________________
● कीर्तिमतचर्वणम्
१३० भाषारहस्यप्रकरणे स्त. १. गा. २९ सत्त्वाऽसत्त्व-नित्यत्वानित्यत्वभेदादीनामसम्भवात् । पर्यायभाविनश्च द्रव्यस्याऽस्तित्व - नास्तित्वादिशब्दबुद्धिविषयाः परस्परविरुद्धाः। पिण्डत्व-घटत्व-कपालत्वाद्यवस्थावत् युगपन्न सम्भवन्ति । अतो विरुद्ध एव जैनवाद' इत्युक्तं तदपि कफोणिगुडायितम् क्रमभाविनां पर्यायाणामेकदैकत्राऽसत्त्वेऽपि सहभाविनां सत्त्व-द्रव्यत्व-पृथिवीत्वादीना पर्यायाणामेकत्रैकदा सत्त्वस्य प्रत्यक्षसिद्धत्वात्, सत्त्वाऽसत्त्व-नित्यत्वानित्यत्वादीनां सहभाविनां पर्यायाणामपेक्षाभेदेन विरोधपरिहारादेकत्रैकदा वर्त्तमानत्वस्याप्रत्यूहाच्च । तदुक्तं 'राजमार्तंडे भोजदेवेन' यथा सुवर्णं रूचकरूपधर्मपरित्यागेन स्वस्तिकरूप-धर्मान्तरपरिग्रहे सुवर्णतयाऽनुवर्तमानं तेषु धर्मेषु कथंचिदभिन्नेषु धर्मिरूपतया सामान्यात्मना धर्मरूपतया विशेषात्मना स्थितमन्वयित्वेनाऽवभासते (पा.यो.सू. समाधिपाद - सू. १४) यदर्पि हेतुबिन्दुटीकायां अर्चटेन 'भेदाभेदोक्तदोषाश्च तयोरिष्टौ कथं न वा । प्रत्येकं ये प्रसज्यन्ते द्वयोर्भावे कथं न ते ।।' (हे . बि. टी. पृ. १०५) इत्युक्तं तत्र 'भेदाभेदोक्त-दोषाश्च तयोरिष्टौ भवेयुः किम् । प्रत्येकं ये प्रसज्यन्ते जात्यन्तरात्मके न ते।।' इत्येवं मया प्रतिविधीयते । तदुक्तं प्रकृतप्रकरणकारेणाऽष्टसहस्रीतात्पर्यविवरण - 'जात्यन्तरत्वं च नृसिंहन्यायेन गुडशूण्ठिन्यायेन वोभयात्मकतया उभय-दोषापहारितया वा भावनीयम् । (अ.स. वि. पृ. १२६)
यदपि प्रमाणवार्तिके कीर्तिनोक्तं- 'सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः । चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ।।' (प्र.वा. १८२ )
तत्र मया 'सर्वस्योभयरूपत्वेऽपि विशेषाऽनिराकृतेः । चोदितो दधि खादेति नैवोष्ट्रमभिधावति।।' इत्येवं प्रत्युच्यते ।
यतो दध्नः स्वरूपापेक्षया दधिरूपता, नोष्ट्ररूपापेक्षया, उष्ट्रस्य स्वरूपापेक्षया चोष्ट्ररूपता, न दधिरूपापेक्षया । ततो न दध्यर्थिनामुष्ट्रादौ प्रवृत्तिः स्वद्रव्याद्यपेक्षया वस्तुनः स्वरूपस्य प्रवृत्त्यादिप्रयोजकत्वेनाऽनतिप्रसङ्गात् । एकान्तवादे च माध्यमिककारिकाकृतो नागार्जुनस्य- 'आत्मेत्यपि प्रज्ञापितमनात्मेत्यपि देशितम् । बुद्धैर्नात्मा न चानात्मा कश्चिदित्यपि देशितम् । (मा.का.) इति वचनं कथमुपपादयितुं शक्यम् ?
यदपि भामत्यां 'मृदात्मना एकत्वं घटशरावाद्यात्मना नानात्वमिति वदतः कार्यकारणयोः परस्परं किमभेदोऽभिमत आहो स्वित् भेदः उत भेदाभेदौ इति ? तत्राभेद ऐकान्तिके मृदात्मनेति च शरावाद्यात्मनेति चोल्लेखद्वयं नियमश्च नोपपद्यते। भेदे चोल्लेखद्वयनियमादुपपन्नौ आत्मनेति तु असमञ्जसम् । न हि अन्यस्यान्य आत्मा भवति । न चानेकान्तवादः । भेदाभेदकल्पे तूल्लेखद्वयं भवेदपि नियमस्त्वयुक्तः । न हि धर्मिणोः कार्यकारणयोः संकरे धर्मावेकत्वनानात्वेन सङ्कीर्येते इति सम्भवति । ततश्च मृदात्मनैकत्वं यावद् भवति तावन्मृदात्मना नानात्वं भवेत् । सोऽयं नियमः कार्यकारणयोरैकान्तिकं भेदमुपकल्पयति अनिर्वचनीयतां वा कार्यस्य (ब्र. सू. २ / १ / ९४ - भा.) इति वाचस्पतिमिश्रे - णोक्तं तदपि विद्युद्विकल्पप्रायम् । तथाहि एकदा यामिन्यामेक उत्थितो गगनं गरलगवलश्यामजलदान्तर्धोतमानविद्युत् दृष्ट्वा शेषौ द्वावपि सतीर्थ्यावाहूयादीदृशत् - यथा 'भो! पश्यत स्वर्गे प्रदिपनं लग्नम्। तत एव ज्वालाधूमयोगः' । द्वितीयेनोक्तम्- 'सूर्योऽत्राऽऽस्ते । स च शीतभीतः श्यामवस्त्रकन्याभिरन्तरितः कारं कारं पश्यति - अद्यापि विभातं किं वा न विभातम् । तृतीयस्त्वाह- ' अहमेवं मन्ये दैत्योत्पातविधुरे देवलोके महेन्द्रोऽग्निकर्मप्रधानं सान्तिकं कार यन् वर्तते । किमेभिः मुग्धविकल्पैः विद्युन्मालाशाली बलाहको विलीयते ? नैव । तद्वत् प्रमाणसिद्धोऽनेकान्तवादोऽपि नैव है, यह सिद्ध होता है। जैसे घटादि द्रव्य में भिन्न भिन्न घटक निमित्त की अपेक्षा से सत्ता और असत्ता का समावेश होता है वैसे ही भिन्न भिन्न व्यंजकनिमित्त की अपेक्षा अणुत्व - महत्त्व आदि विलक्षण प्रतीत्यभावों का एक द्रव्य में समावेश हो सकता है। इसमें कोई विरोध आदि दोष नहीं है। निमित्त चाहे घटक हो या व्यंजक हो, मंगर एक द्रव्य में भिन्ननिमित्त की अपेक्षा से विलक्षण प्रतीत्यधर्मों का समावेश अविरुद्ध है यह सिद्ध होता है। इस सम्बन्ध में अधिक विस्तार अन्य ग्रन्थ से ज्ञातव्य है ऐसी सूचना यहाँ