल गाथा में प्रतिपक्ष अर्थात् विपरीत भाषा अभिगृहीत है ऐसा कहा गया है मगर किस भाषा से विपरीत यह नहीं कहा गया है। अतः अभिगृहीत भाषा का ज्ञान नहीं हो सकता है तथापि यहाँ अनभिगृहीत भाषा के बाद अभिगृहीत भाषा का निरूपण चल रहा है। अतः प्रकरण के बल से अनभिगृहीत भाषा का प्रतिपक्षशब्दार्थ के प्रतियोगी रूप में लाभ होता है। तब अर्थ यह होगा कि - जो भाषा अनभिगृहीत भाषा से विपरीत है वह अभिगृहीत भाषा है। इस बात को स्पष्ट करते हुए विवरणकार कहते हैं कि - जब अनेक कार्यों की पृच्छा की जाती है तब उनमें से किसी एक का निर्धारण = अवधारण करानेवाली भाषा अभिगृहीत भाषा है। जैसे कि - 'इन कार्यों में से मैं क्या करूँ?' इस प्रश्न के प्रत्युत्तर में 'अभी तुम यह करो' ऐसा कहा जाय तो यह भाषा अभिगृहीत भाषारूप ज्ञातव्य है, क्योंकि इस प्रत्युत्तर से श्रोता को किसी एक कार्य का निश्चय हो जाता है। अनभिगृहीत भाषा संबंध में अन्य मत को बताते हुए विवरणकार कहते हैं कि प्रसिद्ध प्रवृत्ति-निमित्तवाले पद का कथन करना यह अभिगृहीत भाषा है जैसे कि घट इत्यादि शब्द । घटशब्द का प्रवृत्तिनिमित्त घटत्व प्रसिद्ध है। अतः घट आदि शब्दोच्चारण अभिगृहीत भाषा