________________
२४४ भाषारहस्यप्रकरणे - स्त.४. गा. ७२
० असत्यामृषाभाषालक्षणप्रदर्शनम् ० भणिता। तथाहि-आमन्त्रणी १, आज्ञापनी २, याचनी ३, पृच्छनी ४, प्रज्ञापनी ५, प्रत्याख्यानी ६, इच्छानुलोमा ७, अनभिगृहीता ८, अभिगृहीता ९, संशयकरणी १०, व्याकृता ११, अव्याकृता १२ चेति ।।६९-७०-७१।। तत्रादावामन्त्रणीमेवाऽऽह। 'संबोहणजुत्ता जा, अवहाणं होइ जं च सोऊणं| आमंतणी य एसा, पण्णत्ता तत्तदंसीहिं।।७२।।
या संबोधनैः = हे-अये-भोप्रभृतिपदैः युक्ता = सम्बद्धा यां च श्रुत्वा अवधानं = श्रोतृणां श्रवणाभिमुख्यं, सम्बोधनमात्रेणोपरमे 'किं मामामन्त्रयसी'ति प्रश्नहेतुजिज्ञासाफलकं भवति एषा तत्त्वदर्शिभिरामन्त्रणी प्रज्ञप्ता। तदेवमत्र 'सम्बोधनपदघटिता' इत्येकं लक्षणं 'श्रवणाभिमुख्यप्रयोजकभाषात्वं' चापरं लक्षणं द्रष्टव्यम्।
लक्षणान्तरमिति। ननु भाषात्रयविलक्षणभाषात्वाऽनाराधकविराधकत्वयोरनर्थान्तरत्वमेव। न हि सत्यत्वादितोऽतिरिक्तमाराधकत्वादिकं भवति। तेन लक्षणान्तरकथनं न युक्तम् अन्यथा पर्यायवाचकशब्दान्तरोपादानेऽपि लक्षणान्तरत्वं प्रसज्यते। अहो! अपूर्वप्रेक्षाकारिता देवानांप्रियस्य । अवधारणैकभावेन तद्वति तद्वचनत्वरूपसत्यात्वस्य असद्भूतप्रतिषेधत्वादिरूपाऽऽराधकत्वतः तदभाववति तद्वचनत्वरूपस्याऽसत्यत्वस्य च सद्भूतप्रतिषेधत्वादिरूपविराधकत्वतो विलक्षणत्वं पूर्वमुक्तं किं विस्मर्यते? उपधेयसाङ्कर्येऽप्युपाध्यसाङ्कर्यादिति विवेचिततरं चैतत्प्रागिति नेह प्रतन्यते।।६९-७०-७१।।
सम्बोधनैरिति। ननु भाषा कथं सम्बोधनैर्युक्ता भवितुमर्हति? सम्बोधनस्य तु अनभिमुखस्याऽन्यत्राऽऽसक्तस्य वाऽभिमुखीकरणरूपत्वात् यद्वाऽभिमुखीकृत्याऽज्ञातार्थज्ञापनानुकूलव्यापारानुकूलव्यापाररूपत्वादित्यत आह हे-अयेभोप्रभृतिपदैरिति। नामनिक्षेपरूपं सम्बोधनमत्राभिप्रेतं न तु भावनिक्षेपरूपमिति तात्पर्यम्। श्रोतृणामिति। प्रकृते सम्बोध्यानामित्यर्थः। सम्बोध्यत्वं च वक्तृव्यापारजन्य-प्रश्नविशेषहेतुजिज्ञासाऽनुकूलव्यापाराश्रयत्वम् । एतेन तद्व्यापारजन्यज्ञानानुकूलव्यापाराश्रयत्वं सम्बोध्यत्वमिति परोक्तं परास्तम् अतिप्रसक्तत्वात्। सम्बोधनपदघटितेति। स्वरूपलक्षणमेतत्। हेतुमुखेन लक्षणान्तरमाह श्रवणेति। श्रवणाभिमुख्यप्रवर्तकभाषात्वमित्यर्थः। हेतुत्रयमिति। फलस्वरूप-हेतुभेदेन त्रैविध्यमत्र यथाक्रममवगन्तव्यम्।
उक्तमिति। श्रीदशवैकालिकवृत्तौ हरिभद्रसूरिभिरिति गम्यम्। अप्रवर्तकत्वादिति प्रवृत्तिजनकत्वाभावादिति। ननु प्रज्ञापनावृत्तौ प्रकृते 'केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्यामृषा (प्र.प. ११/सू.१६५-म.वृ.) इत्युक्तं भवद्भिस्त्वप्रवर्तकत्वमुच्यत इति कथं न विरोधः? इत्याशङ्कां मनसिकृत्याऽऽह प्रवृत्तिपदेन सत्यादिजन्यप्रवृत्तिविशेषो ग्राह्य इति। व्यवहारमात्रप्रवर्तकत्वेऽपि सत्यादिजन्यप्रवृत्तिविशेषजनकत्वाभावान्न दोषः। एतेन प्रवर्तकत्वाभ्युपगमेऽस्याः श्रवणाभिमुख्यप्रयोजकभाषात्वलक्षणासत्त्वेनाऽसत्यामृषात्वमेव विलीयेतेति कुचोद्यं निरस्तम् विशेषनिषेधेऽपि सामान्यप्रवृत्तौ विरोधाभावात्। न हि नीलघटनिषेधे कृते घटसामान्यसत्त्वे विरोधं प्रतियन्ति विद्वांसः | प्रकृतलक्षणमेवेति । प्रथमं तु न पारिभाषिकं लक्षणमिति ध्येयम् ।
* आमंत्रणी असत्यमृषा भावभाषा १/४ * विवरणार्थ :- संबोधनयुक्त भाषा आमन्त्रणी भाषा है ऐसा जो कहा गया है इसमें संबोधन का अर्थ है - हे, ओ, भो इत्यादि शब्द । संस्कृतभाषा में ये शब्द संबोधनवाचक कहे जाते हैं। यदि वक्ता 'हे देवदत्त!' इतना सम्बोधन कर के ही आगे कुछ न बोले, तब श्रोता को तुरंत ही अवधान-श्रवणाभिमुखता होती है जिससे 'यह मुझे क्यों आमंत्रण देता है = पुकारता है?' इस प्रश्न की हेतुभूत जिज्ञासा उत्पन्न होती है। यहाँ अवधान शब्द से ऐसा अर्थ अभिप्रेत है। प्रदर्शित अवधान-श्रवणाभिमुखता का जनक होने से इस भाषा को आमन्त्रणी भाषा कहते हैं। उपर्युक्त विवेचन से यह सिद्ध होता है कि सम्बोधनपदघटित भाषा यह आमन्त्रणीभाषा का प्रथम लक्षण है और दूसरा लक्षण यह है कि श्रवणाभिमुखताप्रयोजक भाषात्व।
१ संबोधनयुक्ता याऽवधानं भवति यां च श्रुत्वा । आमंत्रणी चैषा प्रज्ञप्ता तत्त्वदर्शिभिः । ७२ ।।