________________
२८६ भाषारहस्यप्रकरणे - स्त.४. गा. ८६
० वचनविभागवैविध्याख्यानम् ० त्वंसत्येपि द्रष्टव्यम् । द्वे एते भाषे भावं प्रतीत्य ज्ञेये द्रव्यतस्त्वन्यासामपि भाषणसम्भवादित्यभिप्रायः ।।८५।। द्रव्यतोऽपि साधोः सत्यासत्यामृषे एव भाषे वक्तुमनुज्ञाते नान्ये इत्याह ।
'दो चेव अणमयाओ वोत्तं सच्चा य असच्चमोसा य।
दोन्नि य पडिसिद्धाओ मोसा य सच्चमोसा य ।।८६ ।। परिणामो वा । चारित्रं = चारित्रपरिणामो न तिष्ठति तेन द्रव्यचारित्रसत्त्वेऽपि न क्षतिः। भावं प्रतीत्येति निश्चयनयमाश्रित्य । द्रव्यतस्तु = व्यवहारतस्तु अन्यासामपि भाषाणामिति शेषः ।
ननु अन्ययोरपीत्येवं वक्तव्यम् न त्वन्यासामपि सत्यासत्याभ्यां व्यतिरिक्ते व्यवहारतो वे एव मृषासत्यामृषे स्त इति चेत्? व्यवहारनयापरिज्ञानविजृम्भितमेतद् देवानांप्रियस्य। श्रुणु व्यवहारतो न केवलं भाषाया चतुर्विधत्वमेवापि तु षोडशविधत्वादिकमपि । तदुक्तं प्रज्ञापनायाम् - "गोयमा! सोलसविहे वयणे पन्नत्ते तं जहा एगवयणे, दुवयणे, बहुवयणे, इत्थिवयणे पुमवयणे, णपुंसगवयणे, अज्झत्थवयणे उवणीयवयणे, अवणीयवयणे, उवणीयावणीयवयणे, अवणीयोवणीयवयणे, तीतवयणे, पडुप्पन्नवयणे, अणागयवयणे, पच्चक्खवयणे, परोक्खवयणे।" (प्र.भा.पद.सू. १७३) तदुक्तं स्थानाङ्गेऽपि" सत्तविहे वयणविकप्पे पन्नत्ते तं जहा आलावे, अणालावे, उल्लावे, अणुल्लावे, संलावे, पलावे, विप्पलावे" (स्था.सू. ५८४) दशम स्थानाङ्गेऽपि दशविहे सद्दे पन्नत्ते तं जहा नीहारि, पिंडिमे लुक्खे, भिन्ने, जज्जरिते, इति । दाहे, रहस्से, पुहुत्ते, य काकणी, खिखिणिस्सरे (स्था.सू. ७०५) इत्युक्तम् । तृतीय स्थानाङ्गेऽपि तिविहे वयणे पन्नत्ते तं जहा तव्वयणे तदन्नवयणे णोअवयणे (स्था. सू. १७५) इत्युक्तम् । एवं सावधनिरवद्यभेदेन भाषाया द्वैविध्यमपि सम्भवति । तदुक्तं व्याख्याप्रज्ञप्ता- "सक्के णं भंते । देवराया किं सावज्जं भासं भासइ अणवज्जं भासं भासइ? गोयमा! सावज्जंपिं भासं भासइ अणवज्जंपि भासं भासइ। से केणटेणं भंते! एवं वुच्चइ सावज्जं पि जाव अणवज्जं पि भासं भासइ, गोयमा! जाहे णं सक्के देविंदे देवराया सुहुमकायं णिज्जूहित्ताणं भासं भासइ ताहे णं सक्के देविंदे देवराया अणवज्जं भासं भासइ"। (भग.सू.श. १६, उ. २) सूक्ष्मकायं हस्तादिकं वस्त्विति वृद्धाः। अन्ये त्वाहुः सुहुमकायंति वस्त्रं, अणिज्जूहित्ताणंत्ति अपोह्य=अदत्त्वा। हस्ताद्यावृत्तमुखस्य हि भाषमाणस्य जीवसंरक्षणतोऽनवद्या अन्या तु सावयेत्यर्थः।
ननु तत्रैव पूर्व मिथ्यावादित्वं निषिध्य शक्रे सम्यग्वादित्वमुक्तं पश्चाच्च सावद्यभाषासम्भव इति कथं न विरोधः? मैवम् सम्यग्वदितुं शीलं = स्वभावो यस्य स सम्यग्वादी प्रायेणासौ सम्यगेव वदतीति। सम्यग्वादशीलत्वेऽपि प्रमादादिना जीवासंरक्षणतः सावद्यभाषा सम्भवतीति न विरोधः ।
वस्तुतस्तु यथा मृषाभाषाया चारित्रप्रतिपन्थित्वेऽपि चारित्रिवक्तकत्वाच्चारित्रभावभाषात्वं तथैव शक्रभाषायाः कदाचित सावद्यत्वेऽपि सम्यग्दृष्टित्वापेक्षया शक्रे सम्यग्वादित्वमुक्तमिति न कश्चिद्विरोधः । औत्सर्गिकत्वापवादिकत्वाद्यपेक्षयाऽपि भाषाद्वैविध्यं सम्भवति। यथासम्भवं विभागान्तरमपि भावनीयम्। ततश्च व्यवहारतोऽन्यासामपि भाषाणां चारित्रे सम्भवः केवलं भावतः निश्चयनयमभिप्रेत्य ता द्वयोरेवान्तर्भवंतीति सिद्धम् ।।८५।। चारित्र स्थिर रहता है, टीकता है वह भाषा भी चारित्रविषयक सत्य भावभाषा है। वैसे जिस भाषा को बोलने पर साधु का चारित्र नहीं रहता है अर्थात् चारित्र का परिणाम नहीं रहता है वह भाषा चारित्रविषयक असत्य भावभाषा है। ये दो भाषा भाव की अपेक्षा से चारित्र में ज्ञातव्य हैं। अर्थात् साधु भगवंत जिस भाषा को बोलते हैं वह भावतः = निश्चयतः या तो सत्य होती है या तो असत्य होती है। मगर द्रव्यतः = व्यवहार से तो अन्य भाषा यानी मिश्र आदि भाषा भी साधु भगवंत को संभवित है ऐसा गाथा का अभिप्राय है। अर्थात् व्यवहारतः साधु भगवंत में अन्य भाषाओं का संभव होने पर भी निश्चय से वे भाषा सत्य में या तो मृषा में अंतर्भूत होती
१ द्वे एवानुमते वक्तुं सत्या चासत्यामृषा च । द्वे. च प्रतिषिद्धे मृषा च सत्यामृषा च ।।८६।।