________________
* आज्ञापन्यां विमर्शविशेषः *
२४९
सा जायणी य णेया, जं इच्छियपत्थणापरं वयणं । भत्तिपउत्ता एसा, विणावि विसयं गुणोवेया । ७४ ।। यत् ईप्सितस्य = स्वेच्छाविषयस्य प्रार्थनापरं = याचनप्रवणं, वचनं मम भिक्षां प्रदेही' त्यादिरूपं, सा याचनी ज्ञेया । चः
समुच्चये ।
स्याऽसत्यत्वाद्यभावव्याप्यत्वादिति चेत्, मैवम् आज्ञापन्या अकरणे प्रत्यवायजनकत्वेनाकरणदशायामाज्ञाप्यं प्रत्यहितावहत्वेनैवम्भूतनयाभिप्रायेण यद्वा विसंवादित्वेन नयान्तराभिप्रायेणाऽसत्यत्वस्योक्तत्वात् । अत एवाऽविनीतेभ्य आज्ञादानस्य तत्र तत्र बहुशो निषिद्धत्वमुपपद्यते । न च करणदशायां सत्यत्वं स्यात् सद्भ्योऽहितावहत्वाभावादिति वाच्यम्, तथापि आज्ञापनीत्वावच्छिन्नायां सत्यत्वस्य वक्तुमशक्यत्वात्, करणानियमस्योक्तत्वात् । द्वितीयहेतौ तु 'अनुपयोगो द्रव्यमिति परिभाषयाऽऽज्ञापनीत्वसामानाधिकरण्येन पारिभाषिकं द्रव्यभाषात्वमुक्तमिति न विरोधः परिभाषायाः परिभाषान्तरविरोधाभावात्। न चैवं सत्यसत्यामृषात्वमपि न स्यात् भावभाषत्वरूपव्यापकस्याभावेन द्रव्यभाषात्वोन्नीतेन व्याप्याभावसिद्धेरिति वाच्यम्, नयविशेषाभिप्रायेण तथाऽभिमतत्वात् यद्वा सम्यगुपयोगविशेषपूर्वकत्वाभावेऽपि 'मयेदमित्थं भाषितव्यम्, इत्थमेव भाष्यमाणं 'अहमनेनाऽत्र नियुक्तोऽस्मि इत्यादिश्रोतृपरिज्ञानाय भविष्यती' त्यादिसम्यगुपयोगसामान्यपूर्वकत्वेन भावभाषात्वमपि न विरुध्यते सम्यगुपयोगाऽनिर्वाहस्य चात्र नयविशेषाभिप्रायेण विवरणकृता प्रोक्तत्वात्, नयज्ञानस्य नयान्तरजन्यज्ञानाऽप्रतिबन्धकत्वादित्यादिगहनतमभावप्रदर्शनार्थं दिगित्युक्तम् । ।७३ ।।
याचनप्रवणमिति । स्वोद्देश्यकदानेच्छापरकवचनरूपयाचनीभाषाघटकीभूतस्य दानस्य स्वरूपं मनाग्मीमांसामहे । तत्र 'हस्ताद्धस्तान्तरार्पणं दानमिति केचित् तन्मन्दम्, क्षेत्रदानादावव्याप्तेः, अर्पणपदार्थनिर्वचने आत्माश्रयदोषदुष्टदन्दशूकदष्टत्वाच्च। 'परस्वत्वोत्पादनानुकूलव्यापारो ददात्यर्थ' इत्यपरे, तदप्यविचारितरमणीयम्, परकीयधनादिविनियोगगजेऽतिव्याप्तिकोपप्रकम्पप्रोच्छलदतुच्छहनूमल्लोललाङ्गुलास्फोटप्रकटितोत्कटभूमण्डलाकम्पपञ्चाननकलितत्वात् । अत एव पराभीष्टसम्पादनानुकूलव्यापारो दानमिति मुग्धवचनमपि प्रत्युक्तम्, अनिष्टवस्तुविषयकदानादावव्याप्तिकण्ठपीठनिविष्टनिर्लज्जकुट्टिनीकटाक्षितत्वाच्च ।
स्यादेतत् स्वस्वत्वनिवृत्त्यनुकूलव्यापारो दानमिति । नैतद् युक्तम्, वित्तादिविनाशपित्रादिमरणादावतिव्याप्तिसमुद्धतबन्धुकीसम्पर्ककलङ्कपङ्कपङ्किलत्वात् ।
स्वस्वत्वनिवृत्तिप्रकारिकेच्छैव दाधात्वर्थ' इत्यपि न सम्यग्, 'अनलादिभिर्मदीयं वित्तादि नश्यतामित्याद्याकारिकायामिच्छायामतिव्याप्तिपिशाचदुःसञ्चारपुरस्कृतत्वात् । 'गोहिरण्यादीनां स्वकीयानां मूल्यग्रहणं विना शास्त्रोक्तजाती है वह भाषा सत्य नहीं है यह सिद्ध होता है। इस सम्बन्ध में अधिक विचार किया जा सकता है। यह तो एक कुँजीमात्र है ऐसी सूचना देने के लिए विवरणकार ने यहाँ दिग् शब्द का प्रयोग किया है । ।७३ ।।
आज्ञापनी भाषा का संक्षेप से निरूपण पूर्ण हुआ । अब प्रकरणकार क्रमप्राप्त याचनीभाषा का, जो कि असत्यामृषा भाषा का तृतीय भेद है, ७४ वीं गाथा से निरूपण कर रहे हैं।
गाथार्थ :- इच्छित वस्तु की प्रार्थना में तत्पर भाषा याचनी भाषारूप से ज्ञातव्य है । भक्ति से प्रयुक्त यह भाषा विषय के बिना भी गुणयुक्त ७४
* याचनी भाषा - ३/४ *
विवरणार्थ :- अपनी इच्छा के विषयभूत इष्ट पदार्थ की याचना में तत्पर वचन याचनीभाषारूप से ज्ञातव्य है जैसे कि 'मुझे भिक्षा दीजिये' इत्यादि प्रार्थनापरक वचन। यहाँ जो च शब्द है वह समुच्चय यानी अन्य पदार्थ के संग्रह के लिए प्रयुक्त है। वही आगे बताया जाता है।
१ सा याचनी च ज्ञेया यदीप्सितप्रार्थनापरं वचनम् । भक्तिप्रयुक्तैषा विनाऽपि विषयं गुणोपेता । ।७४ ।।