________________
२५० भाषारहस्यप्रकरणे - स्त.४. गा. ७४
० दानस्वरूपमीमांसा ० 'नन्वियमविषयेऽसत्यैव यथाऽविनीतादावाज्ञापनी। एवञ्च रागाद्यभावेन किञ्चिदपि कस्यचिदददतः तीर्थंकरान् प्रति। आरूग्गवर्त्यांना स्वस्वत्वपरित्यागपूर्वकं परस्वत्वापादनं दानमिति' जरनैयायिका आहुः । तदसमीचीनम्, अन्यायोपार्जितवित्तादिदानस्याऽतथात्वात् । न च तत्र भाक्तो दानपदार्थ इति वाच्यम् तथापि विद्यादिदानेऽव्याप्तिदोषविडम्बना निबिडं भवन्तं निपीडयन्ति न कथमपि विगमारामसम्मखीनं मनो विरचयति । न हि विद्यादिदानादिद्यादौ स्वस्वत्वं विनश्यति प्रत्युत प्रगुणीभवति। 'व्यये कृते वर्द्धते नित्यमेव विद्याधनं सर्वधनप्रधानम्' ।। इति किं नाकर्णितं सकलप्रवीणप्रामाणिकश्रेणिशिरोमणीयमानैः तत्रभवद्भिर्भवद्भिः? उद्धारविक्रये चातिव्याप्तिबुभुक्षितराक्षसी न कथमपि पराकर्तुं शक्येति (ग्रन्थाग्रम् - ५००० श्लोक) ध्येयम्।
स्वस्वत्वध्वंसविशिष्टपरस्वत्वानुकूलेच्छा दाधात्वर्थ इति नव्यनैयायिका व्याचक्षते । तन्न मनोरमं एवं सति दातृदत्ते सत्यप्यस्वीकारदशायामव्याप्तिक्षितिः क्षितिपतिनाऽपि रक्षितं न क्षमीभूयते। किञ्च बोधिदानादावव्याप्तिरप्यप्रतिकार्या। न च बोधिदानं दानमेव न भवतीति मिथ्यात्वविषोद्गार उद्गीरणीयः, परमार्थतः तस्यैव दानरूपत्वात् । तदुक्तं जयानन्दकेवलिचरित्र -
बोधिदानात्परं दानं नास्त्येव दत्तया यया। सर्वसौख्यश्रियां पात्रं भवेच्छिवपदावधि ।। (ज.के.पृ. १५१)
वयं तु ब्रूमः मूल्यग्रहण-तत्प्रागभावोभयाभावविशिष्टपरस्वत्वोत्पादनोद्देश्यकाभ्रान्तव्यापारो दानमिति। विक्रय-वस्तुपरावर्त्तनादावतिप्रसङ्गनिराकरणाय मूल्यग्रहणेति अभावविशेषणम्। उद्धारविक्रयेऽतिप्रसङ्गावारणार्थ तत्प्रागभावेति द्वितीयमभावविशेषणम् । न चैवमपि विक्रयादावतिप्रसङ्गतादवस्थ्यम् 'एकसत्त्वेऽपि द्वयं नास्ति इति न्यायेन मूल्यग्रहणे सत्यपि मूल्यग्रहणतत्प्रागभावोभयत्वावच्छिन्नाभावस्याऽक्षतत्वादिति वाच्यम् द्वित्वेनोपस्थितयोर्मूल्यग्रहण-तत्प्रागभावयोः प्रत्येकं निषेधान्वयविवक्षणात् यद्वाऽस्तु मूल्यग्रहणतत्प्रागभावप्रतियोगिकाभावद्वयविशिष्टपरस्वत्वोत्पादोद्देश्यकाभ्रान्तव्यापारो दानमिति स्पष्टव्याख्यानम्। धनपतन-पित्रादिमरणादावतिव्यापकतापराकरणाय 'उद्देश्यके'ति व्यापारविशेषणम् । न च तादृशव्यापारविशिष्टतादृशाभावो दानमिति कथं न स्याद् विनिगमनाविरहादिति वाच्यम् दानस्य भावरूपत्वात्, अन्यथा तुच्छत्वप्रसङ्गात्। ततश्च यथोक्तमेवं सम्यग् । अत एव घ्नतः पृष्ठं ददाति, रजकस्य वस्त्रं ददातीत्यादावपोद्यते चतुर्थी वैयाकरणविचक्षणैः, व्यापारे तादृशोद्देश्यकत्वस्य प्रच्यवात् । न वा दत्तेऽप्यप्रतिग्रहदशायां दानमहासत्याः प्राणहत्यापापारोपशिरकलङ्कः परस्वत्वानुत्पादेऽपि व्यापारे परस्वत्वोत्पादोद्देश्यकत्वस्यानपायात् । तच्च स्वत्वं धर्माविरोधिस्वभोगसाधनत्वरूपं अध्यात्ममतपरीक्षावृत्त्युक्तं ग्राह्यम् । तेन बोध्यभयविद्याशरणधर्मोपदेशाचार्यादिपददेशावग्रहसाधुवसतिदानादौ नाऽव्याप्तिदुर्ललनासङ्गतिमालिन्यं न वा परकीयधनादिविनियोगस्थलेऽतिप्रसङ्गमातङ्गस्पर्शपातकम, तादृशस्वत्वोत्पादोद्देश्यकत्वविरहादिति। न वाऽनाभोगतः परकीयवित्तादिविनियोगेऽतिव्यापितापिशाचिकासच्चारः, तादृशव्यापारस्य भ्रान्तत्वादिति।
वस्तुतस्तु मूल्यग्रहणसंसर्गाभावविशिष्ट-परस्वत्वानुकूलस्वपरिणामव्यञ्जकलौकिक-लोकोत्तरान्यतरक्रियाविशेषो दानम्। निश्चयनयाभिप्रायेण तु दानस्य सङ्कल्परूपत्वमेव । अत एव दीयमानं दत्तमिति पारमर्षप्रसिद्धिरित्यभिनवोन्मेषशालिप्रज्ञोन्नीतोऽयं पन्थाः पर्यालोच्यतां पर्युपासितगुरुकुलैः।।
याचनीत्वावच्छिन्नमुद्दिश्याऽसत्यामृषात्वविधानं न युक्तम्, याचनीत्वसामानाधिकरण्येनाऽसत्यामृषात्वबाधात् तदभावव्याप्यासत्यत्वोपलम्भादित्याशयेन शङ्कते नन्विति। अविषये = याचनाऽविषये। हेतुप्रदर्शनमेतत् । प्रयोगस्त्वेवम् विवादाध्यासिता याचनी मृषा स्वाविषयविषयकत्वात् अविनीतविषयकाज्ञापनीवत्। विवादाध्यासितत्वमेव
१ 'तन्नियमाविषये' इति मुद्रितप्रतौ पाठोऽतीवाऽशुद्धः ।