________________
२१० भाषारहस्यप्रकरणे - स्त.२. गा. ५०
० भारतरामायणाऽसम्बद्धवचनोल्लेखः० नृपगृहीतश्चौरो नरो 'नाहं चौर' इति भणति ८ ।।४९ ।। उक्ता भयनिःसृता। अथाख्यायिकानिःसृतामाह 'जा कूडकहाकेली, अक्खाइअणिस्सिया हवे एसा। जह भारहरामायणसत्थेऽसंबद्धवयणाणि ।।५०।। या कूटकथाकेलिरेषाऽऽख्यायिकानिःसृता भवेत्, यथा भारतरामायणशास्त्रेऽसम्बद्धवचनानि। वेदादौ विध्यादिवचनानि तु
भयवशेनेति। तृतीयार्थः कर्तृत्व-करणत्व-ज्ञानज्ञाप्यत्व-साहित्य-प्रतियोगित्व-निरूपितत्व-निष्ठत्व-समवेतत्वसमानकालीनत्व-प्रयोज्यत्वावच्छिन्नत्वाऽभिन्नत्वादिः। प्रकृते च प्रयोज्यत्वम्। ततश्च भयनोकषायप्रयुक्तविपरीतार्थप्रज्ञापनी भाषा भयनिःसृतेति फलितम्। विपरीतेति पदं च परिचायकं न तु व्यावर्तकम् । तेन व्याधादिपृष्टस्य ताडनादिभयेन मृगादिगमनसत्यदिग्भाषणे द्रव्यतः सत्यत्वेऽपि भावतोऽसत्यत्वमेवेति ध्वनितम्। नाहं चौर इति । इदमप्युपलक्षणं, तेन स्वापराधाऽस्वीकारनिमित्तकातिताडनादिभयेन स्वापराधस्वीकारे द्रव्यतः सत्यत्वेऽपि भावतोऽसत्यत्वमेव, स्वापराधाऽऽच्छादनेच्छायाः सत्त्वेन यथार्थतात्पर्यविरहादिति पर्यालोचनीयम् । __भारतरामायणेति। लौकिकभारतरामायणेति। भीमहनुमन्मीलनवृक्षालिंगननिमित्तकसत्यवतीपुत्रव्यासजन्मादिप्रतिपादकानि भारतेऽसम्बद्धवचनानि। रामायणे च हनुमत्पूच्छ-हनुमत्सूर्यगिलन-भूमिस्थकुम्भाधिकरणकसीताजन्मसुपर्णानाशिकाच्छेदन-स्वर्णमृगानयनोद्देश्यकानुधावनादिकं तथा रामस्य पूर्णादपूर्णीभवनं सीताया लक्ष्मणं प्रति कर्कशोपालम्भदानं तथा 'युद्धादिकं स्वकीर्त्याद्यर्थं कृतं न तु त्वदर्थं, षण्मासपर्यन्तरावणगृहे आवासात् त्वच्छीलशङ्का मम मनसि वर्तते' इत्यादि रामस्य सीतां प्रति वचनमित्यादीनि स्वकपोलकल्पितवचनानि कियच्छक्यन्ते प्रदर्शयितुम् ।
इदं चोपलक्षणं ब्रह्मणो लूनशिरस्कत्वस्य, महादेवस्याऽनन्तशिष्नत्वस्य, शक्रस्य सहस्रयोनित्वस्य, विष्णोः सरुग्दृष्टित्वस्य, अरणिपतिताद्व्यासवीर्याच्छुकदेवजन्मनः, अश्वीभूतसूर्यादश्विन्युत्पादस्य च प्रतिपादकानां पुराणादिवचनानाम्।
ननु तर्हि वेदविधिवचनानि कुत्राऽन्तर्भवन्तीत्याशङ्कायामाह वेदादाविति । आदिशब्देन मनुवसिष्टस्मृत्यादेर्ग्रहणम् । विध्यादिवचनानीति। विध्यादिप्रतिपादकवचनानि 'श्वेतं वायव्यमजमालभेत भूतिकामः' (श. प. ब्रा.) इत्यादीनि ।
सन्दर्भ से अभिप्रेत है। अतः 'यां' का अर्थ होगा 'यां भाषां' अर्थात् पुरुष जिस भाषा को जिसका अर्थ असत यानी काल्पनिक = बाधित होता है, भय के कारण विपरीत बोलता है वह भाषा भयनिःसृत भाषा है। जैसे राजा से पकडे गये चोर का यह वचन कि - 'मैं चोर नहीं हूँ' - भय से प्रयुक्त होने से भयनिःसृत मृषावचन स्वरूप है।।४९।।
भयनिःसृत भाषा का निरूपण हुआ। अब आख्यायिका भाषा का, जो कि असत्य भाषा के ९ वें भेदरूप है, ५०वीं गाथा से प्रकरणकार निरूपण करते हैं।
गाथार्थ :- झूठी कथा कहने की जो क्रीडा आदत है वह आख्यायिकानिःसृत भाषा है, जैसे कि भारत-रामायण आदि शास्त्र में ग्रथित अयुक्तवचन ।५०।
* आख्यायिकानिःसृत मृषाभाषा * विवरणार्थ :- आख्यायिका का अर्थ है कथा । क्रीडा से या व्यसन से ही जो गलत कहानी कही जाती है, अनबनी घटनाओं का जो कथन किया जाता है वह आख्यायिकानिःसृत यानी आख्यायिका से उत्पन्न मृषाभाषा है। आशय यह है कि कोई भी घटना, प्रसङ्ग, कथा जब कही जाती है तब उसमें जो वचन मिथ्या होते हैं वे आख्ययिकानिःसृत मृषाभाषारूप होते हैं। महाभारत,
१ या कूटकथाकेलिराख्यायिकानिःसृता भवेदेषा । यथा भारत-रामायणशास्त्रेऽसम्बद्धवचनानि।।५०।। २ यदुपघातपरिणतो भाषते वचनमलीकमिह जीवः। उपघातनिःसृता सा यथाऽचौरेऽपि चौर इति ।।१।। ३ भागवत, ३B मार्कंडेयपुराण-अध्या. ७५ पत्र १९९