Book Title: Bhasha Rahasya
Author(s): Yashovijay Maharaj, 
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 298
________________ २६७ * डिस्थादिपदार्थप्रतिपादनम् * वधेयम् । ७७।। उक्ताऽनभिगृहीता ८। अथाभिगृहीतामाह । अभिगहिया पडिवक्खो, संसयकरणी य सा मुणेयव्वा । जत्थ अणेगत्यपयं सोऊण होइ संदेहो।।७८ ।।' अभिगृहीता प्रतिपक्षः = विपरीता, प्रस्तावादनभिगृहीताया इति लभ्यते। तथा चानेकेषु कार्येषु पृष्टेषु यदेकतरस्याऽवधारणम् लक्षणं फलितम् । प्रकृते डीधातुरलौकिकः तदुक्तं हेलाराजेन वाक्यपदीयवृत्तिसमुद्देशवृत्तौ कल्पनया तु डयतिधातुरसम्भवदर्थो डित्थस्याऽन्वाख्यानायाऽपोध्रियते ।। (वा.प. ३कांड-वृत्तिस. श्लो. ७७-वृत्ति.) यत्तु रघुनाथशर्मणा "यदृच्छाशब्दे तु प्रवृत्तिनिमित्ते सति नार्थसम्भवः (वा.प.कां. ३-अम्बाकींटीका पृ. १८९) इत्युक्तं तदसत् काष्ठमयहस्त्यादेः डित्थपदार्थत्वात् । तदुक्तं पदार्थलक्षणसङ्ग्रहे-डित्थः काष्टमयहस्ती १ निपुणमनुष्यः २ इति । अन्यत्राऽप्युक्तम्'श्यामरूपो युवा विद्वान् सुन्दरः प्रियदर्शनः । सर्वशास्त्रार्थवेत्ता च डित्थ इत्यधीयते।। (डित्थादिकमित्यत्र आदिशब्देन डवित्थादेर्ग्रहणम्। काष्ठमयमृगस्य डवित्थपदार्थत्वात्। ननु श्रीयाकिनीमहत्तरासूनुना दशवैकालिकवृत्तौ 'अनभिगृहीता भाषा अर्थमनभिगृह्य या उच्यते डित्थादिवदि'त्युक्तं प्रज्ञापनाटिप्पणे च तेनैव 'अत्थाणभिग्गहेणं बालुम्मत्तपलायवयहसितादि अणभिग्गहिया, घडातिअत्थपडिवायणमभिग्गहिया, एसऽवायणी अणभिग्गहिया सैव' (प्र.टी.भा.पद.पृ. ८३) इत्युक्तमिति कथं न तत्र विरोध इति चेत्;? मैवम्, दशवैकालिकवृत्तौ श्रीजिनदासगणिमहत्तराभिप्रायमनुरुध्योक्तम् । तदुक्तं श्रीजिनदासगणिमहत्तरैः' अणभिग्गहिया णाम जा भासा अत्थं अणभिगेण्हिऊण केवलं वायामित्तमेव उदाहरिज्जति जहा डित्थो डवित्थो, अमट्टो, प्रार्थन इति। अहवा-'उससियं नीससियं निच्छूढं खासियं च छीयं च। णिस्सिंधियमणुस्सारं अणक्खरं छेल्लियादीयं ।।१।।" (दश.चू.श्रीजिन.पृ.२३९) इति । प्रज्ञापनाटिप्पणे च अगस्त्यसिंहसूरेः प्राचीनतमदशवैकालिकचूर्णिकारस्य मतं चेतसिकृत्योक्तम्। तदुक्तं प्राचीनतमचूर्णी-'अत्थाणभिग्गहएण बालुम्मत्तप्पलावहसियायि अणभिग्गहिया' (दश. अग. चू. पृ. १६१) न च चूर्णिकारयोर्वचने कथं न विरोधः? इति वक्तव्यम् अभिप्रायान्तरेणार्थप्रतिपादनपरत्वात्; अपेक्षाभेदेऽविरोधात्, नयज्ञानस्य नयान्तरजन्यज्ञानप्रतिबन्धकत्वाभावात्,अन्यथा दुर्नयत्वप्रसङ्गादिति समाकलितसमयसारैः समाधेयम्। ननु डित्थादिवचनस्यानभिगृहीतत्वे पूर्वप्रदर्शिताया 'यत्प्रतिभासते तत्कुरु' इत्यादिभाषायाः कुत्रान्तर्भावः? इत्याशङ्कायामाह एतन्मते = द्वितीयमते । आज्ञापनीविशेष एवेति। प्रतिनियतावधारणशून्यकरणवचनरूपाज्ञापनी न तु केवलं करणवचनरूपेत्याशयो भाति । अयं भावः 'इदं कुरु' इत्यत्र शृङ्गग्राहिकयाऽऽज्ञानिर्देशः क्रियते 'यत्प्रतिभासते तत्कुरु'इत्यत्र च शृङ्ग्राहिकां विनैवाज्ञा दीयत इत्यनयोर्विशेषः । एतेन असत्यामृषाविभागन्यूनतादोषः प्रत्युक्तः विशिष्टस्य कथञ्चित् शुद्धानतिरेकात् । न हि नीलघटो घटो न भवतीत्यादिसूचनार्थमवधेयमित्युक्तम् । ७७।। प्रतिपक्ष इति । प्रतिपक्षपदार्थज्ञानस्य पक्षज्ञानापेक्षत्वात् तत्प्रदर्शयति-प्रस्तावादिति प्रकरणादित्यर्थः । 'इदमिदानी कर्तव्यमिति । इदं चोपलक्षणं 'इदमिदानी कर्तव्यमिदं ने'त्यस्य। तदुक्तं प्रज्ञापनावृत्तौ - 'अभिगृहीता प्रतिनियतार्थवसे निष्पन्न वचन को यदृच्छामात्रमूलकवचन कहा जाता है। इस मत के अनुसार पूर्व में जो 'यत्प्रतिभासते तत्कुरु' दृष्टान्त बताया गया है वह आज्ञापनीविशेषस्वरूप ही है, अन्यभाषास्वरूप नहीं - यह निश्चितरूप से मानना चाहिए। ७७।। ___ अनभिगृहीत भाषा का निर्वचन पूर्ण हुआ। अब प्रकरणकार श्रीमद् असत्यामृषा भाषा के निरूपण में क्रमप्राप्त अनभिगृहीत एवं संशयकरणी भाषा का ७८ वी गाथा से निरूपण करते हैं। गाथार्थ :- अनभिगृहीत से विपरीत भाषा अभिगृहीत भाषा कही जाती है। जिस भाषा के अनेकार्थक पदों को सुन कर श्रोता को संशय हो वह संशयकरणी भाषारूप से ज्ञातव्य है ७८।। १ अभिगृहीता प्रतिपक्षः संशयकरणी च सा मुणि(ज्ञातव्या। यत्रानेकार्थपदं श्रुत्वा भवति सन्देहः ।।७८ ।।

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400