________________
१५९
* नृसिंहमतनिकन्दनम् * वस्तुद्वयात्मकसम्बन्धस्यैकतराऽभावेऽभावात् कुत्रोपचार?'
यदि च विशेषणविरहेऽप्यर्थान्तररूपः सम्बन्धोऽस्तीत्युपेयते तदा "इदानी छत्री'ति व्यवहारः स्यात्, "इदानीं न छत्री'ति च न
वस्तुद्वयात्मकसम्बन्धस्य = प्रतियोग्यनुयोग्युभयात्मकसंसर्गस्य, एतेन सम्बन्धिभिन्नत्वे सति सम्बन्ध्याश्रितत्वे सत्येकः सम्बन्ध इत्यपास्तम, स्वरूप-तादात्म्य-संयोगादावव्याप्तेः। यदपि "तदबुद्धिनिरूपितप्रकारत्वविशेष्यत्वसामान्यभिन्नतबुद्धिनिरूपितविषयतावत्त्वे सति तबुद्धिनिरूपितप्रकारत्व-विशेष्यत्वान्यतरवद्भिन्नत्वं संसर्गत्वमिति" (मुक्ता. प्र. पृ. १३२) मुक्तावलीप्रभाकारेण नृसिंहशास्त्रिणोक्तं तन्मन्दम्, तादृशाऽनित्यबुद्ध्यभावे सत्यव्याप्तिवारणार्थं नित्यज्ञानव्यक्तित्वावच्छिन्ननिरूपितप्रकारत्वादिघटितलक्षणपर्यन्तानुधावनस्याऽप्रामाणिकगौरवेणाऽन्याय्यत्वात् व्यवहारानुपयोगित्वाच्चेति दिग्।
एकतराभावेऽभावात = प्रतियोग्यनयोग्यन्यतराभावेऽप्युभयात्मकसंसर्गस्याऽसत्त्वादित्यर्थः। कुत्रोपचार? न क्वापीत्यर्थः । अयं भावः छत्र-पुरुषान्यतराभावे उभयाभावे वा सम्बन्धस्योभयात्मकत्वेन वर्तमानकालीनछत्रसम्बन्ध एव नास्ति तदा कुत्र चैत्रादौ 'छत्री'त्यादिपदोपचारः सङ्गच्छेत? निमित्ते सति [पचारः प्रवर्तते, न त्वेवमेव । अस्मन्मते चातीतकालीनछत्रसंसर्गश्चैत्रादौ छत्राभावदशायामपि वर्तते अतीतकालावच्छेदेन चैत्र एव छत्रसंसर्गस्य सत्त्वात् काले देशस्येव देशे कालस्याऽप्यवच्छेदकत्वात् । न चैवमुपचारो न स्यात् मुख्यार्थेनैव तादृक्प्रयोगनिर्वाहादिति वाच्यम्, अतीतकालावच्छेदेन चैत्रे तत्सत्त्वेऽपि वर्तमानकालावच्छेदेन तदभावस्य सत्त्वेनोपचारस्य न्याय्यत्वात्। न चैवं प्रतियोगिमतोरपि कालदेशयोर्देशकालभेदावच्छेदेन तदभाववत्त्वात् साम्प्रतं सत्यपि छत्रे चैत्रे तदुपचारप्रसङ्ग इति वाच्यम् वर्तमानकालावच्छिन्नात्यन्ताभावाऽप्रतियोगिप्रतियोगिकोपचारस्यानुभवविरोधित्वेनानभ्युपगमात् । ततो छत्राभावदशायामपि चैत्रादावुपचारेण 'चैत्रः छत्री'त्यादिः व्यवहारः सुष्ठु घटामञ्चति। तदुक्तं श्रीमलयगिरिचरणैः "योगः सम्बन्धः, तस्मात् सत्या योगसत्या । तत्र छत्रयोगात् विवक्षितशब्दप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य सम्भवात् छत्री" (प्र. भा. प. सू. १६५ मल. वृ.) इति प्रज्ञापनावृत्तौ। एतेन दण्डाभावदशायां 'दण्डी'ति प्रयोगोऽसत्य एव तदभाववति तत्प्रकारक-बोधजनकत्वादिति निरस्तम्, व्यवहारनयस्य प्रकान्तत्वात्, तथैव लोकव्यवहारात् । किञ्च शब्दस्य तात्पर्ये प्रमाणत्वम्, अन्यथा लक्षणोच्छेदप्रसङ्गात्, लोकव्यवहारस्यैव तादृशप्रयोगनियामकत्वेनाऽनतिप्रसङ्गाच्चेति विभावनीयम्।
नैयायिकमतं प्रतिक्षिपन् विपक्षे बाधमाह - यदि चेति। विशेषणविरहेऽपीति। अपिना विशेष्यविरहोभयविरहयोरनुक्तयोः समुच्चयः। अस्तीत्युपेयत इति विशेषणविरहविशिष्टकालावच्छेदेनाऽस्तीत्यभ्युपगम्यत इत्यर्थः। "इदानीं छत्रीति व्यवहार: स्यात् । अत्र मुद्रितप्रतौ- 'इदानीं न छत्रीति च तत्र स्यादि'त्यतीवाऽशुद्धः पाठो वर्त्तते । एतत्प्रकरणकृद्धस्तलिखितप्रतौ च 'इदानी छत्रीति व्यवहारः स्यात्, इदानीं न छत्रीति च न स्यादि ति सम्यक् पाठः । वस्तुस्थिति यह है कि वर्तमान में छत्रादि न होने पर भी भूतकालीन छत्रादिसम्बन्ध के निमित्त से 'चैत्रः छत्री' इत्यादि शब्दप्रयोग होता है। अतः भूतकालीन सम्बन्ध को ही उपचार लक्षणा का बीज मानना और जिसमें भूतकालीन दंडादि सम्बन्ध हो उसमें लक्षणा से प्रवर्त्तमान पद से घटित भाषा को ही योगसत्य भाषा मानना युक्तिसंगत प्रतीत होता है।
* विशेषण के अभाव में वर्तमान सम्बन्ध के स्वीकार में दोष * यदि च. इति। विवरणकार ने पूर्व में बताया कि सम्बन्ध विशेषण-विशेष्य उभयस्वरूप ही है, अतिरिक्त नहीं है। फिर भी यदि कोई सम्बन्ध को विशेषण-विशेष्य से अतिरिक्त माने तो उसको शिक्षा देते हुए कहते हैं कि- "यदि विशेष्य में विशेषण का अभाव होने पर भी धर्म और धर्मी से भिन्न सम्बन्ध रहता है, यह माना जाए तब तो 'चैत्र इदानी छत्री' अर्थात् 'चैत्रादि वर्तमान में
१ 'कुत्रोपचारः? न' इत्येवं मुद्रितप्रतावशुद्धः पाठो वर्त्तते ।