________________
१४४ भाषारहस्यप्रकरणे स्त. १. गा. ३१
नद्यादिपदान्नदीगतनीरादिप्रतिपत्तेः ।
● व्यवहारसत्यवचनानां सप्रयोजनत्वनिरूपणम O
नदीतन्नीरादीनामभेदप्रतिपत्तिरित्येके । नद्यादिपदं नद्यभिन्नत्वेन नदीगतनीरादिकं बोधयत्वित्याकारैव विवक्षा इत्यपरे । तया = विवक्षया, या = भाषा प्रयुज्यते सा "पीयते नदी दह्यते गिरि' रिति तत्र व्यवहारसत्या । अत्र पीयते नदीत्यस्य 'नदीगतं नीरं पीयते' इति 'दह्यते गिरि' रित्यस्य च गिरिगतं तृणादिकं दह्यत इत्यर्थः ।
इदमुपलक्षणम्, 'गलति भाजनम्' 'अनुदरा कन्या' अलोमा एडकेत्यादीनां भाजनगतं जलं गलति सम्भोगजबीजप्रभवोदराभावस्वमते नदीवृत्तित्त्वप्रकारक - नीरविशेष्यकशाब्दबोधं नदीपदस्य च नदीवृत्तिनीरपरत्वं प्रदर्श्य साम्प्रतं श्रीमलयगिरिसूरिप्रभृतिमतं प्रदर्शयति- नदीतन्नीरादीनामभेदप्रतिपत्तिरित्येक इति । एके= श्रीमलयगिरिचरणादयः तदुक्तं प्रज्ञापनावृत्तौ "लोका हि गिरिगततृणदाहे तृणादिना सह गिरेरभेद विवक्षया 'गिरिर्दह्यत' इति ब्रुवन्ति" । श्रीसिद्धसेनसूरे: प्रवचनसारोद्धारवृत्तिकारस्याऽप्ययमेवाभिप्रायो वर्त्तते । ततः तन्मते 'नदी पीयत' इत्यत्र नदीपदं नीरप्रतियोगिकनद्यनुयोगिकाभेदपरं शाब्दबोधश्च नीराभेदप्रकारकनदीविशेष्यको भवति ।
अपरेषां मतमाह नद्यादिपदमिति । अत्र नद्यभेदप्रकारक-नदीगतनीरविशेष्यकः शाब्दबोधो भवति, नदीपदञ्च नद्यभिन्नत्वेन नदीगतनीरविषयकबोधेच्छयोच्चरितमित्यर्थः । भगवदनुमतविचित्रनयभेदेनाऽनुधाविताः त्रयोऽप्येते सदादेशा इति ध्येयम् ।
दह्यते गिरिरिति। अत्र गिरिपदशक्यार्थस्य चिरकालीनाऽकृत्रिमाश्मसमुदायरूपस्य पर्वतस्य दहनप्रतिकूलतयाऽदह्यमानत्वेन दहनक्रियान्वयानुपपत्तेर्यद्वा पर्वतस्य दाहेऽन्वयसम्भवेऽपि तृणदाहतात्पर्यस्याऽनुपपत्तेः लक्षणाबीजस्य सत्त्वात् गिरिपदेन सक्षणया गिरिगततृणादिप्रतीतिर्जायते । लक्षणाप्रयोजनं तु भूयो दग्धत्वप्रतीतिः । पराश्रितक्रियाजन्यदाहाश्रयं गिरिगततृणादिकं इति शाब्दबोधः ।
इदमिति पीयते नदी, दह्यते गिरिरिति द्रष्टान्तद्वयप्रतिपादनमिति । उपलक्षणमिति । स्वबोधकत्वे सति स्वेतरबोधकत्वमुपलक्षणत्वमिति केचित् तन्न सर्वेषां शब्दानामुपलक्षणत्वप्रसङ्गात् तेषां स्वबोधकत्वे सति वाच्यार्थरूपस्वेतरबोधकत्वात् किन्तु स्वार्थबोधकत्वे सति स्वेतरार्थबोधकत्वमुपलक्षणत्वं प्रागुक्तं ग्राह्यम् । गलति भाजनमिति । भाजनपदशक्यार्थस्याऽद्रवत्वेन तत्र गल्धात्वर्थस्य स्रवणस्याऽन्वयस्य तात्पर्यस्य वाऽनुपपत्तेर्लक्षणया भाजनपदाद् भाजनगतं जलं प्रतीयते। लक्षणाप्रयोजनं त्वनिबिडत्वप्रतीतिः । वर्तमानकालिकस्रवणानुकूलव्यापाराश्रयं भाजनगतजलमिति शाब्दबोधाकारः ।
अनुदरा कन्येति । अपरिणतबालिकावाचककन्यापदस्याऽत्र परिणीतस्त्रियां लक्षणा । परिणयनसम्भोगाद्यनन्तरमपि नदीतन्नी. इति । अपना अभिप्राय बता कर विवरणकार श्रीमद् इस विषय में श्रीमलयगिरिजी महाराजा के अभिप्राय को बताते हुए कहते हैं कि 'नदी पीयते' इत्यादि स्थल में लोगों को नदी और पानी के अभेद की प्रतीति होती है। इस शाब्दबोध के बल से यह सिद्ध होता है कि वक्ता का तात्पर्य 'नदीपद जलप्रवाह और जल में अभेद का बोध कराओ' ऐसा होता है। यहाँ 'एके' शब्द से श्रीमलयगिरिमहाराज अभीष्ट है यह प्रज्ञापनासूत्र की मलयगिरिवृत्ति को देखने से ज्ञात होता है।
नद्यादिपद इति । अब विवरणकार इस सम्बन्ध में अपर मनीषियों के अभिप्राय को बताते हुए कहते हैं कि 'नदी आदि पद नदीअभिन्नरूप से नदीगत पानी आदि को बोध कराओ' ऐसी ही लोगों की विवक्षा 'नदी पी जाती है' इत्यादि स्थल में होती है। अतः यहाँ शाब्दबोध ऐसा होगा कि नदी से अभिन्न ऐसा नदीगत पानी पिया जाता है। लौकिक विवक्षा से प्रयुक्त होने के सबब यह भाषा व्यवहारसत्य कही जाती है।
* व्यवहारसत्य भाषा के द्रष्टांत *
अत्र. इति । प्रकरणकार ने मूल गाथा में जो दो उदाहरण बताये हैं इनको स्पष्ट करते हुए विवरणकाररूप से प्रकरणकार