Book Title: Bhasha Rahasya
Author(s): Yashovijay Maharaj, 
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 281
________________ २५० भाषारहस्यप्रकरणे - स्त.४. गा. ७४ ० दानस्वरूपमीमांसा ० 'नन्वियमविषयेऽसत्यैव यथाऽविनीतादावाज्ञापनी। एवञ्च रागाद्यभावेन किञ्चिदपि कस्यचिदददतः तीर्थंकरान् प्रति। आरूग्गवर्त्यांना स्वस्वत्वपरित्यागपूर्वकं परस्वत्वापादनं दानमिति' जरनैयायिका आहुः । तदसमीचीनम्, अन्यायोपार्जितवित्तादिदानस्याऽतथात्वात् । न च तत्र भाक्तो दानपदार्थ इति वाच्यम् तथापि विद्यादिदानेऽव्याप्तिदोषविडम्बना निबिडं भवन्तं निपीडयन्ति न कथमपि विगमारामसम्मखीनं मनो विरचयति । न हि विद्यादिदानादिद्यादौ स्वस्वत्वं विनश्यति प्रत्युत प्रगुणीभवति। 'व्यये कृते वर्द्धते नित्यमेव विद्याधनं सर्वधनप्रधानम्' ।। इति किं नाकर्णितं सकलप्रवीणप्रामाणिकश्रेणिशिरोमणीयमानैः तत्रभवद्भिर्भवद्भिः? उद्धारविक्रये चातिव्याप्तिबुभुक्षितराक्षसी न कथमपि पराकर्तुं शक्येति (ग्रन्थाग्रम् - ५००० श्लोक) ध्येयम्। स्वस्वत्वध्वंसविशिष्टपरस्वत्वानुकूलेच्छा दाधात्वर्थ इति नव्यनैयायिका व्याचक्षते । तन्न मनोरमं एवं सति दातृदत्ते सत्यप्यस्वीकारदशायामव्याप्तिक्षितिः क्षितिपतिनाऽपि रक्षितं न क्षमीभूयते। किञ्च बोधिदानादावव्याप्तिरप्यप्रतिकार्या। न च बोधिदानं दानमेव न भवतीति मिथ्यात्वविषोद्गार उद्गीरणीयः, परमार्थतः तस्यैव दानरूपत्वात् । तदुक्तं जयानन्दकेवलिचरित्र - बोधिदानात्परं दानं नास्त्येव दत्तया यया। सर्वसौख्यश्रियां पात्रं भवेच्छिवपदावधि ।। (ज.के.पृ. १५१) वयं तु ब्रूमः मूल्यग्रहण-तत्प्रागभावोभयाभावविशिष्टपरस्वत्वोत्पादनोद्देश्यकाभ्रान्तव्यापारो दानमिति। विक्रय-वस्तुपरावर्त्तनादावतिप्रसङ्गनिराकरणाय मूल्यग्रहणेति अभावविशेषणम्। उद्धारविक्रयेऽतिप्रसङ्गावारणार्थ तत्प्रागभावेति द्वितीयमभावविशेषणम् । न चैवमपि विक्रयादावतिप्रसङ्गतादवस्थ्यम् 'एकसत्त्वेऽपि द्वयं नास्ति इति न्यायेन मूल्यग्रहणे सत्यपि मूल्यग्रहणतत्प्रागभावोभयत्वावच्छिन्नाभावस्याऽक्षतत्वादिति वाच्यम् द्वित्वेनोपस्थितयोर्मूल्यग्रहण-तत्प्रागभावयोः प्रत्येकं निषेधान्वयविवक्षणात् यद्वाऽस्तु मूल्यग्रहणतत्प्रागभावप्रतियोगिकाभावद्वयविशिष्टपरस्वत्वोत्पादोद्देश्यकाभ्रान्तव्यापारो दानमिति स्पष्टव्याख्यानम्। धनपतन-पित्रादिमरणादावतिव्यापकतापराकरणाय 'उद्देश्यके'ति व्यापारविशेषणम् । न च तादृशव्यापारविशिष्टतादृशाभावो दानमिति कथं न स्याद् विनिगमनाविरहादिति वाच्यम् दानस्य भावरूपत्वात्, अन्यथा तुच्छत्वप्रसङ्गात्। ततश्च यथोक्तमेवं सम्यग् । अत एव घ्नतः पृष्ठं ददाति, रजकस्य वस्त्रं ददातीत्यादावपोद्यते चतुर्थी वैयाकरणविचक्षणैः, व्यापारे तादृशोद्देश्यकत्वस्य प्रच्यवात् । न वा दत्तेऽप्यप्रतिग्रहदशायां दानमहासत्याः प्राणहत्यापापारोपशिरकलङ्कः परस्वत्वानुत्पादेऽपि व्यापारे परस्वत्वोत्पादोद्देश्यकत्वस्यानपायात् । तच्च स्वत्वं धर्माविरोधिस्वभोगसाधनत्वरूपं अध्यात्ममतपरीक्षावृत्त्युक्तं ग्राह्यम् । तेन बोध्यभयविद्याशरणधर्मोपदेशाचार्यादिपददेशावग्रहसाधुवसतिदानादौ नाऽव्याप्तिदुर्ललनासङ्गतिमालिन्यं न वा परकीयधनादिविनियोगस्थलेऽतिप्रसङ्गमातङ्गस्पर्शपातकम, तादृशस्वत्वोत्पादोद्देश्यकत्वविरहादिति। न वाऽनाभोगतः परकीयवित्तादिविनियोगेऽतिव्यापितापिशाचिकासच्चारः, तादृशव्यापारस्य भ्रान्तत्वादिति। वस्तुतस्तु मूल्यग्रहणसंसर्गाभावविशिष्ट-परस्वत्वानुकूलस्वपरिणामव्यञ्जकलौकिक-लोकोत्तरान्यतरक्रियाविशेषो दानम्। निश्चयनयाभिप्रायेण तु दानस्य सङ्कल्परूपत्वमेव । अत एव दीयमानं दत्तमिति पारमर्षप्रसिद्धिरित्यभिनवोन्मेषशालिप्रज्ञोन्नीतोऽयं पन्थाः पर्यालोच्यतां पर्युपासितगुरुकुलैः।। याचनीत्वावच्छिन्नमुद्दिश्याऽसत्यामृषात्वविधानं न युक्तम्, याचनीत्वसामानाधिकरण्येनाऽसत्यामृषात्वबाधात् तदभावव्याप्यासत्यत्वोपलम्भादित्याशयेन शङ्कते नन्विति। अविषये = याचनाऽविषये। हेतुप्रदर्शनमेतत् । प्रयोगस्त्वेवम् विवादाध्यासिता याचनी मृषा स्वाविषयविषयकत्वात् अविनीतविषयकाज्ञापनीवत्। विवादाध्यासितत्वमेव १ 'तन्नियमाविषये' इति मुद्रितप्रतौ पाठोऽतीवाऽशुद्धः ।

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400