________________
२७२ भाषारहस्यप्रकरणे स्त. ४. गा. ७९
● बालादिभाषास्वरूपविचार: O
अथाऽव्याकृतामाह-अतिगम्भीरः = दुर्ज्ञानतात्पर्य:, महान् अर्थो यस्याः साऽव्याकृता भवति अथवा बालादीनामव्यक्ता भाषाऽव्याकृता भवति । ।७९।। उक्ताऽव्याकृता-१२/तदभिधानाच्चाऽभिहिता द्वादशाऽऽप्यसत्यामृषाभेदाः । अथोपसंहरति ।
T
दुर्ज्ञानतात्पर्य इति । दुःखेन = महता प्रयासेन ज्ञानं यस्य तत् दुर्ज्ञानम् । दुर्ज्ञानं तात्पय यस्याऽर्थस्य स दुर्ज्ञानतात्पर्यः। अयमेवाऽव्याकृतत्वे मुख्यो हेतुः । यद्यपि दुर्ज्ञानतात्पर्यकत्वं शब्दनिष्ठं न त्वर्थनिष्ठं तथापि तादृशशब्द-विषयत्वेनाऽर्थे तदुपचोरेणोक्तमिति ध्येयम् ।
अर्थस्य दुर्ज्ञानतात्पर्यकत्वे हेतुमाह महानिति । महत्त्वादतिगम्भीरत्वम्, अतिगम्भीरत्वादव्याकृतत्वमिति हेतु-हेतुमद्भावः । ततश्चाऽनेकनयनिक्षेपादिसङ्कुलभाषायाः श्लेषालङ्कारादेर्वाऽव्याकृतत्वं लभ्यते । अत्राऽर्थस्य दुर्ज्ञानतात्पर्यकत्वञ्च श्रोतृसामान्याऽपेक्षया ज्ञेयम् । तेन तादृशगुप्तसङ्केतादिज्ञानवतां ततः झटिति सङ्केतितार्थबोधेऽपि न क्षतिः ।
ननु श्रोत्रपेक्षयाऽव्याकृतत्वाभ्युपगमे प्रतिनियतश्रोतुः सुज्ञेयत्वे दुर्ज्ञेयत्वे वैकतरत्वसिद्धावपि सभायां श्रोतुः द्वैविध्ये 'जा सा सा सा' इत्यादिरूपायाः तस्या अन्यतरत्वं दुर्वचं स्यात् । न च तदा मिश्रत्वं स्यादिति वाच्यम्, अस्यास्तत्राऽनधिकारात्, व्याकृताऽव्याकृतत्वोपगमे प्रदर्शितविभागभङ्गप्रसङ्गाच्च । अतो वक्त्रपेक्षयैवाऽव्याकृतत्वं वाच्यम्। अत एवाऽग्रे 'विगलिंदियाण चरमा' इति वक्ष्यमाणग्रन्थविरोधोऽपि परिहृतो भवतीत्याशङ्कायां कल्पान्तरमाहअथवेति। बालादीनामिति । यद्यपि बालादयो मनःपर्याप्त्या पर्याप्ताः तथापि ते मनःकरणाऽपाटवेन वातादिनोपहतचैतन्यकतया वा पूर्वापराऽनुसन्धानविकला यथाकथञ्चित् मनसा विकल्प्य भाषन्ते । न च ते एवमपि जानते थ 'अहमेतद्भाष' इति। यथाऽवस्थितार्थाप्रतिपादकत्वात् अविभावितार्थत्वाच्च तेषामव्यक्तभाषाया अव्याकृतत्वम् । एवमेव ते भाषन्ते श्रुण्वन्ति च नच किञ्चिज्जानन्ति । तदुक्तं व्यवहारसूत्रभाष्येऽपि - 'अपट्टुप्पण्णो बालो अतिवुड्ढो तह अवन्नी वा।। विन्नाणावरियं तेसिं, कम्हा? जम्हा उ ते सुणंता वि । न वि जाणंते किमयं सद्दो संखस्स पडहस्स ।। (व्य. भा. उ. १०, गा. ६१/६२) न चैवं भावभाषात्वमेव न स्यात्, कुतः तद्व्याप्यद्रव्य-भावभाषात्वव्याप्याऽसत्यामृषात्वव्याप्यऽव्याकृतत्वम्? तद्व्याप्यव्याप्यव्याप्यस्याऽपि तद्व्याप्यत्वनियमेन व्यापकाभावात् व्याप्याभावस्योन्नयनादिति साम्प्रतम् विशेषोपयोगविरहेऽपि भावभाषात्वनियमकोपयोगसामान्यस्याऽनपायात्, अन्यथा तेषामजीवत्वमेकेन्द्रियत्वं वा स्यात्। न चोपयोगविशेषप्रयुक्तत्वविरहान्न तस्या भावभाषात्वमिति वक्तव्यम्, एवं हि विशेषोपयोगप्रयुक्ताया अप भाषाया विशिष्टतरोपयोगाऽप्रयुक्तत्वेन भावभाषात्वं न स्यात् । तदुक्तं श्रीजिनदासगणिमहत्तरैः 'अव्वोयडा नाम जा सोतारेहिं भासिज्जमाणा न संविज्जइ, जहा वागाणं एवमादि' (दश. जिन चू.पृ.२३९) । दशवैकालिकबृहद्वृत्तौ तु 'अव्याकृता चैव अस्पष्टार्था अप्रकटार्था, बालकादीनां थपनिकेत्यादिवदि' (दशहा.वृ. पृ.१४०) त्युक्तम् । । ७९ ।। ग्यारहवाँ भेद है, संक्षेप से निरूपण पूर्ण करने के बाद अब श्रीमद्जी अव्याकृत भाषा का, जो असत्यामृषा भाषा का बारहवाँ और अंतिम भेद है, निरूपण करते हैं।
=
* अव्याकृत भाषा १२/४ *
अथाऽव्या. इति । अव्याकृत भाषा वह कही जाती है जिसका अर्थ अतिगम्भीर और महान हो। अर्थ में अतिगम्भीरता बताने का आशय यह है कि उस अर्थ का तात्पर्य दुर्ज्ञेय है अर्थात् 'इस शब्द का अर्थ यही है', इसका बोध कराने के अभिप्राय से ही वक्ता ने इस शब्द का प्रयोग किया है - ऐसा तात्पर्यज्ञान श्रोता को आसानी से नहीं होता है मगर बहुत कोशिष करने के बाद ही श्रोता को वक्ता के अभिप्राय का पता चलता है। कभी कभी तो बहुत कुछ सोचने के बाद भी सामान्य श्रोता को उस शब्द के अर्थ का ज्ञान नहीं भी होता है। ऐसी भाषा को अव्याकृत भाषा कहते हैं। अथवा तो यह भी कहा जा सकता है कि बालकांदि कि अव्यक्त भाषा अव्याकृत भाषा है। छोटे बच्चेकी अस्पष्ट अक्षरवाली भाषा स्पष्ट बोध न कराने से तथा स्पष्टार्थ बोध कराने के उद्देश से प्रयुक्त न होने से अव्याकृत भाषा है। ऐसा यहाँ तात्पर्य है । । ७९ ।।
अव्याकृत भाषा का निरूपण पूर्ण हुआ । अव्याकृत भाषा का निरूपण पूर्ण करने से असत्यामृषा भाषा के १२ भेद का भी कथन
-