________________
* उद्देश्यविधेयभावे कार्यकारणभावज्ञानजनकत्वविचारः *
२५९
अहिंसापरा दीर्घायुषः स्युः इत्याद्युपदेशेषु उद्देश्यविधेयभावमहिम्नैवा-हिंसादीर्घायुरादीनां हेतु-हेतुमद्भावलाभः । तत एव चाऽऽहत्य विवेकिनां प्रवृत्तिरित्यपि वदन्ति । । ७५ । । उक्ता प्रज्ञापनी ५। अथ प्रत्याख्यानीमाह
भिव्याहृतवाक्यमर्थवाद इत्येके । प्रकरणप्रतिपाद्यस्य प्रशंसनमर्थवाद इत्यपरे । विध्युन्नायकतया = विध्यनुमापकतया तादृशेच्छाप्रयोजकत्वमित्यत्राऽप्यनुवर्त्तते । ततश्चार्थवादवाक्यस्य विध्यनुमानोत्थापकतया तादृशेच्छाप्रयोजकत्वमित्यर्थः। तथाहि-धन्यः स मासो दिवसोऽपि धन्यः स एव साऽपि घटकाऽपि धन्या । यत्र प्रभुः भाग्यवता जनेन दृष्टो जगत्स्वामी कृपानिवासः । । अयं च साक्षाद् विध्यर्थस्य प्रशंसार्थकवाक्यरूपः स्तुत्यर्थवादः । तेन च 'जिनदर्शनं कर्तव्यमि'त्याकारको विधिरनुमीयते । उन्नीतस्य च विधिवाक्यस्य तादृशेच्छाजनकेष्टसाधनताज्ञानजनकतया भयाप्रयोज्यप्रवृत्तिजनकेच्छाप्रयोजकभाषात्वस्याऽव्याहतिः । तत्र तादृशेच्छायाः परम्परकारणत्वरूपस्य प्रयोजकत्वस्य सत्त्वात् । क्वचित् स्युत्यर्थवादेन निषेधवाक्यमुन्नीयते यथा 'अलीकं ये न भाषन्ते सत्यव्रतमहाधनाः । धात्री पवित्रीक्रियते तेषां चरणरेणुभिः ।।' इत्यादौ । क्वचित् निन्दार्थवादेन निषेधवाक्यमनुमीयते यथा 'न हिंसा सदृशं पापं, त्रैलोक्ये सचराचरे।' इत्यादौ। यत्र विधिवाक्येन सहैव स्तुत्यर्थवादस्तत्रेष्टार्थबोधनद्वारा विधिवाक्यैकवाक्यतयाऽर्थबोधो यथा 'परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्यात्क्रतुशतैरपि । । ' ( ) इति भागवतवचने । न चैवमिष्टसाधनताया विध्यर्थत्वं न स्यात् तज्ज्ञानस्य स्तुत्यर्थवादादेवोपपत्तेरिति साम्प्रतम् इष्टसाधनत्वसामान्यस्य विध्यर्थत्वात् न तु विशिष्टेष्टसाधनत्वस्येत्युक्तोत्तरत्वात् । क्वचिन्निन्दार्थवादेन विधिवाक्यमुन्नीयते । यथा 'भीमम्मि भवसमुद्दे पडिया की संति पाणिणो मूढा । न सरंति निरुयवेरग्गबंधणबंधणविमुक्कं । । ' ( वै. र. गा. १९) इति लक्ष्मीलाभगणिकृतवैराग्यरसायने । अत्र हि निन्दार्थवादेन 'वैराग्यबान्धवं स्मरेदिति विधिरुन्नीयते । स्तुतिनिन्दार्थवादौ यथाक्रमं षोडशवचनभेदान्तर्गतोपनीतापनीतवचनाभ्यां स्वसमये वर्ण्यते । यद्वा यत्रान्यप्रकरणादितो विधिवाक्यमुपलभ्यते तत्राऽर्थवादस्य विधिवाक्यैकवाक्यतयाऽर्थबोधकत्वं यत्र चान्यप्रकरणादितो विधिवाक्यं नोपलभ्यते तत्राऽर्थवादस्य विध्युन्नायकत्वमित्यपि शक्यते वक्तुमित्यादि बहुतरमूहनीयम् ।
अत्र परेषां मतमाह-अहिंसापरा इति । उद्देश्यविधेयभावमहिम्नैवेति । अयं भावः यथा 'धनी सुखी भवेत्' इत्यत्र धनिनमुद्दिश्य सुखित्वस्य विधानाद् धनसुखयोर्हेतुहेतुमद्भावो लभ्यते तथा प्रकृतेऽहिंसापरानुद्दिश्य दीर्घायुष्कताया विधानादहिंसादीर्घायुषोर्हेतुहेतुमद्भावो ज्ञायते यदुत अहिंसा दीर्घायुष्कताहेतुः दीर्घायुश्चाहिंसाकार्यमिति । तत एवेति । कार्यकारणभावज्ञानादेवेति एवकारेण विधिवाक्यव्यवच्छेदः क्रियते । एतन्नयेन तादृशवाक्यादेर्विध्यनुमानोत्थापकत्वं नाभ्युपेयते गौरवात्। वदन्तीत्यनेनाऽस्वरसः प्रदर्शितः, कृत्यसाध्येऽपि तत एव प्रवृत्तिप्रसङ्गात् । ।७५ । ।
का प्रयोजक है। अर्थवाद का अर्थ यह है जो स्तुतिपरक हो या निंदापरक हो ऐसा वाक्य। अर्थवाद के द्वारा जिस अर्थ की प्रशंसा की जाती है उससे कर्तव्यताप्रतिपादक विधिवाक्य की कल्पना की जाती है। जैसे कि 'उनको धन्य हैं जो सदा जिनेश्वर भगवंत की पूजा करते हैं यह स्तुति अर्थवाद है। इससे जिनपूजा में कर्तव्यताप्रतिपादक विधि (वाक्य) की कल्पना की जाती है कि 'जिनं पूजयेत्' अर्थात् जिनेश्वर की पूजा कर्तव्य है। स्तुति अर्थवाद से अनुमित वह विधिवाक्य इष्टसाधनता का ज्ञान उत्पन्न करता है, जो भयाप्रयोज्यप्रवृत्तिजनक इच्छा का कारण होता है। इस तरह अर्थवाद वाक्य भी विधिवाक्य का अनुमापक होने से परंपरा से तादृशेच्छा का प्रयोजक होता है। अतः अर्थवाद में भी तादृशेच्छाप्रयोजकभाषात्वरूप प्रज्ञापनी भाषा के लक्षण की प्रवृत्ति निराबाध होती है। अतः प्रज्ञापनी भाषा में अव्याप्ति आदि दोष भी नहीं है और अर्थवाद का प्रज्ञापनी भाषा से बहिर्भाव भी नहीं है यह फलित होता है।
* अर्थवाद में अन्य विद्वानों का अभिप्राय
अहिंसापरा. इति। अर्थवाद कैसे प्रवृत्ति का कारण बनता है? इस स्थल में अन्य विद्वान् मनीषियों के अभिप्राय को बताते हुए विवरणकार कहते हैं कि- 'अहिंसा में तत्पर जीव दीर्घायु होते हैं यह अर्थवाद विधिवाक्य का अनुमापक नहीं है किन्तु