________________
* स्थानाङ्गवचनविरोधपरिहार: *
२१७ 'सब्भावस्स णिसेहोऽसब्भूयुब्भावणं च अत्थम्मि। अत्यंतरं च गरहा, इय चउहा वा मुसा भासा।।५४।।
सद्भावस्य निषेधः = धर्मिमात्रे नास्तिप्रतिपादनम्, यथा-नास्ति जीवः, नास्ति पुण्यं, नास्ति पापमित्यादि १। असद्भूतोद्भावनम् = अभ्युपगते धर्मिणि विरुद्धधर्मप्रतिपादनम् । धर्म्यभ्युपगमदर्शनायैवार्थ इति पदम् । यथा - 'अस्ति जीवः परं अणुपरिमाणो व्यापको प्रसिद्धत्वेनाऽविरोधात्। एवकारेण चान्यथा तथाविधव्यवहारानुपपत्तिः प्रदर्शिता। एतेन विभाज्यवृत्तिविभाजकोपाध्यवच्छिन्नप्रतियोगिताकभेदकूटरूपो न्यूनतादोषस्तथा पूर्वोक्तलक्षण आधिक्यदोषोऽपि निरस्तः परापरभेदभिन्नसङ्ग्रहनयस्यातिविस्तरेणाऽपरिमितभेदग्राहिनयस्य च स्व-स्व-विषयापेक्षया सत्यत्वेऽपि तदभिमतातिसंक्षिप्तविस्तृतविभागयोः तथाविधव्यवहारानुपपादकत्वेन तत्प्रदर्शनं नातिप्रयोजनमिति पर्यालोचयामि। तत्त्वं तु बहुश्रुता विदन्ति ।।५३।।
अभ्युपगत इति। ननु धर्म्यभ्युपगमः कुतो गम्यत इत्यत आह - धर्म्यभ्युपगमदर्शनायैवेति धर्म्यभ्युपगमं विनाऽसद्भूतोद्भावनस्य दुःशक्यत्वात्। क्वचिच्चैवमेवाऽसद्भूतधर्म्युद्भावनमपि सम्भवति यतोऽस्ति वन्ध्यापुत्र इत्यादिवचने तथापि प्रायोवृत्त्या तथाप्रयोगाभावेन न तद्विवक्षा यद्वाऽसद्भूतपदेन यथासम्भवतादृशधर्मधर्म्युभयग्रहणमिति न दोष इति भावनीयम्। व्यापक इति सर्वव्यापीत्यर्थः। अत्र जीवं धर्मिणमभ्युपगम्य तत्राणुपरिमाणत्वं विभुत्वं वा विरुद्धधर्म उद्भाव्यते । ततोऽसद्भूतोद्भावनरूपमसत्यत्वमत्र सिध्यति ।
नन्वस्य धयंशे सत्यत्वात धर्मांशे चाऽसत्यत्वात, सत्यामृषात्वमेव युक्तं न त्वसत्यत्वमेव । तदुक्तं स्थानागवृत्तावपि 'तृतीयं सत्यमृषा = तदुभयस्वभावं 'आत्माऽस्त्यकर्तेत्यादिवदिति (स्था. ४/१/२३८ वृत्ति) धर्म्यशे सत्यत्वं धर्माशे चासत्यत्वमादायैवात्र मिश्रत्वस्योपपत्तेरिति चेत? मैवम. धर्मांशापेक्षयैव प्रमाशाब्दबोधजनकत्वाद्यभिप्रायेण भाषायां
भिमतं न त धयंशापेक्षया. सर्वं ज्ञानं धर्मिण्यभ्रान्तमिति वचनात, एतच्च विवरणकारोऽग्रे स्फुटीकरिष्यति। ततश्च धर्मांशेऽप्रमाशाब्दबोधजनकत्वेनाऽसद्भूतोद्भावनवचनेऽसत्यत्वमेवेति स्थितम् ।
ननु तर्हि स्थानाङ्गवृत्तिवचनोपपत्तिः कथं स्यादिति चेत्? अत्राऽस्माकं नव्यन्यायविद्याप्रदाः तर्करत्नपदविभूषिता जयसुन्दरविजयमुनीन्द्रा व्याचक्षते "आत्माऽस्त्यकर्तेति स्थानाङ्गवृत्तिवचनमात्मत्वावच्छेदेनाकर्तृत्वबोधजननतात्पर्येण मिश्रत्वप्रतिपादनपरतया व्यवहारनयमतेन सङ्गच्छते मुक्तात्मस्वकर्तृत्वसत्त्वेऽपि संसारिषु बाधात्, आत्मत्वसामानाधिकरण्येनाऽकर्तृत्वबोधजननतात्पर्ये त्विदं सत्येऽन्तर्भवति। 'अस्ति जीवः परमाणुपरिमाणो व्यापको वेति त्वात्मत्वावच्छेदेनाऽणुपरिमाणत्वस्य व्यापकत्वस्य वा बोधकत्वेनाऽसत्यमेव न तु मिश्रम्, आत्मत्वसामानाधिकरण्येनाऽप्यणुपरिमाणत्वादेर्बाधात् आत्मनः शरीरप्रमाणत्वात्, सर्वदैवाऽसङ्ख्येयाकाशप्रदेशावगाहित्वाद्वा। एतेन केवलिसमुद्धातदशायामात्मत्वसामानाधिकरण्येन व्यापकत्वस्य सत्त्वेन मिश्रवचनत्वप्रसङ्गोऽपास्ता, लोकालोकव्यापिनि गगन एव मुख्यसर्वव्यापित्वस्यऽभ्युपगमादिति ।"
असद्भूत. इति । मृषाभाषा का दूसरा भेद है असद्भूत का उद्भावन । अर्थात् स्वीकृत धर्मी में विरुद्ध धर्म का प्रतिपादन । यहाँ मूलग्रंथस्थ गाथा के पूर्वार्द्ध में जो 'अत्थम्मि' पद है, जिसकी संस्कृत छाया 'अर्थे' इस तरह होती है, इसका निवेश वक्ता को धर्मी का स्वीकार अभिमत है इस बात की सूचना देने के लिए है। इसका कारण यह है कि धर्मी के स्वीकार के बिना असद्भूत धर्म का प्रतिपादन व्यवहार में नहीं होता है। इसका उदाहरण यह है कि - 'आत्मा है, मगर वह अणुपरिमाणवाली है या व्यापक = विभु है' - इत्यादि वचन । आत्मारूप धर्मी का स्वीकार कर के उसके परिमाण के विरुद्ध अणुपरिमाण या विभुपरिमाणरूप धर्म का प्रतिपादन करने से यह वचन असद्भूतोद्भावनरूप मृषाभाषा है। आत्मा शरीरपरिमाणवाली है - शरीरव्यापी है। अतः अणुपरिमाण या विभुपरिमाण आत्मारूप धर्मी के विरुद्ध है।
१. सद्भावस्य निषेधोऽसद्भूतोद्भावनं चार्थे । अर्थान्तरं च गर्दा इति चतुर्धा वा मृषा भाषा।।५४।।