________________
२२ भाषा रहस्यप्रकरणे स्त. १. गा. ३
o न्यायभूषण- लीलावती -चिन्तामणिमुक्तावलीकारप्रभृतिमतनिरासः O पीति दृष्टव्यम् । स्पर्शसङ्ख्यामाश्रित्य च ग्रहणद्रव्याणि प्रतीत्य कानिचिद् द्विस्पर्शवन्ति न त्वेकस्पर्शवन्ति, एकस्यापि परमाणोरवश्यं स्पर्शद्वयसद्भावात्। द्वौ च स्पर्शी मृदुशीतौ मृदूष्णौ वा । कानिचित्त्रिस्पर्शान्यपि । त्रिस्पर्शत्वं कानिचिन्मृदुशीतस्पर्शानि कानिचिन्मृदुमिश्राणां वासितानां च शब्दद्रव्याणां मौलशब्दपरिणामविशेषरूपत्वेन मौलशब्दभेदाभावात् । एतेन 'शब्दो गुणः सामान्यवत्त्वे सति सामान्यवदनाधारत्वात् रूपादिवदिति न्यायभूषणकारोक्तं निरस्तं द्रष्टव्यम्; कंसपात्र्यादिध्वानाभिसम्बन्धेन कर्णाभिघातदर्शनेन सामान्यवत्स्पर्शानाधारत्वाभावाच्च । 'एकः शब्दः द्वौ शब्दौ बहवः शब्दा' इति प्रतीतेरेकत्वादिसङ्ख्यायोगाच्च शब्दो द्रव्यम् । एतेन शब्दोऽम्बरगुण इति प्रशस्तपादभाष्याक्तमपास्तं द्रष्टव्यम्, अल्पत्वादिसम्बन्धादपि शब्दो द्रव्यं 'अल्पः शब्दो महान् शब्द' इति सार्वजनीनानुभवात् ।
यत्तु 'शब्दो गुणो जातिमत्त्वे सति अस्मदादिबाह्याऽचाक्षुषप्रत्यक्षत्वात् गन्धवदिति न्यायलीलावतीकारेणोक्तं तदसत् गुणत्वशून्ये घटादौ जातिमत्त्वे सति अस्मदादिस्पार्शनप्रत्यक्षत्वहेतोर्वर्तमानत्वेन व्यभिचारदोषग्रस्तत्वात् । द्रव्यत्वे सतीति विशेषणे चात्माश्रयप्रसङ्गात् । न च जातिमत्त्वे सति अचाक्षुषत्वे सति अस्मदादिबाह्यप्रत्यक्षत्वादिति विवक्षायां न कोऽपि दोष इति वाच्यम् गुणत्वव्यापकत्वे सति हेतुव्यापकत्वाभावेनाऽप्रतीपयायित्वस्योपाधित्वात् । न च प्रतीपयायिनि वायावस्मदादिबाह्यप्रत्यक्षत्वस्याभावेन न साधनाव्यापकत्वमिति वाच्यम्, "शीतो मन्दो वायुर्वाति" इत्यादिप्रतीतेर्वायुप्रत्यक्षत्वसिद्धेः । न चाऽयं भ्रमः बाधकाभावात् । एतेन वायुः बहिरिन्द्रियाप्रत्यक्षः नीरूपद्रव्यत्वात् आकाशवदिति तत्त्वचिन्तामणिकारोक्तमपास्तं मन्तव्यम् अप्रयोजकत्वात्, साध्याभाववति निदाघोष्मणि हेतोः सत्त्वेन व्यभिचारात्; फूत्कारादौ वाय्वभिघातस्य प्रत्यक्षत्वेन बाधाच्च । एतेन शब्दो गुणः चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात् स्पर्शवत् इति (मुक्ता श्लो. ३४. टीका पृ. ३६४) मुक्तावलीकारक्चनं निरस्तं द्रष्टव्यम्; अनभिभवनीयत्वादेरुपाधित्वात् साध्यव्यापकानभिभवनीयत्वादेः तादृशबहिरिन्द्रियग्राह्यजातिमति वायाववृत्तित्वेन साधनौव्यापकत्वात्। " महता हि शब्देनाऽल्पः शब्दोऽभिभूयत" इति प्रतीतेरनभिभवनीयत्वादेरभावेन गुणत्वाभावसिद्धिः, व्यापकाभावेन व्याप्याभावसिद्धेः । एतेन चक्षुर्ग्रहणायोग्यत्वगिन्द्रियातिरिक्तबहिरिन्द्रियजातिमत्त्वस्य हेतुत्वसम्भवादिति (मुक्ता. मं. पृ. ३६५) नव्यमतं पुरस्कृत्य शब्दगुणत्वप्रतिपादनं मुक्तावलीमञ्जूषाकारेणोक्तं तत्परास्तम् (ग्रन्थाग्रं. ५०० ) अनभिभावुकत्वादेरुपाधित्वाच्च । एतेन तेनैव तत्रैव 'जन्यत्वे सति अनेकद्रव्यसमवेतत्वाभावेन द्रव्यभिन्नत्वसाधनसंभवात्' (मुक्ता. मं. पृ. ३६६) इत्युक्तं तदप्यपास्तम्, विशेष्यासिद्धेश्च ।
यत्तु समवायेन शब्दस्य समवेतसमवायेन शब्दत्वादेः विशेषणतया शब्दाभावस्य ग्रह इति (तत्त्वचि. प्रत्यक्षखण्ड सन्निकर्षवादे) चिन्तामणिकारेणोक्तं तदसत् संयोगेन शब्दग्रहणे बाधाभावात्समवायस्यासिद्धत्वाच्च ।
* शब्द में स्पर्शादि अवश्य है *
-
यहाँ यह शंका हो सकती है कि "यदि भाषापरिणमनयोग्य द्रव्यों में वर्ण-गंध-रस आदि है तो उपलब्ध क्यों नही होते हैं?" - इसका समाधान यह है कि "भाषाद्रव्य अत्यंत सूक्ष्म होने से अतीन्द्रिय है। इंद्रियों की शक्ति स्थूल द्रव्यों को ग्रहण करने की है, सूक्ष्म द्रव्यों और उनके गुणों को ग्रहण करने की नहीं है। लेकिन आगम प्रमाण से शब्द में वर्ण-गंध-रस-स्पर्श मान्य हैं। अनुमान प्रमाण से भी भाषायोग्य द्रव्यों के स्पर्शादि अनुमेय है। देखिये हम जब किसीकी बहुत ऊँची आवाज सुनते है, तब कान में दर्द का अनुभव होता है। बहुत जोर से आवाज सुनने पर किसीके कान के पर्दे भी टूट जाते हैं। यदि शब्द अमूर्त हो, गुण हो, स्पर्शादि शून्य हो तब ऐसा न होता। जैसे आकाश अमूर्त होने के सबब आकाश से उपघात - पीडा का हमें अनुभव नहीं होता है, वैसे यदि शब्द = भाषाद्रव्य भी अमूर्त हो तो उनसे कान में पीडा आदि होने का संभव नहीं है। अतः अनुमान प्रमाण से भी शब्द में मूर्त्तता, स्पर्शादि तथा द्रव्यत्व की सिद्धि होती है। इस बात की सूचना करने के लिए भी विवरणकार ने 'ऊहनीयं' शब्द का प्रयोग किया
है ।
१ दृश्यतां स्याद्वादकल्पलतायां दशमस्तबके १६० तमे पृष्ठे ।