________________
* उदयन-पन्नगाचार्य-शङ्कराचार्यमतसमीक्षा *
१५३ शुक्लघटे रूपान्तराप्रत्यक्षत्वं चोत्कटरूपत्वेन योग्यत्वात् परेणाऽप्युद्भूतरूपस्यैव तथात्वोपगमात् । न चावयवगताऽनुत्कटरूपएतेन आत्मतत्त्वविवेके "नीलत्वादिवच्चित्रत्वमपि जातिविशेष एव स चावयववृत्तिविजातीयरूपसमाहाराभिव्यङ्गयत्वान्नैकरूपावयवसहितस्यावयविन उपलम्भेऽप्युपलभ्यते" (आ.त.वि.पृ.२७४) इति वदन्नुदयनोऽपि निरस्तः अतिरिक्तचित्ररूपवृत्तिरूपत्वव्याप्यचित्रत्वजातिकल्पनाया अन्याय्यत्वात् 'तद्धेतोरेवास्तु किं तेने'ति न्यायेनावयववृत्तिविजातीयरूपसमाहारेण चित्रत्वग्रहः ततः चित्रव्यवहार इति कल्पनापेक्षया तादृशरूपसमाहारेणैव चित्रव्यवहारस्य न्याय्यत्वात, अन्यथा 'चित्ररसा हरितकी, चित्रगन्धः कर्दमः, चित्रस्पर्शः पट' इत्यादिप्रतीतेः चित्ररसादयोऽपि सिध्येयुः। न चेष्टापत्तिरिति वाच्यम् अपसिद्धान्तनिग्रहस्थानप्राप्तेः। ।
अत एव पाकजापाकजस्पर्शवदवयवारब्धघटेऽन्यतरस्पर्शनियामकाभावाच्चित्रस्पर्शोऽस्तीति पन्नगाचार्यवचनमपि प्रत्युक्तम् अतिरिक्तस्पर्शस्वीकारे 'इह देशे मृदुस्पर्शः कर्कशस्पर्शोऽन्यदेश' इति प्रतीत्यपलापप्रसङ्गात्। न चकत्र कथं व्याप्यवृत्तित्वम् तदभावश्च विरोधादिति वाच्यम् व्यक्तिभेदात्। न हि यदेव व्याप्यवृत्ति तदेवाऽव्याप्यवृत्ति किन्तु तज्जातीयम् । न च व्याप्यवृत्तिनिष्ठधर्मस्य कथमव्याप्यवृत्तिवृत्तित्वमिति वाच्यम् अभावत्वस्य व्याप्यवृत्तिघटात्यन्ताभाववृत्तित्वेऽप्यव्याप्यवृत्तिसंयोगाभाववृत्तित्वात् । न च व्याप्यवृत्तिनिष्ठजातौ नियमः अभावत्वं तु न जातिरिति वाच्यम्, गुणत्वस्य व्याप्यवृत्तिसंख्यादिवृत्तित्वेऽपि अव्याप्यवृत्तिसंयोग-शब्दादिवृत्तित्ववत् रूपवृत्तिरूपत्वस्याऽप्यव्याप्यवृत्तिनिष्ठतयाऽङ्गीकारे बाधकाभावात् अन्यथाऽर्धजरतीयप्रसङ्गात् इति विभाव्यतां प्रतिभोन्नीतोऽयं पन्थाः।
यत्तु शङ्कराचार्येण- "न किस्मिन् धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः सम्भवति शीतोष्णवत्" (ब. सू. शा. भा. २/२/३३-पृ.७४७) इत्युक्तं, तन्न द्रष्टान्तस्यासिद्धत्वात् अग्नौ शीतोष्णस्पर्शयोः प्रमाणसिद्धत्वात् । न चाग्नौ शीतस्पर्शस्य बाध इति वाच्यम् प्रमाणेन साधनात् तथाहि शीतो वह्निर्दाहकत्वाद् हिमवत्; निर्दोषाणां कुशीचाटनफालग्रहणादिदिव्यं कुर्वतामनुस्मृतमन्त्राणां च हुताशने शीतत्वप्रतीतिः समस्त्येव यद् दोषवतां स्फोटकादिकमुपलभ्यते तदपुण्यानुभावेन सजायते न पुनर्वह्नरौष्ण्यात् । न चोष्णत्वं स्फोटकोत्पत्तिकारणम् भिल्लातकराजिकादिसम्पर्केऽपि स्फोटकोत्पत्त्युपलम्भेन व्यभिचारात् । न च तेषामुष्णत्वमस्ति तन्न स्फोटकोत्पादकत्वेन वर्षोंरुष्णत्वं कल्पनीयम् । एतेन वह्निरुष्णो दाहकत्वाद् भास्करबिम्बवदित्यपास्तम् हेतोविरुद्धत्वात् द्रष्टान्तस्य साध्यविकलत्वाच्च । कथम्? भास्करबिम्बं शीतमातपनामकर्मोदयवत्त्वादित्यनेन गृहाण। न च वह्नः शीतत्वोपगमेऽपसिद्धान्तः बादरस्कन्धानामष्टस्पर्शवत्त्वस्य व्याख्याप्रज्ञप्त्यादौ प्रतिपादितत्वादित्यधिकं त्वग्निशीतत्वस्थापनवादेऽनुसन्धेयम्। मत्कृतवादमालायामिति। एतत्प्रकरणकारविरचितवादमालायां चित्ररूपवादे। एतदुपलक्षणं नयोपदेश-स्याद्वादरहस्य-कल्पलतादीनामिति ध्येयम्।
ननु शुक्लघटारम्भकपरमाणूनामेव नीलघटाद्यारम्भकत्वेनैकत्रैव शुक्लघटे पञ्च रूपाणि स्वीक्रियन्ते तदा शुक्लघटे शक्लरूपमिव नीलादिरूपाणि कथं न दश्यन्ते? चाक्षषसामग्र्यविशेषादित्याशङकायामाह- शक्लघट इति । उत्कटरूपत्वेन योग्यत्वादिति। अयं भावः नास्माभी रूपमात्रं प्रत्यक्षगोचरमित्यभ्युपगम्यते किन्तु योग्यरूपम्। रूपे विस्तार ग्रंथकार ने वादमाला में किया है। जिज्ञासुवर्ग उस ग्रंथ से अधिक जानकारी पा सकते हैं। __शंका :- यदि आपके सिद्धांत के अनुसार शुक्ल घट में शुक्लेतर रूप भी अवश्य है तब शुक्लरूप की तरह शुक्लेतर रूप का प्रत्यक्ष क्यों नहीं होता है? चक्षु आदि प्रत्यक्ष की सामग्री तो विद्यमान ही है।
* योग्यरूप का ही प्रत्यक्ष होता है * स्याद्वादी :- शुक्लघटे. इति। 'शुक्लघट में शुक्लेतर रूप न होने से उनका प्रत्यक्ष नहीं होता है। ऐसा नहीं है, मगर शुक्लेतर