________________
२७६ भाषारहस्यप्रकरणे - स्त.४. गा. ८२
० श्रुतभावभाषायां मिश्रत्वाभावप्रतिपादनम् ० असत्यामृषा च। तत्र सम्यगुपयुक्तस्य = आगमानुसारेण यथावद्वदतः, तुर्विशेषणे किं विशिनष्टि? बहुश्रुतत्वादिगुणं, सत्या = सत्यैव भवति, विशुद्धाशयत्वादिति भावः ।।८२।।
अस्तु सम्यग्दृष्टेरुपयुक्तस्य सत्या, असत्या तु कस्येत्याह द्रव्याविषयकभावभाषावदस्याः चतुर्विधत्वं कुतो न भवति । कस्माद्वा द्रव्यविषयकमानवभाषाया त्रिविधत्वं न भवतीति चेत्? मैवम्, चतसृणां द्रव्यविषयकभावभाषात्वं च चतुर्विधद्रव्यपरिणतिमाश्रित्योक्तम्, श्रुतविषयकभावभाषात्वं च तिसृणां वाचां फलीभूतोपयोगापेक्षया, मिश्रोपयोगाभावेन तृतीयस्या अत्र अनधिकारादित्यष्टसहस्त्रीविवरणे प्रकरणकारेणैव समाहितत्वात् । प्रतिमाशतकेऽपि "कथं तर्हि श्रुतभावभाषायां तृतीयभेदस्याऽपरिगणनं, द्रव्यभाषायां तु तत्परिगणनमिति चेत्? एकत्र निश्चयनयेन धर्मिणोऽर्पणात्, अन्यत्र तु व्यवहारनयेनेति गृहाण' (प्रति. श. श्लो. ८९ वृ.) इत्येवं समाहितम्। अयं भावः यथाऽध्यवसाये शुभाशुभान्यतरत्वमेव न तु मिश्रताऽपि तथा निश्चयनयतो द्रव्यात्मकेषु मनोवचःकाययोगेष्वपि न मिश्रता । तेन मिश्रवचनत्वं श्रुतभावभाषायां तादृशनिश्चयोपगृहीतव्यवहारेणाऽपि नोभ्युपेयते। न चेदं स्वमनीषिकयोच्यते। तदुक्तं प्रतिमाशतकवृत्तौ - अन्त्येषु द्रव्ययोगेषु अपि निश्चयान्नैव मिश्रता। तन्मते द्रव्ययोगाणामपि मिश्राणामभावात्। तत्तदंशप्राधान्ये शुभाशुभान्यतरस्यैव पर्यवसानात्, निश्चयाङ्गव्यवहारेणाऽपि तथाव्यवहरणात् (प्र. श. श्लो. ८९ वृ.) इति। श्रुतज्ञानस्यामन्त्रणीप्रज्ञापन्यादिनियतत्वेन तत्परावर्त्तनादावसत्यामृषात्वस्याऽपि सम्भवेन निश्चयानुपगृहीतव्यवहारेणासत्यामृषात्वं श्रुतभावभाषायामङ्गीक्रियते। अतः श्रुतभावभाषायाः त्रैविध्यमुक्तं युक्तमेवेति भावनीयम्।
तत्र = श्रुतभावभाषायाम् । आगमानुसारेणेति । अत्राऽऽगमानुसारित्वमुपयोगे भाषणे चोभयत्र ज्ञेयम् । बहुश्रुत्वादिगुणमिति । बहुश्रुतत्वादिगुणविशिष्टस्य सम्यगुपयुक्तस्य सम्यग्दृष्टेरिति भावः अयमनूद्यनिर्देशः, विधेयनिर्देशं प्रदर्शयति सत्येति । 'सर्व वाक्यं साधारणं' इति न्यायात् 'इष्टतोऽवधारणमि'तिन्यायाच्चावधारणं प्रदर्शयति सत्यैवेति । मृषात्वाधन्ययोगव्यवच्छेद एवकारार्थः । न हि तादृशविशेषणकलितस्य सम्यग्दृष्टेःश्रुतविषयकभावभाषायां मृषात्वं सम्भवतीति भावः। हेतुमाह विशुद्धाशयत्वादितिविशुद्धाशयप्रयुक्तत्वादिति। तेन पराशङ्कितवैयाधिकरण्यदोषः परिहृतो भवति। सम्यग्दृष्टेरुपयुक्तत्वविशेषणेन तत्प्रसूतभाषायां भावभाषात्वसिद्धिः; आगमानुसारेण भाषमाणत्वविशेषणात् श्रुतविषयकत्वसिद्धिः; विशुद्धाशयत्वविशेषणेन, सत्यत्वसिद्धिः। यदि च परो वैयधिकरण्यादिदोषमुद्भावयेत् तदा उपयुक्तप्रयुक्तत्वादिकं प्रदर्शनीयम् । प्रयोगा एवम् विवादास्पदीभूता भाषा भावभाषा उपयुक्तप्रयुक्तत्वात्। विवादास्पदीभूतभावभाषा श्रुतविषयिणी आगमानुयाय्युपयोगप्रयुक्तत्वात्। विवादास्पदीभूतश्रुतभावभाषा सत्या विशुद्धाशयप्रयुक्तत्वादिति। जिज्ञासितामथ प्रतिपादयन् प्रतिपादयिता अवधेयवचनो भवतीत्यतो जिज्ञासां प्रदर्शयति - अस्त्विति । अनेनावसरसङ्गतिः प्रदर्शिता। ततो वाक्यैकवाक्यताप्रतिपत्तिरपि सुकरा भवति। __ पूर्वमिति। 'उवउत्ताणं भासा' (भा. र. गा. १३) इति त्रयोदश्यां गाथायामिति। पूर्वापरविरोध इति। अत्रानुपप्रथम भेद बताया गया है कि सम्यगुपयुक्त सम्यदृष्टि की भाषा श्रुतविषयक सत्यभावभाषा है। सम्यगुपयुक्त हो कर बोलने का अर्थ है आगम के अनुसार यथावत् बोलना। मूलगाथा में जो 'तु' शब्द है वह विशेषण अर्थ में प्रयुक्त है अर्थात् सम्यगदृष्टि को कुछ विशेषण से विशेषित करता है। वह विशेषण बहुश्रुतत्वादि गुण है। अर्थात् आगम के अनुसार यथावत् बोलनेवाले और बहुश्रुतत्वादिगुणसंपन्न समकितदृष्टि की भाषा श्रुतविषयक सत्य भावभाषा है। सब वाक्य अभिप्रेत अवधारणवाले होते हैं। अतः प्रस्तुत में भी यथेष्ट अवधारण के लिए विवरणकार ने सत्या पद के बाद एवकार का प्रयोग किया है। अर्थात् उपर्युक्त विशेषणों से विशिष्ट सम्यग् दृष्टि की भाषा सत्य ही है। 'ही' कहने से मृषा आदि भाषा का व्यवच्छेद होता है। यह तो ठीक ही है, क्योंकि आगम के अनुसार बोलनेवाले बहुश्रुतत्वादिगुणसंपन्न समकितदृष्टि की भाषा विशुद्ध आशय से प्रयुक्त होती है। अतः उसमें मृषात्व की शंका निराधार हो जाती है।।८२।।