________________
१४८ भाषारहस्यप्रकरणे स्त. १. गा. ३२
● अवधारणप्रयोजनप्रदर्शनम् पञ्चवर्णसंभवे शुक्लवर्णाऽवधारणस्योत्कटशुक्लपरतया तदुपदर्शनार्थम् । न चैवं द्वितीयं व्यवहारसत्य एवान्तर्भाव्यतामिति वाच्यम्, तस्य लोकविवक्षाघटितत्वात् ।
धारणस्योत्कटशुक्लपरतयेति । शुक्लवर्णावधारणस्य न शुक्लेतरवर्णव्यच्छेदकत्वं किन्तूत्कटशुक्लवर्णबोधेच्छयोच्चरितत्वम् । अयं भावः यद्यपि वस्तुनः पञ्चवर्णात्मकत्वं सिद्धमेव तथाप्येष शास्त्रीयव्यवहारो यदुत - वस्तुनि यद्रूपमुत्कटं तत्प्रधानीकृत्य तेन विशिष्टं न्यग्भूतशेषरूपं वस्तु प्रतिपादयति । तादृशव्यवहारस्यैव प्रवृत्तिनिवृत्त्याद्यौपयिकत्वात् न ह्युद्भूतरूपं परित्यज्यान्यरूपाणीक्ष्यन्ते लोकैः । ततो बलाकायां बहुतरत्वादुद्भुतत्वाद्वोत्कटशुक्लवर्णावधारणस्य प्रमात्वमेव। शास्त्रीयव्यवहारानुसरणात् प्रमाजनकत्वाच्च तादृशवचनस्य भावसत्यत्वं निराबाधम् । एतेन "शुक्ला बलाका" इत्यत्र विद्यमानेतरवर्णप्रतिषेधाद्भ्रान्तत्वमिति प्रत्युक्तम्, अनुद्भूतत्वेनेतराऽविवक्षणात् तद्व्युदासेऽतात्पर्यात्, उद्भूतवर्णविवक्षाया एवाऽभिलापादिव्यवहारहेतुत्वात् । अतात्पर्यज्ञं प्रति तस्याऽबोधकत्वेनाऽप्रामाण्येऽपि तात्पर्यज्ञं प्रति प्रामाण्यात् तथाविधशास्त्रीयव्यवहारानुकूलविवक्षाप्रयुक्तत्वेन च भावसत्यत्वाऽविरोधात् । अत एव पीता बलाका इति व्यवहारतो भावसत्यम् शास्त्रीयव्यवहारनियन्त्रितविवक्षाननुकूलत्वात् । नाऽपि निश्चयतः, पञ्चवर्णपर्याप्तिमत्यां बलाकायां पञ्चवर्णप्रकारकत्वाऽनवगाहेनाऽवधारणाऽक्षमत्वात् । 'शुक्ला बलाके'त्यत्र तु नैवम्, अन्यथास्थिते हि वस्तुन्यन्यथा भाषणे दोषः यदा तु यद्वस्तु यथावस्थितं तत्तथाभाषणे को नाम दोषः ? इत्याशयः । तदुपदर्शनार्थम् = सत्यत्वोंपदर्शनार्थम् ।
एवमिति। भाषाप्रयोजकविवक्षायास्तादृशव्यवहारनियन्त्रितत्वेनेति । द्वितीयमिति 'सिता बलाके' त्युदाहरणमिति । शङ्काकारस्यायं भावः शास्त्रीयव्यवहारो व्यवहारविशेष एवातश्च शास्त्रीयव्यवहारनियन्त्रिताभिप्रायप्रयुक्तपदघटितभाषात्वेन व्यवहारनियन्त्रितविवक्षाघटितत्वस्याक्षतत्वात् 'सिता बलाके' ति वचनस्य व्यवहारसत्यत्वं निराबाधमेव ।
शङ्कां दूरीकरोति तस्य = व्यवहारसत्यवचनस्य, लोकविवक्षाघटितत्वादिति । अयं भावः, व्यवहारसत्यवचने लौकिकव्यवहारनियन्त्रितविवक्षामाश्रित्य सत्यत्वं न तु शास्त्रीयव्यवहारनियन्त्रितविवक्षामाश्रित्य, लोके बलाकायाः पञ्चवर्णात्मकत्वस्याज्ञानात् । लोको हि परमार्थमजानान उत्कटत्वविवक्षां विनैव 'सिता बलाके' ति प्रयुङ्क्ते । इदं च लोकानुपातिव्यवहारनयेन सत्यं न तु शास्त्रीयव्यवहारनयेन, निश्चयनयाभिप्रायेण बलाकायाः पञ्चवर्णात्मकत्वात् । निश्चयनयोपगृहीतव्यवहारनयरूपशास्त्रीयव्यवहारनियन्त्रितया उत्कटत्वविवक्षया प्रयुक्तस्य तथावचनस्य तु भावसत्यत्वमेव न व्यवहारसत्यत्वमिति ध्येयम् ।
का अवधारण=निश्चय हो - यह अभिप्राय 'बगुले में श्वेतवर्ण की उत्कटता है' इसका बोध कराने के तात्पर्य से है। आशय यह है कि बगुले में पाँचो वर्ण शास्त्रसिद्ध होते हुए भी उत्कट वर्ण तो श्वेत ही है - इस अभिप्राय से प्रयुक्त होने से 'बगुला सफेद है' यह वचन भावसत्य है।
शंका :- 'शुक्ला बलाका' यह उदाहरण तो व्यवहारसत्य भाषा में ही समाविष्ट होना चाहिए न कि भावसत्य भाषा में, क्योंकि यह वाक्य शास्त्रीयव्यवहार से नियन्त्रित विवक्षा से प्रयुक्त है। शास्त्रीयव्यवहार भी व्यवहार तो है ही । अतः द्वितीय उदाहरण का व्यवहारसत्य भाषा में अंतर्भाव करना उचित है।
* व्यवहार के दो भेद *
समाधान :- लानत है आपकी बुद्धि को। आपको यह भी मालुम नहीं है कि व्यवहारसत्य भाषा शास्त्रीय व्यवहार से नियन्त्रित विवक्षा से घटित नहीं है, किन्तु लौकिक व्यवहार से नियन्त्रित विवक्षा से घटित है। शास्त्रीयव्यवहार से नियन्त्रित विवक्षा व्यवहारसत्य भाषा की घटक नहीं हैं। अतः उससे घटित भाषा का व्यवहारसत्यभाषा में अंतर्भाव करना कैसे उचित होगा? अतः 'बगुला सफेद है' इस द्वितीय उदाहरण का भावसत्य भाषा में ही समावेश करना उचित है।
शंका :- 'अथ' इति। आपने भावसत्यभाषा के दो उदाहरण बताये हैं मगर यह आपकी प्ररूपणा मनमानी प्रतीत होती है,