________________
२८२ भाषारहस्यप्रकरणे
स्त. ४. गा. ८३
● बहुश्रुताभव्यभव्यभाषास्वरूपविचारविशेषः O तदिदमाह भगवान् भद्रबाहु 'सम्मद्दिट्ठी उ सुअंमि अणुवउत्तो अहेउअं चेव । जं भासइ सा मोसा, मिच्छद्दिट्ठी वि य तहेव । । (दश. नि. गा. २८० ) त्ति । अहेतुकं 'तन्तुभ्यः पट एव भवती' त्यादि । । ८३ ।। अथाऽसत्यामृषा श्रुतभावभाषा कस्य? इत्याह । सत्याऽन्यतरपर्यवसानात्, सर्वत्र सप्तभङ्ग्या अव्याहतप्रसरात् । ततः स्वाम्यपेक्षया सत्यत्वं द्रव्यभाषास्वरूपापेक्षा चाऽसत्यत्वं तदेति न कश्चिद्विरोधगंधलेशोऽपि ।
अत एव गुरुनियोगादितो वितथार्थापरिज्ञानसम्भवेन तथाभाषणे प्रज्ञापनीयत्वादिगुणकलितस्य वक्तुर्न कर्मबन्ध इति समयभणितिः, भावसत्यत्वेन द्रव्याऽसत्यत्वस्योपक्षीणत्वात् । पश्चात् गुरुणाऽन्येन वा ज्ञानिना सम्यगर्थज्ञापनेऽपि पूर्ववत् भाषणे त्वसत्यत्वमेव तदा, अभिनिविष्टत्वेन भावसत्यत्वप्रच्यवात् । एतेन नवपूर्वादिश्रुतधरस्याऽभव्यस्याऽऽगमानुगामिभाषायाः स्वामिकृताऽसत्यत्वेऽपि यथावस्थितार्थप्रतिपादकत्वेन श्रोतृप्रमाजनकत्वात् द्रव्यतः सत्यत्वमव्याहतमिति व्यज्यत, अन्यथा भगवद्भाषाया अपि द्रव्यश्रुतत्वं न स्यात् । विशेषपरिज्ञानदशायाञ्चाभव्येभ्य उत्करपतितचम्पकमालाज्ञातेन श्रुतग्रहणादिनिषेधात्तद्भाषा सत्यत्वेन न व्यवहर्तव्या, कुत्सितस्वामिकत्वादिति तु ध्येयम् ।
अनुपयुक्तसम्यग्दृष्टेः श्रुतविषयिणीमसत्यां भावभाषां प्रदर्शयति अहेतुकमिति । युक्तिविकलमिति श्रीहरिभद्रसूरयो व्याचक्षते। इदञ्च हेतुगम्यपदार्थापेक्षया बोध्यम् । तेन नाऽऽगमगम्यपदार्थभाषणेऽसत्यत्वाऽऽपातः । उभयसाधारण्यलाभार्थं तु नञो विरोधार्थकत्वं ज्ञेयम् । तेन अहेतुकं युक्तिविरुद्धमित्यर्थो लभ्यते, यथा लोकः कदापि न निर्लेपो भविष्यति जीवानां परिमितत्वादित्याद्यागमिकार्थोदाहरणम् । मृषात्वं त्वत्र स्पष्टमेव । तथा यौक्तिकार्थोदाहरणं तु 'तन्तुभ्यः पट एव भवतीत्यादि । तन्तूनां स्वविषयकप्रमाविपर्ययादेरपि जनकत्वेनाऽन्ययोगव्यवच्छेदरूपैवकारार्थबाधादसत्यत्वम् । प्राचीनतरचूर्णौ तु 'तंतवो घडकारणं, वीरणा पडस्स एवमादि सम्मद्दिठ्ठीणो वि भवति मोसा' (दश. अग. चू. पृ. १६२) इत्युक्तम् । विवरणकृता चाऽत्र श्रीदशवैकालिकहारिभद्रवृत्त्यनुसारेणाऽत्रोदाहरणं प्रदर्शितमिति ध्येयम् ।
=
प्रकृते श्रुतेऽनुपयुक्तस्य सम्यग्दृष्टेर्भाषाया मृषात्वप्रतिपादने इदमर्थतः प्राप्तं भवति यदुत श्रुते उपयुक्तस्य सम्यग्दृष्टेर्भाषा सत्यैव न च सम्यक् श्रुतोपयुक्तस्याऽपि सम्यग्दृष्टेः मिथ्याश्रुतपरावर्तने कथं सत्यभाषावक्तृत्वं स्यादिति वाच्यम् बहुश्रुतत्वादिगुणकलितस्य सम्यगुपयुक्तस्य सम्यग्दृष्टेर्मिथ्याश्रुतपरावर्तनेऽपि द्रव्यतोऽपि सत्यत्वमनपायमेव । तथाहि "जिनेन्द्रस्तवनं यस्य, तस्य जन्म निरर्थकं । जिनेन्द्रस्तवनं नास्य सफलं जन्म तस्य हि" ।। इति व्यवहारतो मिथ्याश्रुतस्य तथाविधसम्यग्दृष्टिपरिगृहीतस्य न व्यवहारतोऽपि मृषात्वम्, 'यसु प्रयत्ने', 'तसु उपक्षये', 'असु क्षेपणे' इति धातुपाठबलेन तदर्थघटनद्वारा तद्दोषप्रच्यवात् । 'गत्वा गच्छामि चैत्यं' इत्यत्राऽकारद्वयप्रश्लेषात् 'गत्वाऽऽगच्छामि चैत्यं' इत्यर्थव्याख्याने कृते सति न मांसभक्षणे दोष' इत्यादौ च पूर्वोक्तरीत्याऽकारप्रश्लेषेन तदर्थघटनायां सत्यां दूषणविलयात्। दृष्टो हि 'इह कोऽपि नास्तीत्युक्ते पश्चान्मनुष्योपलब्धौ 'इह कोऽपि ना अस्ती 'ति विवरणेन बहुश्रुतत्वादिगुणोपेतस्य दोषभङ्ग इति विभावनीयं सूक्ष्मेक्षिकया ।। ८३ ।।
यहाँ जो कहा गया है वह अपनी मनमानी कल्पना से कहा गया है ऐसा नहीं है। इस तथ्य को प्रकट करते हुए विवरणकार पूर्णचरमश्रुतकेवली भगवान भद्रबाहुस्वामीजी से रचित श्रीदशवैकालिकनिर्युक्ति के वचन को बताते हैं । यह रहा वह शास्त्रपाठ - "(जब) समकितदृष्टि श्रुत में अनुपयुक्त हो कर अहेतुक ही बोलता है वह भाषा ( श्रुतविषयक) मृषा भाषा है और मिथ्यादृष्टि की भाषा भी वैसी ही है।" नियुक्ति में जो कहा गया है कि 'अहेतुकं' इसका अर्थ है 'युक्तिविरुद्ध' अर्थात् युक्तिहीन भाषण । जैसे कि "तंतुओं से पट ही बनता है' इत्यादि भाषा । तन्तु अपना ज्ञान भी उत्पन्न करता है, जलाने पर भस्म को भी उत्पन्न करता है । अतः तन्तु से पट ही उत्पन्न होता है वह बात मिथ्या = असत्य है। इस तरह ८३ वीं गाथा में श्रुतविषयक मृषा भावभाषा का संक्षेप से निरूपण पूर्ण हुआ ।
शंका :- अथ इति । श्रुतविषयक सत्य भावभाषा और असत्य भावभाषा किसकी होती है यह तो पता चल गया। मगर