________________
* कुवादिनां प्रतिवचनग्राह्यतोपदर्शनम *
१८९ अध्या. ८) इति वचनान्तरोपन्यासेन परिहारः। द्रव्यानुयोगे तु कश्चिद्वदेत् - यस्य वादिनोऽन्यो जीवोऽन्यच्च शरीरमिति, तस्याऽन्यशब्दस्याऽविशिष्टत्वात्तयोरपि तद्वाच्यतयाऽविशेषादेकत्वप्रसङ्ग इति - तं प्रत्येवं तदन्यवस्तूपन्यासो विधेयः, 'हन्त! एवं परमाणु-द्व्यणुक-घट-पटादीनामेकत्वप्रसङ्गः, अन्यशब्दवाच्यत्वाऽविशेषात्, तस्माज्जीवशरीरयोरन्यत्वाभिधानं शोभनमेवेति ।२।
वचनान्तरोपन्यासेनेति। विपरीतवचनोपन्यासेनेति । इदं चोपलक्षणम् 'अस्थिन वसति रुद्रश्च, मांसे वसति जनार्दनः । शुक्रे वसति ब्रह्मा च, तस्मान्मांसं न भक्षयेत् ।।' [ ]इत्यादेः । तथा - अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च। तस्मात्पुत्रमुखं दृष्ट्वा स्वर्ग गच्छन्ति मानवाः ।।' [ ] इत्यत्र कुग्रहे-' अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् । स्वग गतानि राजेन्द्र! अकृत्वा कुलसन्ततिम्' ।। [ ] इति वचनान्तरोपन्यासः कार्यः। एवम् 'मुनाम्नो नरकाद्यस्मात्, त्रायते पितरं सुतः । तस्मात्पुत्र इति प्रोक्तः, स्वयमेव स्वयंभुवा ।। [ ] इत्यत्र कदाग्रहे - "कोऽर्थः पुत्रेण जातेन यो न विद्वान्न च धार्मिकः।" [ ] इत्याद्यन्यशास्त्रवचनोपन्यासः कार्यः ।
तस्य = वादिनः, अविशिष्टत्वात् = अभिन्नत्वात्, तयोः = जीवशरीरयोः, तद्वाच्यतया = अन्यशब्दवाच्यत्वेन रूपेण, अविशेषात = अभिन्नत्वात, वाचकाभेदे वाच्याभेदो वाचकभेदस्य वाच्यभेदव्यापकत्वेन व्यापकाभावादव्याप्याभावसिद्धिरिति परस्याशयः। तदन्यवस्तूपन्यासः = जीवशरीरापेक्षयाऽन्यवस्तूपन्यासः। हन्त इति। हन्तशब्दोऽत्र शोचने, तदुक्तं हलायुधकोशे - 'शोचने सम्प्रहर्षे च हन्तशब्दः प्रयुज्यते। (हला. को. ५/८७६) अन्यशब्द वाच्यत्वाऽविशेषादिति।' अन्यः परमाणुरन्यो द्व्यणुकः, अन्यो घटोऽन्यः पट' इत्यादिना प्रकारेण तेषामन्यशब्दवाच्यत्वस्याऽविशिष्टत्वेनाऽभेदप्रसङ्गः । न च तेषामनन्यत्वमस्तीति।
एतेन ययोः समानशब्दवाच्यत्वं तयोरैक्यमित्यपास्तम्। परमाणु-द्व्यणुकयोः समानशब्दवाच्यत्वस्य सत्त्वेऽपि तादात्म्यस्याऽसत्त्वेन व्यभिचारात्। अतीन्द्रियवस्त्वस्वीकारे प्रत्यक्षवस्तुनि व्यभिचारदर्शनार्थं 'घट-पटादी'त्यादिना द्वितीयव्यभिचारस्थानं प्रदर्शितम्। किञ्चैवं सति हर्याद्यनेकार्थकशब्दानामुच्छेदप्रसङ्गोऽपि दुर्निवार इत्यादिकं भावनीयम।
अह न हु तं इति । अन्यत्र सर्वत्र - 'अह न सुयं' इति प्रयोगः । स्पष्टार्थमुदाहरणमत्र स्थानाङ्गवृत्ता "प्रतिनिभता चास्य सर्वस्मिन्नप्युक्ते श्रुतपूर्वमेवेदं ममेत्येवमसत्यं वचो ब्रुवाणस्य परस्य निग्रहाय 'तव पिता मम पितु र्धारयति लक्षमि'त्येवंविधस्य द्विपाशरज्जुकल्पस्याऽसत्यस्यैव वचस उपन्यस्तत्वादिति । अस्य चोपपत्तिमात्ररूपस्याऽप्यर्थज्ञाप
* द्रव्यानुयोग में तदन्यवस्तूपन्यास * द्रव्यानु. इति। 'द्रव्यानुयोग के अधिकार में अर्थात् जीवादि द्रव्यों के व्याख्यान के अधिकार में तदन्यवस्तु उपन्यास का उदाहरण बताते हुए विवरणकार कहते हैं कि प्रतिवादी ऐसा कथन करे कि - 'जो वादी जीव और शरीर को भिन्न मानता है उसको 'अन्यो जीवः अन्यत् शरीरम्' इस प्रकार के शाब्द व्यवहार से जीव और शरीर को अभिन्न मानना होगा। जीव और शरीर में प्रवर्तमान अन्यशब्द में कुछ भी विशेषता = भिन्नता नहीं है। अतः एक ही शब्द से वाच्य होने से जीव और शरीर में अन्यशब्द की वाच्यता भी समान ही रहेगी। अतः अन्यशब्दवाच्यता एक होने से जीव और शरीर में भी ऐक्य की सिद्धि होगी। जो एक शब्द से वाच्य होते हैं वे परस्पर अभिन्न होते हैं"। - तब इसके खिलाफ जीव और शरीर से अन्य वस्तु का उपन्यास करना चाहिए कि 'यह तो बडे खेद की बात है, क्योंकि ऐसा मानने पर परमाणु और व्यणुक तथा घट और पट आदि भी परस्पर अभिन्न हो जायेंगे। इसका कारण यह है कि 'अन्यः परमाणुः अन्यः ट्यणुकः' इत्यादि शाब्दव्यवहार से एक ही अन्यशब्द की वाच्यता परमाणु, व्यणुक आदि में सिद्ध होती है। अर्थात् अन्यशब्दवाच्यता उनमें समान होने से वे परस्पर अभिन्न सिद्ध हो जायेंगे। मगर ऐसा नहीं है, क्योंकि परमाणु और ट्यणुक परस्पर भिन्न ही हैं और घट, पट में तो भेद प्रत्यक्षसिद्ध ही है। अतः अन्यशब्दवाच्यता समान होने से जीव और शरीर में अभेद का आपादन करना युक्त नहीं है। अतः जीव और शरीर परस्पर भिन्न हैं - यह कथन युक्तिसंगत ही है। इस तरह तदन्यवस्तु उपन्यास का निरूपण पूर्ण हुआ।