________________
* भौतविकल्पप्रकटीकरणम *
१३५ अणुत्व-महत्त्वादीनां विरोध एव न कल्प्यत इति किममुना प्रयासेनेति चेत्? हन्त! तर्हि कनिष्ठापेक्षयाऽपि ह्रस्वत्वमनामिकायां किं न स्यादिति दिग।।२९।। रिक्तवृत्तित्वम् । स्वमते चावच्छेदकत्वं न स्वरूपसम्बन्धविशेषादि किन्त्वतिरिक्तमेव | यदि चावच्छेदकत्वमवच्छिन्नस्वरूपं स्यात् तदा घटत्वं प्रतियोगितावच्छेदकमित्यस्य घटत्वं प्रतियोगितावदित्यर्थः स्यात् प्रतियोगिताया घटत्वावच्छिन्नत्वात्। यदि चावच्छेदकत्वमवच्छेदकरूपं स्यात्तदा 'घटत्वं घटत्ववदि'त्यादिः स्यात्। तथा चापसिद्धान्तः । अतोऽवच्छेदकत्वमतिरिक्तमेवाभ्युपेयम्, न तु स्वरूपसम्बन्धविशेषादिरूपम्। तच्च द्विविधं सावच्छिन्नं निरवच्छिन्नं च | अवच्छेदकतावच्छेदकं त्ववच्छेदकांशे विशेषणतापन्नमेवेत्यधिकं विषयतावादे।
इदं देशरूपावच्छेदकात्मकनिमित्तभेदस्योदाहरणम। एवं कालपर्यायादिरूपावच्छेदकात्मकनिमित्तभेदमादाय'घटः प्राक श्यामो नेदानीं, संयमपर्यायविशेषावच्छेदेनात्मनि मनःपर्यवज्ञानम् अविरतिपर्यायावच्छेदेन च तदभाव' इत्यादि स्वयमूह्यम्। इदं चोपलक्षणमवध्यादिरूपनिमित्तभेदस्य, तदुक्तं उपदेशरहस्य - सावधिकभावानामवधिज्ञानव्यङ्ग्यत्वात्" (श्लो. १३६) तच्च "घटः पटात्पृथक्, न स्वस्मादि'त्यादिज्ञाने सम्भवति । __ इदं च परसमयापेक्षया द्रष्टव्यम् । स्वसमये तु पृथक्त्वस्याऽन्योन्याभावरूपस्य स्याद्वादरहस्य-कल्पलतादौ प्रकृतप्रकरणकारेणैव साधितत्वात्। स्वसमये त्ववधिनिमित्तभेदापेक्षवचनं 'पाटलीपुत्रात्प्रतीच्यां वाराणसी न प्रयागादि'त्यादि बोध्यमित्येतत्सूचनार्थं 'इत्याधूहनीय'मित्युक्तम् । __सर्वं सर्वथा सर्वात्मकमिति वादी शङ्कते - अणुत्वेति। सर्वधर्माणां सर्वथा सर्वत्र विद्यमानत्वेनाऽविरोधान्निमित्तभेदप्रतिपादनेन निरर्थकनिग्रहस्थानप्राप्तिरिति शङ्काकाराशयः। तन्निराकरोति- हन्त! इत्यादिना। सर्वथा विरोधाभावकल्पने यथाऽनामिकायां मध्यमापेक्षया ह्रस्वत्वं तथैव कनिष्ठापेक्षयाऽपि तत्स्यात्। इदमुपलक्षणम् अनामिकायां कनिष्ठापेक्षया दीर्घत्वमिव मध्यमापेक्षयाऽपि तत्स्यादित्यस्येति। तथा च मिथो द्वयोरपि दीर्घत्वह्रस्वत्वादिव्यवहारोऽपि स्यात् । एवमेव घटादेः स्वद्रव्याद्यपेक्षयेव परद्रव्याद्यपेक्षयापि सत्त्वं स्यात्। ततश्च घटस्याऽपि स्वरूपतः पटत्वादिस्वरूपमापद्येत प्रतिनियतव्यवहारादिलोपश्च । तथा सति- "चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ।। (प्र.वा.१८२) इत्यादिपरवादिप्रहारा दुष्प्रतिकारा इति सूचनार्थं दिकपदनिवेशः कृतः ।।२९।।
परः शङ्कते-नन्विति। न भावा इति। न परमार्थसत्याः तुच्छा इति यावत् । अत्र- सत्यभाषाविभागे प्रतीत्यभाषासमावेशो न युक्तः, सत्यभाषाविभाजकोपाधिशून्यत्वात्, तस्या असत्यत्वात्। तदपि कथमिति चेत्? उच्यते 'प्रतीत्यभाषा असत्या तुच्छविषयत्वात् वन्ध्यापुत्रविकल्पवत्' इति नन्वाशयः । प्रतीत्यभाषायां तुच्छविषयत्वसाधनार्थ- प्रतीत्यभाषाविषयीभूता अणुत्व-महत्त्वादयः तुच्छा परापेक्षप्रतिभासविषयत्वात् घटाभाववदिति प्रयोगः । तुच्छत्व-परापेक्षप्रतिभासविषयत्वयोर्व्यतिरेकव्याप्तिं दर्शयति- ये य इति । एतच्च भौतविकल्पतुल्यम् तथाहि केनचिद् भौतेन राजद्वारि द्विरदमालोक्य विकल्पितं किमयमन्धकारो मूलकमस्ति आहोस्विज्जलवाहो बलाकान वर्षति गर्जति च यद्वा बान्धवोऽयं, 'राजद्वारे स्मशाने च यस्तिष्ठति स बान्धव' इति परमाचार्यवचनात् अथवा योऽयं भूमौ दृश्यते तस्य च्छायेति? सब प्रकार से प्रतीत्यभाव का एक वस्तु में समावेश किया जाए तब तो सब प्रतीत्यभाव सब प्रकार से-सभी अपेक्षा से - सब निमित्तों से प्रत्येक वस्तु में रहने लगेगे। अतः जैसे अनामिका में मध्यमा की अपेक्षा ह्रस्वत्व छोटापन रहता है वैसे ही कनिष्ठा की अपेक्षा भी छोटापन रह जायेगा। लेकिन इसे स्वीकार करना उचित नहीं है, क्योंकि तब लोकव्यवहारविरोध, प्रतीतिविरोध आदि अनेक दोष आते हैं। सब लोग का अनुभव ऐसा ही है कि - 'अनामिका मध्यमा की अपेक्षा छोटी है, कनिष्ठा की अपेक्षा नहीं'। अतः मानना होगा कि - बिना निमित्तभेद के अणुत्व-महत्त्वादि प्रतीत्यभावों में विरोध रहता ही है। इस विषय में अधिक विचार भी हो सकता है। विवरणकार ने जो बताया है वह तो एक दिशासूचन मात्र है - ऐसा सूचन करने के लिए विवरणकार ने दिग् शब्दप्रयोग किया है।।२९।।