________________
३४० भाषारहस्यप्रकरणे - स्त.५. गा. १००
० मोक्षे विशेषासिद्धिः० कृतस्तद्विशेषः, प्रतियोगिविशेषस्याऽपि तथाविधस्यासिद्धेः स्वरूपात्मकस्य च तस्य हेतु-हेतुमद्भावभेदानियामकत्वात् । तद्विशेष: आयुर्मोहादिकर्मक्षयभेदः, आयुर्मोहादिक्षयप्रतियोगिनां विलक्षणत्वेन तत्तत्प्रतियोगिध्वंसे वैलक्षण्यात् तत्तत्कर्मक्षयकूटरूपे मोक्षफलेऽविशेषताप्रतिपादनं नियुक्तिकम्, प्रत्येकमवृत्तिधर्मस्य समुदायाऽवृत्तित्वनियमादिति। ततः प्रवृत्तिविशेषनियमः फलविशेषलाभार्थमङ्गीकर्तव्य इति पूर्वपक्षाशयः ।
ननु सर्वमिदमजातपुत्रक्रीडनकमापद्यते इत्याशयेन समाधत्ते-प्रतियोगिविशेषस्याऽपि तथाविधस्यासिद्धेरिति । आयुर्मोहादिक्षयप्रतियोगिनिष्ठविशेषधर्मस्याऽपि ध्वंसवैलक्षण्यप्रयोजकस्यासत्त्वादिति भावः। यद्यपि मोहनीयत्वादिप्रातिस्विकरूपेणाऽऽयुःकर्मादेर्भेदोऽस्ति तथापि तादृशभेदध्वंसवैजात्याऽप्रयोजकत्वान्न तद्विशेषः सिध्यति कर्मत्वेन रूपेण मौलद्रव्याणां तत्तत्कर्मक्षयप्रतियोगिनामभेदस्य जागरूकत्वाच्च । यदि नैवमभ्युपेयते तर्हि एकस्याऽपि मिथ्यात्वमोहस्य रसस्थित्यादिभेदेन भिन्नत्वात् तत्क्षयभेदः प्रसज्येत । न चेष्टमेतत्, कर्मेयत्ताभेदप्रसङ्गात्।
यदि च रसस्थित्यादिभेदेन भिन्नत्वेऽपि मिथ्यात्वरूपेणाऽभेदोऽस्त्येवेति विभाव्यते तदा प्रकृतेऽपि तत्तत्कर्मत्वेन रूपेण प्रतियोगिविशेषसत्त्वेऽपि वर्गणाविभाजककर्मत्वादिना तदविशेषः किं पाणिपिहितः? एतेन कर्मविभाजकज्ञानावरणत्वादिना भेदकल्पनाऽपि प्रत्युक्ता।
नन्वेवं सति जन्यभावत्वेन द्रव्यत्वेनैव च कार्यकारणभावः स्यादिति पटत्वादिना तंतुत्वादिना च कार्यकारणभावबुद्धिव्यवहारयोरप्रामाण्यापत्तिस्स्यादिति चेत्? मैवम्, व्यापकधर्मस्य व्याप्यधर्मेणाऽन्यथासिद्धेः पटत्वाद्यवच्छिन्नस्याऽऽकस्मिकत्वापत्तेश्च तत्र तन्तुत्वादिना हेतुतास्वीकारस्य आवश्यकत्वात्, अन्यथा तदवच्छिन्नसामग्र्यनिश्चये=एतावत्सत्त्वेऽवश्यं पटोत्पत्तिरितिनिश्चयाभावे तत्रैव प्रवृत्तेर्दुर्घटत्वप्रसङ्गात्, तादृशनिश्चये एव कृतिसाध्यताबुद्धिसम्भवात्। तत्पटत्वाद्यवच्छिन्नस्याऽऽकस्मिकत्वं त्विष्टमेव तद्धर्मावच्छिन्नसामग्रीसत्त्वेऽपि तथानिश्चयाऽयोगात् तद्धर्मावच्छिन्ने प्रवृत्त्यभावाच्च । प्रकृते च मुमुक्षोः कर्मत्वावच्छिन्नध्वंसोद्देशेनैव प्रवृत्तिः न तु तत्तत्कर्मप्रतियोगिकध्वंसोद्देशेन, व्युत्पन्नस्य क्वाचित्की कादाचित्की तु प्रवृत्तिः तत्तत्कर्मक्षयोपशमाद्युद्देशेनैव न तु तत्तत्कर्मक्षयोद्देशेनेति ध्येयम्।
ननु ज्ञानावरणादीनां कर्मत्वाविशेषेऽपि चैत्रबद्धत्वादिविशेषात् चैत्रीयकर्मणि चैत्रीयकृतेश्चैत्रीयकर्मक्षये चैत्रीयज्ञानतपआदेश्च हेतुत्वं वक्तव्यम्, अन्यथा मैत्रीयकृतेश्चैत्रस्यापि कर्मबन्धो मैत्रीयज्ञानतपआदेश्चैत्रस्याऽपि कर्मक्षयश्च
कारण भी सामान्य नहीं होगा किन्तु विशेष ही होगा। अतः उपायविशेष में प्रवृत्ति का नैयत्य ही रहेगा, अनैयत्य नहीं। अर्थात् मनपसंद उपाय से मोक्षविशेष की प्राप्ति नहीं होगी किन्तु उपायविशेष में प्रवृत्ति करने पर ही मोक्षविशेष की प्राप्ति होगी। अतः प्रतिनियत उपाय में प्रवृत्ति का नियमन मानना न्याय्य है।
समाधान :- प्रतियोगिविशेषस्यापि. इति । आपकी यह शंका तब ठीक होती यदि कर्मक्षय के प्रतियोगी में विशेषता सिद्ध होती। मगर ज्ञानावरणादि कर्मध्वंस के प्रतियोगी में वैलक्षण्य ही असिद्ध है, चूंकि कर्मत्वरूप से ज्ञानावरणादि कर्म में समानता ही है। तब कृत्स्न कर्मक्षय में भी विशेषता की कैसे सिद्धि होगी?
शंका :- भले ही कर्मत्वरूप से ज्ञानावरणीयादि कर्म में अभेद हो, मगर चैत्रीयत्वादि रूप से उनमें भेद भी न्यायप्राप्त है। जैसे कि चैत्र से बद्ध ज्ञानावरणादि कर्म में चैत्रीयत्व धर्म है, मैत्र से बद्ध ज्ञानावरणादि में मैत्रीयत्व धर्म है, जो कि चैत्रीय कर्म में नहीं रहता है, अन्यथा मैत्र की कर्ममुक्ति होने पर चैत्र की भी कर्ममुक्ति बिना उद्योग के हो जायेगी। अतः ज्ञानवरणादि कर्म में चैत्रीयत्व, मैत्रीयत्व आदि विशेष धर्म की अपेक्षा भेद मानना भी न्यायोचित है। इस तरह जब कर्मक्षय के प्रतियोगी में विशेषता सिद्ध होगी तब कर्मक्षयरूप फल में भी विशेषता सिद्ध होगी। तब तो वापस उपायविशेष में प्रवृत्ति का नियमन होना जरूरी है। अर्थात् विशेष कार्य-कारणभाव मानना जरूरी है।