Book Title: Vishva Gunadarsh Champu
Author(s): Gangadev Bhatt, Mahadev Sharma
Publisher: Tukaram Jawaji Mumbai
Catalog link: https://jainqq.org/explore/020911/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।। । चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक :१ जैन आराधना न कन्द्र महावीर कोबा. ॥ अमर्त तु विद्या श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाकविश्रीमहेङ्कटाध्वरिविरचिता विश्वगुणादर्शचम्पूः । मूल्यमेको रूप्यकः। ... १ जः For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्णयसागरस्थविक्रेयसंस्कृतपुस्तकानि । मू० डा.व्य. अध्यात्मरामायण-रेशमी गुटका. ... ... ... ... .॥26॥ अनुभूतिप्रकाशः-विद्यारण्यखामिकृतः. ... ... ... १ ॥ अभिधानसंग्रहः-प्रथमो भागः. ... ... ... ... १ 61 अभिधानसंग्रहः-द्वितीयो भागः. ... ... ... ... १। 60 अभिज्ञानशाकुन्तलं नाटकम्-आङ्ग्लटिप्पणीयुतम्. ... २ । अमरकोश-अमरसिंहकृतः, भानुजीदीक्षितकृतव्याख्यासुधया रामाश्रमीटीकयासहितः ... ... ... ... ४ ॥ अमरकोशमूलं-शब्दकोशसहितम्. ... ... ... ... - ४. अमरकोशः सटीकः-शब्दकोशसहितश्च. ... ... ... .. .॥ अष्टाङ्गहृदयम्-श्रीमद्वाग्भटविरचितं (मूलमात्रम् ). ... ... १ ४ ॥ अष्टाङ्गहृदयम्-वाग्भटकृतं-सूत्र-शारीर-निदान चिकित्सा-कल्प उत्तरस्थानसहितं, श्रीमदरुणदत्तप्रणीतया सर्वाङ्गसुन्दराख्य टीकया विभूषितं च. ... ... ... ... ... ८ अष्टाविंशत्युपनिषदः-( गुटका, उपनिषदः २८) ... ... आह्निकचन्द्रिका-(सायनमन्त्रभाष्यसहिता) ... ... ... 60 त्तररामचरितम्-महाकविश्रीभवभूतिप्रणीतं, वीरराघवकतया टीकया समेतम्. ... ... ... ... ... ... ४॥ तापदपाठः-(पदानि ). ... ... ... ... ३ . गिरः-महाकविश्रीसोमदेवभटविरचितः, अस्मिन् । मनोहराः १२४ कथाः सन्ति. ... ... ५ . कृता,भानुचन्द्रसिद्धचन्द्रप्रणीतया टीकया सहिता ५ . (सिद्धान्तमुक्तावलीसहिता). ... ... ... .- - 'काव्यम-भारविकृतं, मल्लिनाथकृतया किया सहितम्. ... ... ... ... ... १॥ 67 व्यम्-कालिदासकृतं, मल्लिनाथकृतया (१-८ ':, सीतारामकृत (८-१७ सर्गपर्यन्तं), संजीया सहितं च. ... ... ... ... ... १ ४० -(चंद्रालोकेनालंकारचन्द्रिकाव्याख्यया च युतः). 0-60 रिकाः-आशाधरभट्टप्रणीतालंकारदीपिकाव्यादेताः। इदं पुस्तकमध्येतॄणामतीवोपयुक्तं सोदाहरण. भिनवनवपरिपाट्यांकयित्वात्र मूलोदाहरणपद्यावर्णकमकोशोपि योजितोस्ति । अस्य मूल्यं For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org २ पूर्व १ रूप्यकमासीत् । श्वनी सुमवस्थया पुस्तकरूपेण मुद्रितस्याप्यस्य केवलं अर्धरूप्यकमेव मूल्यं. गरुडपुराणम् -- सटीक, सारोद्धारः. गीतगोविन्दम् महाकविश्रीजयदेवविरचितं, कुम्भनृपतिप्रणीतया रसिकप्रियाव्याख्यया, महामहोपाध्यायशंकर मिश्रनिर्मितया रसमञ्जरीव्याख्यया च संवलितम्... चम्पूभारतम् - रामचन्द्रकुधेन्द्रविरचितया व्याख्यया समेतम्. चम्पूरामायणम् - श्रीभोजराजविरचितं ( पञ्चमकाण्डपर्यन्तं ), लक्ष्मणसूरिविरचितं ( पटकाण्डमात्रं ), रामचन्द्रबुधेन्द्रविरचितया व्याख्यया समेतम्.... ... *** > ... 0.6 ... ... ... ... Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता – अग्निवेशकृता चरकप्रतिसंस्कृता मूलमात्रम्. तर्कसंग्रहः --- न्यायबोधिनीपदकृत्य व्याख्याटिप्पणैः संवलितः. 1 ताजकनीलकण्ठी-सटीका, अयं प्राचीनो ज्योतिर्ग्रन्थः जन्मपत्रिकाया वर्षफलकरणेऽतीवोपयुक्तः । तथा फलकथने प्रश्नविषये च । एतदन्तर्गतान्युदाहरणानि ज्योतिर्विद्वारा शोधितानि सन्ति •• दशकुमारचरितम् - दण्डीकृतम्, पूर्वपीठिका, उत्तरपीठिका, कवीन्द्रसरस्वती कृतपदचन्द्रिकाख्या टीका, शिवरामकृता भूषणाख्या टीका, लघुदीपिका टीका, केवलदशकुमारचरिते, पदचन्द्रिकाटीका च ( पूर्वपीठिकायां ) इत्येताभिः सहितम्. १॥ 62 दशरूपकम् - श्रीधनंजयविरचितं, धनिककृतया अवलोकटी कया सहितम्. द्रव्यगुणसंग्रहः – वैद्यकग्रंथः सव्याख्यः । अस्मिन्सर्वौषधीनां विशिष्टधर्मोपयोगादि यथावद्विवृतमस्ति. ... टीका सहितम्. नैषधीयचरितम् - श्रीहर्षविरचितं, नैषधीयप्रकाशाख्यया ... ... ... ... नलचम्पूः– दमयन्तीकथा - त्रिविक्रमभट्टकृता, चण्डपालकृतया विषमपदप्रकाशाख्यटीकाया सहितम्. निर्णयसिन्धुः - ( मूलम् ) - परिच्छेदत्रयात्मकः अस्मिन्नार्याणां सनातन धर्मनिर्णयो यथावद्वर्णितोऽस्ति. नीतिशतकम् - भर्तृहरिकृतं महाबलोपालकृष्णशास्त्रिकृतया ... ... ... For Private And Personal Use Only ... ... ... ... ... ... ... *** नारायणीटीकया सहितम्. पञ्चतन्त्रकम् – श्रीविष्णुशर्मसंकलितम्. पञ्चरत्नगीता- भगवद्गीता, विष्णुसहस्रनाम, भीष्मस्तवराजः, अनुस्मृतिः, गजेन्द्रमोक्षश्च इत्येतैः प्रकरणैः सहिता, कौसे यवत्रबद्धा स्थूलाक्षरा. मू० डा.व्य. ... -11- 6 •11= 6-11 .111. 6-11 २॥ .1. ... न .11. ... १। 62 •1. 6 ५ १ 62 1 .1. •11. ८॥ •1= Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चरत्नगाता-कासयवस्त्रवद्धा मध्यमाक्षरा. ... ... ... पञ्चरत्नगीता-कौशेयवस्त्रबद्धा सूक्ष्माक्षरा. ... ... ... पञ्चरत्नगीता-पत्रबद्धा मध्यमाक्षरा. ... ... ... ... पञ्चदशी-विद्यारण्यकृता, रामकृष्णविरचितटीकासहिता. ... ... पार्वतीपरिणयं नाटकम्-महाकविबाणकृतम् ... ... पुष्पबाणविलासम्-(श्रीकालिदासकृतं) पण्डितवरश्रीवेङ्क टसार्वभौमविरचितया व्याख्यया समेतम्. ... ... ... ४% - पूजासमुच्चयः– (विषयाः १०५) "ब्रह्मकर्मसमुच्चयस्य" __परिशिष्टरूपः. ... ... ... ... ... ... प्रबोधचन्द्रोदयं नाटकम्-श्रीमत्कृष्णमिश्रयतिविरचितम् , नाण्डिल्लगोपप्रभुविरचित चन्द्रिकाटीका, दीक्षितरामदा सविरचिता प्रकाशटोका च इत्येताभ्यां सहितम् ... ... प्रश्नोत्तरपयोनिधिः-बलरामदासमुनिकृतः. ... ... प्रसन्नराघवनाटकम्-श्रीजयदेवकविविरचितम् ... .. प्राकृतमञ्जरी-श्रीमत्कात्यायनमुनिप्रणीतप्राकृतसूत्रवृत्तिः. ... .. . पातञ्जलमहाभाष्यम्- (नवाह्निकम् ।) कैयटप्रणीतप्रदीपेन ___ नागेशकृतोद्दयोतेन पायगुण्डेकृतछायया च परिवृतम् । ... ४ ब्रह्मसूत्रशांकरभाष्यम् --रत्नप्रभा-भामती-आनन्दगिरीय (न्यायनिर्णय)व्याख्यात्रयोपेतम् । ... ... ... ... ८ ॥ भट्टिकाव्यम्-भट्टिकृतं, जयमङ्गलकृतया जयमङ्गलाख्यटी कया सहितम् ( द्वितीयावृत्तिः ).... ... ... ... २॥ .. भामिनीविलासः-पण्डितराजजगन्नाथविरचितः, अच्युतराय मोडककृतया प्रणयप्रकाशाख्यटीकया सहित:. ... ... १ ४भास्करोदया-तर्कसंग्रहदीपिका-प्रकाश(नीलकण्ठी)व्याख्या ... .॥= 67 भोजप्रबन्धः -श्रीबल्लालविरचितः. ... ... ... ... .- - मध्यसिद्धान्तकौमुदी-वरदराजप्रणीता, इदं पुस्तकं विपुल टिप्पण्यादिभिरलंकृतं, मध्यकौमुदीगतसूत्राणामकारादिवर्ण क्रमकोशसहितं च मुद्रितमस्ति. ... ... ... ... .in. मनुस्मृतिः- -कुल्लूकभकृतमन्वर्थमुक्तावल्या सहिता मनुस्मृति. स्थपद्यानाम कारादिवर्णक्रमकोशसहिता च.... ... ___... १॥ ४॥ महावाक्यरत्नावलिः-श्रीमत्परमहंसपरिव्राजकाचार्यरामच न्द्रयतिकृता. अत्रोपनिषत्सारोद्धारः. ... ... ... 62 ॥ वीरचरितं नाटकम्-भवभूतिकृतं वीरराघवकृत. कासहितम्... ... ... ... ... ... ... १॥ 60 --मधुसूदनी (शिवविष्ण्वर्थक)व्याख्यया सहितम्. .. For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाकविश्रीमहेङ्कटीवरिविरचित विश्वगुणादर्शचम्पूः। । योगीत्युपाभिध-बालकृष्णशास्त्रिविरचित पदार्थचन्द्रिकाटीकासहिता। बाकेइत्युपाहगङ्गाधरभट्टसूनुना महादेवशर्मणा संशोधिता। (तृतीयं संस्करणम्.) मुम्बय्यां तुकाराम जावजी इत्येतेषां कृते तेषामेव निर्णयसागराख्यमुद्रणयन्त्रालये बालकृष्ण रामचंद्र घाणेकर इत्यनेन मुद्रयित्वा प्रकाशिता। शकाब्दाः १८३२, ख्रिस्ताब्दाः १९१०, मूल्यमेको रूप्यकः। For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतत्पुस्तकस्य सर्वेऽप्यधिकाराः सन १८६७ तमवर्षस्य २५ तमराजकीयनियमानुसारेण लेखारूढीकृत्य प्रकाशयित्रा खाधीना एव रक्षिताः। For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॐ नमः परमात्मने भूमिका. भो भो विविधकाव्य-नाटकालंकार-साहित्यपारावारपारीणाः सहृदया मनीषिणः, विदांकुर्वन्तु तत्रभवन्तः-गीर्वाणभाषापारावारतितीप्रूणां सरसकाव्यपरिशीलनतरणिसमारोहणं विना उपायान्तरं तावन्न श्रूयते । तदर्थमेव च कविकुलगुरुश्रीकालि. दास-भवभूति-बाणभट्टप्रभृतिभिः कविमण्डलाप्रेसरै रघुवंश-कुमारसंभव. मालतीमाधव-कादम्बर्यादीनि सपदि रसिकजनमनोविनोदजनकानि संस्कृतभाषाव्युत्पित्सुजनानां सद्यः सम्यक्तया तद्वयुत्पत्तिसंपादकानि च गद्य-पद्यप्रचुराणि काव्यादीनि विरचितानि जाग्रत्येव । एतादृशकाव्यस्यैव च लक्षणादिपरिज्ञानार्थ तदवान्तरव्यङ्ग्य-ध्वनि-रस-दोष-गुणालंकारादिप्रतिपादनार्थ च तत्रभवद्भिर्मम्मटादिभिः काव्यप्रकाशादयो ग्रन्था विरचितास्तत्र च "तददोषौ शब्दार्थों सगुणावनलंकृती पुनः क्वापि" इत्यादि काव्यलक्षणं च निर्दिष्टम् । (अत्र तच्छब्देन काव्यं ज्ञेयम् ) कैश्चित् तु “रमणीयार्थप्रतिपादकः शब्दः काव्यम्" इत्यायेव लक्षणमुक्तम् । कथम. प्यस्तु, परं च उभयत्रापि आखाद्यव्यञ्जकत्वरूपलक्षणस्य विद्यमानखात् सहृदयहृदयालादजनकं काव्यम् इति सामान्यतः संक्षिप्तलक्षणं भवितुमर्हति । तच्च केवलं पद्यरूपं, गद्यरूपं, गद्यपद्यमित्रं वास्तु, सर्वमपि तत्पूर्वोक्तलक्षण एवान्तर्भवति । किंच तत् दृश्य-श्रव्यभेदात् द्विधा भिन्नं, यत्केवलं वाचन-श्रवणसमंकालमेव रसिकजनानां मनसि आहादजननपूर्व चमत्कारं जनयति तच्छ्रव्यम् । यच्च धीरवीरपुरुषचरितप्रचुरं विशेषतः प्रत्यक्षतयाभिनीय प्रदर्शितं सद्रसविचित्तमानन्दयति तदृश्यम् । अत एव तन्नाटकमित्यभिधीयते । पूर्वोक्तं च केवलं काव्यशब्देनैव व्यवह्रियते। एतस्मिन्नपि चम्पूशब्दाभिधेय एको भेदो भवति । तस्य लक्षणं च "गद्य-पद्यात्मकं काव्यं चम्पू. रित्यभिधीयते” इति प्रसिद्धम् । एतल्लक्षणसंपन्नैवेयं प्रकृता विश्वगुणादर्शचम्पू: प्रथते यस्संबन्धेन किंचिद्वक्तुमभिलषाम इति । - इयं च श्रीमता तत्रभवता सुगृहीतनाम्ना वेङ्कटाध्वरिणा महाकविना विरचिता । अयं श्रीरामानुजमतानुयायी श्रीमहालक्ष्म्या भक्तश्चासीत् । अयं तावत्क. स्मिन् काले आविर्भूय खपितरावानन्दयत् तदादि प्रत्यक्षतया न प्रतीयते, किंतु अनेनास्मिन्नेव ग्रन्थे द्वितीय तृतीयश्लोकयोः संक्षेपेण स्वकीयवृत्तं निवेदितं तस्मादयं श्रीमदप्पयगुरोर्नप्ता, श्रीरघुनाथदीक्षितस्य च पुत्र इत्येव ज्ञायते । अयमप्पयगुरुः कुवलयानन्द-चित्रमीमांसादिग्रन्थकर्तुस्तत्रभवतः अप्पयदीक्षितादिन इत्यवगम्यते । यतः स अप्पयदीक्षितो द्रविडजातीयः, भगवतः श्रीशिवस्य परमो भक्तः, अद्वैतमतपक्षपाती, वैष्णवमतखण्डकश्चासीदिति तदृत्ततः श्रूयते । किंच व्यङ्कटपतिनामधेयस्य कस्यचिद्राज्ञः सभायां वेदान्त-धर्मशास्त्रादिविषये For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ विश्वगुणादर्शचम्पू:ताताचार्यमतमनेन खण्डितम् । ततःप्रभृति ताताचार्यः अप्पयदीक्षितेन दृढतरबद्धवैर आसीत् । नैतावदेव केनापि प्रकारेणायं हन्तव्य इत्यपि निश्चिकाय । ततश्चैकस्मिन् समये ताताचार्येण तत्रभवन्तं दीक्षितं विपिनमार्गेण गच्छन्तं ज्ञाला तद्वधाय चण्डालाः प्रेषिताः, परंतु तेन तपखिना शिवभक्तिप्रभावः केवलं द्वेषपरवशतया नावगतः। तत एव तस्मिन्नरण्ये कश्चिद्वीरपुरुषः सहसाऽविर्भूय तेन चण्डालाः परिभूताः इत्यादि । अस्तु नामैतत् । अत्रत्योऽयं अप्पयगुरुस्तु ताताचार्यस्य भागिनेयः इति निश्चीयते । ताताचार्यस्तु कर्नाटदेशीयस्य कृष्णरायाख्यस्य राज्ञो गुरुः, परोपकाररतश्चासीत् । अनेन 'सात्विकब्रह्मविद्याविलासः' इति प्रसिद्धो वेदान्तशास्त्रग्रन्थो व्यरचि इत्यपि श्रूयते । अत्र (मुम्बय्याम् ) कर्नाटकनाम्नि मुद्रणयन्त्रालये मुद्रितपुस्तके आङ्ग्लभाषामयप्रस्तावनायामस्य विश्वगुणादर्शकर्तुर्वृत्तं दृश्यते तदित्थम् 'अयं विश्वगुणादर्शकर्ता वेङ्कटाध्वरिनामा कविः नीलकण्ठदीक्षितसमकाल: तत्सहाध्यायी चासीत्' इति । ततश्चैवं प्रतिपद्यते-नीलकण्ठदीक्षितः, अप्पयदीक्षितस्य पौत्रः नारायणदीक्षितस्य च पुत्र आसीदिति काव्यमालाख्यमासिकपुस्तकस्य प्रथमगुच्छान्तर्गतश्रीमदप्पयदीक्षितप्रणीतवैराग्यशतकाख्यग्रन्थस्य प्रथमश्लोकटिप्पण्यां दृश्यते । अनेन नीलकण्ठचम्पू रचिता, तत्प्रारम्भे खकीयग्रन्थनिर्माणकालश्चापि निर्दिष्टः–'अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु । (४७३०) कलिवर्षेषु गतेषु अथितः किल नीलकण्ठविजयोऽयम् ॥' इति । तस्मादेवं निश्चीयते, ४७३८ तमे वर्षे ख्रिस्ताब्दं १६३७ तमं तस्मिन्नेव वर्षे नीलकण्ठचम्पूर्विरचिता, तत्समकालीनश्वायं वेङ्कटाध्वरिनामा कविरासीत्, ततश्च २६२ वत्सरेभ्यः प्राक् अयं विश्वगुणादर्शकर्ता कविः सुप्रसिद्ध आसीत् इति । परं च तेनायं ग्रन्थः कस्मिन् वर्षे निर्मित इति तु न याथार्थेन निश्चेतुं शक्यते, केवलं २६० वर्षेभ्यः प्राकनकालीनोऽयं ग्रन्थ इत्यनुमीयते । अन्यदप्यत्रत्यमुद्रितपुस्तकप्रस्तावनायां किंचिद्वृत्तमुपलभ्यते 'अयं वेङ्कटाध्वरी काञ्चीपुरसमीपे 'अर्शनफल' नाम्नि अग्रहारे प्रतिवसति स्म । 'वडघले' इत्याख्यवैष्णवसंप्रदायपक्षपातिताताचार्यान्वयोत्पन्नश्वासीत्' इति । अथ उपरि 'वडघले' इत्याख्यो वैष्णवसंप्रदाय उक्तः तत एव अन्यसंप्रदायसत्त्वस्याकाङ्क्षा उत्पद्यते, तत्परिपूरणार्थमन्यमतस्यापि निरूपणं यत्किचिदपि प्रसङ्गादापतितं, ततश्चैतत्पथप्रवर्तकस्य रामानुजखामिनोऽपि किंचिच्चरित्रलेखनं प्रसङ्गं नातिकामति । तच रामानुजीयं वृत्तं पुस्तकद्वये द्विधा श्रूयते । तत्र महाराष्ट्रभाषायां कविचरित्राभिधमेकं पुस्तकं सुप्रसिद्ध विद्यते तस्मिन्नेवमस्य वृत्तान्तः 'अयं रामानुजाचार्यः श्रीमच्छंकरमतप्रतिपक्षी शालिवाहनशकस्य ११ दशे शतके 'दोरासमुद्र' इत्याख्यनगरस्याधिपती 'बेटावर्धन' नाम्नि राज्ञि महीं शासति 'श्रीपेनुमुतूर' नाग्नि प्रामे श्रीकेशवाचार्यपत्न्यां कान्तिमत्यामाविबभौ । अयं च ग्रामः चन्नपट्टण (मद्रास ) पुरावादशकोशेषु काञ्चीनाना भाषायां 'कंजेवरम्' इति नाना वा यत्प्रसिद्ध नगरं विद्यते तदध्वन्येव वर्तते। एतस्मिन्नेव प्रामे उपनयनादनन्तरं For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूमिका । . श्रीमता रामानुजेन यादवप्रकाशाख्यखमातुलात् वेद-शास्त्रादिप्रावीण्य संपादितम् । ततश्चायं खकीयग्रामे एवैकं चिश्चातरुमूलमाश्रियैकाग्रेण मनसा भगवन्तं श्रीराममु. पासांचके, ततस्तत्प्रसादादेव जीवेश्वरयोéदवादमाश्रित्य अद्वैतवादिनः श्रीशंकरखा. मिनो मतं प्रत्याचख्यौ, लोकांश्च श्रीसीतारामपूजनं त्रिपुण्ड्रधारणादिसंप्रदायान् ग्राहयामास । ततश्चानेकविधदेशेषु संचारमारचय्य तत्रत्यान् जनान् स्वमतमुपदिदेश । एवं पर्यटन् ‘दोरासमुद्र' नगरमेय तत्रत्यराजकन्यायाः पिशाचबाधां न्यवर्तयत् । ततः सुप्रसन्नेन राज्ञा तस्मै मूल्यवन्ति वस्त्रालंकारादीनि पारितोषिकाणि दत्तानि खयं च तस्माद्वैष्णवधर्ममङ्गीचकार । एवमयं यमदुनाचार्येण स्वस्य प्रियच्छात्रेण सह तिरुपति-जगन्नाथ-काशी-जयपुरादिमहाक्षेत्रेषु संचरन् तत्रस्थब्राह्मणान् वैष्णवदीक्षितान संपादयामास कतिचिन्मठांश्च स्थापयामास । किंचास्य वैष्णवधर्मप्रवचनं श्रुखा जयपुरमहाराजः अतीव ननन्द स्वपुरस्थान जैनांश्च तैलयन्त्रे विनिष्पीड्य जघान । एवमयं पर्यटन बदरीक्षेत्रं गत्वा तत्रस्थनारायणं देवं च स्तुत्वा खदेशमाजगाम । तत्र चानेन व्याससूत्रभाष्यं, (श्रीभाष्यं) भगवद्गीताभाष्यं, तर्कभाष्यं चेत्यादयो बहवो ग्रन्था विरचिताः । तथा चायं स्वमतस्थवैष्णवद्विजकृते एकां धर्मसंहितामपि रचयामास । एवं सर्वमपि जीवितकालं भगवद्भक्त्या वेदान्तादिग्रन्थपरिशी. लनेन च निर्यापितवान् । एनं सर्वेऽपि तदनुयायिनः शेषावतारं मन्यन्ते, अत एव तैः खाचार्यस्य धातुमयी प्रतिकृतिरपि निर्मिता सा चाद्यावधि पूज्यतेऽपि । अस्यैकमासनं 'तादरी' नाम्नि प्रामे तेङ्गल (महाराष्ट्रभाषायां 'सिंगल') पथप्रवर्तकं वर्तते । अहोबलनाम्नि मठे च 'वडघले, (भाषायां 'वडगळ' ) इत्याख्यसंप्रदायप्रवर्तकं च विद्यते, अन्यदप्येकमासनं 'गळता' इत्याख्यग्रामे वर्तते । वडघले-तेगलसंप्रदाययोः कालान्त. रेण मतभेदात् कलहश्चाजनि' इति । अत्रत्यमुद्रितपुस्तके च कल्पितोदन्तः ( दन्तकथा ) इति यहृतं निवेशितं तत्'खिस्तशकस्य ११ दो शतके दाक्षिणात्ये जनपदे ( दक्षिणहिन्दुस्थानाख्ये देशे) सामाजिकधार्मिकाचारसंबन्धेन महती चर्चा प्रवृत्ता । तत्समय एव चत्रपट्टणराजधा. न्यां (मद्रास इलाखा इति प्रसिद्धायां) चेङ्गलपटाख्यमण्डले वर्तमानस्य 'कजीवरम्' इति नगरस्य निकटवर्तिनि 'श्रीपरम्बुदरम्' इति प्रसिद्धपुरे ख्रिस्तशकस्य १००९ तमे वत्सरे श्रीरामानुजाचार्य इत्याह्वयः कश्चिद्विप्रोऽजनि । तेन वैष्णवो धर्मः प्रवर्तितः खयं च मनुजबान्धवः इत्युद्धोषितं च । ततश्च विजातीया अपि जनाः स्वधर्मे आनीताः, खकीयानुयायिजनेषु च निघृणवद्योतका विधवावपनप्रवृत्तिनिरुद्धा, इय. मेव रीतिस्तदनुयायिष्वद्यावधि वर्तत एव । किंच तज्जनमध्यगा विधवा अपि वपनं कारयितुं नैवोत्सहन्ते, किंतु ‘यान्यस्माकं शिरांसि गुरोः पुरतोऽवनामितानि, तानि नापितस्याग्रेऽवनामयितुं नार्हाणि' इति वदन्ति च । एवं कतिपये काले गते सति तत्प्रगत्यैव हेतुभूतया तदीयः पन्था द्विधा विभिन्नः । ततः कतिपयैर्जनैः 'वडघले' अथवा 'उत्तरदेशीयाः' इत्यभिधानं स्वीकृतम् । एवं चैतैर्जनैः उत्तरदेशीयाः वैदिकाः शास्त्रीयाश्चाचाराः संमानिताः । अयं विश्वगुणादर्शप्रणेता कविः एतन्मतस्थ For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: आसीत् । अन्ये च ये केचित् पूर्वमेव पन्थानमाश्रित्य स्थितास्ते 'तेङ्गले' अथवा 'दाक्षिणात्याः' इत्याख्यया प्रसिद्धाः । एवमयं भेदोऽद्यापि वर्तत एव । ततश्च 'वडघले' इतिमतस्थजनैर्या तेङ्गलीयानामवमानना कृता, तैः सह या च स्पर्धा प्रकटीकृता, अन्ये च ये छलप्रकाराः कृतास्तेषां सर्वेषामपि स्फुटीकरणार्थमयं ग्रन्थोऽनेन कविना व्यरचि' इति । एतत्सर्वमपि वृत्तं काल्पनिकमेवेति न वक्तुं शक्यते। यतः रामानुजीयपथविषये श्रीमता वेङ्कटाध्वरिणाप्येतस्मिन् विश्वगुणादर्श रामानुजवर्णने कृशानुभाषणे हत्वा मार्गे द्विजादीनखिलमपि धनं हन्त हृवातिदृप्ता दुर्वृत्तास्तस्करा ये वनगिरिनिलया ये च नीचा इहान्ये ॥ कृत्वा चक्राङ्कमेषां झटिति विदधतः किंच मन्त्रोपदेशं तदत्तैरेव वित्तैर्दधति तनुममी वंशपारंपरीभिः ॥ किंच-जारान् चोरान् किरातान् जनपददमनान् राजपाशान्महीशान् शिष्यान कृखातिहप्ताः श्रतिपथविधुराः श्रोत्रियैब्रह्मनिष्कैः ॥ साकं नो भुञ्जतेऽमी सकृदपि विनतिं कुर्वतेऽग्रे न तेषां संकेतेनैव सिद्धं तदिदमविदुषां श्लाध्यमाचाथपुंस्त्वम् ॥' इत्यादिना तेषां दोषोद्धाटनं कृतं, सम्यक्तया तदुद्धरणं च न कृतं तस्मादेव निश्चीयते तेङ्गलसंप्रदायिनां जनानां विजातीयजनानामपि मन्त्रोपदेशकरणादि नास्मै रोचते इति च । वयं तु ग्रन्थनिर्माणे एतावदेव कारणमिति न निश्चिनुमः, किंतु विश्ववैचित्र्यद्योतनमेव ग्रन्थनिर्माणहेतुरिति, अन्यथा इतरक्षेत्र-देवता-संप्रदायादिवर्णनस्य निष्फलत्वप्रसङ्ग आपद्येत । किंच स्वसंप्रदायदृढीकरणार्थका अन्ये बहवो ग्रन्था अनेनैव विरचिता इति श्रूयते । अस्तु वा अन्यत्किमपि कारणं तत्राधिकलेखनं न सांप्रतम् । अथास्य विश्वगुणादर्शग्रन्थस्य कालनिर्णायकं लिङ्गं अस्मिन्नेव ग्रन्थे दृश्यते तत्'हूणाः करुणाहीनास्तृणवत् ब्राह्मणगणं न गणयन्ति । तेषां दोषाः पारेवाचां ये नाचरन्ति शौचमपि ॥' इत्यादि यत् हुणानां (गौरकायाग्लदेशीयानां) वर्णनम् । तस्मादनुमीयते-ख्रिस्तशकस्य १६४० तमे वर्षेऽयं ग्रन्थो विरचित इति । अस्मिन् रसालंकारादीनि काव्यलक्षणानि सर्वत्र परिपूर्णतया दृश्यन्ते, तथापि अर्थालंकारापेक्षया शब्दालंकारेष्वेव (अनुप्रास-यमकादिषु) कवेरतीवादरो दृश्यते, तदनुसंधानादेव क्वचित् क्लिष्टत्वाप्रसिद्धशब्दप्रयोगादयो दोषाः प्रादुर्भवन्ति । एवमपि काव्यस्य सहजमाधुर्य-प्रौढलादयो गुणा न विलीयन्ते, तत एवास्य वश्यवचस्वं स्फुटीभवति । तथा चास्मिन् विश्वगुणादर्श तदभिधानानुरूपाः सर्वेऽपि विषया न विद्यन्ते, सतामपि विषयाणां आ मूलात् समाप्तिपर्यन्तं एकैव पद्धतिर्नावलोक्यते । अस्य हि प्रथमत एवं रीतिः विश्वावलोककुतूहलौ कृशानु-विश्वावसू द्वौ गन्धर्वो कल्पितौ । तन्मध्ये एकः (कृशानुः) दोषैकक्, अपरो (विश्वावसुः ) दृश्यवस्तुनो गुणग्रहणकौतुकी चासीत् । ततः दृष्टिपथं For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- भूमिका। प्राप्तस्य वस्तुनः प्रथमं विश्वावसुः सानन्दं प्रशंसां करोति, ततस्तस्मिन्नेव कृशानुर्दोषारोपं करोति, पुनश्च तदारोपितं दूषणं विश्वावसुनिराकरोति । परं तु इयं पद्धतिः स्पर्धाधीनचित्तवात् स्वाङ्गीकृतमतसमर्थननिन्नवाद्वा भिन्ना । एतत् सर्वमपि मार्मिकवाचकजनैर्वाचनसमयेऽवगन्तुं शक्यमिति न तत्राधिकं लिख्यते। अयं कविर्यद्यपि श्रीरामानुजप्रवर्तितवैष्णवपथानुगस्तथाप्यन्यसंप्रदायानामपि याथार्थ्यवेत्ता आसीदिति तु निर्बाधमेव । किंचास्य काव्यस्य व्युत्पत्तावतीवोपयुक्ततया काव्यरसिकेषु बहुषु पण्डितेषु महाकवेरस्य ग्रन्थानां च प्रख्यातिर्विद्यते । अस्य नीत्यन्योक्ति-राजवर्णनादि. प्रचुरा अन्ये बहवो ग्रन्थाः प्रसिद्धा इति तु प्रागुक्तमेव । तथा लक्ष्मीसहस्रं काव्यं, हस्तिगिरिचम्पूश्चेत्येतौ द्वौ ग्रन्थौ विश्वगुणादर्शसदृशावेव प्रसिद्धौ वर्तेते। तत्र लक्ष्मीसहस्राख्ये काव्ये केवलं भगवत्या लक्ष्म्याः स्तुविरेव विद्यते। अस्य ग्रन्थस्य २८ स्तबकाः सन्ति, सकलस्यापि काव्यस्य संहत्य सहस्रं श्लोकाः सन्ति, ते च सर्वेऽपि श्लेष-यमकानुप्रासादिशब्दालंकारपरिपूर्णाः अत एव सहृदयैराखादनीयाश्चेति मन्यामहे । एतस्मिन् काव्ये करवीरपत्तनस्थ 'बाबामहाराज' इत्याख्यपण्डितविरचिता टीकाऽपि सुप्रसिद्धा वरीवर्ति । हस्तिगिरिचम्प्वां तु जगत्पित्रोलक्ष्मीनाराय. णयोर्विवाहवर्णनं विलसति । एतस्यां टीकादिकमस्ति न वेति न विद्मः। एतद्न्थकर्तुव॒त्तं किंचित्प्राक् प्रदर्शितमपि किंचिदवशिष्टमत्र लिख्यते । अयं प्रलयकावेरीनाम्नः कस्यचिद्राज्ञः सभायां प्रमुखः पण्डित आसीत् । अन्याप्येतत्संबन्धिनी लोकवार्ता श्रूयते सा-अनेन विश्वगुणादर्शकाव्यं स्तुतिनिन्दात्मकं विरचितमिति तस्य देवताप्रकोपादान्ध्यं प्राप्तं, ततश्च स लक्ष्मीसहस्रं विरचय्य जगजननी महालक्ष्मीमस्तौत् । ततस्तत्प्रसादात्पुनः पूर्ववदृष्टिः संप्राप्ता इति । अस्मिन् विश्वगुणादर्शग्रन्थे मधुरसुब्बाशास्त्रिविरचिता भावदर्पणाख्या व्याख्या वर्तते। सा चात्र मुम्बापुर्या कर्नाटकनाम्नि मुद्रणालये मुद्रिताप्यस्ति ।सा कस्मिन् काले विरचिता कुत्रत्यो वायं टीकाकारः इत्यादि न ज्ञायते। एतस्या अन्या टीका नोपलभ्यते । इयं यद्यप्येका टीकाऽस्मिन् ग्रन्थे विद्यते, तथापि तस्यां श्लोकस्थसर्वेषामपि पदानां विवरणं, अप्रसिद्धपदानां श्लिष्टपदानां च कोशादिनिर्देशेन स्फुटीकरणं, स्थले स्थलेऽलंकारलक्षणनिवेशनं, स्थलविशेषे व्याकरणनियमप्रदर्शनं चेत्यादीनां वैगुण्यम. वलोक्य तत्परिहारार्थ नूतनटीकाकरणे बद्धः परिकरः, तथापि तत्र यादृक् साहित्यं विद्वत्त्वं चापेक्षितं तादृगस्य संनिधौ नास्ति, तत एवायं विविधागमसागरपारावारीण. सूरीणां व्याख्यानचातुरी नावगच्छति । किंतु केवलमुपरिनिर्दिष्टविषयसमावेश. विशिष्टव्याख्याकरणप्रोल्लास एव मनस्यजनि । ततश्च तत्समये तादृशविषयवत्पुस्तकसमूहमेकीकृत्यैतन्महत्साहसं कर्तुं प्रवृत्तः, परंतु परमेशानुकम्पया कथमप्यति. दुस्तरकार्यभारोऽयमवतारितः । किंचास्मिन् ग्रन्थे यत्र यत्र धर्मशास्त्रादिरीत्या विवेचनमवश्यं प्राप्तं तत्र तत्र तद्यथामति सप्रमाणं विवेचितम् । तच्च विवेकिभिस्तत्तत्स्थले विलोकनीयम् । एवमस्यां टीकायां मूलस्थं प्रतिपदं यावन्मति विवेचितमिति 'पदार्थचंद्रिका' इत्याख्ययेयमभिधीयते । अथेयं विदुषां दृष्टिपथं कथमानीयेति विचारे निमग्न आसीत् । तावदेवात्रत्यप्रसिद्ध निर्णयसागर' For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० विश्वगुणादर्शचम्पू:यन्त्रालयाधिपतिभिः श्रीमद्भिस्तुकारामजावजी इत्येतैः सादरं संमुद्य प्रकाशीकरणे आश्वासितः। ततश्च मुद्रणकालीनसंशोधनकार्यमप्यस्मिन्नेवापतितम् । तदा चेदं, शाके १७७४ तमे वत्सरे अत्र ज्ञानदर्पणनाम्नि शिलायन्त्रेऽङ्कितमेकं शाके १८१० वत्सरे कर्नाटकनाम्नि यन्त्रालये मुद्रितं भावदर्पणव्याख्यासहितं द्वितीयंएतदन्यानि षट् पुरातनानि पुस्तकानि संगृह्य मुद्रितमिति तदुपोद्धाततो ज्ञायतेतृतीयं चैकं हस्तलिखितमित्येतत्पुस्तकत्रितयं परस्परेण संवाद्य मुद्रितम् । तत्र च प्रायशः प्राचीनपुस्तकस्थानि पाठान्तराण्यातानि। कर्नाटकयन्त्रालये मुद्रितपुस्तकस्थपाठान्तराणि तु टीकाया अधोभागे टिप्पणीरूपेण निवेशितानि । तथाऽस्मिन्नेव पुस्तके मूलेऽस्मत्संपादितप्राचीनपुस्तकाभ्यामनुमानतः २५।२६ श्लोकाः अधिका अवलोकिताः, तत्र ये तावन्मूलेनातीव विसंबद्धा इति प्रतीतास्ते टीकास्थले सूक्ष्माक्षरैनिर्दिष्टाः, तत्र च मया टीकापि पृथङ्न विरचिता, ये तु मूलेन सुसंबद्धत्वेन प्रतीतास्तेषु टीकां विरचय्य ते मूले एवं [] इत्याकारचिह्न निवेशिताः केचित्त्यकाश्चापि, एतच्च तत्र तत्र स्फुटीकृतम्। अन्यच्चैतत् सप्रणामं निवेदयति-टीकाकरणसमये शोधनसमये च कर्नाटकयन्त्रालयमुद्रितपुस्तकस्य महत्साहाय्यं सँलब्धम् । न ह्येतावदेव, किंतु यदि तत्पुस्तकं नालप्स्यत, तदा एतट्टीकारचनादिकार्य निष्पन्नमभविष्यन्न वेति नैव निश्चीयते । किंचैतत्पुस्तके टीकायां यत्र यत्र मुद्रितपुस्तकसंबन्धेनोल्लेखः कृतः तत्र तत्र तदेव ( कर्नाटकयन्त्रालये मुद्रितं) निर्दिष्टमिति ज्ञेयम् । ततश्चास्यां टीकायां प्रमादा भवेयुस्तर्हि ममायं नूतन एव प्रयास इत्याकलय्य 'धावतः स्खलनं न दोषाय' इति न्यायेन सदयहृदयैः कोविदाम्यैः क्षम्याः मह्यं निवेदनीयाश्च । तथा दृष्टिदोषस्य नैसर्गिकलात् क्वचिदवधानाभावाद्वा यदि शोधनेऽपि क्वचित्प्रमादाः स्युस्तर्हि तेऽपि सुधीभिः सदयं सहनीयाः मह्यं कथनीयाश्च । तेन हि द्वितीयावृत्तौ पुनः सावधानतया सर्वेषां यथाभिप्रेतं करिष्यामीत्यभीक्ष्णं सविनयं विज्ञापयति । तथा तत्रभवता 'देवस्थळी' इत्युपाभिधेन पण्डितशंकरसूनुना भालचन्द्रशर्मणा शोधनकाले सुहृत्तया यत् साहाय्यं दत्तं तस्यापि महत उपकारान् नैव विस्मरति मनीषिजनचरणानुवा बालकृष्णशर्मा। For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra विषया:१ उपोद्घातः .. २ सूर्यवर्णनम् ३ भूलोकवर्णनम् ४ बदरिकाश्रमवर्णनम् ५ अयोध्यावर्णनम् - ६ गङ्गानदीवर्णनम् ७ काशीवर्णनम् ८ समुद्रवर्णनम् ९ जगन्नाथ क्षेत्रवर्णनम् १० गुर्जरदेशवर्णनम् ११ यमुनानदीवर्णनम् १२ महाराष्ट्रवर्णनम् १३ आन्ध्रदेशवर्णनम् १४ कर्नाटकदेशवर्णनम् १५ वेङ्कटगिरिवर्णनम् विश्वगुणादर्शनिर्दिष्टविषयसूची १६ वनवर्णनम् १७ घटिकाचलवर्णनम् ... *** ... *** ... ... ... *** ... *** ... ... ... ... ... ... ... ... www. kobatirth.org ... श्रीर्जयति । ... CHE १८ वक्षारण्यवर्णनम् १९ श्रीरामानुजवर्णनम् २० चन्नपट्टण (मद्रास) व० २१ काञ्चीवर्णनम्. २२ श्रीमद्वेदान्तदेशिकाचार्यव० २३ का मासिकानगरनृसिंहव० २४ श्रीत्रिविक्रमवर्णनम् २५ श्रीकामाक्षीदेवीव० २६ श्रीमदेकाम्रेश्वरव० २७ क्षीरनदीवर्णनम् ... २८ बाहानदीवर्णनम् २९ तुण्डीरमण्डलव ० ३० चञ्चीपुरी (तंजावूर ) व० ३१ पिनाकिनीगरुडनदीश्रीदेवनायक व ० ... ... ... 200 *** ... *** 630 *** ... ... ... : *** ... :: ... *** :: : ... ... : : Acharya Shri Kailassagarsuri Gyanmandir : : For Private And Personal Use Only ... : :: :: ... : ... ... : :: ... ... : :: : ... ... ... ... ... ... ... *** ... ... ... पृष्ठाङ्काः १ २२ २९ ३२ ४९ ५४ ६७ ७२ ७३ ७८ ८३ ९४ १०० १११ १२० १२२ १२५ १२७ १४९ १५१ १६३ १७० १७२ १७५ १७९ १० ·T “वक्षःस्थले पंतनचा रमा" इत्य भाषायां प्रसिद्ध: ३ सांग Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः २०८ २१२ २१८ २३९ २४१ २४७ २४८ अनुक्रमणिका। विषयाः ३२ श्रीमुष्णक्षेत्रयज्ञवराहव० ३३ कावेरीवर्णनम् ... ३४ श्रीरङ्गनगरीवर्ण० ... ३५ श्रीजम्बूकेश्वर० ... ३६ चोलदेशवर्णनम् ... ३७ कुम्भघोणशाङ्गपाणिव० ३८ चम्पकारण्यश्रीराजगोपालवर्णनम् । ३९ सेतुवर्णनम् ... ४० ताम्रपर्णीवर्णनम् ... ... ४१ कुरुकानगरधीशठकोप० .. ४२ पाण्ड्य-चोलदेशनिवासिस्मार्त-शैवादिव० ४३ वेदान्तिवर्णनम् ... ४४ ज्यौतिषिकवर्णनम् ... ४५ भिषग्वर्णनम् ४६ कविवर्णनम् ४७ तार्किकवर्णनम् ४८ मीमांसकवर्णनम् ४९ वैयाकरणवर्णनम् ५० वैदिकवर्णनम् ... ५१ राजसेवकवर्णनम् ... ५२ दिव्यक्षेत्रादिवर्णनोपसंहारः ५३ कवेर्वाक्यम् २८७ ० mr ० " ३०६ ३११ For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः। विश्वगुणादर्शचम्पू: पदार्थचन्द्रिकाटीकया समेता। उपोडातः १. श्रीराजीवाक्षवक्षःस्थलनिलयरमाहस्तवास्तव्यलोल ल्लीलाजान्निप्पतन्ती मधुरमधुझरी नाभिपद्मे मुरारेः ॥ अस्तोकं लोकमात्रा द्वियुगमुखशिशोराननेष्वर्ण्यमाणं शङ्खप्रान्तेन दिव्यं पय इति विबुधैः शङ्कयमाना पुनातु ॥१॥ श्रीमद्ब्रह्म सनातनं श्रुतिनुतं ध्यानैकगम्यं सदा सर्गाद्यस्य विधायकं त्रिजगतो मोदावहं यत्सदा ॥ सच्चिद्रपतया यदर्थनिचयं व्याप्नोति तेजोमयं भूयात्तत्रिविधातिहारि जगतां श्रीवासुदेवाभिधम् ॥ १॥ नमामि देवी कुलदेवतामहं ब्रह्मादिदेवैरभिसंस्तुतां मुहुः ॥ महादेलग्रामकृताधिवासां महालसाख्यां प्रकृतिं गुणात्मिकाम् ॥ २ ॥ यत्सूक्तिधारासुनिषेचनेन मद्धीलता पल्लविता बभूव ॥ स्मरामि तं श्रीगुरुवेङ्कटौख्यं विनम्रमूर्धा कृतहस्तसंपुटः ॥ ३ ॥ श्रीगणेशं च पितरं विद्वांसं खःस्थितं भजे,॥ अवस्थां मातरं चैव जयन्ती जननप्रदाम् ॥ ४ ॥ गुरुप्रसादसंलब्धव्याकृतिज्ञाव कौशलः ॥ काव्यं विश्वगुणादर्श व्याकरोमि यथामति ॥ ५ ॥ अथ तत्रभवान् श्रीवेङ्कटाध्वरिनामा कविः प्रारिप्सितग्रन्थस्य निर्विघ्नपरिसमा. प्तिमभिलिप्सुः शिष्टाचारप्राप्तं मङ्गलं तच्च "आशीर्नमस्किया वस्तुनिदेशो वापि तन्मुखम्" इत्युक्तत्वादत्र आशीरूपमाचरन् प्राह-श्रीराजीवति । सा मधुरमधुझरी मधुरा मधुनः मकरन्दस्य धारा, अस्मान् सर्वानिति शेषः । पुनातु पवित्रीकरोतु । कीदृशी मधुझरी । श्रीमतो ( राजीवे कमले इव अक्षिणी यस्य तस्य ) राजीवाक्षस्य विष्णोः । “बहुव्रीहौ सक्थ्यक्ष्णो:-" इत्यादिना समासान्तः षन् । वक्षःस्थले निलय आश्लिष्य स्थितिर्यस्यास्तस्या रमाया लक्ष्म्याः "क्षीरोदतनया रमा” इत्य १ निःसरन्ती', 'निःश्रवन्ती'. २ 'महाडदळ' इति महाराष्ट्रभाषायां प्रसिद्धः, ३ सांगलीस्थव्याकरणपाठशालाध्यापकाः. For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [उपोद्घातकाञ्चीमण्डलमण्डनस्य मखिनः कर्नाटभूभृद्रो स्तातार्यस्य दिगन्तकान्तयशसो य भागिनेयं विदुः ॥ मरः । हस्ते वास्तव्यं वर्तमानं यत् लोलत् चलत् लीलाब्जं विलासाथै कमलं तस्मात् । श्रीभगवतो हृदये प्रेम्णा परिरभ्य स्थिताया लक्ष्म्याः करस्थलीलाकमला. दित्यर्थः । मुरारेर्विष्णोर्नाभिपद्मे निष्पतन्ती निर्गलन्ती, पाठान्तरे तु निःस्रवन्ती स्यन्द. माना । उत्प्रेक्षते । द्वे युगे युग्मे चत्वारीत्यर्थः । “युगं युग्मे कृतादिषु" इत्यमरः । मुखानि यस्य स चासौ शिशुश्च तस्य । ब्रह्मण इति यावत् । आननेषु मुखेषु “आननं लपनं मुखम्" इत्यमरः। लोकमात्रा लक्ष्म्या का "इन्दिरा लोकमता मा" इत्यमरः। शङ्खप्रान्तेन करणेन, अर्घ्यमाणं प्रेम्णा समर्प्यमाणं, अस्तोकं बहुलं दिवि भवं दिव्यं स्वयं "तत्र भवः' इति यत् । पयः अमृतं, इति विबुधैः देवैः "देवात्रिदशा विबुधाः सुराः" इत्यमरः । शङ्कयमाना संभाव्यमाना । मधुझरीति संबन्धः। श्रीविष्णोर्वक्षसि प्रेमाश्लेषेण स्थिता लक्ष्मीः कमलं लीलया भ्रामयामास, तस्माद्लन्ती मधुधारा भगवन्नाभिकमलं प्रति संगता,तां च दृष्ट्वा लक्ष्मीःप्रेम्णा निजबालकं शङ्खाओणामृतमेव पाययतीति स्तावकैर्देवैरुत्प्रेक्षितमिति भावः । अत्र लक्ष्मीकरस्थपद्मात् स्रवन्त्यां मधुधारायां दिव्यपयसः संभावनादुत्प्रेक्षालंकारः। तदुक्तम्-“संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्"इति । ननूत्प्रेक्षायामपि संभाव्य-संभावनयोरुपमानोपमेयभाव आवश्यकः स चात्र मुरारेर्नाभिकमलस्य ब्रह्मण आननस्य च यद्यपि संभवति, तथापि लक्ष्मीहस्तस्थपद्मस्य शङ्खस्य च न संभवति । शङ्खस्यैकतो यत्किचिन्मुकुलीभावत्वादेकतश्च विकासशालित्वात् (शङ्खो हि उपरितनभागे प्रसृतः अधोभागे च संकुचितो वर्तते) इति चेत्, श्रीराजीवाक्ष इत्यस्य चन्द्रसूर्याक्ष इत्यर्थः । स यथा-"इरा भू-वाक्-सुराप्सु स्यात्" इत्यमरात् इराशब्दस्य भूवाचकत्वं, तस्य च स्थानवाचकतापि संभवति, तेन श्रियो लक्ष्म्याः इरा स्थानं श्रीरा कमलं, तां आजीवयति विकासयतीति श्रीराजीवः सूर्यः, तथैव 'इरा भू-' इत्यनेनैव कोशेन इराशब्दस्य जलवाचकत्वमपि संभवति, ततश्च इराया जलात् आजीवति उत्पद्यते इति इराजीवश्चन्द्रः, ततश्च श्रीराजीवश्च श्रीराजीवश्च श्रीराजीवौ चन्द्रसूर्यौ “सरूपाणामेकशेषः-" इत्येकशेषः । तौ अक्षिणी यस्य स श्रीराजीवाक्षः । एवं च लक्ष्म्याः करस्थितपद्मस्य एकतश्चन्द्रकिरणसंपर्कादन्यतः सूर्यकिरणसंपर्काच्च मुकुलितत्वं विकासशालित्वं च संभवति, तेन शङ्खस्य पद्मस्य चोपमानोपमेयभावः संभवतीति ज्ञेयम् । स्रग्धरा वृत्तमेतत् "म्रभर्यानां त्रयेण त्रि-मुनि-यतियुता स्रग्धरा-" इति तल्लक्षणात् ॥ १ ॥ अधुना कविः स्वकीयकाव्यरचनासामर्थ्यप्रकटनाय पूर्वजप्रशंसापूर्वकं स्वस्य कोविदत्वं प्रपञ्चयंश्चिकीर्षितं ग्रन्थं प्रतिजानीते-काञ्चीति । काञ्चीमण्डलस्य काश्चीनगरीराष्ट्रस्य मण्डनः भूषणभूतः तस्य । खकीयविद्वत्त्वप्रभावेण काञ्चीराजधान्यां प्रसिद्धस्येति भावः । मखिनः प्रशस्तयज्ञकर्तुः । प्रशंसार्थेऽत्र मतुबर्थ इनिः । “भूम-निन्दा-प्रशंसासु" इत्याद्यक्तः । कर्नाटभभृतः कर्नाटदेशाधिपते For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -प्रकरणम् १] पदार्थचन्द्रिकाटीकासहिता । अस्तोकाध्वर कर्तुरप्पय गुरोरस्यैष विद्वन्मणेः पुत्रः श्रीरघुनाथदीक्षितकविः पूर्णो गुणैरेधते ॥ २ ॥ तत्सुतस्तर्क-वेदान्त-तन्त्र-व्याकृतिचिन्तकः ॥ व्यक्तं विश्वगुणादर्श विधत्ते वेङ्कटाध्वरी || ३ || पद्यं यद्यपि विद्यते बहु सतां हृद्यं विगद्यं न तत् गद्यं च प्रतिपद्यते न विजहत्पद्यं बुधाखाद्यताम् ॥ "" (6 राज्ञः कृष्णराय संज्ञकस्य " भूभृद्भूमिधरे नृपे" इत्यमरः । गुरोः वेदादेरध्यापकस्य । यद्यपि " स्यान्निषेकादिकृद्गुरुः इत्यमरात् निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स विप्रो गुरुरुच्यते" इति मनुस्मृतेच गर्भाधानादिसंस्कार कर्तुः पितुरेव गुरुत्वं संभवति, तथापि तथात्रासंभवादध्यापकस्यैव गुरुत्वं ग्रन्थकर्तुरभिप्रेतम् । अन्यथा 'कर्नाटभूभृत्पितुः' इत्येव ब्रूयात् । तथा चाह मनुरपि - "अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह गुरुं विद्यात् ” इति । एवं च गुरुशब्देनाध्यापकग्रहणे न दोष इत्यलमप्रस्तुतपल्लवितेन । दिगन्तेषु कान्तं मनोहरं श्राव्यमिति यावत् । यशः कीर्तिर्यस्य तस्य । तातार्यस्य ताताचार्यस्य । यं (अप्पयगुरुं ) भागिनेयं भगिनीपुत्रं, भगिनीशब्दात् "स्त्रीभ्यो ढक्” इत्यपत्यार्थे ढक् । “स्वस्त्रीयो भागिनेयः स्यात्" इत्यमरः । विदुः जानन्ति । लोका इति शेषः । 'विद ज्ञाने' इत्यस्माल्लट् । "विदो लटो वा” इति उस् । अस्य तातार्यभागिनेयस्य अस्तोकानां बहूनामध्वराणां ज्योतिष्टोमादियागानां "यज्ञः सवोऽध्वरो यागः” इत्यमरः । कर्तुः अनुष्ठातुः । विद्वत्सु पण्डितेषु मणेः श्रेष्ठस्य, अप्पयगुरोः अप्पयदीक्षितस्य, एष प्रसिद्धः पुत्रः श्रीरघुनाथदीक्षिताख्यः कविः, गुणैः सौशील्यादिकैः पूर्णः सन् एधते वर्धते । शार्दूलविक्रीडितं वृत्तम् । “सूर्याश्वैर्म-स- जास्त ताः सगुरवः शार्दूलविक्रीडितम्” इति तल्लक्षणात् ॥ २ ॥ तत्सुतइति । तस्य रघुनाथदीक्षितस्य सुतः पुत्रः, तर्कश्च वेदान्तश्च तन्त्रं मीमांसां च व्याकृतिर्व्याकरणं च तेषां चिन्तको विवेचकः ज्ञातेत्यर्थः । वेङ्कटाध्वरी एतन्नामा कविः विश्वगुणादर्श विश्वस्य जगतो गुणा आदृश्यन्तेऽस्मिन्निति तथाभूतं 'दृशिर् प्रेक्षणे' इत्यस्मादाङ्पूर्वकादधिकरणे घञ् । अथवा विश्वगुणादर्श इति संज्ञा । तथाच “पुंसि संज्ञायां घः प्रायेण” इति घः । एवमन्वर्थे चम्पूग्रन्थं, व्यक्तं प्रसिद्धं यथा स्यात्तथा विधत्ते करोति । 'डुधाञ् धारण-पोषणयोः । इत्यस्माद्धातोर्लट् । वृत्तमनुष्टुप् “पञ्चमं लघु सर्वत्र" इत्यादितलक्षणात् ॥ ३ ॥ अथ कविः खचिकीर्षितप्रबन्धस्येतर प्रबन्धविलक्षणतामाह - पद्यमिति । (लोके) यद्यपि पद्यं केवलं श्लोकरूपं काव्यं रघुवंश-कुमारसंभव - माघ किरातार्जुनीयादिकं, तच्च हृद्यं मनोहारि विद्यते, तथापि तत् विगद्यं गद्यरहितं ( अस्ति तस्मात् ) सतां बहु १ 'रस्येष'. २ 'पूर्णैर्गुणै'. For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [उपोद्धातआदत्ते हि तयोः प्रयोग उभयोरामोदभूमोदयम् सङ्गः कस्य हि न वदेत ? मनसे माध्वीक-मृद्वीकयोः ॥ ४ ॥ विश्वावलोकस्पृहया कदाचिद्विमानमारुह्य समानवेषम् ॥ कृशानु-विश्वावसुनामधेयं गन्धर्वयुग्मं गगने चचार ॥ ५ ॥ तंत्र कृशानुरकृशासूयः पुरोभागिपदं गतः ॥ अतिमनोहरं रसिकानां यथेप्सितमनोहरमित्यर्थः । न भवति । तर्हि गद्यमेव कर्तव्यमित्याह । गद्यं च गद्यमपि ( तत्तु कादम्बर्यादिकं) पद्यं विजहत् पद्यरहितं ( विद्यते, तस्मात्तदपि) 'ओहाक् त्यागे' इत्यस्मात् शतृप्रत्ययः । बुधानां उभयोरपि मर्मज्ञपण्डितानां, आखाद्यतां रुच्यहतां न प्रतिपद्यते न प्राप्नोति । तर्हि कि विधमिष्टं स्यादित्याकाङ्कायामाह-आदत्ते इति । हि यस्मात् कारणात् तयोर्गद्य. पद्ययोरुभयोः प्रयोगः प्रकृष्टो योगः अस्ति यस्मिन् सः, अत्र अर्शआदित्वात् मत्वर्थीयोऽच् । तादृशश्रम्पूप्रवन्धः । “गद्य-पद्यात्मकं काव्यं चम्पूरित्यभिधीयते” इति वचनात् । आमोदस्यानन्दस्य "मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोद-संमदाः" इत्यमरः । भूम्नः अतिशयस्योदयमुत्पत्तिं विधत्ते करोति । हि यतः माध्वीकं मधु च "मधु माध्वीकमद्ययोः" इत्यमरः । मृद्वीका द्राक्षा च "मृद्वीका गोस्तनी द्राक्षा" इत्यमरः । तयोः सङ्गः एकत्र योगः । कस्य मनसे न खदेत कस्य मनसे रुचिं नोत्पादयेत् ? अपि तु सर्वस्मै रोचतेत्यर्थः । 'स्वद आस्वादने' इत्यस्य विधिलिङि रूपम् । मनसे इत्यत्र च "रुच्यर्थानां प्रीयमाणः” इति चतुर्थी । अर्थान्तरन्यासोऽत्रालंकारः । विशेषेण सामान्यस्य समर्थनात् । तदुक्तम्-“सामान्यं वा विशेषो वा तदन्येन सम र्थ्यते । यत्र सोऽर्थान्तरन्यासः" इति । वृत्तं शार्दूलविक्रीडितम् । लक्षणं प्राक् ( २ श्लोकटीकायां ) कथितम् ॥ ४ ॥ संप्रति कविः खकाव्ये वर्णनीयकथाप्रस्तावमाह-विश्वावलोकेति । कदाचित् विश्वस्य जगतोऽवलोककश्चमत्कारप्रेक्षणं तस्य स्पृहया इच्छया “इच्छा कासा स्पृहेहा तृद" इत्यमरः। समानस्तुल्यो वेष आकल्पः यस्य तत्, कृशानुरिति विश्वावसुरिति च नामधेये नामनी यस्य "भागरूपनामभ्यो धेयः" इति नामशब्दात्स्वार्थिको धेयः। तत् गन्धर्वयोर्युग्मं द्वौ गन्धर्वा वित्यर्थः । विमानं व्योमयानं "व्योमयानं विमानोऽस्त्री" इत्यमरः । आरुह्याधिरुह्य, गगने आकाशे "-गगनमनन्तं” इत्यतः “पुस्याकाश-विहायसी" इत्यन्तोमरः । चचार । उपजातिवृत्तम् । “अनन्तरोदीरित( इन्द्रवज्रोपेन्द्र. वज्रा) लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति तल्लक्षणात् ॥ ५॥ द्वयोर्गन्धर्वयोरवस्थाविशेषमाह-तत्रेति । तत्र द्वयोर्मध्ये इत्यर्थः । कृशानुरिति । कृशानुः कृशानुनामा गन्धर्वः । अकृशा बहुला असूया गुणेषु सत्वपि दो १ 'आधत्ते'. २ 'रूपम्'. ३ 'तत्र तु'. For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -प्रकरणम् १।२ ] पदार्थचन्द्रिकाटीकासहिता । विश्वावसुरभूद्विश्वगुणग्रहणकौतुकी ॥ ६ ॥ अथ सूर्यवर्णनम् २. अथ पुरतः समापतन्तमरविन्दबान्धवमवलोकयन्नवन्दैतागमसागरपारदृश्वा विश्वावसुः। विश्वावसुः-ब्रह्मचर्यव्रतोत्सर्गगुरवे कोकसन्ततः ॥ छायाविब्बोकलोलाय छान्दसज्योतिषे नमः ॥ ७ ॥ षाविष्करणं “अक्षान्तिाऽसूया तु दोषारोपो गुणेष्वपि" इत्यमरः। यस्य तथाभूतः सन्, पुरोभागिनः दोषैकदृशः "दोषकदृक् पुरोभागी” इत्यमरः । पदं स्थानं "पदं व्यवसित-त्राण-स्थान-लक्ष्माङ्गि-वस्तुषु" इत्यमरः । गतः प्राप्तः अभूत् । अनेन वस्तुतो गुणग्राहित्वेऽपि गुणदाार्थमेव बहिश्यमानं पुरोभागित्वं नटवत्स्वीकृतमिति सूचितम्। “दााय गुणसमृद्धेः" इत्येतद्न्थान्ते तेनैवोक्तत्वात्। विश्वावसुस्तु विश्वं वसु धनं यस्येति “वसू रत्ने धने वसु" इत्यमरः । "विश्वस्य वसुराटोः" इत्यनेन विश्वशब्दस्य दीर्घः । विश्वस्य गुणानां ग्रहणे वर्णने कौतुकी कुतूहलवान् । अभूत् आसीत् । अनेन तेनात्मनाम अन्वर्थकं कृतमिति ध्वनितम् । वृत्तमनुष्टुप् । लक्षणं पूर्व [ ३ श्लो. टीकायाम् ] उक्तम् ॥ ६ ॥ "पुरोभागिपदं गतः” “विश्वगुणग्रहणकौतुकी" इत्यनेनास्मिन्काव्ये प्राधान्यतया विश्वगुण दोषवर्णनमेव विषय इति द्योतितं, तत्र प्रथमतः माङ्गल्यतया च "आदित्याजायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इति स्मृतेः “अथादित्य उदयन् यत्प्राची दिशं प्रविशति तेन प्राच्यान्प्राणान् रश्मिषु संनिधत्ते यद्दक्षिणां यत्प्रतीची यदधो यदूर्ध्व यदन्तरा दिशो यत्सर्व प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु संनिधत्ते” इति श्रुतेः। जगत्प्राणभूतत्वेन च सूर्यवर्णनमेवोचितमिति द्योतयन्प्रस्तौति-अथेति । अथ द्वाभ्यां (कृशानु-विश्वावसुभ्यां ) यथायथं खानुरूपस्थानखीकारानन्तरं, पुरतोऽग्रतः समा. पतन्तमुदयमानं अरविन्दबान्धवं सूर्यमवलोकयन्, आगमानां वेदानां सागरस्य पारमन्तं दृष्टवान् इति तथाभूतः । सकलवेदार्थज्ञातेत्यर्थः । दृश्वेत्यत्र "दृशेः क्वनिप्" इति कनिप् प्रत्ययः । विश्वावसुः अवन्दत सूर्य नमश्चकार । तदेवाह-ब्रह्मचर्येति । कोकानां चक्रवाकानां "कोकश्चक्रश्चक्रवाकः" इत्यमरः । संततेः समुदायस्य, ब्रह्मचर्यव्रतस्य मैथुनाभावस्य उत्सर्गस्त्यागः तस्मिन् कर्मणि गुरवे आचार्याय । चक्रवाकानां निशि विरहावस्थासत्त्वात् प्रातः सुरतावसरप्रदायकायेत्यर्थः । छायया सूर्यप्रियया "छाया सूर्यप्रिया कान्तिः” इत्यमरः । यो विब्बोको विलासः "स्त्रीणां विलास-विब्बोक-" १ 'अवन्दतैनम्'. २ 'आगमसार'. ३ 'बिम्बैक'. For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: [सूर्य कृशानु:-अरे सकल वनसंशोषकारिणं तपनमैपि किं नमनकर्मीकरोषि ? ॥ १ ॥ पश्यपान्थान् दीनानहह वसुमानातपान्धान विधत्ते शुष्कां पृथ्वी रचयतितरां शोषयत्योषधीश्च ।। इत्यमरः । तस्मिन् लोलाय सतृष्णाय सोत्सुकायेति यावत् । “लोलश्चलसतृष्णयोः" इत्यमरः । छान्दसं छन्दसि भवं वेदप्रतिपाद्यमिति यावत् “तत्र भवः' इति भवार्थेऽण् । ज्योतिस्तेजो यस्य सः तस्मै । तथाच श्रुतिः--"विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः" इति । श्रुत्यर्थस्तु-'विश्वरूपं सर्वरूपं हरिणं किरणवन्तं, जातं वेदो ज्ञानं यस्य तज्जातवेदसं जातप्रज्ञमित्यर्थः । परायणं परं उत्तमं अयनं (प्राणानां ) आश्रयभूतम् । एकं चक्षुर्भूतं ज्योतिस्तेजोरूपं तपन्तं तापक्रियया वर्तमानम् । ब्रह्मविदो विदुरिति शेषः। कोऽसौ यं विदुः तदाह-सहस्ररश्मिरिति । इत्यादि स्पष्टम्।' अथवा छान्दसं “तत्सवितुर्वरेण्यं" इति गायत्रीच्छन्दःप्रतिपाद्यं ज्योतिर्यस्य तथाभूतः। तथा चायमर्थः'यः सूर्यो नः सर्वेषामस्माकं धियो बुद्धीः प्रेरयति, तस्य जगदुत्पादकस्य सवितुः। तत् प्रसिद्धं वरेण्यं श्रेष्ठं भर्गस्तेजो वयं धीमहि ध्यायेमेत्यर्थः' इति । तादृशाय सूर्याय नमः नमस्करोमीति यावत् । 'नमःखस्ति' इत्यादिना चतुर्थी । वृत्तमनुष्टुप् ॥ ७ ॥ सूर्य वर्णयन्तं विश्वावसुं दृष्ट्वा जगत्संतापकारित्वं तद्दोषमुद्भाव्याह कृशानु:-अरे इति । अरे भो विश्वावसो, सकलभुवनानां संशोषणं करोतीति तथाभूतं "सुप्यजातौ-" इति ताच्छील्ये णिनिः । अत एव तपनं तप्यते अनेन जगदिति तं, "कर. णाधिकरणयोश्च" इति ल्युट । तापरूपमपि सूर्यमित्यर्थः। किं कथं नमनक्रियायाः कर्मरूपं करोषि । तं नमस्करोषीत्यर्थः । अभूततद्भावे चिः । तस्मिंस्तापकारित्वदोषसत्त्वात् नमनमयुक्तमिति भावः ॥ १॥ तदेवाह-पश्येति । पान्थानिति । अयं वसुमान् वसवः किरणा: विद्यन्ते अस्येति विग्रहः । "तदस्यास्त्य-" इति मतुप । किरणवान सूर्य इत्यर्थः । "रश्मौ वसू रत्ने धने वसु" इत्यमरः । दीनान् अध्वगमनखिन्नान् पान्थान् पथिकान् “पन्थो ण नित्यम्" इति णः । आतपान्धान आतपेन प्रकाशेन "प्रकाशो द्योत आतपः" इत्यमरः । अन्धान् दृष्टिहीनान् विधत्ते करोति । अहह इति खेदे । एतदतिकष्टमित्यर्थः । दीनान् पान्थान् इत्यनेन दीनानामेव क्लेशाधिक्यं सूचितं, ये तावददीनाः संपत्तिमन्तः, ते तु छत्र-शकटादिसाधनैरातपं दूरीकर्तुं शक्नुवन्ति । तस्मात् दीनानां क्लेशदायित्वं महतामयुक्तमिति भावः । तथा पृथ्वीं शुष्कां जलहीनां "शुषः कः" इति निष्ठातस्य कः। रचयतितरां अतिशयेन करोति । रचयति इत्यस्मात् अति. शयार्थे 'तिङश्च' इत्यनेन तरप्, तदन्ताच “किमेत्तिङव्यय-" इत्यादिना आमुः। १ सखे कथं'. २ 'भुवनशोषकारिणं'. ३ 'तपनमपि नमनक०'. For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २ ] पदार्थचन्द्रिकाटीकासहिता । कासाराणां हरति विभवं क्लोन्तिशान्तिप्रदानाम् क्रूरस्यैवं गुणलवकथा का ? खतो भाखतोऽस्य ॥ ८ ॥ विश्वावसुः - किमरे भगवन्तमरविन्दबान्धवमपि विनिन्देसि ? शृणु पुरोभागिन् ॥ २ ॥ वृष्टिं दृष्टिभिरारचय्य जगतस्तुष्टिं सरीसष्टि यः पुष्टिं द्वारा विशिनष्टि दृष्टिषु नृणां ध्वान्तं पिनष्टि स्थिरम् || प्राज्ञानामपवर्गमार्गदममुं पद्मागृहोल्लासिनं को न स्तौति ! समस्तलोकसुहृदं द्योभूषणं पूषणम् ॥ ९ ॥ ७ ओषधीः फलपाकानन्तरं नाशवन्तो व्रीहि-यवादयः " ओषध्यः फलपाकान्ताः" इत्यमरः । मनुरपि - " ओषध्यः फलपाकान्ता बहुपुष्प फलोपगाः" इत्याह । शोषयति सत्त्वहीनाः करोति च । ननु पान्थानां पथि जलपानप्राप्तेः क्लेशः सुपरिहर इत्याशय, तदपि दुर्लभमित्याह- कासाराणामिति । क्लान्तिशान्तिप्रदानां श्रमशान्तिकराणां प्रदद तीति प्रदाः क्लान्तेः शान्तिप्रदास्तेषामिति विग्रहः " आतश्चोपसर्गे -" इति कः । कासाराणां सरोवराणां " कासारः सरसी सरः" इत्यमरः । विभवं जलरूपमैश्वर्ये हरति नाशयति । एवं च दीनानां पथि जलपानमात्रं साधनमपि विनाशयतीति भावः । एवमित्थं स्वभावतः क्रूरस्य निर्दयस्य, अस्य पुरतो दृश्यमानस्य भाखतः सूर्यस्य "भास्वद्विवस्वत्सप्ताश्व -" इत्यमरः । गुणानां सद्गुणानां लवस्य लेशस्यापि "लव-लेशकणाणवः" इत्यमरः । कथा वार्ता का ? अपि तु नास्तीत्यर्थः । अत्र ' पान्थान् दीनान् आतपान्धान् विधत्ते' इत्यादिवाक्यं क्रूरत्वस्य हेतुरूपं, तस्मात् काव्यलिङ्गमलंकारः “काव्यलिङ्गहेतोर्वाक्यपदार्थता" इति तलक्षणात् । मन्दाक्रान्ता वृत्तम् । " मन्दाक्रान्ता जलधि-षडगैम्भ न-तौ ताद्गुरू चेत्” इति तलक्षणात् ॥ ८ ॥ एवं तद्वचनं श्रुत्वा न भवता सम्यग्विचारितमित्यभिप्रेत्य सतिरस्कारमाह विश्वावसुः - किमरे इति । अरे कृशानो, भगं तेजोऽस्यास्तीति भगवान् " ऐश्वर्यस्य समग्रस्य तेजसो यशसः श्रियः । ज्ञान-वैराग्ययोश्चैव षण्णां भग इतीङ्गना" इति । तं न केवलं तेजोयुक्तमेव, अपि तु अरविन्दबान्धवं अरविन्दानां कमलानां विकासकरणात् बन्धुसदृशं एतादृशमपि सूर्य निन्दसि ? अत एव हे पुरोभागिन् दोषैकदृष्टे, शृणु आकर्णय एतद्वक्ष्यमाणमिति शेषः ॥ २ ॥ किमाकर्णयेतिचेत्तदाह-वृष्टिमिति । यः सूर्यः पृष्टिभिः किरणैः “पृष्टिर्वराहे रश्मी च सूर्ये पुंस्यौषधौ स्त्रियाम्” इति शब्दरत्नमञ्जूषायाम् । वृष्टिं वर्षणं आरचय्य कृत्वा, 'रच प्रतियत्ने' इत्यस्माण्णिजन्ताध्यप् “ल्यपि लघुपूर्वात्" इति णेरयादेशः । सर्वतः किरणान् प्रसार्येति यावत् । जगतः तुष्टिं तोषं सरीसर्टि अतिशयेनोत्पादयति 'सृज १ 'कान्त'. २ 'विनिन्दयसि '. For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [सूर्ययदा न पश्यन्ति तमोविमर्दिनं रविं जनास्तत् कथयन्ति दुर्दिनम् ॥ धिनोति चाम्भोजततिं सरोगतां धुनोत्यसौ देहभृतां सरोगताम् ॥ १० ॥ विसर्गे' इत्यस्माद्यङ्लुकि लटो रूपम् "रुनिकौ च लुकि" इत्यभ्यासस्य रिगागमः । तथा नृणां दृष्टिषु नेत्रेषु "नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टी" इत्यमरः। द्राक् उदयसमकालमेव “द्राङ् मङ्घ सपदि द्रुते' इत्यमरः । पुष्टिं पोषणं विशिनष्टि विशेषेणोत्पादयति 'शिष्ल विशेषणे' इत्यस्माद्रुधादिकाल्लट् । तथा स्थिर निखिलनिशां व्याप्य स्थितं ध्वान्तमन्धकारं "अन्धकारोऽस्त्रियां ध्वान्तं” इत्यमरः। पिनष्टि चूर्णीकरोति विनाशयतीति यावत् । 'पिष्ल संचूर्णने' इत्यस्मालट् । किंच प्राज्ञानां यथार्थतया तन्माहात्म्याभिज्ञानां पण्डितानां "धीरो मनीषी ज्ञः प्राज्ञः” इत्यमरः । अपवर्गस्य मोक्षस्य "मोक्षोऽपवर्गः' इत्यमरः। मार्गदं मार्गप्रदातारं, ज्ञानिनो हि सूर्यमण्डलमार्गेण मुक्तिं प्राप्नुवन्ति इति प्रसिद्धिः। तथा च श्रुतिः "अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्ते" इति । "द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । योगनिर्भिन्नमूर्धेकोऽपरावृत्तमृतः परः” इति स्मृतिश्च । अपि च पद्माया लक्ष्म्या गृहाणि निवासस्थानानि कमलानि तेषामुल्लासं विकासं करोतीति तथाभूतं, ताच्छील्ये णिनिः । एतादृशगुणविशिष्टत्वादेव च समस्तानां लोकानां सुहृदं निरपेक्षतया हितकर, द्योः आकाशस्य "द्यो-दिवौ द्वे स्त्रियामभ्रं" इत्यमरः । भूष. णमलंकारभूत अमुं, एवं विशिष्टबहुसद्गुणयुक्तं, पूषणं सूर्य "विकर्तनार्क-मार्तण्ड मिहिरारुण-पूषणः" इत्यमरः । कः पुरुषः न स्तौति स्तुति न करोति ? अपि तु सर्व एव स्तुवन्तीत्यर्थः । 'टुञ् स्तुतौ' इत्यस्मात् लद । "उतो वृद्धिः-" इत्यादिना वृद्धिः । न त्वादृशा एव सर्वे वृथादोषैकदर्शिन इति भावः । अत्र 'वृष्टिं घृष्टिभिः' इत्यादौ वर्णसाम्यात् अनुप्रासोऽलंकारः “वर्णसाम्यमनुप्रासः" इति तल्लक्षणात् । तस्यैव वाक्यस्य 'को न स्तौति' इत्यस्य हेतुरूपतया च काव्यलिङ्गं, एवमुभौ मिलित्वा संसृष्टिरलंकारः। तदुक्तम्-"सैषा संसृष्टिरेतेषां ( अलंकाराणां ) भेदेन यदिह स्थितिः” इति । शार्दू. लविक्रीडितं वृत्तम् । लक्षणं प्राकू (२ श्लो० टीकायां) उक्तम् ॥ १ ॥ किंच नैतावदेव किंतु अन्यदपि तन्महत्त्वं शुण्वित्याह-यदेति । जनाः तमः अन्धकार “अन्धकारोऽस्त्रियां ध्वान्तं तमिस्र तिमिरं तमः” इत्यमरः । विमर्दयति नाशयतीति तथाभूतं रविं सूर्य, यदा न पश्यन्ति, तदा तत् दुर्दिनं दुष्टदिनं कथयन्ति। यदा मेघाच्छादनात् सूर्य स्यादर्शनं भवति, तदा लोकास्तदुर्दिन मिति वदन्तीति भावः। तदुक्तममरे' "मेघच्छन्नेऽह्नि दुर्दिनम्” इति । अपि च असौ सूर्यः सरसि सरोवरे "कासारः सरसी सरः” इत्यमरः । गता स्थिता सरोगता तां, अम्भोजानां कमलानां तति समुदायं धिनोति प्रीणयति विकासयताति यावत् 'धिवि प्रीणने' इत्यस्मात् भ्वादेर्लट् । 'धिन्विकृण्व्योरच' इत्यनेन शब्विषये वकारस्याकार उप्रत्ययश्च । तथा देहं बिभ्रति धारयन्ति ते देहभृत; प्राणिनस्तेषां, रोगेण सहिताः सरोगास्तेषां भाबः सरोगता तां, धुनोति नाशयति 'धुञ् कम्पने' इत्यस्य रूपम् । “आरोग्यं For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २] पदार्थचन्द्रिकाटीकासहिता । आशापालेषु पाशायुध-यम-बलभिन्मारुतेशादिकेषु प्रायो भूयस्सु जाग्रत्स्वपि च शुचितया भासुरा भूसुराद्याः ॥ यस्मै कालत्रयेऽपि प्रतिदिवसममी कुर्वतेऽर्ध्यप्रदानं सैषा त्रय्येव विद्या तपति रविमयी सर्वलोकान् पुनाना ॥११॥ भास्करादिच्छेत्” इत्याद्यागमात्सूर्यस्यैव रोगनाशकरत्वं प्रसिद्धम् । अत्र प्रतिपादान्ते समानवर्णानां पुनः पुनः श्रवणात् यमकालंकारः । 'अर्थे सत्यर्थभिनानां वर्णानां सा पुनः श्रुतिः । यमकं पाद-तद्भागवृत्ति-" इत्यादितल्लक्षणात् । वंशस्थवृत्तम् । “ज-तौ तु वंशस्थमुदीरितं ज-रौ' इति तल्लक्षणात् ॥ १० ॥ किंच आशापालेष्विति । अमी शुचितया अन्तःकरणशुद्ध्या भासुरा दीप्तिमन्तः 'भासू दीप्तौ' इत्यस्मात् 'भञ्ज-भास-मिदो घुरच्' इति घुरच् प्रत्ययः । भूसुरा ब्राह्मणा आद्याः येषु ते । ब्राह्मण-क्षत्रिय-वैश्या इत्यर्थः । पाशायुधो वरुणश्च "प्रचेता वरुणः पाशी" इत्यमरः । यमश्च बलं बलनामानमसुरं भिनत्तीति बलभिदिन्द्रश्च अत एवामरे तस्य बलरातित्वमुक्तम् "बलारातिः शचीपतिः” इति । “अन्येभ्योऽपि दृश्यन्ते” इति क्विप् । मारुतो वायुश्च “समीर-मारुत-मरुत्-"इत्यमरः । ईश ईश्वरश्च आदयो येषां अग्नि-निर्ऋति-सोमानां तेषु पाशायुध-यम-बलभिन्मारुतेशादिकेषु । भूयस्सु बहुषु अष्टखित्यर्थः । आशाः दिशः “दिशस्तु ककुभः काष्ठा आशाश्च" इत्यमरः । पालयन्ति रक्षन्तीति आशापालास्तेषु दिक्पालकेषु, जाग्रत्सु खस्खाधिकारतत्परेषु सत्स्वपि । 'जाग निद्राक्षये' इत्यस्मात् शतृप्रत्ययः। यस्मै सूर्यायैव प्रतिदिवसं कालत्रयेऽपि प्रातर्मध्याह्ने सायं चेति त्रिकालमित्यर्थः । प्रायः अय॑स्य प्रदानमर्पणं कुर्वते कुर्वन्ति । 'डुकृञ् करणे' इत्यस्माद्वर्तमाने लट् । 'अत उत्सार्वधातुके' इति गुणो. त्तरमुकारादेशः । “आत्मनेपदेष्वनतः” इति झस्यादादेशः । केचिजनाः सूर्यादन्यां देवतामपि भजन्ते, किंतु न सूर्य विहाय, अपि तु प्रथमं संध्यावन्दनसमये सूर्यायाऱ्या प्रदायैव भजन्ते, इति 'प्रायः' इत्यनेन सूचितम् । संध्यावन्दनमन्तरान्यस्मिन् कस्मिश्चिदपि कर्मण्यनधिकारात् । अर्घ्यप्रदानं हि गायत्रीमन्त्रेण विहितं, स च मन्त्रो वेदत्रयादुद्धृतः, अत एव तस्य त्रिपात्त्वं, तदुक्तं मनुना-"त्रिभ्य एव तु वेदेभ्यः पादं पादमददुहत्” इति । यस्मादेवं तस्माद्भगवान् सूर्यो वेदत्रयीरूप एवेति संभाव्याहसैषेति ।सा एषा मूर्तिमती रविमयी सूर्यरूपा, सर्वलोकान् पुनाना पवित्रयन्ती सती 'पूञ् पवने' इत्यस्मात् शानच् । त्रयी वेदत्रयीरूपा विद्यैव "स्त्रियामृक्साम-यजुषी इति वेदास्त्रयस्त्रयी" इत्यमरः। तपति प्रकाशते। अत्र सूर्ये वेदत्रयारोपात् उत्प्रेक्षालंकारः। स्रग्धरा वृत्तम्। अस्य द्वयस्यापि लक्षणं प्राक् (प्र. १ श्लोकटीकायां) उक्तम् ॥११॥ For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: [सूर्यकृतत्रिदशपोषणं केशरथाङ्गसंतोषणं पिशाचकुलभीषणं विहितवारिजोन्मेषणं । विनम्रगदशोषणं विहितवारिजोन्मेषणं __ नमस्कुरुत पूषणं ननु नभःस्थलीभूषणम् ॥ १२ ॥ इत्थं विश्वावसुर्विभावसुमभिष्टुवन् प्राञ्जलिः कृशानुना सह द्वादशात्मानं समया गमयामास विमानम् । आनमच्च तबिम्बमध्यधामानमतिमानमहिमानं परमात्मानम् । __ अथेदानीं सामान्यतः सूर्यवर्णनमुपसंहरन् एवंविधमहिमवते भगवते तस्मै नमस्काराचरणमेव श्रेय इत्यभिप्रयन्नाह-कृतेति । कृतं त्रिदशानां देवानां पोषणं येन तं, "वसन्ते वसन्ते ज्योतिषा यजेत" इत्यादिश्रुतिभिस्तावद्वसन्तादिविशिष्टकाले गज्ञादि कर्म विहितं, तस्मिन् कर्मणि समर्पितहविरा देवानां पोषणं भवति । तत्कालनिर्माणं च सर्वथा सूर्याधीनं, तस्मात् देवतानां पोषणमपि सूर्यायत्तमेवेति भावः । कृशाः निशि विरहेणेति शेषः । खिन्नाः ये रथाङ्गाश्चक्रवाकाः तेषां संतोषण. मानन्दजनकं "कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः" इत्यमरः । तथा पिशाचानां कुलस्य समुदायस्य भीषणं भयोत्पादकम् । पिशाचानामह्नि संचाराभावो हि प्रसिद्धः । तथा पृथुतमश्छटापेषणं तमसः छटा तमसश्छा पृथ्वी महती या तमश्छटा अन्धकारसमुदायः निबिडान्धकार इति यावत् । तस्याः पेषणं नाशकम् । तथा विनम्राणां अनन्यभक्त्या शरमागतानां गदस्य रोगस्य “रोग-व्याधि-गदामयाः" इत्यमरः। शोषणं निवारकम् । विहितं कृतंवारिजानांकमलानां उन्मेषणं विकसनं येन तथाभूतम् । किंच नभः आकाश एव स्थली अकृत्रिमस्थलं “जानपद-कुण्ड-गोण-स्थल" इत्यादिना स्थलशब्दात् अकृत्रिमार्थे ङीष् । तस्याः भूषणमलंकारभूतं, एतादृशं पूषणं भगवन्तं श्रीसूर्य, ननु निश्चयेन नमस्कुरुत । यूयं सर्वे जना इति शेषः । अत्र 'कृतत्रिदशपोषणं' इत्यादिवाक्यस्य नमस्करणहेतुलात् काव्यलिङ्गमलंकारः। पृथ्वी वृत्तम् "द्वितीयमलिकुन्तले गुरुषडष्टमद्वादशं चतुर्दशमथ प्रिये गुरुगभीरनाभिह्रदे। सपञ्चदशमन्तिमं तदनु यत्र कान्ते यतिर्गिरीन्द्र-फणभृत्कुलैर्भवति विद्धि पृथ्वीति सा" इति तल्लक्षणात् ॥ १२॥ इत्थं सामान्यतः सूर्य वर्णयित्वा तद्गतविशेषधर्मानुवर्णनाथ प्रस्तौति कविः-इत्थं विश्वावसुरित्यादिना । इत्थमुक्तप्रकारेण, विश्वावसुः प्राञ्जलिः कृताञ्जलिः सन् , विभावसुं सूर्य "चित्रभानुर्विभावसुः” इत्यमरः। अभिष्टुवन् तस्य स्तुतिं कुर्वन् सन्, कृशानुना सह । अत्र “सहयोगेऽप्रधाने" इत्यनेन तृतीया । द्वादश आत्मानो मासभेदेन अवयवा यस्य स तं, समया सूर्यस्य समीपमित्यर्थः । “द्वादशात्मा दिवाकरः” इत्यमरः । अत्र "अभितः परितः-समया-निकषा-हा-प्रतियोगेऽपि" १ 'कृत'. For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् २] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिकाटीकासहिता । प्रशस्तगुणसिन्धवे प्रपदनस्पृशां बन्धवे खतोऽपहतपाप्मने सकलदेहिनामात्मने ॥ नमः कमलवासिनीनयनसोख्यसंदयिने तमः शमविधायिने तरणिमण्डलस्थायिने ॥ १३ ॥ ११ C इति द्वितीया । सूर्यस्य मासभेदेन द्वादशावयवत्वं " पञ्चपादं पितरं द्वादशाकृतिं” इति प्रश्नोपनिषदि भाष्ये श्रीमच्छंकराचार्यैः प्रतिपादितम् -'द्वादशाकृतिं द्वादश मासा आकृतयोऽवयवा आकारणं वा अवयविकरणमस्य " इति । विमानं गमयामास प्रापयामास । गमयित्वा च किं कृतवांस्तदाह - आनमश्चेति । तस्य सूर्यस्य बिम्बमध्ये मण्डलमध्ये धाम स्थानं यस्य तम् । अतिमानः मानं प्रमाणं अतिक्रान्तः महिमा माहात्म्यं यस्य तं परमात्मानं श्रीनारायणरूपं आनमश्च नमस्कृतवान् । नारायणस्य सूर्यमण्डले स्थितत्वं "ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः" इत्याया - गमे प्रसिद्धम् ॥ वन्दनप्रकारमेवाह - प्रशस्तेत्यादिना । प्रशस्ताः स्तुत्याः ये गुणा दया दाक्षिण्यादयो भक्तारिष्टनिरसनादयो वा तेषां सिन्धुः समुद्रस्तस्मै अपारगुणवते इत्यर्थः । प्रपदनं पादानं तत् स्पृशन्तीति तेषां बन्धवे हितकारिणे । यद्यप्यमरे " पादाभ्रं प्रपदं पादः” इति पादाग्रवाची प्रपदशब्द एवोक्तः, न तु प्रपदनशब्दस्तथापि तत्र प्रपूर्वकात् 'पद गतौ' इत्यस्माद्धातोः सकाशात् " खनो घ च" इति सूत्रे घित्करणस्यान्यतोऽपि ज्ञापनार्थत्वात् घप्रत्ययः । अत्र तु तस्मादेव ल्युट् प्रत्ययः इयानेव भेदः । अर्थस्त्वेक एवेति ज्ञातव्यम् । पादस्पर्शनं च पूजनादौ भगवन्मूर्तेः । तदुक्तं भागवते - "शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम्" इति । अथवा प्रकर्षेण पद्यते ज्ञायते अनेन तत् प्रपदनं ज्ञानं तत् स्पृशन्ति संपादयन्ति ते प्रपदनस्पृशो ज्ञानिनः तेषां बन्धवे प्रियाय । भगवान् हि ज्ञानिनामतीव प्रियः । तथा च भगवद्गीतायाम् - " चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ । तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।" इति "प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः " इति च । खतः अपहताः नष्टाः पाप्मानो जन्मादय. ( जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यति इति ) षड्डिकाराः यस्मात् तथाभूताय । तथा सकलदेहिनां सर्वप्राणिनामात्मने आत्मरूपेण हृदि स्थिताय । "हृदि त्येष आत्मा" "इहैवान्तः शरीरे सोम्य स पुरुषः', इति श्रुतिः "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति" इति श्रीभगवद्गीता च । कमलवासिनी लक्ष्मीः तस्याः नयनसाख्यस्य नेत्रसुखस्य संदायिने प्रदायकाय । तमसः अज्ञानस्य अन्धकारस्य वा शमं शान्ति विधत्ते करोति तच्छीलः तस्मै । तरणेः सूर्यस्य “घुमणिस्तरणिर्मित्रः" इत्यमरः । मण्डले बिम्बमध्ये "बिम्बोऽस्त्री मण्डलं त्रिषु" इत्यमरः । तिष्ठति तच्छीलः तस्मै १ ' संधायिने'. For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: १२ पुनः सभक्त्युन्मेषम्— भानुभानुदलदब्जलोचनं भक्तलोकभवपाशमोचनम् ॥ धाम तामरसवासिनीसखं हेमवर्णमिह सौति मे सुखम् ॥ १४ ॥ कृशा ० - किमरे केवलं निर्घृणोऽपि नारायणो भवता विवेकलाभवतोपि स्तवनभाजनीक्रियते ! ॥ ३ ॥ [ सूर्य तथाहि स्वेनादौ निखिलं जगद्विरचितं खेनैव संरक्षितम् भिन्दन् हन्त मुकुन्द एष विधृतानन्दो हि निन्दोचितः ॥ भगवते नमः | अस्त्विति शेषः । पृथ्वी वृत्तम् । लक्षणं प्राक् ( १२ श्लो० टीकायां ) कथितम् ॥ १३ ॥ पुनः भक्तेः प्रेमपूर्वकानुध्यानस्य “प्रेमपूर्वमनुध्यानं भक्तिरित्यभिधीयते" इत्यागमात् । उन्मेषेण विकासेन सहितं यथा भवति तथा प्राहेति शेषः ॥ 1 भान्विति । भानोः सूर्यस्य भानुभिः किरणै: “ भानुर्हसः सहस्रांशुः " " भानुः करो मरीचिः स्त्री” इत्युभयत्राप्यमरः । दलती विकासमाने ये अब्जे कमले ते इ लोचने यस्य तत्, अत्रोपमावाचकस्येवशब्दस्य लोपात् लुप्तोपमेयम् "वादेर्लोपे समासे सा" इति तलक्षणात् । भक्तानां भजकानां लोकः समुदायः तस्य यो भवपाशः संसारपाशः तस्य मोचनं निवारकम् । पुनः कथंभूतम् । तामरसवासिनी कमलनिवासिनी लक्ष्मीः “पङ्केरुहं तामरसं सारसं सरसीरुहम्" इत्यमरः । तस्याः सखि मित्रभूतं इति तत् । " राजाहः सखिभ्यष्टच्” इति समासान्तष्टच्प्रत्ययः । पुनश्च हेम सुवर्ण "सुवर्ण हेम हाटकम्" इत्यमरः । तत् इव वर्णो यस्य तत् । एतादृशं धाम वैष्णवं तेजः इहेदानीं इह सूर्यमण्डले वा । मे मम सुखं सौति जनयति उत्पादयतीति यावत् । रथोद्धता वृत्तम् "रान्नराविह रथोद्धता ल-गौ ” इति तलक्षणात् ॥१४॥ :-किमरे एवं नारायणवर्णनं श्रुत्वा तत्रापि निर्दयत्वरूपं दोषमुद्भाव्याह कृशानुः -- इति । अरे विश्वावसो, केवलमत्यन्तं निर्घृणो निर्दयो नारायणोऽपि भवता त्वया विवेकस्य सदसद्विवेचनस्य लाभः प्राप्तिर्यस्यास्तीति तथाभूतेनापि सता, स्तवनस्य स्तोत्रस्य भाजनीक्रियते पात्रीक्रियते योग्य इव क्रियत इति यावत् । " योग्य-भाजनयोः पात्रम्" इत्यमरः । किम् ? आश्चर्यमिदमिति भावः । भाजनीक्रियते इत्यत्र अभूततद्भावे च्विः । अभूततद्भावो नाम वर्णनीये वस्तुनि वर्ण्यधर्माभावे सत्यपि तद्धर्मारोपकरणम् । एवं चात्र वस्तुतो निर्दयत्वान्नारायणः स्तवनभाजनमभवन्नपि तदिव कृतः एतदयुक्तमिति कृशानुना सूचितमिति ज्ञेयम् ॥ ३ ॥ तथाहि निर्दयत्वमेवोपपादयति- स्वेनेति । हि यस्मात् कारणात् एष त्वया १ ‘किमये'. २ 'विवेकलोभवता'. ३ 'सकलं'. For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २] पदार्थचन्द्रिकाटीकासहिता । उत्पाद्य खयमुत्तमान् फलतरूनुल्लास्य चारूदकै__ रुन्मत्तोऽपि किमुच्छिनत्ति जगति च्छित्त्वापि किं नन्दति ॥१५॥ किंचखानुज्ञामनवाप्य दर्पभरतः खाज्ञां विलकेत य स्तस्यैवेह तनोति लौकिकनृपश्चण्डोऽपि दण्डं रुषा । अन्तर्याम्यपथे प्रवर्त्य भविनो हन्त खयं नारके यस्तान् पातयति क्रुधा स तु न किं ? नारायणो निघृणः ॥१६॥ स्तवनभाजनीकृतो मुकुन्दो नारायणः, आदौ सृष्टिकाले खेन रजोभूयसी खां प्रकृतिमधिष्ठायास्थितचतुर्मुखरूपेण, निखिलं संपूर्ण “समस्त-निखिलाखिलानि निःशेषम्।समग्रं सकलं पूर्णम्" इत्यन्तोऽमरः। जगद्विश्वं विरचितमुत्पादितं, तथा खेनैव सत्त्वप्रकृष्टां प्रकृतिमधिष्ठायाविष्कृतविष्णुखरूपेण संरक्षितं पालितं, एतादृशमिदं जगत्, पुनः खत एव भिन्दन् विनाशयन् तमोगुणप्रचुरांरुद्रतनुमाश्रित्येति भावः । एतावत् कृत्वैवन स विरराम, किं तु पुनर्विधृतानन्दः युक्तं कृतं मयेति मत्वा मोदमान इत्यर्थः। अत एवायं निन्दोचितः निन्दितुं योग्यो न तु स्तोतुं योग्य इत्यर्थः। हन्तेति विषादे । एतदेव लौकिकोदाहरणेन दृष्टान्तयति-उत्पाद्येति । जगति लोके यः कश्चित् उन्मत्तोऽपि, न तु सावधान इति अपिशब्दस्वारस्यम् । खयं उत्तमान् फलतरून् फलदान् वृक्षान् , उत्पाद्य भूमौ बीज निक्षिप्य अङ्कुरितान् कृत्वा, अपि च चारूणि वृक्षपोषणपर्याप्तानि च तानि उदकानि जलानि तैः वृक्षपोषणपर्याप्तजलसेचनैरित्यर्थः । ( यद्यप्यमरे "सुन्दरं रुचिरं चारु" इति चारुशब्दस्य सुन्दरवाचकत्वं, तथाप्यत्र जलस्य वृक्षपोषणेनैव सुन्दरत्वमित्यभिप्रेत्यायमुपरितनोऽर्थः कृत इति ज्ञेयम् ।) उल्लास्य संवर्ध्य, खयमेव उच्छिनत्ति किम् ? अपि च छित्त्वापि नन्दति आनन्दं करोति किम्? अपि तु नैव छिनत्ति नैव नन्दति चेत्यर्थः । यदि लोके साधारणोऽपि जन: “विषवृक्षोऽपि संवर्ध्य वयं छेत्तुमसाम्प्रतम्" इति नयमनुसृत्य खयमुत्पादितस्य खत एवोच्छेदकरणमनुचितमिति जानाति, तर्हि यस्त्रिलोकीमुत्पादयति पालयति च, तेन नारायणेनायं नयः किं न ज्ञातुं शक्यः ? अपि तु शक्य एव । तथापि यदायं खयमुत्पादितान् लोकान् बुद्धिपूर्वकं विनाशयति, तदायमत्यन्तं निघृण एवेति भावः । अत्र प्रकृतवाक्यार्थस्य 'खेनादौ-' इत्यादेः तद्धटकस्य 'उत्पाद्य' इत्यादिवाक्यार्थस्य च बिम्बप्रतिबिम्बभावात्. वैधये॒ण दृष्टान्तालंकारः । तदुक्तम्- "दृष्टान्तः पुनरेतेषां (उपमादीनां ) सर्वेषां प्रतिबिम्बनम्" इति । शार्दूलविक्रीडितं वृत्तम् । लक्षणमुक्तं प्राक् (२ श्लोकटीकायाम् ) ॥ १५ ॥ किंच स्वानुशामिति । यः कश्चित् जनः सेवको वा दर्पभरतः गर्वातिशयाद्धेतोः, पञ्चम्यास्तसिल् । खस्य (लौकिकनृपस्य ) अनुज्ञां संमति अनवाप्य अगृहीत्वा, खस्य (लौकिकनृपस्य) आज्ञां विलछेत उल्लचेत, तदा चण्डः अतिकोपयुक्तः "चण्डस्त्वत्यन्तकोपनः" इत्यमरः । अपि, लोके भवः लौकिकः स चासौ नृपश्चेति For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणावर्चचम्पू:- - वि०-अहो! तव मतिरतिस्थूला, यतः परमकारुणिकं भमकासं पअजवासिनीप्राणनाथमपि स्मृशति तवोपालम्भः । आकर्णयेवम् ॥ ४ ॥ चिराय संसृत्युदधौ समजनं नमजन मज्जन इत्यधोक्षजः ॥ दयापयोधिः परिगृह्य दुर्लभं निजं पदं प्रापयति खयं प्रभुः ॥ १७ ॥ विप्रहः। लौकिको राजेत्यर्थः । रुषा खाजोल्लङ्घनजनितक्रोधेन, तस्यैव आज्ञोल्लङ्घनकर्तुरेव, इह दण्डं शिक्षां तनोति करोति । न त्वन्यस्यानपराधिन इत्यर्थः । योऽयं नारायण. स्तु अन्तः मनः यमयति प्रेरयति तच्छीलः अन्तर्यामी । ताच्छील्ये णिनिः । हृदये तिष्ठन् शुभाशुभकर्मप्रेरक इत्यर्थः । “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यत्रारूढानि मायया" इति स्मृतेः । एतादृशः सन् खभावत एव भविनः संसारयुक्तान् जनान् अपथे दुर्मार्गे दुष्कर्मणीत्यर्थः । प्रवर्स, खयमेव तान् दुष्कर्मकर्तृन् जनान् , क्रुधा रोषेण नारके निरये "स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।" इत्यमरः । पातयति । हन्तेति खेदे । सः निघृण: निर्दयः न किम् ? अपि त्वत्यन्तं निघृण एवेत्यर्थः । अयमाशयः-लौकिकनृपो हि अपराधिनमनपराधिनं च दृष्ट्वैव अपराधिनं दण्डयति, खनियमप्रसिद्ध्या च लोकान् नीतिपथमनुशिक्षयति च; अयं (नारायणः) तु यान्तर्यामी, तर्हि अनेनापि सर्वे लोकाः सन्मार्गे एव प्रवर्तयितव्याः; तथा सति सर्वेऽपि जनाः सत्कर्माणि कृत्वा सद्गति. मेवाप्नुयुः, न कश्चिदपि दुर्गति, परं तु तदकुर्वन् यदा दुष्कर्मण्येव प्रवर्त्य दुर्गति गमयति तदाऽत्यन्तं निघृण इति । अत्र 'खानुज्ञामनवाप्य-' इत्यादिवाक्यस्य विवक्षितवचनेन हेतुत्वात् काव्यलिङ्गमलंकारः, उत्तरत्र अपराधकारणाभावेऽपि दण्डकार्यकथनात् विभावनालंकारः । एवं च उभयत्रापि परस्परवाक्यापेक्षणादङ्गाङ्गिभावाच्च द्वावपि मिलित्वा संकरालंकारः । तदुक्तम्-"अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वंतु संकरः" इति। वृत्तं च शार्दूलविक्रीडितम् । लक्षणं (२ श्लो० टी०) पूर्वोक्तमेव॥१६॥ अथ कृशानुना उद्घाटितं निघृणत्वरूपं दोषं परिहरन्नाह विश्वावसुः-अहो इति । अहो इत्याश्चर्ये । अथवा अहो इति संबोधनार्थम्, हे कृशानो इत्यर्थः । तव मतिः बुद्धिः अतिस्थूला सदसद्विवेकशून्या । कुत इत्यत आह-यतः यस्मात् कारणात् , परमकारुणिकमत्यन्तदयालु "स्याद्दयालुः कारुणिकः” इत्यमरः । भगवन्तं षड्गुगैश्वर्यसंपन्न, पङ्कजवासिन्या लक्ष्म्याःप्राणनाथं पति नारायणमपि, तव संबन्धी त्वत्कृत इत्यर्थः । उपालम्भो निन्दा स्पृशति परामृशति, तमपि निन्दसीति यावत् । तस्मात् इदं नारायणविषये करुणाप्रतिपादकं वचः, आकर्णय सावधानमनसा शृणु ॥ ४ ॥ . चिरायेति । दयापयोधिर्दयासागरः, अनेन नायं प्राकृतलोक इव केनचित्कारणेन दयाशीलः, किंतु कारणं विनापि खभावत एवापरिमितदयाशील इति सूचितम् । अधो For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णनम् २] पदार्थचन्द्रिकाष्टीकासहिता । किंचलीलालोलतमा रमामगणयन्नीलामनालोकयन् मुञ्चन् किंच महीमहीश्वरमयं मञ्चं हठाद्वश्चयन् ॥ आकर्षन् द्विजराजमप्यतिजवाद्धा हन्त लोकान्तरात् गोप्तुं शौरिरुदित्वरत्वर उदै ग्राहग्रहात गजम् ॥ १८ ॥ क्षणोऽयं नारायणः संसृतिरूपे संसाररूपे उदधौ समुद्रे चिराय बहुकालपर्यन्तं समबनं मजनेन परिभ्रमणेन सहितं, परं तु संसारदुःखपरिहारायेति शेषः । नमन् भक्तिपूर्वकं नमस्कुर्वैश्वासौ जनो लोकश्च तं, मज्जनः मदीयोऽयंजन इति एवंप्रकारेण खयं परिगृह्य खीकृत्य, इतिना कर्मणोऽभिहितत्वात् प्रथमा । प्रभुः कर्तुमकर्तुमन्यथा कर्तुमपि समर्थः, दुर्लभं भक्त्या विना दुष्प्रापं, निजमात्मीयं पदं स्थानं वैकुण्ठलोकमित्यर्थः । प्रापयति नयति । अत्र पद्ये पूर्वार्धे अनुप्रासालंकारः' तच वाक्यं निजजनत्वेन खीकरणस्य निजपदप्रापणस्य च हेतुरूपं तेन काव्यलिङ्गमलंकारः। एवं चात्र काव्यलिङ्गानुप्रासयोः संसृष्टिः "सैषा संसृष्टिरेतेषां भेदेन यदिह स्थितिः" इति तल्ल. क्षणात् । वंशस्थवृत्तम् । लक्षणमुक्तं प्राक् (१० श्लोकटीकायाम् ) ॥ १७ ॥ यदुक्तं 'नमजनं मजन इति परिगृह्य निजं पदं प्रभुः प्रापयति' इति, तदेव कैश्चित् पुराणप्रसिद्धस्तदवतारचरित्रैर्दर्शयति-तत्र तावत् प्रथमं भगवत्कृतं गजेन्द्रमोक्षं कथयति-लीलेत्यादिना । किंच प्राहस्य नक्रस्य "प्राहोवहारो नकस्तु" इत्यमरः । प्रहात् ग्रहणात् आते पीडितं गजं हस्तिनं "दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतंगजो गजो नागः" इत्यमरः । गोप्तुं रक्षितुं, उदित्वरा आविर्भवन्ती त्वया संभ्रमो यस्य सः । उदित्वरेत्यत्र उत्पूर्वकात् 'इण् गतौ' इत्यस्मात् धातोः सकाशात् "इण-नशजि-सर्तिभ्यः करप्" इति करप्प्रत्ययः "हखस्य पिति कृति-"इति तुक् । शूरस्य वसुदेवस्य अपत्यं शौरिः “अत इञ्" इत्यपत्यार्थे इञ्। कृष्ण इत्यर्थः । लीलया शृङ्गारभावेन"हेला लीलेयमी हावाः क्रियाः शृङ्गारभावजाः” इत्यमरः । अतिशयं लोला कामतृष्णायुता तां, "लोलश्चल-सतृष्णयोः” इत्यमरः । रमां, लक्ष्मी अगणयन् अपश्यन् , नीला कालिन्दी अनालोकयन् तामप्यपश्यनित्यर्थः।भगवता हि कृष्णावतारे कालिन्दीनाम्न्यास्तपस्यन्त्याः स्त्रियाः खीकारः कृतः इति श्रीभागवते दशमस्कन्धे प्रसिद्धम् । यद्वा नीला नामजिती तस्मिन्नेवावतारे परिणीता ज्ञेया । "नीलां नग्नजितः पुत्रीं” इति मणिमञ्जरीकाव्ये तथा दर्शनात् । किंच महीं पृथिवीदेवीं मुञ्चन् त्यजन्, पृथिव्यपि विष्णुपत्नीति "समुद्रवसने देवि पर्वतस्तनमण्डले । विष्णुपनि नमस्तुभ्यम्-" इत्याद्यागमप्रसिद्धम्। तथा अहीश्वरमयं शेषखरूपं मञ्चं शयनं च"शयनं मञ्च-पर्यक-" इत्यमरः । हठात् सहसा वश्चयन् तिरस्कुर्वन् , अपि च द्विजानां पक्षिणां राजा गरुडवं, "राजाहःसखिभ्यः-" इति टच् । "दन्त-विप्राण्डजा(पक्षिणः)द्विजाः" इति "गरुत्मान् १ 'उपैत्'. For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [सूर्यवैकुण्ठो महताहताखिलमहारम्भं मदेनोच्चकै__श्चण्डं खण्डयितुं हिरण्यकशिपुं वेतण्डमुत्कण्ठया ॥ सैंह वेषमशेषभीषणमहो गृह्णन् त्वरागौरवात् प्रहादव्यसनासहिष्णुरुदगादाकण्ठकण्ठीरवः ॥ १९ ॥ गरुडस्तायो वैनतेयः खगेश्वरः" इति चामरः । आकर्षन् भक्तपीडापरिहारार्थ सत्वरं गन्तुमित्यर्थः । लोकान्तरात् वैकुण्ठात् , अतिजवात् अतिवेगेन, उदैत् आगमत् 'इण् गतौ' इति धातोः कर्तरि लङ् । हा हन्त इति निपातसमुदायात् भक्तपीडा. परिहारार्थमत्यन्तदयावत्त्वं भगवतः सूच्यते। "हा विषाद-शुगर्तिषु । हन्त हर्षेऽनुकम्पायां" इत्यमरात् । एतेन पद्येन यदि गजस्य पशोरपि भक्तिं दृष्ट्वा तत्राणार्थ भगवान् एवं करोति, तदा मनुष्यार्थ कुर्यादित्यत्र किमु वक्तव्यमिति सूचितम् । गजस्येयं कथा महाभारते शान्तिपर्वणि प्रसिद्धा । यथा-चित्रकूटपर्वते एकं परमरमणीयं सरोवरमासीत् । यस्मिन्नेको महानकः प्रतिवसति स्म । तस्मिन्नेव सरसि क्रीडाथै करिणीभिः सह कश्चिन्महागजः समाययौ। स च जले प्राविशत्। तदा स नक्रेण निजास्येन सुदृढं पादे धृतः । तदा गजस्तं नकं केनाप्युपायेन निवारयितुमशक्नुवननन्यभावेन भगवन्तं नारायणमेव शरण्यं मत्वा पुष्कराग्रेण सरःस्थमेकं पङ्कजं तस्मै समर्म्य "ॐ नमो मूलप्रकृतये अजिताय महात्मने ।" इत्यत आरभ्य “नमस्ते पुण्डरीकाक्ष भक्तानामभयंकार । सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् । तावद्भवति मे दुःखं चिन्ता संसारसागरे । यावत् कमलपत्राक्षं न स्मरामि जनार्दनम् ॥"इत्यन्तं स्तोत्रं जगौ । तदा परमकारुणिको भगवान् सत्वरमुपेत्य पाहात् गजममोचयदिति। शार्दूलविक्रीडितं वृत्तम् ॥ १८ ॥ अथ नृसिंहावतारे कृतं निजभक्तस्य प्रहादस्य रक्षणमाह-वैकुण्ठ इतिाप्रहादस्य हिरण्यकशिपुपुत्रस्य खभतस्य व्यसनासहिष्णुः तत्पित्रा दीयमानं दुःखमसहमानः "अलंकृञ्-निराकृञ्-" इत्यादिना इष्णुच् प्रत्ययः। वैकुण्ठोऽयं नारायण: विकुण्ठयति पराभवं प्रापयति शत्रूनिति विकुण्ठः 'कुठि प्रतिघाते' इति धातोः "अन्येभ्योऽपि दृश्यन्ते" इत्युणादिसूत्रेणाचप्रत्ययः। विकुण्ठ एव वैकुण्ठः इति विग्रहः । “विष्णुर्नारायणः कृष्णो वैकुण्ठः" इत्यमरः । महता मदेन गर्वेण, हता विनाशिताः अखिलाः सकला महान्तः आरम्भाः तपोयज्ञादिकाः क्रिया येन तं, गजपक्षे तु महता मदेन मदजलेन उपलक्षितं, महान् आरम्भो येषां ते महारम्भाः हताः अखिला महारम्भा उद्यानोपवनादयो येन तं, उच्चकैरतिशयेन चण्डं महाभयंकरं हिरण्यकशिपु एतद्रूपं वेतण्डं गजं, खण्डयितुं विनाशयितुं, उत्कण्ठया हिरण्यकशिपुरूपगजमारणातिशयवाञ्छया, त्वरायाः शीघ्रतायाः गौरवात् अतिशयेन अतीव शीघ्रमित्यर्थः । अशेषाणां संपूर्णानां (शत्रूणां) भीषणं भयंकर, सैंह सिंहसंबन्धिनं वेषं आकारं, गृह्णन् धारयन् , आ १ 'महसा. For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २] पदार्थचन्द्रिकाटीकासहिता । अन्यच्च अवमव्यापाराकलनमतुरीस्पर्शमचिरा___ दनुन्मीलत्तन्तुप्रकरघटनायासमसकृत् ॥ विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटानां निर्माणं पतगपतिकेतोरवतु नः ॥ २० ॥ कण्ठं कण्ठपर्यन्तं “आङ् मर्यादाभिविध्योः” इति समासः । कण्ठीरवः सिंहरूपः सन् अर्थात् नरसिंहशरीरः सन्नित्यर्थः । "कण्ठीरवो मृगरिपुः" इत्यमरः । उदगात् आविर्बभूव । स्तम्भादिति शेषः । अहो इत्याश्चर्ये । 'इण् गतौ' इति धातोर्लुङ् “इणो गा लुडि" इति 'गा' आदेशः। “गाति-स्था-" इत्यादिना सिचो लुक् । एतत् प्रहादचरित्रं श्रीमद्भागवते सप्तमस्कन्धे प्रसिद्धम् । अत्र पूर्वार्धे 'हिरण्यकशिपुं वेतण्ड' इति हिरण्यकशिपावेव गजत्वस्याभेदेनारोपाद्रूपकमलंकारः, उत्तरत्र च 'अशेषभीषणं' इत्यायुक्तः साभिप्रायत्वात् परिकरालंकारः । “तद्रूपकमभेदो य उपमानोपमेययोः" इति "विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः" इति च द्वयोर्लक्षणात् । द्वावपि मिलित्वा संसृष्टिः । शार्दूलविक्रीडितं वृत्तम् ॥ १९ ॥ अथेदानी कृष्णावतारे कृतं खभक्ताया द्रौपद्याः कौरवसदसि वस्त्रपूरणात्मक भगवचरित्रमाह-अन्यश्चेति । अवेमेति । विषीदन्त्याः कुरुसदसि दुःशासनकृतवखापहरणेन दुःखवत्याः पाञ्चाल्याः द्रौपद्याः विपदः वस्त्रापहारकृतदुःखस्य अपनये दू. रीकरणे एकः मुख्यःप्रणयःस्नेहोऽस्यास्तीति तथाभूतस्य । मत्वर्थे इनिः । पतगानां प. क्षिणां "पतत्रिपत्रि-पतग-" इत्यमरः। पतिर्गरुडः केतुर्ध्वजो यस्य तथाभूतस्य भगवतः संबन्धि, भगवत्कर्तृकमित्यर्थः। अवेमव्यापाराकलनं न विद्यते वेम्नः वयनदण्डस्य "पुंसिवेमा वायदण्डः" इत्यमरः। व्यापारस्य आकलनं स्वीकरणं यस्मिन् तत् वयनदण्डग्रहणरहितमित्यर्थः । तथा न विद्यते तुर्याः तन्तुवेष्टनसूक्ष्मदारुविशेषस्य स्पर्शो यस्मिंस्तत् तुरीस्वीकाररहितमपीति यावत् । तथैव च अनुन्मीलत्तन्तुप्रकरघटनायासं अनुन्मीलन् अप्रकटीभवन् तन्तुप्रकरघटनायाः वस्त्रसंबन्धिसूत्रसमूहरचनायाः।“सूत्राणि नरि तन्तवः" इत्यमरः।आयासो यत्नो यस्मितत् । अचिरात् शीघ्रं,असकृत् वारंवारं च पटानां वस्त्राणां निर्माणं उत्पादनं नोऽस्मान् अवतु रक्षतु । एतच्चरित्रं श्रीमहाभारते सभापर्वणि विस्तरेण वर्णितम्। तच्च सर्वे जानन्त्येव परं च तत्समये द्रौपद्या कृतः कृष्णस्तवः प्रेमभकियुतत्वात् , भगवत्कृतपटनिर्माणप्रकारश्चात्र लिख्यते । यथा-"आकृष्यमाणे वसने द्रौपद्या चिन्तितो हरिः। गोविन्द द्वारकावासिन् कृष्ण गोपीजनप्रिय ॥ कौरवैः परिभूतां मां किं न जानासि केशव । हे नाथ ! हे रमानाथ ! ब्रजनाथार्तिनाशन ॥ कौरवार्णवमनां मामुद्धरख जनार्दन । कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन ॥ प्रणतां पाहि. गोविन्द कुरुमध्येऽवसीदतीम् । इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम् ॥ प्रारुददुःखिता राजन् मुखमाच्छाद्य भामिनी । याज्ञसेन्या वचः श्रुत्वा कृष्णो गह्वरितोऽभवत् ॥ For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [सूर्यअपरं चकाकः शोकं व्यसृजदमितं वृद्धगृध्रोऽप्यनेकान् लोकान् लेभे कुशलमगमन्निर्विषादं निषादः ॥ राज्यं प्राप्तौ कपि-निशिचरौ राघवत्वे मुरारेः पारे वाचां जयति करुणा पश्य पद्मासखस्य ॥ २१ ॥ त्यक्त्वा शय्यासनं पद्भ्यां कृपालुः कृपयाभ्यगात् । आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते । तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥ नानाराग-विरागाणि वसनान्यथ वै प्रभो” इति । अत्र 'अवेमव्यापाराकलनम्' इत्यादिना पटनिर्माणकारणाभावेऽपि कार्यकथनाद्विभावनालंकारः। तदुक्तम्-"क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना" इति । वृत्तं शिखरिणी "रसै रुदैश्छिन्ना य-म-न-स-भ-ला गः शिखरिणी" इति तल्लक्षणात् ॥ २० ॥ सांप्रतं रामावतारप्रसिद्धानि भगवतः कानिचिचरित्राणि वर्णयति-अपरं चेति । काक इति । मुरारेर्मुरनामकदैत्यशत्रोर्नारायणस्य, राघवत्वे रामावतारे, काकः एतद्रूप. इन्द्रपुत्रो जयन्त इत्यर्थः । अमितं अतिशयितं शोकं दुःखं व्यसृजत् तत्याज । तद्वृत्तं हि रामायणे इत्थं-चित्रकूटपर्वते कदाचित् सीताया उत्सङ्गे शिर आधाय भगवान् रामः सुष्वाप, तदैवेन्द्रलोकात् काकरूपधरो जयन्त आगत्य निजनख-तुण्डैः सीतायाः पादाङ्गुष्ठं विदारयामास, सा च भर्तृनिद्राभङ्गभिया पादं न चालयामास । अनन्तरं प्रबुद्धो रामस्तादृशीं प्रियां सीतां दृष्ट्वा काकं च असकृदुत्पतन्तं दृष्ट्वा, तस्यैवायमपराध इति ज्ञात्वा, एकं दर्भखण्डं संमन्य तस्मिन् मुमोच । तदा शरणार्थी स काको ब्रह्मादिदेवान् प्रति जगाम, परं तु रामप्रभावाभिज्ञास्ते तं रक्षितुं नाशक्नुवन् । तदा स राममेव शरणमाययो, शरण्यो रामश्च अमोघास्त्रत्वात् तस्यैकं नेत्रमपहृत्य तं ररक्ष इति । तथा वृद्धगृध्रोऽपि अनेकान् बहून् लोकान् वैकुण्ठादीन् लेभे प्राप्तवान् ‘डुलभष् प्राप्तौ' इत्यस्मालिट् । “अत एकहल्-" इत्यादिना एत्वाभ्यासलोपौ । अयं गृध्रोपि दशरथसख: परमभक्तश्च रामस्य, अनेन सीताहरणसमये रावणेन सह बहु युद्धं कृतं, परं च रावणास्त्रव्यथितः स रामदर्शनाका क्षी विपिने न्यपतत् । ततो रामेणापि सीतां विचिन्वता खकरस्पर्शात् कृपया खं धाम प्रापितः इति । तथा निषादः कश्चित् गुहनामा श्वपचः “निषाद-श्वपचावन्तेवासिचाण्डाल-पुक्कसाः" इत्यमरः । निर्विषादं दुःखरहितं कुशलं क्षेमं "कुशलं क्षेममस्त्रियाम्" इत्यमरः । अगमत् प्राप्तः । गमधातोर्लङ् लदित्त्वादङ् । अयमपि रामभतस्तत्कृपया दुःखान्मुक्त इत्यपि रामायणे प्रसिद्धम् । तथा कपि-निशिचरौ सुप्रीवविभीषणौ वानर-राक्षसौ राज्यं प्राप्तौ, तस्यैव कृपयेति शेषः । तस्मात् पद्मासखस्य १ 'व्यजहद०' अस्मिन् पाठे व्यजहदिति रूपं प्रामादिकम् , तस्मादयमपपाठ एवेति भाति । न च तावदभिरूपः कविश्छन्दोभङ्गभियाप्येतादृशं रूपं प्रयुके । For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २] पदार्थचन्द्रिकाटीकासहिता । तदेवं देवपरिवृढे दयापयोनिधावपि उपन्यस्तं नैर्घण्यं तव तावदनपुण्यमपुण्यफलं बुद्धेः पिशुनयति ॥ ५ ॥ शृणु तावत्जीवानां हर्षदादिमत्त्वमयतां खर्गापवर्गास्पदं देहं दत्तवति श्रियः प्रियतमे नैवोपकारस्मृतिः ॥ लक्ष्मीप्रियस्य नारायणस्य करुणा दया वाचां पारे वाणीमतिक्रम्येत्यर्थः । जयति सर्वोत्कर्षेण वर्तते । पश्य अवलोकय । अत्र वाक्यार्थः कर्म । 'लीलालोलतमां-' इत्यादिश्लोकचतुष्टयेनैतत्सूचितं भगवतस्तावद्भाक्तं विना न किंचिदपि प्रियं, तस्मात् भक्ति कुर्वाणा जनाः केऽपि सन्तु न तेषु अल्पत्व-महत्त्व-स्त्रीत्व-पुरुषत्वादिविवक्षा, नापि मनुष्यत्वपशुत्वादिविचारः, किंतु भक्तिप्रभावात् सर्वेऽपि समाना इति भावः । तदुक्तं वयं भगवतैव गीतायाम्-"मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥” इति । किंच भक्त्या प्रसन्नो भगवान् भक्तान् प्रति यद्ददाति न तल्लक्ष्मी-ब्रह्मादयोऽपि लब्धुं शक्नुवन्ति । तदुक्कं श्रीमद्भागवते यशोदाकृतश्रीकृष्णबन्धनसमये-“नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया । प्रसादं लेभिरे गोपी यत्तत् प्राप विमुक्तिदात् ॥ नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥" इति । तस्मादेतस्मिन्नैपुंण्यारोपो न युज्यत इति भावः । मन्दाक्रान्ता वृत्तम् । लक्षणमुक्तं प्राक् (८ श्लोकटीकायाम् ) ॥२१॥ तदेवाह-तदेवमित्यादिना । तत् वस्तुतो भगवतः अपरिमितदयावत्त्वाद्धतोः देवपरिवृढे देवानां प्रभौ "प्रभुः परिवृढोऽधिपः" इत्यमरः । दयापयोनिधौ दयासागरेऽपि एवं 'स्वेनादौ निखिलं जगद्विरचितम्-' इत्यादिप्रकारेणोक्तं उपन्यस्तमारोपितं नैघृण्यं निर्दयत्वं कर्तृ, तावत् तव बुद्धेः अपुण्यस्य पापस्य फलं, अनैपुण्यं च सूक्ष्मविचारराहित्यं मूढत्वमिति यावत् । पिशुनयति सूचयति । भगवत्स्वरूपयाथार्थ्य विचारोऽपि बुद्धौ प्राक्तनपुण्यकर्म विना न स्फुरति । तदुक्तं भगवद्गीतायां योगभ्रष्टगतिनिर्णयप्रसङ्गे-"शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् । तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ॥" ॥ इति ॥ ५॥ नन्वेतावतापि जगत्संहरणरूपस्य नरकपातरूपस्य च दूषणस्य न तावत् परिहारः, भक्तस्य सद्गतिप्रापणं तु न खलु विशिष्टगुणापादकं, निर्दयेष्वपि स्वीयरक्षणस्य तत्सुखप्रदानस्य च संभवादित्याशङ्कयाह-शृणु तावत-जीवानामित्यादि । दृषत् पापाणः “पाषाण-प्रस्तर-ग्रावोपलाश्मानः शिला दृषत्" इत्यमरः। आदिमः प्रथमो येषां १ तस्मिन्'. २ पयोधौ'. ३ 'दृषदामिवत्व', 'दृषदामिषत्व'. For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [सूर्यदुःखे जातुचिदागते खकलिताद्दष्कर्मणः पक्रिमा न्नाथे हन्त निरागसि व्यसनिभि घेण्यमारोप्यते ॥ २२ ॥ हन्त जन्तवः पामराः खापराधं परमकारुणिके परस्मिन् ब्रह्मण्यध्यस्यन्ति ॥६॥ ते दृषदादिमाः देहाः तेषांभावः दृषदादिमत्त्व पाषाण-तरु-पश्वादिदेहत्वमित्यर्थः । अयतां प्राप्नुवतां अय गतौ' इत्यस्मात् शतृप्रत्ययः। अयं धातुर्यद्यप्यात्मनेपदी, तथापि च. क्षिङो ङित्करणात् ज्ञापकात् अनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वात् साधुः । यद्वा 'इट किट कटी गतौ' इत्यत्र प्रश्लिष्टस्य इधातोः शतृप्रत्यय इति समाधेयम् । अत एव 'उदयति विततोलरश्मिरजौ' इति माघः, 'उदयति हि शशाङ्कः कामिनीगण्डपाण्डुः' इति मृच्छकटिके शूद्रकश्च प्रयुक्तवान् । अर्थात् प्राक्तनखकर्मवशादिति ज्ञेयम् । एवं हि शरीरप्राप्तिर्भवति-“योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये प्रपद्यन्ते यथाकर्म यथाश्रुतम्" इति श्रुतिप्रसिद्धम् । एतादृशां जीवानां वर्गश्च अपवर्गो मोक्षश्च "मोक्षोऽपवर्गोऽथाज्ञानम्-" इत्यमरः । तयोः आस्पदं संपादकं देहं मनुष्यदेहं नैसर्गिकखकीयापरिमितकृपयेति शेषः । दत्तवति श्रियो लक्ष्म्याः प्रि. यतमेऽस्मिन्नारायणे विषये, उपकारस्य एतादृशश्रेयःसंपादकदेहप्रदानरूपस्य, स्मृतिः स्मरणं नैव । भवतु नाम न हि तावत्तादृशसूक्ष्मविवेकिनो जीवास्तेन विस्मरणं भवति, परं च न ह्येतावदेव, किंतु तस्मिन्निरुपमकृपालौ दोषारोपं कुर्वन्तीत्याह-दुःखे इति । जातुचित् कदाचित् , "कदाचिज्जातु सार्धे तु" इत्यमरः । खकलितात् खकृतात् दुष्कर्मणः पापकर्मणः पक्रिमात् फलाभिमुखात् 'डुपचष्पाके' इत्यस्मात् "द्वितः किः" इति क्रिप्रत्ययः । तस्य च 'कैर्मन्नित्यम्' इति मप् । दुःखे आगते प्राप्ते सति, व्यसनं स्वपापकर्मजनिता विपत् अस्ति येषां ते व्यसनिनः तैः, अर्थात् विपाकैर्ज. नैरित्यर्थः । “व्यसनं विपदि भ्रंशे दोषे कामजकोपजे" इत्यमरः । निरागसि एताहशदुःखप्रदानविषये निरपराधे "आगोऽपराधो मन्तुश्च" इत्यमरः । निरापराधे एतावदेव नैव, प्रत्युत नाथे सर्वेषामधिपतौ नारायणे, न हि योऽधिपतिः स दुःखप्रदानशील इति भावः। तस्मिन्नपि निघृणस्य भावः नैधुण्यं निर्दयत्वमिति यावत् । आरोप्यते । हन्त एतदतिकष्टमित्यर्थः । अत्र नारायणे दुःखारोपस्य दुःखप्राप्तिकारणस्य च अत्यन्तविलक्षणत्ववर्णनात् विषमालंकारः "क्वचिद्यदतिवैधान्न श्लेषो घटनामियात्' इत्यादितल्लक्षणात् । शार्दूलविक्रीडितं वृत्तम् ॥ २२ ॥ 'व्यसनिभि घेण्यमारोप्यते' इति यदुक्तं तदेव स्पष्टयति-हन्तेति । पामराः वास्तविकदुःखकारणानभिज्ञत्वात् नीचाः, जन्तवः प्राणिनः स्वेषां अपराधं दुःखापादनरूपं, करुणा एव शीलमस्य कारुणिकः “शीलम्" इति ठक् । परमश्चासौ कारुणिकश्च तस्मिन् परस्मिन् इन्द्रियादिसंघात् परे, ब्रह्मणि ब्रह्मरूपे नारायणे अध्यस्यन्ति । आरोपयन्ति । हन्तेति खेदे ॥ ६॥ १ 'अध्यास्यन्ति'. For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २] पदार्थचन्द्रिकाटीकासहिता। २१ तथाहि- . - क्लेशत्यागकृतेऽर्पितेन करणव्यूहेन देहेन च खानर्थ बत जन्तुराजयति चेन्मन्तुर्नियन्तुः कुतः ॥ शस्त्रे शत्रुजयाय नैजगुरुणा दत्तेऽथ तेनैव चेत् . पुत्रो हन्ति निजं वपुः कथय रे तत्रापराधी तु कः? ॥२३॥ किंबहुना ॥ ७॥ .......... ......... यदुक्तं कृशानुना 'खेनादौ निखिलं जगद्विरचितं' इत्यादिना खोत्पादितजीवानां खेनैव नाशकरणरूपं दूषणं तत्परिहारं सदृष्टान्तमाह-तथाहि-क्लेशेति । जन्तुः जीवः कर्ता “प्राणी तु चेतनो जन्मी जन्तु-जन्यु-शरीरिणः” इत्यमरः । जातावेकवचनम् । सर्वे प्राणिन इत्यर्थः । क्लेशानां आध्यात्मिकाधिदैविकादिसांसारिकतापानां त्यागकृते नाशार्थे न तु कामाद्यासक्ततया संपादनार्थ, कामाद्यासक्तानां क्लेशहानिस्तु नैव, अपि तु तदधिकप्राप्तिर्भवति । तदुक्तम्-"न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥” इति । कृते इत्यव्ययं तादर्थे “अर्थे कृतेऽव्ययं तावत् तादर्थ्य वर्तते द्वयम् ।" इति कोशसारः। अर्पितेन समर्पितेन, एतदुभयान्वयि । करणानां चक्षुरादीन्द्रियाणां व्यूहेन समूहेन देहेन शरीरेण च करणेन, खस्य आत्मनः अनर्थ विषयासक्ततया दुःखं आर्जयति संपादयति चेत् , नियन्तुः ईश्वरस्य मन्तुः अपराधः, कुतो भवति ? अपि तु नैव भवतीत्यर्थः । क्लेशत्यागार्थ करणानामुपयोगप्रकारः प्रोक्तः श्रीमद्भागवते-"वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोनः। स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥” इति। “सा वाग्यया तस्य गुणान् गृणीते हस्तौ च तत्कर्मकरौ मनश्च ।" इत्यादि च । खोक्तेऽर्थे दृष्टान्तमाह-शस्त्रे इत्यादिना। नैजगुरुणा खपित्रा शत्रूणां रिपूणां जयाय पराजयाय "रिपौ वैरिसपत्नारि-द्विषद्वेषणदुहृदः । द्विविपक्षाहितामित्र-दस्यु-शात्रव-शत्रवः ॥” इत्यमरः।शस्त्रे खजायने दत्ते समर्पिते सति, अर्थात् शस्त्रविद्यामध्याप्येति यावत् । अथ अनन्तरं "मङ्गलानन्तरारम्भप्रश्न-कात्स्न्येष्वथो अथ" इत्यमरः । पुत्रः तेनैव पितृदत्तेनैव शस्त्रेण, निजं खीयमेव वपुः शिरआदिशरीरं, हन्ति छिनत्ति चेत् यदि “पक्षान्तरे चेद् यदि च" इत्यमरः। तु तर्हि तत्र पितृ-पुत्रयोर्मध्ये, रे हे कृशानो, अपराधी कः? कथय । अनेन शस्त्रदृष्टान्तेनैतत्सूचितं-यथा तावत् शस्त्रसमर्पणेन पुत्रनाशे सति तत्र पिता नापराधी, तथा ईश्वरोऽपि क्लेशनाशक्षमं शरीरं समर्प्य, तेनैव जन्तुभिः क्लेशो. त्पादने कृते अन्तर्यामी सन्नपि तत्र न दूषणार्हः, कुतः एतादृशक्लेशनाशकशरीरसमर्पयितुः क्लेशकरत्वाभावात् । किंतु जीवा एव तादृशाः, ईश्वरस्तु दयालुरेवेति नेयम् । दृष्टान्तालंकारः । वृत्तं शा० वि० ॥ २३ ॥ किंबहुना अधिकेनोक्तेन किमित्यर्थः ॥ ७॥ For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ विश्वगुणादर्शचम्पू:शास्त्रं भूरि निजखरूपमतये खाराधनार्थं वपुः । खध्यानाय मनश्च बुद्धिमनघां लब्धं च तीर्थादिकम् ॥ तत्त्वान्यप्युपदेष्टुमुत्तमगुरून् दत्त्वाऽनुगृह्णाति नः संसारे तदपि भ्रमेम यदि किं कुर्वीत ? सर्वेश्वरः ॥ २४ ॥ अथ भूलोकवर्णनम् ३. इति परिक्रामन् किंचिदुत्रमुपसृत्याधस्तादवलोक्य चसखे सकलपुरुषार्थसाधनानुष्ठानस्थानभूतं तावदवलोकय भूलोकम् ॥ ८॥ किंतु सारांशतया यत् कथयामि तच्छृण्वित्याह-शास्त्रमिति । यः ईश्वरः निजस्य मात्मनः स्वरूपस्य सर्वत्र व्यापकस्य, मतये ज्ञानार्थ, भूरि बहु “पुरुहूः पुरु भूयिष्ठं स्फारंभूयश्च भूरि च" इत्यमरः । शास्त्रमुपनिषच्छारीरकसूत्रादि च, खस्य आराधनार्थ पूजार्थं वपुः करचरणादीन्द्रियसहितं शरीरं, स्वध्यानाय खमिन् खरूपप्रत्ययतया 'चित्तस्यैकतानतायै "तत्र प्रत्ययैकतानता ध्यानं" इति योगसूत्रात् । तथा अनघां निर्मलां बुद्धिं च लब्धं, तीर्थादिकं प्रयाग-पुष्करादिरूपं च, तत्त्वानि च उपनिषदादिषु कथितानि 'तत्त्वमसि' इत्यादिमहावाक्यानि उपदेष्टुमपि उत्तमगुरून् दत्त्वा, नोउस्मान् अनुगृह्णाति । तदपि एवमनुग्रहे कृतेऽपि शास्त्रावलोकन-पूजन-ध्यानाद्यन्यतमस्य कस्यापि साधनस्यानाचरणेन, प्रत्युत कामाद्यासङ्गेन चेति शेषः । संसारे यदि अमेण “पुनरपि जननं पुनरपि मरणं' इत्यायुक्तरीत्या परिभ्रमामः, 'भ्रमु चलने' इत्यस्माद्विधिलिड्युत्तमपुरुषः । तदा सः सर्वेश्वरः किं कुर्वीत ? एवं च जगत्संहारनरकपातादिरूपोऽयं न भगवतोऽपराधः, किं तु तादृशकर्मकर्तृणां जीवानामेव, तस्माच्च परमकारुणिके भगवति नारायणे दोषारोपो न युक्त इति भावः । शा. वि० वृत्तम् ॥ २४ ॥ एवं सविस्तरं सूर्यवर्णनमुपसंहृत्य भूलोकवर्णनप्रस्तावमाह-इतीति । इति वदन् विश्वावसुरिति शेषः । परिक्रामन् विमानेन परिभ्रमन् ‘क्रमु पादविक्षेपे' इत्यस्मात् शतृप्रत्ययः । “क्रमः परस्मैपदेषु" इत्युपधादीर्घः । किंचिदुत्तरमुपसृत्य पुरतो गत्वा, अधस्तादधोभागे अवलोक्य दृष्ट्वा च, आहेति शेषः ॥ सखे इति। हे सखे कृशानो, सकलाश्चत्वारश्च ते पुरुषार्था धर्मार्थादयस्तत्साधनानां कर्मणामनुतानस्य स्थानभूतं भूलोकमवलोकय पश्य ॥ ८ ॥ १ 'शुद्धिम्'. २ 'किंचिदन्तरं'. ३ हेतुभूत'. ४ 'स्वमवलोकय'. For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वर्णनम् ३ ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir B पदार्थचन्द्रिकाठीकासहिता । सबहुमानम् - स्वर्गौकोभिरदोनिवासिपुरुषारब्धातिशुद्धाध्वरखाहाकार - वपक्रियोत्थममृतं खादीयः आदीयते ॥ आम्नायमवणैरलंकृतिजुषेऽमुष्यै मनुष्यैः शुभै दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै पृथिव्यै नमः ॥ २५ ॥ कृशानुः - ननु सखे नाकगतोऽपि भवान् न मध्यमेलोकं नमस्कर्तु मर्हति ॥ ९ ॥ तथाहि जनन-मरण-काधि-व्याधिप्रभेदशुभेतरा कलनमलिना लोकाः शोकातुराश्च भुवं गताः ॥ २३ 1 सकलपुरुषार्थसाधनत्वमेव सबहुमानं प्राह--स्वर्गौकोभिरिति । स्वर्गः सुरलोकः ओको निवासस्थानं येषां तैर्देवैरित्यर्थः । अदः अस्मिन् भूलोके निवसन्ति ते अदोनिवासिनस्तैः पुरुषैरारब्धाश्च ते अतिशुद्धा मन्त्र-तन्त्र विपर्यासादिदोषरहिता अध्वरा यज्ञास्तेषु स्वाहाकारश्च वषट्क्रिया च ताभ्यां खाहाकार वषट्क्रिये हि खाहा वषट् इत्यव्यये ते च देवतार्थहविस्त्यागकाले मन्त्रान्ते प्रयुज्येते । तेन तादृशमन्त्रोच्चारणेन त्यक्तहविर्भ्यामित्यर्थः । “स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् खधा" इत्यमरः । उत्थमुत्पन्नं, खादीयः अतिमधुरं, खादुशब्दात् अतिशायने ईयसुन्प्रत्ययः । अमृतं हवीरूपं आदीयते स्वीक्रियते । अपि च आम्नायेषु वेदेषु “ श्रुतिः स्त्री वेद आम्नायः " इत्यमरः । प्रवणैः निपुणैः अर्थात् तदध्ययन- तद्विहितकर्मानुष्ठानासक्तैरिति यावत् । अत एव शुभैः कल्याणयुक्तैः मनुष्यैः, अलंकृतिजुषे अलंकारयुक्तायै 'जुषी प्रीति-सेवनयोः' इत्यस्मात् क्विप्। दिव्यानि च तानि क्षेत्राणि वाराणसी - बदरिकाश्रमादीनि तैः - सरिद्भिः गङ्गा-यमुनादिभिश्च पवित्रं शुद्धं वपुः शरीरं यस्यास्तस्यै, अमुष्यै दृश्यमानायै देव्यै देवतारूपायै पृथिव्यै नमः अस्तु इति शेषः । शा० वि० वृत्तम् ॥ २५ ॥ अथ भुव्यपि दोषारोपं कुर्वन् प्राह कृशानुः - नन्विति । नन्विति विरोधे । “ननु च स्याद्विरोधोक्तौ” इत्यमरः । सखे हे विश्वावसो, भवान् नाकगतोऽपि अत्रापित्वर्थकः। यतः स्वर्गस्थस्तत इत्यर्थः । मध्यमश्चासौ लोकश्च तं भूलोकमिति यावत् । नमस्कर्ते नार्हति त्वं नार्हसीत्यर्थः । भवच्छब्दयोगात् “ शेषे प्रथमः” इति प्रथमपुरुषः ॥ ९ ॥ , तथाहि नमस्कारानर्हत्वमेवोपपादयति – जननेति । भुवं गता लोका जनाः, जननं जन्म च “जनुर्जनन- जन्मानि ” इत्यमरः । मरणं च काधिः कुत्सितः आधिः मानसी व्यथा च चिन्तेति यावत् । “पुंस्याधिर्मानसी व्यथा । स्याच्चिन्ता -" इत्यमरः । व्याधिप्रभेदा ज्वरादयो नानारोगाश्च शुभेतराणामशुभानां कर्मणामाकलनं आचरणं च १ ' तस्यै'. २ ' मध्यलोकं '. For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [भूलोकतदिह मदिभिः क्षुदैश्छिद्रकमार्गणतत्परैः प्रभुभिरुदितक्षत्यै क्षित्यै बुधः स्पृहयेत कः ॥ २६ ॥ बालत्वे वा तरुणिमनि वा प्रायशो वार्द्धके वा मृत्वा मां बत यमभटैर्बद्धचमाना व्यथन्ते ॥ श्रेयस्तेषाममितविपदां जीवतां वा किमास्ते ? कस्मिन् ग्रामे पुनरनड्डहां कर्षणक्लेशहानिः ॥ २७ ॥ तैर्मलिनाः, अत एव शोकेन दुःखेन आतुराः पीडिताः, सन्तीति शेषः। न त्वेतावदेव, किंतु राजानोऽपि भूःस्था अविनयमनुसरन्तीत्याह-तदिहेत्यादिना । तत् तस्मात् कारणात् छिद्राणां परकीयदोषाणामेकं मुख्यं यथा स्यात्तथा मार्गणे अन्वेषणे तत्परा आसत्तास्तैः "तत्परे प्रसितासतौ" इत्यमरः । अत एव क्षुद्रैः नीचैः मदिभिथाहंकारयुक्कैः । मदशब्दान्मत्वर्थ इनिः । प्रभुभी राजभिः उदिता प्रारब्धा क्षति शो यस्याः, अर्थात् अधिककरग्रहणादिद्वारेति ज्ञेयम्। तस्यै क्षियै पृथिव्या इत्यर्थः। कः बुधः ज्ञाता; न तु मूर्खः, इह खर्गस्थः सन् स्पृहयेत? न कोपीत्यर्थः । “स्पृहेरीप्सितः" इति चतुर्थी । हरिणी वृत्तम् । “रस-युग-हयैश्छिन्ना न्सौ नौ स-लौ हरिणी गुरुः" इति तल्लक्षणात् ॥ २६ ॥ ___ अन्यदपि भूलोकदूषणमाह-बालत्वे इति । प्रायशो बहुधा मा मनुष्याः । बालत्वे बाल्यावस्थायां वाथवा तरुणस्य भावस्तरुणिमा तस्मिन् तारुण्ये इत्यर्थः । "पृथ्वादिभ्य इमनिज्वा" इति भावार्थे इमनिच्प्रत्ययः। वृद्धस्य भावो वार्द्धकं तस्मिन् वृद्धे वयसीत्यर्थः । “द्वन्द्वमनोज्ञादिभ्यश्च" इति वुञ्प्रत्ययः । मनोज्ञादेराकृतिगणत्वात् । मृत्वा, यमभटैर्यमदूतैः कर्तृभिः, बध्यमानाः निजपाशैदृढं बद्धा नीयमाना इत्यर्थः । तादृशाः सन्तः व्यथन्ते दुःखिनो भवन्ति । ननु मरणोत्तरं दुःखिनो भवन्ति चेत् भवन्तु नाम, परंतु जीवितकालपर्यन्तं सुखिन एव ते इत्याशङ्कयाहश्रेयस्तेषामित्यादि । तेषां पूर्वोक्तरीत्या दुःखभागिनां जनानां, अमिताः असंख्येया विपदो व्याध्यादिरूपा येषां तेषां, जीवतां सतां वाऽपि, श्रेयः सुखं किमास्ते ? अपि तु नैवेत्यर्थः । अपि च पुनः अनडुहां बलीवर्दानां कर्षणेन क्षेत्रादिभूम्यां हलाद्याकर्षणेन शकटाद्याकर्षणेन च यः क्लेशो दुःखं तस्य हानिर्विनाशः कर्षणादिक्लेशं विना लोकपूज्यानामपि बलीवर्दानां तृणादिना पोषणमिति भावः। कस्मिन् ग्रामे वर्तते अपि तु कैस्मिंश्चिदपि नैवेति भावः । तस्मात्स्वर्गस्थसुकृतिजनैर्नायं पापिजनाधिष्ठितो भूलोकः प्रशंसनीय इति । मन्दाक्रान्ता वृत्तम् । लक्षणमुक्तं प्राक् ( ८ श्लोकटीकायाम् )॥२७॥ १ 'मथ्यमाना'. For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३] पदार्थचन्द्रिकाटीकासहिता । विश्वावसुः-सत्यमेवं तथापि सखे मह्याश्रयं मानुषजन्म मा दूदुषः ॥ १० ॥ तथाहिरामः क्षेमस्य दाता भुवि ननु मनुजो रावणस्य प्रहता तत्तातः किं न मर्त्यस्त्रिदशकुलपतेर्दैत्ययुद्धे सहायः ॥ कृष्णो वृष्णो मदं योऽहरत नरतया न श्रुतः किं त्वयासौ के वा देवाः प्रभावात् खयमतिशयिता मानवादानवा वा ॥२८॥ एवं कृशानुनोक्तं दूषणमुद्धारयन्नाह विश्वावसुः सत्यमिति । सत्यमित्यर्धाङ्गीकारे । यत्किंचिद्दूषणसत्त्वेऽपि सर्वथा दूषणानहलं तस्यार्थः। तदेव द्योतयतिहे सखे कृशानो, तथापि यत्किचिदंशेन दूषणसत्त्वेऽपि, मह्याश्रयं पृथिव्याश्रयं मानुषाणां मनुष्याणां जन्म उत्पत्ति, मा दूदुषः मा दूषय । 'दुष वैकृत्ये' इत्यस्माणिजन्ताल्लुडि रूपम् । “णि-त्रि-" इति चङ् “चङि' इति द्वित्वम् । “णेरनिटि" इति णिलोपः । “णौ चडि-" इत्युपधाह्रखः "दी? लघोः" इत्यभ्यासस्य दीर्घः "न माड्योगे" इत्यडागमाभावः ॥ १० ॥ 'मानुषजन्म मा दूदुषः' इत्युक्तं तदेव सहेतुकमुपपादयति-राम इत्यादिना । भुवि क्षेमस्य कुशलस्य "कुशलं क्षेममस्त्रियाम्" इत्यमरः । दाता, रावणस्य प्रहर्ता माशको रामो दशरथपुत्रः, मनुजो ननु मनुष्य एव । बभूवेति शेषः । 'रावणस्य प्रहर्ता' इति हेतुगर्भ विशेषणम् । लोककण्टकीभूतरावणविनाशात् लोकानां सुखोत्पादक इत्यर्थः । तथा त्रिदशकुलपतेर्देवसमूहाधिपतेरिन्द्रस्य दैत्ययुद्धे वृषपर्वाख्यदैत्ययुद्धप्रसङ्गे इत्यर्थः।सहायः, तस्य रामस्य तातः पिता दशरथः,मर्त्यःमनुष्यःन किम् ? अपि तु मनुष्य एवेत्यर्थः । तथैव यः नरतया मनुष्यत्वेन "तस्य भावः” इति भावार्थे त• प्रत्ययः । कृष्णः वसुदेवपुत्रत्वेन प्रसिद्धः, वृष्णः इन्द्रस्य "इन्द्रोमरुलान्-"इत्यारभ्य "वासवो वृत्रहा वृषा" इत्यन्तोऽमरः । मदं गर्व लोकपालत्वाभिमानमित्यर्थः । "दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः” इत्यमरः । अहरत हृतवान् , गोवर्द्धनोद्धरणेनेति भावः । असौ कृष्णः त्वया न श्रुतः किम् ? 'वृष्णो मदमहरत' इत्युपलक्षणम् । तेन कंसवध-ब्रह्ममायानिरासादिकान्यन्यान्यपि बहूनि कार्याणि ज्ञेयानि। एवं सति के वा देवाः दानवा दैत्याः वा मानवात् ल्यब्लोपे पञ्चमी । मनुष्यसहायमनपेक्ष्यर्थः । वयं प्रभावात् स्वपराक्रमादेव अतिशयिताः संजातोत्कर्षाः ? "तदस्य संजातं-" इति तारकादित्वादितच्। न केऽपीत्यर्थः । एवं च यत्र एतादृशा देवेभ्योऽपि वीर्यवन्तो मनुष्या बभूवुस्तादृशभूलोकनिन्दनमयुक्तमिति भावः। स्रग्धरा वृत्तम् । लक्षणमुक्तं प्राक् ( १ श्लोकटीकायाम् ) ॥ २८॥ १ 'सत्यमेव तथापि मा स्म'. २ 'द्विषः'. ३ एतत्त्वचित्पुस्तके नोपलभ्यते. ४ 'ते'. For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ विश्वगुणादर्शचम्पू: [ भूलोक किंचमांधाता च भगीरथश्च सगरो मान्यः ककुत्स्थो रघुः पूरुः सोऽपि पुरूरवाः स च शिबिः पुण्यश्च रुक्माङ्गदः॥ वैदेहो नहुषश्च हैहयपतिर्वीरो ययातिनलः पार्थश्चेति नृपाः प्रशस्तयशसः प्रादुर्बभूवुन किम् ॥ २९ ॥ ननु राम-कृष्णयोरीश्वरावतारत्वाद्दशरथस्य च रामपितृत्वायुक्तमेव तथाविधत्वं, किंतु तावता सर्वेऽपि तादृशा एवेति न शक्यं वक्तुमित्याशङ्कय समाधत्ते-मांधातेति मांधात्रादयो युगान्तरभवा नृपाः ज्ञातव्याः । एतेषां पुण्यचरितानि श्रीमद्भागवते भारते च विद्यन्ते विस्तरतो वर्णितानि । तत्र भागवते नवमस्कन्धे यथा-मांधाता हि सूर्यवंशीयो युवनाश्वनाम्नो राज्ञः पुत्रः । अयं च खपितुः कुक्षि भित्त्वैवोत्पन्नः तदा च स्तन्यार्थी रुरोद । तद्रोदनं श्रुत्वा युवनाश्वश्चिन्तयामास-"कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम्” इति । तदा कृपया इन्द्रेणैवमुक्त्वा रक्षितः"मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात्" इति । अस्यैव त्रसदस्युरितीन्द्रेणान्यदपि नामाकारि । तथानेन खप्रौढे वयसि खपराक्रमात् सर्वाञ्शत्रूनिर्जित्य सार्वभौमत्वं संपादितम् । यज्ञादिपुण्यकर्मभिश्च भगवन्तमतोषयत् । सगरश्चाश्वमेधशतकर्ता आसीत् । शततमेऽश्वमेधे च इन्द्रेणावापहारः कृतः। अनन्तरमस्यैव वंशभवेन भगीरथनाम्ना राज्ञा कपिलमहामुनिकोपदग्धखपूर्वजोद्धारकाम्यया तपःप्रभावेण सुरनदी ( भागीरथी ) भूलोकमानीता। तथा ककुत्स्थः अयमपि सूर्यवंशीयो विकुक्षिनृपतेस्तनयः अतीव वीर्यवान् स्वपराक्रमादेवान्यान्यन्वर्थनामानि संपादितवान् । तत्प्रकारस्तु यथा-"कृतान्त आसीत्समरो देवानां सह दानवैः । पार्णिग्राहो वृतो वीरो देवैदैत्यपराजितैः ॥ वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः । वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः ॥ स संनद्धो धनुर्दिव्यमादाय विशिखान् शितान् । स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः । तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः । प्रतीच्यां दिशि दैत्यानां न्यरुणत्रिदशैः पुरम् ॥ तैस्तस्य चाभूत्प्रधनं तुमुलं लोमहर्षणम् । यमाय भल्लैरनयदैत्यान् येऽभिययुर्मधे ॥ तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् । विस्रस्य दुद्रुवुदैत्या हन्यमानाः स्वमालयम् ॥ जित्वा पुरं धनं सर्व सश्रीकं वज्रपाणये । प्रत्ययच्छत् स राजर्षिरिति नामभिराहृतः ॥” इति । एवं च पुरंजयः, इन्द्रवाहनः, ककुत्स्थः, इति नामानि । अत एवात्रास्य मान्य इति विशेषणं दत्तम् । तथैव रघुर्दिलीपसूनुः । अनेन विश्वजिन्नाम्नि . यज्ञे सर्वखं ब्राह्मणेभ्यः समर्पितम् । एतन्महाकविश्रीकालिदासकृतरघुवंशे प्रसिद्धम् । ययातिः सोमवंशीयो नृपो यः शुक्रकन्यां देवयानी वृषपर्वसुतां शर्मिष्ठां च परिणीतवान् । तयोर्द्वयोरपि भार्ययोः सुतानुत्पाद्य वार्द्धके च पूरुनान्ने सुताय राज्यं समर्प्य तपसे वनं ययौ । पूरुस्तु तत्सुतः, यः शुक्राचार्यदत्तशापसमये खपितुर्ययाते For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३] पदार्थचन्द्रिकाटीकासहिता। २७ कृशानुः-साङ्गिीकारम् कामं जनाः केऽपि गुणाभिरामाः क्षमातले सन्तु युगान्तरेषु ॥ कलौ युगेऽस्मिन् गुणलेशवन्ध्याः सर्वेऽपि खर्वेतरदोषभाजः॥३०॥ किंचमन्देतरस्मरमलीमसमानसानां मन्यु-स्पृहा-दुरभिमान-मदास्पदानाम् ॥ काले कलौ कलुषतः कलितोदयानां दोषाय दृष्टिरपि हन्त दुरीश्वराणाम् ॥ ३१ ॥ रां गृहीत्वा तस्मै स्वतारुण्यं ददौ । पुरूरवा अयमपि सोमवंशीयो बुधसुतः ऐलनामा राजा। यत्सौन्दर्यमोहिता उर्वशी खर्लोकात् भूलोकमाययौ । अस्यैव पुत्रो नहुषः । य इन्द्रस्य ब्रह्महत्यादोषावसानपर्यन्तं सुरलोकमशिषत् । शिबिः यः स्वमांसं श्येनाय समर्प्य कपोतं शरणागतं ररक्ष । रुक्माङ्गदो नाम भगवतः श्रीविष्णोः परमभक्तः, यः एकादशीव्रतं सर्वराष्ट्र प्रवर्तयामास । एतद्द्योतनार्थमेव पुण्य इति तस्मै विशेषणं दत्तम् । वैदेहो जनकः, यो राज्यकर्ता सन्नपि देहाद्यासक्तिरहित आसीत् शुकाचार्यस्य तत्त्वोपदेष्टा च । हैहयदेशानामधिपतिः सहस्रार्जुनः । यस्य श्रीदत्तप्रसादात् बाहुसहस्रं शत्रुभ्योऽपरिभूतत्वं च संप्राप्तम् । अत एव वीरः इति तद्विशेषणं संगच्छते । एते प्रशस्तं स्तुत्यं यशः कीर्तिर्येषां तथाविधा नृपाः राजानः, न प्रादुर्बभूवुः किम् ? अपि तु एवंविधाः शतशो मानवा बभूवुरित्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ २९ ॥ एवं तद्वचनं श्रुत्वा पुनरपि एतेषां कृतादिपूर्वयुगभवत्वात्सांप्रतं कलियुगे तच्चरित्रमनुपयुक्तमित्यभिप्रेत्याह कृशानु:-काममिति । गुणैः सौशील्यादिभिः अभिरामाः मनोहराः केपि अनिर्वाच्याः, पूर्वोक्ता मांधातृप्रभृतयो जनाः लोकाः, युगान्तरेषु एतत्कलियुगादन्येषु कृतादियुगेषु, मयूरव्यंसकादिसमासः । अन्यानि युगानि युगान्तराणीति विग्रहः । क्षमातले पृथ्वीतले, कामं यथेष्टं । “कामं प्रकामं पर्याप्त निकामेष्टं यथेप्सितम्" इत्यमरः । सन्तु भवन्तु । किंतु अस्मिन् कलौ कलिसंज्ञके युगे, गुणस्य लेशेन लवेन "लव-लेश-कणाणवः” इत्यमरः । वन्ध्या हीनाः, गुणस्य यत्किंचिदंशेनापि रहिता इत्यर्थः । एवंविधाः सन्तः सर्वेऽपि सकला एव न तु केचिदेव । खर्वात् अल्पात् इतरे खतरे तान् महत इति यावत् , दोषान् भजन्ति सेवन्ते इति तथाभूताः । विद्यन्ते इति शेषः । वृत्तमुपजातिः । लक्षणमुक्तं प्राक् ( ५ श्लोकटीकायाम् ) ॥३०॥ दोषभाक्त्वमेव प्रपश्चयति-मन्देतरेति । मन्देतरो बहुलश्चासौ स्मरश्च कामः १ सन्ति'. २ एतत्कचित् पुस्तके नैवोपलभ्यते. ३ 'कलुषताक०'. For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ विश्वगुणादर्शचम्पू:- [भूलोकविश्वावसुः—तथापि सर्वथा कलिकालिका अपि मानुषा न दृषणीयाः । यतः सर्वकालमपि केचन सन्त्येव साधवः ॥ ११ ॥ पश्यदुरितभरितक्षीबक्ष्मापप्रसादनिरादराः कमलनयनखैरक्रीडागृहायितहगुहाः ॥ निगमपदवीनिहाय क्षितावुदिताः खयं कति न कृतिनः संदृश्यन्ते कलावपि निर्मलाः ॥ ३२ ॥ "कामः पञ्चशरः स्मरः" इत्यमरः। तेन मलीमसं मलिनं “मलीमसं तु मलिनं" इत्यमरः। "ज्योत्स्ना-तमिना-" इत्यादिनिपातनात् साधु । मानसं मनो येषां तेषां, तथा मन्युः क्रोधश्च "मन्युर्दैन्ये कतौ कुधि" इति हैमः । स्पृहा विषयेच्छा च "इच्छा काङ्क्षा स्पृहेहातृट्" इत्यमरः। दुरभिमानः 'अहं श्रेष्ठः, अहं धनी, अहमेव प्रभुः' इत्यादिरूपो वृथाहंकारश्च मदो युक्तायुक्तविवेकराहित्यं च तेषां आस्पदानां स्थानभूतानां, अत एव कलौ काले एतस्मिन् पापिनि कलियुगे, कलुषतः प्राक्तनपापकर्मवशादेव, कलितः संप्राप्तः उदयः उत्पत्तिर्येषां तथाभूतानां, दुरीश्वराणां दुष्टनृपाणाम् , दृष्टिदर्शनमपि, दोषाय पापार्थमेव भवति।तादर्थे चतुर्युषा । किमुत स्पर्शन-भाषणादिकम्। एवं च एतादृशजनाधिष्ठिता भूमिर्न खलु प्रशंसनीयेति भावः । वसन्ततिलका वृत्तम् । “उक्ता वसन्ततिलका त-भ-जा ज-गौ गः" इति तल्लक्षणात् ॥ ३१ ॥ ___ एतदपि दूषणमपाकुर्वन्नाह विश्वावसुः-तथापीति । तथापि त्वदुक्तदोषयुकेषु केषुचिल्लोकेषु सत्वपि, सर्वथा सर्वे इत्यर्थः। कलिकालिकाः कलिकालभवा अपि "तत्र भवः” इत्यधिकारे कालाहञ् । मानुषा मनुष्याः न दूषणीयाः दूषितुं योग्या न भवन्तीत्यर्थः । यतो यस्मात् कारणात् , सर्वकालेऽपि केचन कतिपयाः साधवः सज्जनाः सन्त्येव भवन्त्येव ॥ ११॥ एतदेवोपपादयति-पश्यति-दुरितेति । दुरितेन पापेन भरितानां पूर्णानां अत एव मद्यादिपानेन क्षीबानां मत्तानां च क्षमापाणां भूमिपानां राज्ञां प्रसादे प्रसन्नतायां निरादरा आदररहिताः। यतः कमलनयनः कमलपत्राक्षः विष्णुः, यद्वा कमलं कुरङ्गं नयति हस्तं प्रापयतीति कमलनयनः शिवश्च "स्यात् कुरङ्गोऽपि कमलं" इत्यमरः । एवं च विष्णोः शिवस्य वा खैरक्रीडा स्वेच्छाविहारः तदर्थे गृहायिता गृहवदाचरन्त्यः हृद्गुहा हृदयस्थदहराकाशा येषां ते, सम्यग्ध्यानादिसाधनैरन्तःस्थपरमात्मज्ञानसंपन्ना इत्यर्थः । तेनैव राज्ञः प्रसादेऽपि निःस्पृहाः । अत एव निगमानां वेदानां पदवी मार्गः तस्य निर्वाहाय संरक्षणाय, अर्थात् वेदविहितकर्माद्यनुष्ठानेन तत्सार्थक्यापादनायेत्यर्थः । खयं क्षितौ पृथिव्यां उदिता उत्पन्नाः कृतिनः पुण्यवन्तः निर्मलाः शुद्धान्तःकरणाः एतादृशाः सजनाः, कलौ युगेऽपि कति न संदृश्यन्ते ? अपि तु १ 'सर्वे'. २ ‘सर्वकाले'. For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३ ] पदार्थचन्द्रिकाटीकासहिता । २९ अथवा यदि ते मद्वचसि न विस्रम्भस्तर्हि तत्र तत्र संचारमारचय्य तत्तद्गुणदर्शनं करवाव ॥ १२ ॥ अथ बदरिकाश्रमवर्णनम् ४. इति विमानमग्रतः प्रस्थापयन्नङ्गुल्या निर्दिश्यविश्वा० इदं बदरिकाश्रमस्थलमिहेष नारायण__ 'स्तपस्यति नमस्यतां स्थिरतमं तमः शोषयन् ॥ विकासिधिषणोन्मिषद्विषयवर्जनाः सज्जना ___ जनार्दनमहर्दिवं भुजगमञ्चमर्चन्त्यमी ॥ ३३ ॥ बहवो दृश्यन्त एवेत्यर्थः । हरिणीवृत्तम् । लक्षणमुक्तं प्राक् (२६ श्लोकटीकायाम् ) ॥ ३२॥ खवचसि कृशानोः किंचिद्विश्वासवैधुर्यं दृष्ट्वा बदरिकाश्रमादिपुण्यक्षेत्रवर्णनप्रस्तावार्थमाह-अथवेति । अथवेति पक्षान्तरे । यदि मदीये मदुक्के वचसि भाषणे न विस्रम्भः विश्वासो नास्ति चेत् , “समौ विस्रम्भ-विश्वासौ" इत्यमरः । तर्हि तत्र तत्र पुण्यक्षेत्रे संचारं गमनं आरचय्य कृत्वा, तत्तद्गुणदर्शनं तत्तत्पुण्यक्षेत्राणां सम्यग्गुणनिरीक्षणं करवाव कुर्वः ॥ १२ ॥ इति एवमुक्त्वा विमानमग्रतः अग्रभागे प्रस्थापयन् प्रापयन्नङ्गुल्या निर्दिश्य; किंचित् प्रदेशमिति शेषः। इदमिति । इदं पुरोभागवर्ति बदरिकाश्रमाख्यं स्थलं स्थानं, वर्तत इति शेषः । इह अस्मिन् बदरिकाश्रमे एष प्रसिद्धो नराणां समूहो नारं जीवसमूहः तस्य अयनं आश्रयः । यद्वा नारं उदकं अयनं आश्रयो यस्य सः जलशायीत्यर्थः । तदुक्तं मनुस्मृतौ-"आपो नारा इति प्रोक्ता आपो वै नरसूनवः । तस्य ता अयनं प्रोक्तास्तेन नारायणः स्मृतः ॥” इति । नारायणः, नमस्यतां भक्तिभावेन नमस्कुर्वतां जनानां, नमःशब्दात् "नमो-वरिवस्" इत्यादिक्यजन्तात् शतृप्रत्ययः । स्थिरतमं अतिशयेन स्थिर, अतिशायने तमप् । तमः अज्ञानं शोषयन् विनाशयितुम् , हेतौ शतृप्रत्ययः । तपस्यति तपश्चर्या करोति । तपःशब्दात् “तपसः परस्मैपदं च" इति वार्तिकात् क्यङ परस्मैपदं च । अत एव अमी एतत्क्षेत्रनिवासिनः विकासिन्याः परमात्मज्ञानेन विकसनशीलायाः धिषणायाः बुद्धेः "बुद्धिर्मनीषा धिषणा" इत्यमरः । उन्मिषत् उत्पद्यमानं विषयाणां शब्दादीनां वर्जनं निरसनं येषां १ एतत् क्वचित् कचिन्न दृश्यते. २ 'स्थिरतरम्'. For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० विश्वगुणादर्शचम्पू: [ बदरिकाश्रम कृशानुः - सखे तवात्र गुणवत्तासमर्थनं न रोचते मह्यम् ॥ १३ ॥ कुत: यदत्र जागर्ति शिलासमं हिमं सुशीतला गन्धवहाश्च दुःसहाः ॥ जलावगाहाच्चकितो जनस्ततः कुतस्त्वनुष्ठास्यति कर्म निर्मलम् ॥ ३४ ॥ विश्वावसुः — अस्मन्मेतानुकूलमेवैतद्भवति भवदुक्तम् ॥ १४ ॥ तथाभूताः शब्द-स्पर्शादिविषयाद्यनासक्कतया केवलमीश्वरपरायणा इत्यर्थः । अत एव सज्जनाः साधुजनाः, भुजगः शेषः मचः शयनं यस्य तथाभूतं जनार्दनं, जननं जनः भावे घञ् “जनि- वध्योश्च " इति वृद्ध्यभावः । जनः जन्म अर्दयति नाशयतीति विग्रहः । 'अर्द हिंसायाम्' इति धातोर्नन्द्यादित्वात् ल्युः । यद्वा जनैः अर्द्यते प्राप्यते इति विग्रह: । 'अर्द गतौ याचने च' इत्यस्मात् " कृत्यल्युटो बहुलम्" इति कर्मणि ल्युट् । एतादृशं नारायणं अहर्दिवं प्रतिदिनं “ अचतुर- विचतुर- सुचतुर" इत्यादिना समासः । अर्चन्ति पूजयन्ति । पृथ्वी वृत्तम् । लक्षणमुक्तं प्राकू (१२ श्लोकटीकायाम् ) ॥ ३३ ॥ पुनरपि खानुरूपमाह कृशानुः - सखे इति । हे सखे मित्र, तव त्वत्कृतमित्यर्थः । अत्र बदरिकाश्रमे, गुणाः भगवन्निवासादयः सन्ति यस्मिंस्तत् तस्य भावः तत्ता तस्याः समर्थनं प्रतिपादनं, मह्यं मे न रोचते न प्रीणयति । " रुच्यर्थानां " इति चतुर्थी ॥ १३ ॥ कुतो न रोचते इत्याह-यदत्रेति । यद्यस्मात् कारणात् अत्र बदरिकाश्रमे, शिलासमं घनीभूतत्वात् पाषाणसदृशं हिमं तुहिनं “ तुषारस्तुहिनं हिमम्" इत्यमरः । जागर्ति विद्यते । कदापि वसन्त - ग्रीष्मायुष्णकालेऽपि न विनश्यतीति द्योतनार्थं जागृधातोः प्रयोगः । तथा गन्धवहाः वायवश्व “ – वायुर्मातरिश्वा सदागतिः । पृषदश्वो गन्धवहो -" इत्यमरः । सुतरामत्यन्तं शीतलाः शीतयुक्ताः, अत एव दुःसहाः सोढुमशक्याः वहन्तीति शेषः । तत एव च जले थोऽवगाहः स्नानं तस्मात् चकितो भीतो जनः । जातावेकवचनम् । सर्वेऽपि जनाः स्नातुं न शक्नुवन्तीत्यर्थः । “भीत्रार्थानां भयहेतुः " इति पञ्चमी । ततः ततस्तु उपर्युक्तदोषबाहुल्यादेव निर्मलं पूर्वोक्तं पूजादिरूपं कर्म, कुतः अनुष्ठास्यति तादृशकर्मणोऽनुष्ठानं कथं करिष्यतीत्यर्थः । एवं च पूर्वोक्तं तव गुणवत्ताप्रतिपादनं नात्र संगच्छते इति भावः । वंशस्थवृत्तम् । लक्षणमुक्तं प्राक् ( १० श्लोकटीकायाम् ) ॥ ३४ ॥ एवं कृशानुप्रोक्तं दूषणमपि गुणपरतया संग्रहीतुमाह विश्वावसुः - अस्म दिति । एतत् 'यदत्र जागर्ति शिलासमं हिमं' इत्यादि भवदुक्तं त्वया प्रतिपादितं, अस्माकं मतस्य बदरिकाश्रम महत्त्ववर्णनरूपस्य अनुकूलं युक्तमेव भवति ॥ १४ ॥ १ ‘अस्मदनुकूलमेतद्भवति’. For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ -वर्णनम् ४ ] पदार्थचन्द्रिकाटीकासहिता । यतःपरमहिमयुतत्वात् प्राप्तवैकुण्ठसाम्यं पदमिदमुपयान्तः पण्डिताः शान्तिमन्तः ॥ मुहुरिह समयेषु सानहेतोः सरोगा स्तदपि भृशमरोगास्ता_केतोः प्रसादात् ॥ ३५ ॥ अथायोध्यावर्णनम् ५. इति विमानमन्यतः प्रस्थाप्य साञ्जलिबन्धम् तदेवाह-यत इति-परमेति । परमं अतिशयितं च निबिडमिति यावत् । तत् हिमं तुहिनं तेन युतत्वात् युक्तत्वात्, पक्षे पर उत्तमश्चासौ सर्वलोकातिरिक्त इति यावत् महिमा माहात्म्यं च तेन युतत्वात्, प्राप्त विशेषेण कुण्ठः क्रियामन्दः किंचिदपि कार्य कर्तुमशक्त इत्यर्थः । "कुण्ठो मन्दः क्रियासु यः" इत्यमरः। विकुण्ठः, विकुण्ठ एव वैकुण्ठः तस्य साम्यं सादृश्यं येन, पक्षे प्राप्तं वैकुण्ठस्य वैकुण्ठलोकस्य साम्यं येन, तादृशं इदं पदं बदरिकाश्रमस्थानं प्रति, उपयान्तः आगच्छन्तः शान्तिमन्तः शान्तियुक्ताः, पण्डा आत्मज्ञानविषया बुद्धिः सा प्राप्ता येषां ते पण्डिताः। पण्डाशब्दातू तारकादित्वादितच् । इह बदरिकाश्रमे समयेषु प्रातमध्याह्नादिकर्मकालेषु नानहेतोः स्नानकारणादेव “हेतुर्ना कारणं बीजं" इत्यमरः । मुहुर्वारंवारं, सरोगाः शीत-वातादिरोगयुक्ताः, पक्षे सरः सरोवरं गच्छन्तीति तथाभूताः भवन्तीति शेषः । तदपि तथापि, ते तायः गरुडः “गरुत्मान् गरुडस्तायः" इत्यमरः । केतुर्ध्वजो यस्य सः विष्णुः तस्य प्रसादात् अनुग्रहात् भृशमत्यन्तं अरोगा रोगरहिताः कुशलिन इत्यर्थः । भवन्ति । एतदुक्तं भवति यत्पूर्वमुक्तं दूषणं 'जलावगाहाच्चकितो जनः' इत्यादि, तत्तु भगवद्भक्तेषु न संगच्छते, ते तु भगवत्प्रसादानिरन्तरं कुशलिन एव, परं च ये तावदभक्ताः काम-रागादिदोषयुक्ताश्च ते एव भगवदनुग्रहाभावात् शीतादिरोगयुक्ताः भवन्तीति । अत्र विरोधालंकारः। भगवत्प्रसादेन 'सरोगाः' इत्यत्र सरोवरगमनरूपश्लेषार्थेन च विरोधपरिहारः । तदुक्तम्-"विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः" इति । मालिनी छन्दः । “न-न-म-य-य-युतेयं मालिनी भोगिलोकैः” इत्यादितल्लक्षणात् ॥ ३५ ॥ ___ अथ अयोध्यापुरवर्णनमाक्षिपन्नाह कविः-इतीति । इत्येवंप्रकारेणोक्त्वा विमानमन्यतोऽन्यत्र प्रस्थाप्य नीत्वाअञ्जलिः करसंपुटः तस्य बन्धः करणं तेन सहितं यथा तथा आहेति शेषः ॥ For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३२ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पूः साकेताय नमः पुराय भवतु स्तोकेतर श्रीपुषे नानादोषमुषे तदन्तिर्कजुषे देव्यै सरखे नमः ॥ येऽमी तत्तभूमिषु प्रविलसद्रूपाश्च यूपाः स्थितास्तेभ्यो भानुकुलीनकीर्तिलतिकोपन्नायितेभ्यो नमः ॥ ३६ ॥ पुनः पुरीं निरीक्ष्य सभक्त्युन्मेषम् - भवसागरशोषणेन पश्यच्चरणान्तः पुरजीवनौषधेन ॥ रजसा रघुनाथपादभाजा रचितांहः प्रशमामिमां नमामि ॥ ३७ ॥ [ अयोध्या साकेतायेति । स्तोकात् अल्पात् " स्तोकाल्प क्षुल्लकाः सूक्ष्मं" इत्यमरः । इतरा भिन्ना अर्थात् अनल्पा तां श्रियं शोभां पुष्णाति धारयतीति तस्मै स्तोकेतर श्रीपुषे 'पुष पुष्टौ ' इत्यस्मात् क्विप् । साकेताय पुराय अयोध्यानगर्यै नमः भवतु अस्तु । तथा नानादोषान् बहुविधपापानि मुष्णाति नाशयतीति तथाभूतायै । 'मुष स्तेये' इत्यस्मात् क्विप् । तस्य अयोध्यापुरस्य अन्तिकं समीपं जुषति सेवते विष्ठतीति यावत् । तस्यै 'जुषी प्रीति सेवनयोः' इत्यस्मात् क्विप् । देव्यै दिव्यरूपायै सरय्वै सरयूनान्यै नद्यै च नमः । तथा तस्याः सरय्वाः तटभूमिषु तीरभूमिषु "कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु" इत्यमरः । प्रविलसत् शोभायमानं रूपं येषां तथाभूताः ये अमी दृश्यमाना यूपाः यज्ञीयपशुबन्धनस्तम्भाः स्थिताः सन्ति । कीदृशास्ते । भानुकुले सूर्यवंशे भवा भानुकुलीनाः कुलशब्दात् भवार्थे खप्रत्ययः “ आयनेयीनी - " इत्यादिना च खस्य ईनादेश: । सूर्यवंशोत्पन्ना राजान इत्यर्थः । तेषां कीर्तिरूपा या लतिका लतास्तासां उपन्नाः अन्तिकाया इव " स्यादुपन्नोऽन्तिकाश्रयः" इत्यमरः । आचरन्ति ते उपनायितास्तथाभूतेभ्यः । सूर्यवंशोत्पन्ननृपति कीर्तिसूचकेभ्य इति यावत् । उपघ्नशब्दात् उपमानार्थे “कर्तुः क्यङ्-" इति क्यङि क्तप्रत्ययः । तेभ्यो यूपेभ्यश्च नमः अस्तु । अत्रोपमावाचकस्येवशब्दस्य लोपात लुप्तोपमालंकारः । " वादेर्लोपे समासे सा कर्माधारक्यचि क्यङिः” इति तल्लक्षणात् । शार्दूलविक्रीडितं वृत्तम् ॥ ३६ ॥ पुनरिति । पुनः पुरीमयोध्यां निरीक्ष्यावलोक्य, भक्तेः पूज्येष्वनुरागस्य उन्मेषेण विकासेन सहितं यथा भवति तथा प्राहेति शेषः ॥ भवसागरेति । भवसागरस्य संसारसमुद्रस्य शोषणेन विनाशकेन, पश्य चरणो गौतमर्षिः तस्य अन्तःपुरं पत्नी अहल्या तस्य जीवनं गौतमदत्तशापमोचनं तस्य औषधं औषधरूपं तेन, रघुनाथस्य श्रीरामचन्द्रस्य पादौ चरणौ भजति सेवते इति रघुनाथपादभाकू तेन रामचन्द्रचरणसंबन्धिनेति यावत् । रजसा रेणुना " रेणुर्द्वयोः स्त्रियां १ ' तदन्तर' २ ' पुनः पुनर्नि'. For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता । ३३ पुनः सानुस्मरणरोमाञ्चम्कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा काचित्साकेतधामा भवगहनगतिक्लान्तिहारिप्रणामा ॥ सौन्दर्यहीणकामा धृतजनकसुतासादरापानदामा दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा ॥३८॥ धूलिः पांसुर्ना न द्वयो रजः” इत्यमरः । रचितः । कृतः अंहसां पापानां "पापं किल्बिष-कल्मषम् । कलुषं वृजिनैनोऽघमंहः-" इत्यमरः । प्रशमो नाशो यया तां इमां अयोध्यां नमामि । औपच्छन्दसिकं वृत्तम् , “पर्यन्तेयौं तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम्” इति तल्लक्षणात् ॥ ३७॥ पुनरिति । अनुस्मरणं मनसि चिन्तनं तेन ये रोमाञ्चाः रोमहर्षास्तैः सहितं यथा भवति तथा प्राहेति ॥ एवमयोध्या वर्णयित्वाथ तत्रस्थं श्रीरामचन्द्रं वर्णयति-कल्याणेति । कल्याणस्य मङ्गलस्य य उल्लास आधिक्यं तस्य सीमा मर्यादा । एतस्मादधिकं कल्याणसाधनं नास्तीत्यर्थः । तथा कालमेघवत् अभिरामा मनोहरा वर्षाकालीनमेघ इव श्यामवर्णेत्यर्थः । अपि च भवः संसारस्तदेव गहनं वनं "गहनं काननं वनम्" इत्यमरः । तस्मिन् गत्या परिभ्रमणेन या क्लान्तिः श्रमः तस्या हारी हरणशीलो विनाशक इति यावत् । प्रणामो नमस्कृतिर्यस्याः सा तथाभूता, यस्याः प्रणाममात्रेणैव सकलसांसारिकदुःखनिरसनं भवतीत्यर्थः । पुनश्च सौन्दर्येण लावण्येन ह्रीणः लज्जितः "हीण-हीतौ तु लजिते" इत्यमरः । कामो मदनो यस्याः सा तथाभूता । अत एव धृता जनकसुतायाः सीतायाः सादरं यथा स्यात्तथा अपाङ्गदामा कटाक्षपतिर्यया तथाभूता च । “अपाङ्गो नेत्रयोरन्तौ कटाक्षोपाङ्गदर्शने” इत्यमरः । यथा दिक्षु पूर्वादिदशदिशासु प्रख्यातः प्रसिद्धः भूमा माहात्म्यं यस्याः सा, तत एव च दिवि खर्गे सीदन्ति तिष्ठन्तीति दिविषदो देवाः 'षद् विशरण-गत्यवसादनेषु' इत्यस्माद्धातोः “सत्सू-द्विष दुह-" इत्यादिना विप् । “आदितेया दिविषदो लेखा अदितिनन्दनाः" इत्यमरः । तैः अभिनुता संस्तुता । एतादृशी साकेतमयोध्या "साकेतं स्यादयोध्यायो" इति कोशः । धाम स्थानं यस्याः सा, काचिदनिर्वाच्या रामनामा रामाख्या देवता, सर्वेषामिति शेषः । कुशलं क्षेमं कलयतु करोतु । अत्र'सीमा-धामा-दामा-नामा' इति सर्वत्र स्त्रीत्वविवक्षायां "डाबुभाभ्यामन्यतरस्याम्" इति डाप्प्रत्ययः । स्रग्धरा वृत्तम् लक्षणं पूर्वोक्तं ( १ श्लोकटीकायामुक्तम् ) ॥३८॥ 'धामा'. For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [ अयोध्याकिंचदशाननकुशासनत्रसदशेषलोकव्यथा विलोपकरकोपको वसुमतीसुतावल्लभः ॥ कृपारसमपारसंसृतिपयोनिधेस्तारकं कृषीष्ट स ऋषीष्टकृत्कृपणतैकताने मयि ॥ ३९ ॥ अपि च स जयति चित्रचरित्रो यस्य हि वरचरणपुष्करकरेणुः ॥ महिषीमृषिसिंहस्य प्राजीजनदपि वृषोदये हेतुः ॥ ४०॥ दशाननेति । किं च पुनः दशाननस्य रावणस्य यत् कुत्सितं शासनं राज्यकरणं तस्मात् त्रसन्तो बिभ्यतो ये अशेषाः सकला लोकास्तेषां व्यथाया दुःखस्य विलोपं नाशं करोतीति तथाभूतः कोपः क्रोधः यस्य सः विलोपकरकोपकः शैषिकः का प्रत्ययः । क्वचित्-'रोपकः' इति पाठस्तत्पक्षे–व्यथाविलोपकरः रोपः बाणः यस्य तथाभूत इत्यर्थः । “पत्री रोप इषुर्द्वयोः” इत्यमरः । एतादृशः वसुमतीसुतायाः पृथ्वीसुतायाः सीताया वल्लभः प्रियकरः । अपि च ऋषीणां इष्टकृत् यज्ञादिसकलकर्मप्रत्यूहभूतरावणादिराक्षसविनाशनेन तत्कर्मप्रवर्तक इत्यर्थः । सः श्रीरामचन्द्रः, कृपणतायाः दीनतायाः एकताने अनन्यवृत्तौ "एकतानोऽनन्यवृत्तिः” इत्यमरः । अत्यन्तकृपणे इत्यर्थः । मयि अपारः तर्तुमशक्यः यः संसृतिपयोनिधिः संसारसागरः तस्मात् तारकं उद्धारकं कृपारसं दयारसं, कृषीष्ट कुर्यात् । 'डुकृञ् करणे' इत्यस्मादात्मनेपदिनः (अयमुभयपदी तस्मादात्मनेपदविवक्षायां) आशीर्लिङि रूपम् । अत्र कृपारसकरणस्य 'दशाननकुशासन-' इत्यादिवाक्यं हेतुरूपं, तेन काव्यलिङ्गमलंकारः। "काव्यलिङ्गं हेतोः-" इत्यादितल्लक्षणात् ॥ ३९ ॥ ननु इतरबहुतरसंसारसागरतारकदेवतासत्त्वात्कुतोयमेव प्रार्थ्यते इत्याशङ्कां निवारयन्नाह-स इति।अपि च न तावत् पूर्वोक्तमेव, अन्यदपि तन्माहात्म्यमस्तीत्यर्थः । तदिदम्-यस्य हि श्रीरामचन्द्रस्यैव वरं श्रेष्ठं यच्चरणपुष्करकं चरणकमलं तत्संबधी रेणुः धूलिः । पक्षे वराण्युत्तमानि चरणानि पुष्करं शुण्डाग्रं "पुष्कर करिहस्ताग्रे वाद्यभाण्ड-मुखे जले । व्योनि खड्गफले पञ" इति नानार्थः । च यस्य तथाभूतः करेणुः गज इति चार्थः । “करेणुरिभ्यां स्त्री नेभे" इत्यमरः । अत एव ( एतद्रामपक्षे) वृषस्य धर्मस्य बलीवर्दस्य च उदये उत्पत्तौ हेतुः कारणं "स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः” “उक्षा भद्रो बलीवर्दो ऋषभो वृषभो वृषः" इत्युभयत्राप्यमरः । अपिः समुच्चयस्य विरोधस्य च द्योतकः । “गर्हा-समुच्चय-प्रश्न-शङ्का-संभावनाखपि" इत्यमरः । ऋषन्ति जानन्ति तत्त्वमिति ऋषयः 'ऋषी गतौ' इति धातोः "इगु १ 'विलोपकररोपकः'. २ ‘पयोधिनिस्तारकं'. ३ हेतुम्'. For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता । श्रेयांसि भूयांसि महावदान्यः प्रेयान्स देयाजनकात्मजायाः ॥ काकाय कङ्काय च योऽदितेष्टं दाशाय कीशाय च राक्षसाय ॥४१॥ अपि च-- अभीष्टघटकः क्षितावतुलैदीप्तिकोदण्डभा गिति क्षममिदं पुनः परममद्भुतं ब्रूमहे ॥ विधूतपरमार्तिको विघटितारिचक्रः स्वयं स कुम्भजनकं प्रभुः शकलयांबभूव क्रुधा ॥ ४२ ॥ पधात् कित्" इत्युणादिसूत्रात् इन् प्रत्ययः । गत्यर्थत्वात् ज्ञानार्थत्वम् । तेषां सिंहस्य श्रेष्ठस्य "सिंह-शार्दूल-नागाद्याः पुंसि श्रेष्टार्थगोचराः" इत्यमरः । गौतमस्येत्यर्थः । महिषी पत्नी प्राजीजनत् शिलारूपत्वादुद्दधार । पक्षे ऋषेः सिंहस्य च महिषीं महिषस्त्रियं चेत्यर्थः । अत एव चित्रमाश्चर्यजनकं चरित्रं यस्य सः, सः प्रसिद्धः श्रीरामः, जयति सर्वोत्कर्षण वर्तते। अत्र श्लेषानुप्राणितो विरोधालंकारः। गीतिश्छन्दः "आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयति शोभा तां गीति-" इति तल्लक्षणात् ॥ ४० ॥ अपि च-श्रेयांसीति । यः श्रीरामः काकाय वायसाय, कङ्काय जटायुनाम्ने गृध्राय, (यद्यप्यमरे कङ्कशब्दस्य गृध्रवाचकत्वं कुत्रापि नोपलभ्यते, तथाप्यत्र गृध्रवाचकत्वमेवेष्टं, गृध्र प्रत्येव श्रीरामादिष्टप्राप्तेः । कोशान्तरे च गृध्रवाचकत्वं कङ्कशब्दस्योपलभ्यते चेत् तद्वयं न जानीमः । ) च तथा दाशाय गुहाख्यधीवराय, कीशाय सुग्रीवाय, मारुतये वा वानराय, राक्षसाय विभीषणाय च, इष्टं तत्तदभीष्टमनोरथं, अदित दत्तवान् ‘डुदाञ् दाने' इत्यस्मात् लुङि आत्मनेपदविवक्षायां तङि “स्था-वोरिच" इतीत्वे सिज्लोपे च सिद्धमिदं रूपम् । सः महावदान्यः महांश्चासौ वदान्यश्चेति विग्रहः। अतीव दानशूर इत्यर्थः । “आन्महतः समानाधि-" इत्यादिना महच्छब्दस्यात्वम् । "स्युर्वदान्य-स्थूललक्ष्य-दानशौण्डा बहुप्रदे" इत्यमरः । जनकात्मजायाः सीतायाः प्रेयान् अतिशयप्रियः पतिः श्रीराम इत्यर्थः । प्रियशब्दात् अतिशयार्थे ईयसुनि "प्रिय स्थिर-स्फिरोरु-बहुल-" इत्यादिना प्रादेशः । भूयांसि अतिशयानि । बहुशब्दादीयसुनि “बहोर्लोपो भू च बहोः” इति बहुशब्दस्य 'भू' आदेश ईकारलोपश्च । श्रेयांसि कल्याणानि देयात् ददातु । ददातेराशीर्लिङि “एलिङि" इत्ये. त्वम् । इन्द्रवज्रा वृत्तम् । “स्यादिन्द्रवज्रा यदि तौ ज-गौ गः" इति तल्लक्षणम् ॥४१॥ अन्यदपि तद्वृत्तमाह-अपि चेति । अभीष्टेति।क्षितौ पृथिव्यां अयं श्रीराम इति शेषः । अभीष्टं भक्तजनेष्टं घटयति जनयतीति तथोक्तः खार्थे कः । तथा अतुग अतिशयिता दीप्तिः कान्तिर्यस्य तत् तादृशं कोदण्डं धनुः “धनुश्चापौ धन्व-शरा १ 'अन्यच्च.' २ ‘क्षितावमित'. ३ 'प्रशमयां'. For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ विश्वगुणादर्शचम्पूः– [ अयोध्या कृशानुः —— कथं नाम रामभद्रमनुचितकर्माणमप्येवमीडिडिषे ? ॥ १५ ॥ वर्षीयानपि जानकीसहचरो मातुः सपत्न्या मुदे संपन्नं रथ- हस्ति - पत्ति - तुरगैः संत्यज्य राज्यं निजम् ॥ विन्दन् हन्त घनं वनं कथमसौ न स्यादयुक्तक्रियो गव्यं दुग्धमपास्य पास्यति जनः को वा यवागूरसम् ॥ ४३ ॥ सन-कोदण्ड-कार्मुकम् ” इत्यमरः । भजति धारयतीति कोदण्डभाक् अस्ति । इतीदं क्षमं युक्तम् । वक्तुमिति शेषः । पुनः इदं वक्ष्यमाणं च परममत्यन्तं अद्भुतं विचित्रं, ब्रूमहे ब्रूमः । 'ब्रूञ् व्यक्तायां वाचि' इति धातोर्जित्त्वादात्मनेपदमपि । किं तत् । सः पूर्वोक्तः अभीष्टघटक इत्यादिविशेषणविशिष्ट एव, स्वयं विघटितं नाशितं अरीणां शत्रूणां चक्रं समूहो येन तथाभूतः, अत एव विधूता विनाशिता परमा अतिशयिता आर्तिः जन्ममरणादिपीडा (अर्थात् भक्तानां ) येन सः विधूतपरमार्तिकः । शैषिकः कप् । प्रभुः श्रीरामः क्रुधा रोषेण, कुम्भस्य कुम्भनाम्नो राक्षसस्य जनकं रावणं, कुम्भनामा राक्षसो रावणपुत्रत्वेन रामायणादौ प्रसिद्धः । शकलयांबभूव खण्डयामास विनाशितवानिति यावत् । रावणस्य देवादिभिरप्यजेयत्वात्तन्नाशकरणमाश्चर्यजनकमिति भावः । इति वास्तवोऽर्थः । श्लिष्टार्थोऽप्यत्र संभवति यथा - क्षितौ अभीष्टः इच्छितः घटः यस्य स अभीष्टघटकः । शैषिकः कप् । दीप्यते प्रकाश्यते उत्पाद्यत इति यावत् । घटोऽनया दीप्तिर्मृत्पिण्डः अतुला अप्रतिमा दीप्तिर्यस्य स तथाभूतः अत्रापि शैषिकः कप् । दण्डं भजति स्वीकरोतीति दण्डभाक् । घटस्य निमित्तकारणरूपदण्डग्रहीतेति यावत् । इत्येवं क्षमं योग्यमेव । परं च पुनः इदं वक्ष्यमाणं, परममद्भुतमत्याश्चर्यकरं ब्रूमहे । किं तत् । सः अभीष्टघटक एव प्रभुः पुमान् विधूता परा उत्कृष्टा मृत्तिकैव मार्तिका स्वार्थेऽण् । येन तथाभूतः, अराः चक्रान्तर्भूततिर्यक्काष्ठानि यस्य तच्च तत् चक्रं च तत् विघटितं विनाशितं येन तथाभूतः सन् क्रुधा कुम्भजनकं घटोत्पादकं दण्डादिकमपि, शकलयांबभूव शकलीचकार । शकलशब्दात् ' तत्करोति-' इत्यर्थे णिचि लिटि च प्रत्ययान्तत्वादाम् तदन्तात् “कृ-भ्वस्तयोऽनु -" इत्यादिना भवतेरनुप्रयोगः । घटस्पृहावत एव मृद्दण्डादितत्साहित्यनाशनमति विचित्रमिति भावः । अत्र श्लिष्टविशेषणैरप्रकृतार्थसंभवात्समासोक्तिरलंकारः । तदुक्तम् - "परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः" इति । पृथ्वी वृत्तम् ॥ ४२ ॥ 1 1 अथ कृशानुराह कथं नामेति । अनुचितानि अयोग्यानि कर्माणि यस्य तथाभूतमपि रामभद्रं रामचन्द्रं, एवमुक्तप्रकारेण ईडिडिषे स्तोतुमिच्छसि । 'ईड स्तुतौ' इति धातोः सन् " पूर्ववत् " - इति तङ ॥ १५ ॥ अनुचितकर्मत्वमेव प्रपञ्चयति - वर्षीयानिति । यः वर्षीयान् चतुर्ष्वपि दशरथपुत्रेषु ज्येष्ठः, वर्षीयस्शब्दस्य ज्येष्ठभ्रातृवाचकत्वे व्याकरणकोशादिना केनापि न १ ‘ईडिषे'. For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता । किंचधिक्कृत्यैव दशास्यदर्पशमनं धीशालिनं वालिनं सोऽयं राक्षसवर्गनिग्रहकृते सुग्रीवमन्वग्रहीत् ।। तुङ्गप्रस्तरभङ्गलिप्सुरिह निश्शकं तु टकं त्यजन् संकल्पं कलयेत पङ्कजदलादानप्रसङ्गाय कः ॥ ४४ ॥ सिद्ध्यति । यथा-वृद्धशब्दादीयसुनि “प्रिय-स्थिर-स्फिरोरु-बहुल-गुरु-वृद्ध-" इत्यादिना वृद्धशब्दस्य वर्षादेशः । अत एव "वर्षीयान् दशमी ज्यायान्" इत्यमरटीकायां महेश्वरभट्टः ‘अतिशयेन वृद्धो वर्षीयान्' इत्येवं व्याचख्यौ। तस्मादत्रायं प्रयोगः कविमतिभ्रमद्योतक एवेति भाति । यद्वा वृद्धशब्दस्य श्रेष्ठवाचिलं संगृह्य समाधेयम् । अपि च जानकी सीता सहचरी सह गच्छन्ती यस्य तथाभूतश्च सन् । सीतासहित इति यावत् । मातुः सपत्न्याः कैकेय्याः, सपतिशब्दस्य स्त्रीत्वविवक्षायां "नियं सपत्यादिषु" इति नकारादेशो ङीप् च । मुदे संतोषाथै, रथाश्च हस्तिनश्च पत्तयः पादातयश्च "पदाति-पत्ति-पदग-" इत्यमरः । तुरगा अश्वाश्च तैः संपन्नं समृद्धं, निजं ज्येष्ठभ्रातृत्वात्स्वकीयं राज्यं संत्यज्य त्यक्त्वा, धनं निबिडं वनमरण्यं विन्दन गच्छन्, 'विद्ल लाभे' इति धातोः शतृप्रत्ययः मुचादित्वानुम् । हन्तेति विषादे। असौ रामः अयुक्ता अयोग्या क्रिया वनगमनरूपा यस्य तथाभूतः कथं न स्यात् ? अपि तु स्यादेवेत्यर्थः । अयमाशयः—यद्यसौ (श्रीरामः) खजनन्याः संतोषार्थ वनं गच्छति स्म, तर्हि तस्य तद्गमनमुचितमेव । किंतु केवलं मात्सर्यभरितायाः एकाकिन्याः सापत्नमातुः सुखार्थमेव स्वमातरं पित्रादींश्च शोकसागरे निमज्य यदसौ वनमगमत् तदत्यन्तानुचितमेवेति । एतदेव दृष्टान्तेन स्पष्टयति-गव्यमिति । लोके गव्यं गोसंबन्धि “गोपयसोर्यत्" इति यत्प्रत्ययः। दुग्धं क्षीरं अपास्य त्यक्त्वा, अपपूर्वात् 'असु क्षेपणे' इत्यस्मात् क्त्वाप्रत्यये ल्यवादेशः। यवागूरसं उष्णिकारूपं रसं ( अयं महाराष्ट्रभाषायां 'आटवल' 'पातळ भात' इति नाम्ना प्रसिद्धः) "यवागूरुष्णिका श्राणा" इत्यमरः । को वा जनः पास्यति पिबेत् न कोऽपीत्यर्थः । दृष्टान्तालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ४३ ॥ नैतावदेव अन्यदप्येतस्मात् (पूर्वोक्तात्) अवधं कृत्यमाह-धिकृत्यैवेति । सः राज्यं संत्यज्य वनं गच्छन् अयं रामः, दशास्यस्य रावणस्य दर्पशमनं गर्वनिवारकं अत एव धीशालिनं बुद्धिमन्तं वालिनं वालिनामानं वानरं, वालिना हि पूर्व रावणो निगृह्य निजबालकस्यान्दोलिकायां पुत्रिकेव बालक्रीडनकीकृत इति प्रसिद्धिः। धिकृत्य तिरस्कृत्य तं हत्वेत्यर्थः । पुनश्च राक्षसानां रावणादीनां वर्गः समुदायः तस्य निग्रहकृते वधार्थ, सुग्रीवं अल्पपराक्रमं तद्भातरं अन्वग्रहीत् स्वीकृतवान् । एतदेव सदृष्टान्तमुपपादयति-तुङ्गेति । इह लोके तुङ्गः कठिनश्चासौ प्रस्तरः पाषा १ 'दर्पदमनं'. For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ विश्वगुणादर्शचम्पू:- [अयोध्याअपि चकृत्वा सेतुं किल जलनिधौ खण्डयित्वा दुरध्वान् लब्ध्वा देवीं स्फुटविदितसंशुद्धिमग्निप्रवेशात् ॥ भूयोऽप्येनां भुवनजननी भूमिकन्यामनन्या मन्तर्वनीमनयत वनं हन्त पौलस्त्यहन्ता ॥ ४५ ॥ विश्वा०-सखे गुणिषु दोषाविष्कारं कथंकारमारचैयसि ॥१६॥ णश्च “पाषाण-प्रस्तर-ग्रावा-" इत्यमरः । तस्य भङ्गः स्फोटनं तत् लिप्सुः इच्छुः, 'डुलभष् प्राप्तौ' इति धातोः सनि “सनि मी-मा-घु-रभ-लभ.” इत्यादिना इस् आदेशः “अत्र लोप:-" इत्यभ्यासलोपश्च । निःशवं शङ्कारहितं यथा स्यात्तथा टङ्क पाषाणदारकमायुधविशेष "टङ्कः पाषाणदारणः” इत्यमरः । 'टांकी' इति महाराष्टभाषायां प्रसिद्धम् । त्यजन् सन् , पङ्कजस्य कमलस्य दलं पत्रं तस्यादानं पाषाणभेदनार्थ स्वीकारः तद्रूपो यः प्रसङ्गः संबन्धः तं कर्ते, "क्रियार्थोपपदस्य" इत्यादिना चतर्थी । कः संकल्पं विचारं कलयेत कुर्यात् ? अपि तु न कोऽपीत्यर्थः ॥ दृष्टान्तालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ४४ ॥ अन्यदपि गहणीयं कृत्यं शृण्वित्याह-अपि चेति । अपि च अन्यचेत्यर्थः । कृत्वेति । पुलस्त्यस्य अपत्यं पुमान् पौलस्त्यो रावणः "तस्यापत्यम्” इत्यपत्यार्थेऽण् । तस्य हन्ता घातकः रामः, जलनिधी समुद्रे सेतुं कृत्वा बद्धा, तथा दुरध्वान् दुष्टमार्गान् “उपसर्गादध्वनः" इति समासान्तोऽच् प्रत्ययः। खण्डयित्वा नाशयित्वा किलेति प्रसिद्धार्थम् । अग्निप्रवेशाद्धेतोः स्फुटं यथा तथा विदिता ज्ञापिता सं सम्यक् शुद्धिः सतीत्वपावित्र्यं यस्यास्तां देवीं सीतां लब्ध्वा संप्राप्यापि, भूयः पुनः एनां भुवनजननीं न तु सामान्यां, एतेन रावणस्यापीयं मातृवत्पूज्येति सूचितम् । पुनश्च अनन्यां एकाकिनी अपि च अन्तर्वत्नी गर्भिणी "अन्तर्वनी च गर्भिणी" इत्यमरः । “अन्तर्वत्-पतिवतोः-" इति नुगागमः तत्संनियोगशिष्टो ङीपू च । अनेन तस्यास्त्यागायोग्यत्वं सूचितम् । भूमिकन्यां न तु लोकवद्योनिजां किन्तु शुद्धयज्ञभूम्युत्पन्नां एतादृशीं सीतां वनं अनयत । केनचिदतिपामरेण प्रयुक्तादपवादादरण्यं प्रापयामासेत्यर्थः । हन्तेति खेदे । अनेन तदर्थ ये वानरसाहाय्य-सेतुवन्धन-रावणहननादिमहाप्रयत्नाः कृतास्ते सर्वेऽपि व्यर्थीकृता एवेति ज्ञापितम् । एवंचैतादृशविवेकविधुरस्य स्तुतिकरणमनुचितमिति भावः। अत्र सीतासंप्रापणपुनर्वननयनक्रिये विरुद्ध इति विषमोऽलंकारः। तदुक्तम्-"गुण-क्रियाभ्यां कार्यस्य कारणस्य गुण-क्रिये । क्रमेण च विरुद्धे यत्स एव विषमो मतः” इति । मन्दाक्रान्ता वृत्तम् । लक्षणमुक्तं प्राक् ( ८ श्लो० टीकायाम् ) ॥४५॥ अथ कृशानुप्रोक्तनिखिलदोषानपाकुर्वनाह विश्वावसुः-सखे इति । हे १ 'गुणेषु'. २ 'कथमारचयसे'. For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता । गुरावसत्योक्तिनिरासहेतोः खराज्यमग्र्योऽपि स रामचन्द्रः ॥ तृणाय मेने निपुणायते न फणाभृदीशोऽपि पणायितुं तम् ॥ ४६॥ किंच वालिनि बलोमिमालिनि जाग्रति सुग्रीवमग्रहीद्यदयम् ॥ अस्य श्रुतिशतविदितं सुव्यक्तं तेन दीनबन्धुत्वम् ॥ ४७ ॥ किंच. लक्ष्मी वक्षसि बिभ्रदप्यविरतं रामाकृतिः श्रीपतिसखे मित्र, गुणिषु पित्राज्ञापालनादिरूपप्रशस्तगुणयुक्तेषु, दोषाणां राज्यत्यागादिरूपदोषाणां आविष्कारं आरोपं कथंकारं कथमित्यर्थः । “अन्यथैवं-कथमित्थंसु-" इत्यादिना कथमित्युपपदे करोतेर्णमुल्प्रत्ययः । आरचयसि करोषि ॥ १६ ॥ तत्र तावत्प्रथमं 'वर्षीयानपि जानकीसहचरः-' इत्यादिनोक्तं वनवासगमनरूपं दूषणं निराकुर्वनाह-गुराविति । अग्र्यो ज्येष्ठोऽपि स पूर्वोक्तो रामचन्द्रः, गुरौ पितरि दशरथविषये, असत्योक्तेः वृषपर्वयुद्धप्रसङ्गे प्रतिश्रुतवरद्वयाप्रदानरूपायाः निरासः निवारणं तद्रूपाखेतोः कारणात्, खराज्यं ज्येष्ठत्वात् स्वसत्ताकमपि राष्ट्र, तृ. णाय मेने तृणतुच्छं मेन इत्यर्थः । “मन्यकर्मण्यनादरे-” इत्यादिना चतुर्थी । अत एव फणाः बिभ्रति धारयन्तीति फणाभृतः सास्तेषां ईशः शेषः अपि सहस्रमुखः सन्नपीत्यर्थः । तं रामचन्द्रं पणायितुं स्तोतुं 'पण व्यवहारे स्तुतौ च' इति धातोस्तुमुन् प्रत्ययः “गुपू-धूप-विच्छि-पणि-" इत्यादिनाऽऽयप्रत्ययः । न निपुणायते समर्थो न भवति । निपुणशब्दात् "कर्तुः क्यङ् सलोपश्च” इति क्यङ् । तत्रान्येषां का कथा । उपजातिवृत्तम् । लक्षणं प्राक् (५ श्लोकटीकायां) कथितम् ॥ ४६॥ . अथ द्वितीयं 'धिकृत्यैव-' इत्यादिनोक्तं दूषणमपाकरोति-वालिनीति । बलस्य सामर्थ्यस्य (ऊर्मीणां लहरीणां मालाः सन्त्यस्येति तस्मिन् ) ऊर्मिमालिनि समुद्रे अपरिमितबलवतीत्यर्थः । वालिनि जाग्रति विद्यमाने सत्यपि, अयं श्रीरामचन्द्रः, यत् यस्मात् सुग्रीवं अग्रहीत् गृहीतवान् । अहेर्लुङ् । तेन सुग्रीवग्रहणेन अस्य श्रीरामस्य श्रुतीनां शतेन विदितं प्रतिपादितं श्रुतिशते प्रसिद्धमिति वा । दीनानां दुर्बलानां बन्धुत्वं बन्धुवद्धितकारित्वं, सुतरां व्यक्तं स्फुटीभूतं, बभूवेति शेषः । सदाचरणशीलस्य दुर्बलस्यापि बलमुत्पाद्य तत्वीकरणं, दुराचरणशीलस्य बलवतोऽपि निग्रहणं च अधिकगुणापादकमेव महतां न दोषापादकमिति भावः । आर्या वृत्तम् । “यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश साऽऽर्या ।" इति तल्लक्षणात् ॥ ४७ ॥ इदानीं तृतीयं कृत्वा सेतुं-' इत्यादिनोक्तं सीतावनवासप्रापणरूपं दूषणमपास्यनाह-लक्ष्मीमिति । रामस्य दाशरथेराकृतिरवयवसंनिवेश एवाकृतिर्यस्य सः । १'फणायितुं'. २ 'अवितथं'. For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [अयोध्या'वृत्तिं कामपि मानुषीमभिनयन्वीराग्रयायी प्रियाम् । कल्याणी तु वनीमनीनयदहो कस्याप्यमृष्यन्वचो मेदिन्यामवलोकितः किमपरो मानी पुमानीदृशः ॥ ४८ ॥ वस्तुतस्तु गातुं क ईष्टे श्रितरामभद्रान् गणान् गुणानां गणनादरिद्रान् ।। प्राचेतसाद्याः कवयोऽनवद्या यदेकदेशाकलनेऽपि नेशाः ॥४९॥ रामरूपीत्यर्थः । श्रीपतिलक्ष्मीपतिः, अविरतं संततं "सततेऽनारताश्रान्त-संततावि. रतानिशम्" इत्यमरः । लक्ष्मी वक्षसि हृदये बिभ्रत् धारयन् सन्नपि । 'डुभृञ् धारणपोषणयोः' इति धातोः शतृप्रत्ययः । “नाभ्यस्तात्-" इति नुमभावः। भगवता हि अवतारे धृते सत्यपि लक्ष्म्या न कदाचिदपि विरह इति द्योतनार्थमविरतशब्दः । तदुक्तं रामायणे-"राघवत्वेऽभवत्सीता विष्णोरेषाऽनपायिनी" इति। कामप्यनिर्वाच्यां मनुष्यस्येयं मानुषी तां वृत्ति वर्तनमभिनयन् अनुकुर्वन्, वीराप्रयायी वीरश्रेष्ठः रामः, कस्यापि अपरिचितस्यानधिगतगुण-शीलस्य, किमुत सच्छील-सद्गुणयुक्तस्य महत इत्यपिशब्दखारस्यात् । वचः अपवादरूपं भाषणं, अमृष्यन् असहमानः सन् । 'मृषु सहने' इत्यस्मात् लट: शत्रादेशः। कल्याणी पातिव्रत्यादिकल्याणगुणविशिष्टां प्रियां सीतां, तुरप्यर्थकः। प्रियामपि सीतामित्यर्थः। वनीमरण्यं अनीनयत् प्रापयामास । 'णीञ् प्रापणे' इति घातोर्णिजन्तालुङ् "णि-धि-दु-" इत्यादिना चङ् । तस्मात् अहो ! ईदृशः यस्यकस्यापि वचनमसहमानः मानी अभिमानयुक्तः पुमान् अपरोऽन्यः मेदिन्यां पृथिव्यां, अवलोकितः दृष्टः किम् ? केनापीति शेषः । अपि तु नैवेत्यर्थः । एतेन यदा श्रीरामचन्द्रः सीतां वनमनयत् तदा स राज्याधिरूढ आसीत् । तदैव च केनचिद्रजकेन रावणसदनस्थितसीतायाः पुनः स्वीकारसंबन्धेन दत्तं दूषणमसहमानः सीतां तत्याज। एवमेव राज्यको पुंसा प्रजानुरञ्जितव्या, लोकानां संकटानि परिहर्तव्यानि, स्वकीयोदात्ताचारेण च लोकाः सन्मार्ग प्रवर्तयितव्याः । अन्यथा लोके अनाचारः लोकानां मनःकालुष्यं च स्यात्, तेन च कालान्तरेण राज्यक्रान्त्यादिरूपानर्थपरंपरा प्राप्नुयादिति सूचितम् । तदुकं मनुना-"मोहाद्राजा खराष्ट्रं यः कर्षयत्यनवेक्षया । सोऽचिराद्भश्यते राज्याज्जीविताच सबान्धवः ।" इति । भगवता श्रीकृष्णेनाप्येतदेव ज्ञापितम् । तथाहि-"यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनु वर्तते” इति “यदि ह्यह न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ उत्सीदेयुरिमे लोका न कुर्या कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥” इति च । शार्दूलविक्रीडितम् ॥ ४८ ॥ वस्तुतस्त्विति । सत्यतया विवेचिते सतीत्यर्थः । गातुमिति । श्रितः आश्रितः रामभद्रः श्रीरामचन्द्रो यैस्तानू रामचन्द्राधिष्ठिता For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता । तथापि तदीयगुणार्णवकणैकदेशकोटितमांशकलामात्रमिदमत्रसवता श्रोतव्यम् ॥ १७ ॥ ककुत्स्थकुलपर्यायकलशार्णवकौस्तुभः ॥ कौसल्यासुकृतवातकल्पकप्रसवोदयः ॥ ५० ॥ निति यावत् । गणनया संख्यया दरिद्रान् रहितान् असंख्येयानित्यर्थः । गुणानां दयादाक्षिण्यादीनां गणान् समुदायान्, गातुं सविस्तरं वर्णयितुं, कः (पुमान्) ईष्टे स. मर्थो भवति ? कोऽपि नैवेत्यर्थः। 'ईश ऐश्वर्ये' इति धातोर्लट्र प्रथमपुरुषः । कुत एतदित्यत आह-प्राचेतसाद्या इति । प्राचेतसः वाल्मीक: "प्राचेतसश्चादिकविः स्यान्मत्रावरुणिश्च सः वाल्मीक:-" इत्यमरः। आद्यः प्रथमो येषां ते व्यास-वाल्मीकपराशरप्रभृतय इत्यर्थः । न अवद्याः गहणीयाः अनवद्याः अनिन्द्याः प्रशंसनीया इति यावत् । “अवद्य-पण्य-वर्या-" इत्यादिना वदेनझुपपदात् यत्। कवयः येषांश्रीरामगुणानां एकदेशस्य यत्किचिल्लेशमात्रस्य आकलनं वर्णनं तस्मिन्नपि न ईशाः न समर्थाः भवन्तीति शेषः । इतरे तु किमुतेत्यर्थः । एतेन श्रीराममाहात्म्यं सामग्र्येण वर्णयितुं ब्रह्मादयो देवा अपि न शक्नुवन्तीति सूचितम् । तदुक्तं श्रीमदध्यात्मरामायणे स्वयं ब्रह्मणैव-"श्रीरामचन्द्रमाहात्म्यं कृत्स्नं जानाति शंकरः । तदर्धे गिरिजा वेत्ति तदर्ध वेद्यहं मुने।" इति । अत्र पूर्ववाक्यस्योत्तरवाक्यार्थहेतुस्वात् काव्यलिङ्गमलंकारः । इन्द्रवज्रा वृत्तम् "स्यादिन्द्रवज्रा यदि तौ ज-गौ गः” इति तल्लक्षणम् ॥ ४९ ॥ तथापीति । तथापि श्रीरामगुणवर्णनस्याशक्यत्वेऽपि तदीयाः श्रीरामचन्द्रसंबन्धिनः ये गुणाः सौशील्यादयस्तद्रूपो योऽर्णवः समुद्रस्तस्य कणः लेशः तस्याप्येकदेशः किंचिदंशः तस्यापि कोटितमोऽशः तस्य कला पोडशभाग एव कलामात्रं "कला तु षोडशो भागः” इति “मात्रं कारूयेऽवधारणे” इति चामरः । मात्रशब्देन न त्वेतस्मादधिकं मादृशपामरजनैर्वक्तुं शक्यत इति द्योतितम् । इदं वक्ष्यमाणं अत्रभवता पूज्येन, अथवा अत्र श्रीरामविषये भवता त्वया श्रोतव्यमाकर्णनीयम् ॥ १७ ॥ तदेवाहैकोनविंशतिश्लोकः-ककुत्स्थेति । ककुत्स्थकुलं ककुत्स्थकुलशब्दः पर्यायः वाचकान्तरं यस्य अर्थात् ककुत्स्थकुलरूपो यः कलशार्णवः क्षीरसागरः तस्य कौस्तुभः एतन्नामा मणिः, पुनः कौसल्यायाः सुकृतव्रातः पुण्यपुञ्जः स एव कल्पकः कल्पवृक्षः तस्य प्रसवोदयः पुष्पोद्गमः । इत आरभ्य सर्वेषां श्लो. कानां 'रमते मम तेजस्वी रामः कामसमो हृदि' इत्यनेनान्वयः। सर्वत्र रूपकालंकारः अनुष्टुप् वृत्तं च ॥ ५० ॥ १ 'कणानामेकदेशलेश'. २ 'काकुत्स्थ'. For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ विश्वगुणादर्शचम्पू:- [अयोध्याप्रौपतिरथागारपरिष्कारहरिन्मणिः ॥ जानकीलोचनद्वन्द्वचकोरानन्दचन्द्रमाः ॥ ५१ ॥ संसारमार्गसंचारश्रान्तच्छायामहीरुहः ॥ सर्वराक्षसवेतालसमुच्चाटनमान्त्रिकः ॥ ५२ ॥ करुणारसकल्लोलकदैम्बवरुणालयः ॥ तपोधनजनाकाङ्क्षातीकनवतोयदः ॥ ५३ ॥ विद्याविहरणोद्यानं विनयास्थानमण्डपः ॥ सौर्लभ्यप्राभवोत्कर्षसमावेशनिवेशनम् ॥ ५४ ॥ सौजन्यवादान्यकयोः सामानाधिकरण्यभूः ॥ सौमुख्य-मुख्यभवनं सौहार्दैकवितर्दिका ॥ ५५ ॥ प्रौढेति । प्रौढः समर्थो यः पतिरथो दशरथः तस्यागारं गृहं तत्र यः परिष्कारोऽलंकारः। अत्र “संपरिभ्यां करोती भूषणे" इति सुटू । तस्य हरिन्मणि: मरकतमणिः । जानक्याः सीतायाः लोचनद्वद्वं नयनयुगलं तदेव चकोरः चकोरपक्षी तस्य आनन्दकरश्चन्द्रमाः चन्द्रः ॥ ५१ ॥ संसारेति । संसारमार्गे संचारः भ्रमणं तेन श्रान्तानां (जनानां) छायामहीरुहः छायाकारको वृक्षः। सर्वे ये राक्षसा वेतालाः पिशाचविशेषाश्च तेषां समुच्चाटने निवारणे मान्त्रिकः मन्त्रवेत्ता । मन्त्रशब्दात् 'वेत्ति' इत्यस्मिन्नर्थे ठक् प्रत्ययः ॥५२॥ करुणेति । करुणारसस्य दयारसस्य कल्लोलानां महातरङ्गाणां "महत्सूल्लोल-क. ल्लोलौ" इत्यमरः । कदम्बानि समूहास्तेषां वरुणालयः सागरः । तप एव धनं येषां ते तपोधनास्तपस्विनो मुनयः तेषां जनः समूहः तस्य यदाकाङ्क्षातटाकं इच्छारूपं सरोवरं तस्य नवतोयदः नवीनो मेघः ॥ ५३ ॥ विद्येति । विद्याया विहरणोद्यानं क्रीडोपवनं, विनयस्य आस्थानमण्डपः सभामण्डपः । सौलभ्यं समता च प्रभो वः प्राभवं प्रभुत्वं च तयोरुत्कर्षस्याधिक्यस्य समावेशनिवेशनं सामानाधिकरण्यावच्छेदकमेकाधिकरणमिति यावत् ॥५४ ॥ सौजन्येति । सुजनस्य भावः सौजन्यं सज्जनत्वं च वदान्यस्य दातुःभावः वादान्यकम् दातृत्वं “योपधाद्गुरूपोत्तमात्-" इति भावार्थे वुञ्प्रत्ययः । तयोः, सामानाधिकरण्यभूः सहवासस्थलम् । एतद्धि दुर्घट, यदेकत्र सुजनत्व-दातृत्वयोः सहवास इति । तस्माल्लोकोत्तरत्वमस्य द्योयते । सुमुखस्य भावः सौमुख्यं सुमुखवं, भावार्थे ध्यञ् । प्रसन्नवदनत्वमिति यावत् । तस्य मुख्यभवनं, सुहृदो भावः सौहार्द प्रेम तस्य वितर्दिका वेदिका उपवेशनस्थलमिति यावत् । “ स्याद्वितर्दिस्तु वेदिका" इत्यमरः ॥ ५५॥ १ 'प्राश्चत्पति'. २ ‘सर्वपातकवेताल'. ३ 'पीयूष'. ४ 'तटाकवनतोयदः'. ५ विनयस्थान'., ६ 'सौरभ्य'. ७ 'प्रभवोत्कर्ष'. ८ 'निवेशनः'. For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता । ट अद्भुतोत्साहशक्तीनामसाधारणजीविका ।। प्रसादलक्ष्म्याः प्रासादः प्रेतापस्य परा गतिः ॥ ५६ ॥ प्राणप्रतिष्ठा क्लिष्टानां प्रपन्नानां परायणम् ॥ अनपायसमृद्धीनामवगाहनदीर्घिका ॥ ५७ ॥ जम्भशासनजीवातुर्जन्मगेहं जयश्रियः ॥ दुर्वारघोरदारियदर्वीकरखगेश्वरः ॥ ५८ ॥ तत्तादृक्ताटकादेहध्वान्तराजीवबान्धवः ॥ मुबाहुमत्तमातङ्गसंहारवरकेसरी ॥ ५९ ॥ भार्गवाग्रहदावाग्निपरिमार्जननिर्झरः ॥ अद्धतेति । अद्भुताः आश्चर्यकारका ये उत्साहा वनवासादिकष्टभाक्त्वेऽपि खेदाप्रदर्शनरूपाः तेषां याः शक्तयः सामर्थ्यानि तेषां, असाधारणा असामान्या जीविका जीवनसाधनम् । न त्वेतादृशः शक्तयः साधारणपुरुषे वस्तुं शक्नुवन्तीति भावः । प्रसादरूपा प्रसन्नतारूपा या लक्ष्मीः संपत् तस्याः , प्रासादः भवनं, प्रतापस्य पराक्रमस्य परा गतिः उत्तमं प्राप्यस्थानम् ॥ ५६ ॥ प्राणेपि । तया क्लिष्टानां क्लेशयुक्तजनानां प्राणप्रतिष्ठा प्राणानां स्थितिसाधनं, प्रपन्नानां शरणागतानां परमुत्तममयनमाश्रयस्थानं, तथा अनपाया विनाशरहिताश्च ताः समृद्धयः संपत्तयस्तासां अवगाहनस्य स्नानस्य दीर्घिका वापी “सरो वापी तु दीर्घिका" इत्यमरः ॥ ५७ ॥ जम्भेति । जम्भशासनस्य इन्द्रस्य रावणकृतस्थानभ्रंशादित्रासात् मृतप्रायस्येत्यर्थः । जीवातुर्जीवनौषधं, रावणवधात् पुनः खस्थानस्थापनात् । तथा जयश्रियः जयसंपत्तेः अथवा जयेन या श्रीः शोभा तस्याः “शोभा-संपत्ति-पद्मासु लक्ष्मीः श्रीरपि गद्यते” इति विश्वः । जन्मगेहं उत्पत्तिस्थानम् । तथा दुवीरं निवारयितुमशक्यं अत एव घोरं भयंकरं यद्दारिद्यं तद्रूपो यो दर्वीकरः सर्पः । “सर्पः पृदाकुर्भुजग:-" इत्यत आरभ्य “दर्वीकरो दीर्घपृष्टः" इत्यन्तोऽमरः । तस्य खगेश्वरो गरुडः ॥ ५८ ॥ तदिति । तत्तादृक्ताटकादेहः स चासौ तादृशः यज्ञादिशुभकर्मप्रध्वंसकः प्रसिद्धः ताटकाया एतदभिधाया राक्षस्याः शरीरं तद्रूपो यो ध्वान्तोऽन्धकारः तस्य राजीवबान्धवः सूर्यः । तथा सुबाहुरूपो यो मत्तमातङ्गः मत्तहस्ती तस्य संहारे विनाशे वरकेसरी महासिंहः “ सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः" इत्यमरः ॥५९॥ . भार्गवेति । भार्गवस्य परशुरामस्य आग्रहः रामस्य सीतापरिग्रहोत्तरं वनगरं प्रति १ एतदर्थं कचिन्न दृश्यते. २ 'प्रसादस्य'. ३ 'शिष्टानां'. ४ 'परिवर्जुन'. For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अयोध्या विश्वगुणादर्शचम्पू:- विराधाख्यदुरातङ्कविद्रावणमहौषधम् ॥ ६० ॥ खर-दूषणकिम्पाकखण्डनैकपरश्वधः ॥ दुर्मोचनीचमारीचकीचकप्रबलानलः ॥ ६१ ॥ गृध्रराजस्य नाकादिलोकाक्रमणवर्तनी ॥ कबन्धमयकासारकवलीकरणातपः ॥ ६२ ॥ शबरीचित्तकुमुदशारदज्योत्निकोदयः ॥ पावमानियशःकाशप्रकाशशरदागमः ॥ ६३ ॥ पुनरागच्छतः मार्गे समन्तानिरोधः तद्रूपो यो दावाग्निः तस्य परिमार्जने शमने निर्झरः जलप्रवाहः । " उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः । " इत्यमरः । विराधः इति आख्या नाम यस्य सः विराधनामकराक्षसरूप इति यावत् । दुर्दुष्ट आतङ्को रोगः तस्य विद्रावणे विनाशने महौषधम् ॥ ६ ॥ खरेति । खरश्च दूषणश्च तौ एतदाख्यौ राक्षसविशेषौ । एतदुपलक्षणम् । तेन त्रिशिरादिचतुर्दशसहस्रराक्षसग्रहणम् । तद्रूपा ये किम्पाका विषवृक्षाः तेषां खण्डने तोडने एकपरश्वधः असहायः परशुः “द्वयोः कुठारः खधितिः परशुश्च परश्वधः” इत्यमरः । एकेनैव कस्यापि साहाय्यमन्तरा सर्वेषां विनाशः कृत इति द्योतनार्थमेक इति विशेषणम् । दुर्मोचः मोक्तुमशक्यः वधं विनेत्यूह्यम् । नीचश्च यो मारीचः राक्षसस्तद्रूपो यः कीचको वेणुस्तस्य प्रबलः प्रचण्डः अनल: अग्निः ॥ ६१ ॥ गृध्रेति । गृध्राणां पक्षिविशेषाणां राजा गृध्रराजः जटायुः तस्य "राजाहः-" इत्यादिना टच समासान्तः । नाकः वर्ग: आदिः प्रथमो येषां ते ये लोकाः ब्रह्मवैकुण्ठादयः तेषामाक्रमणस्य गमनस्य वर्तनी एकपदी मार्गः “वर्तन्येकपदीति च" इत्यमरः । कबन्धमयः कबन्धनामकराक्षसरूपः यः कासारः सरः तस्य कवलीकरणे असने शोषणे इति यावत् । आतपः सूर्यकिरणरूपः ॥ ६२॥ शबरीति । शबर्याः कस्याश्चित् किरातकुलजाया भक्तायाः चित्तमेव कुमुदं चन्द्रविकासि कमलं तस्य शारदज्योस्निकोदयः शरत्कालीनचन्द्रिकोदयः । तथा पवमानस्यापत्यं पुमान् पावमानिर्हनूमान् “अत इञ्" इत्यपत्यार्थे इञ् । तस्य यशः कीर्तिरेव काशानि काशकुसुमानि 'मोळ' इति महाराष्ट्रभाषाप्रसिद्धदर्भकुसुमानीति यावत् । -"ऽथो काशमस्त्रियाम् । इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजः" इत्यमरः। तेषां प्रकाशे उदये शरदागमः शरतुप्रादुर्भावः । अत्र 'पावमानं शीलमस्येति पावमानि अतिशयेन पवित्रं यत् यशः तदेव काशकुसुमं तस्य प्रकाशे विकसने शरदागमः इत्यपि व्याख्येयम्' इत्यत्रैव मुद्रितपुस्तके टिप्पणं दृश्यते, तदपि साधु ॥ ६३ ॥ १ 'दुर्मोचनीय'. २ 'कल्हार'. For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५ -वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता । प्रगल्भवालिजीमूतप्रोत्सारणसमीरणः ॥ सुग्रीवराज्यसामग्री सुदिनं काननौकसाम् ॥ ६४ ॥ दुर्निरोधधुनीनाथजाड्यरोगचिकित्सकः ।। दुष्टनक्तंचरस्तोमधूमकेतुविजृम्भणम् ॥ ६५ ॥ कुम्भकर्णमदाम्भोधिस्तम्भने कुम्भसंभवः ॥ बलीयोरावणप्राणपाषाणदलनाशनिः ॥ ६६ ।। विभीषणस्य साम्राज्यविश्राणनसुरद्रुमः ॥ अयोध्यापुरनारीणामक्ष्णोरत्यद्भुतोत्सवः ॥ ६७ ॥ प्रगल्भेति । प्रगल्भः प्रौढश्चासौ वालिजीमूतः वालिरूपो मेघः “घन-जीमूतमुदिर-" इत्यमरः । तस्य प्रोत्सारणे विनाशे समीरणः वायुः “समीर-मारुत-मरुजगत्प्राण-समीरणाः" इत्यमरः । सुग्रीवस्य राज्यस्य सामग्री साहित्यसमृद्धिः काननमरण्यमेवौकः स्थानं येषां ते काननौकसः संततं वननिवासिनो वानरा इत्यर्थः । तेषां सुदिनं उत्साह दिवसः ॥ ६४ ॥ दुनिरोधेति । दुनिरोधः रोद्धुमशक्यश्चासौ धुनीनाथः समुद्रः तस्य जडस्य मूढस्य भावः जाज्यं मूढत्वं "गुणवचन-ब्राह्मणादिभ्यः-" इति भावार्थे ध्यञ् । अथवा डलयोः सावर्णात् जलस्य भावः जाल्यमिति विग्रहः। तदेव रोगः तस्य चिकित्सकः वैद्यः । “भिषग्वैद्यौ चिकित्सके” इत्यमरः। खसामर्थ्यप्रदर्शनपूर्वकं सागरस्य 'अहमेव महान् दुस्तरश्च' इत्यादिरूपं जाड्यमपाहरदित्यर्थः । तथा दुष्टाः ये नक्तंचरा राक्षसास्तेषां स्तोमस्य समूहस्य धूमकेतुः उत्पातसूचकं नक्षत्रं, तद्वत् विजृम्भणं भयप्रदर्शनम् ॥ ६५ ॥ कुम्भकर्णेति । कुम्भकर्णस्य मद एव अम्भोधिः समुद्रः तस्य स्तम्भने प्रतिटम्भे नाशने इत्यर्थः । कुम्भसंभवः अगस्त्यः । बलीयानतिशयेन बलवान् यो राव. णप्राणः स एव पाषाणः शिला तस्य दलने भेदने अशनिः वज्रम् । “-वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः। शतकोटिः खरुः शम्बो दम्भोलिरशनियोः।" इत्यमरः ॥ ६६ ॥ विभीषणेति । विभीषणस्य रावणभ्रातुः स्वभक्तस्य सम्राजो भावः साम्राज्यं मण्डलाधिपत्यमिति यावत् । “येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्" इत्यमरः । तस्य विश्राणने दाने "-दानमुत्सर्जनविसर्जने । विश्रा. णनं वितरणम्" इत्यमरः । सुरद्रुमः कल्पतरुः । अयोध्यापुरनारीणां अयोध्यानगरवासिस्त्रीणां अक्ष्णोः नयनयोः अत्यद्भुतः अतिचमत्काररूपः उत्सवः आनन्दः॥६॥ १ 'महाम्भोधि'. २ 'दलने', 'दलनापविः'. For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ विश्वगुणादर्शचम्पू:- [अयोध्याअभिषिक्तो यथावच्च वसिष्ठाद्यैर्महर्षिभिः ॥ रमते मम तेजखी रामः कामसमो हृदि ॥ ६८ ॥ अत्र किल पवित्रचरितः कश्चिद्विपश्चिदजस्रमित्थमनुसंधत्ते ॥ १८ ॥ ध्यायामि राममभिरामगिरा मरन्द धारामदघ्नमितराममरेविरामम् ॥ आराममद्भुततरामलसद्गुणानां घोरामयघ्नमसुरामरवन्दिताभिम् ॥ ६९ ॥ अभिषिक्त इति । अपि च महर्षिभिः वसिष्ठाद्यैर्वसिष्ठ-विश्वामित्रादिभिः, यथावत् शास्त्रविधिमनुसृत्य, राज्ये इति शेषः । अभिषिक्तः, एतादृशः कामसमः मदनतुल्यः तेजखी प्रशस्ततेजोयुक्तः "असू-माया-मेधा-" इत्यादिना मत्वर्थे विनिप्रत्ययः । रामः मम हृदि रमते क्रीडति । अहं तावत् भक्त्यादिसाधनैः सकलप्राणिहृदयनिवासिनं तं जानामीति भावः । अत्र तावत् 'ककुत्स्थकुलपर्याय-' इत्यादिभिरेकोनविंशतिश्लोकैः श्रीरामजन्मन आरभ्य रावणवधोत्तरं पुनरयोध्यामागत्य राज्याभिषेकपर्यन्तः श्रीरामायणकथार्थः सूचितः ॥ ६८ ॥ एवं समग्रं श्रीरामचरितमुक्त्वा तत्स्तवने विद्वदनुमतिं प्रदर्शयति-अत्रेति । अत्र श्रीरामविषये पवित्रं चरितमाचरणं यस्य तथाभूतः कश्चिद्विपश्चित् एतद्रन्थकर्ता वेङ्कटाध्वरिनामा पण्डित इत्यर्थः । अजस्रं सततं “सततेऽनारताश्रान्तसंतताविरतानिशम् । नित्यानवरताजस्रम्-" इत्यमरः । इत्थं वक्ष्यमाणप्रकारेण "इदमस्थमुः" इतीदंशब्दात् प्रकारार्थे थमुप्रत्ययः । अनुसंधत्ते अनुसंदधाति उच्चारयतीत्यर्थः । किलेति निश्चयेन ॥ १८ ॥ यदनुसंधत्ते तदेवाह-ध्यायामीति । अभिरामा मनोहरा चासौ गीर्वाक च तया वाङ्माधुर्येणेति यावत् । मन्दरस्य मकरन्दस्य "मकरन्दः पुष्परसो मरन्दोऽपि निगद्यते” इति कोशः (?) धाराया मदं हन्तीति मदनः तं, मकरन्दमाधुर्यमपि तुच्छीकुर्वन्तमित्यर्थः । मदनमित्यत्र हन्तेः मूलविभुजादेराकृतिगणत्वात् कप्रत्ययः । “हो हन्तेः" इति कुत्वम् । तदुक्तम् सिद्धान्तकौमुद्याम् “अमनुष्यकर्तृके च" इति हन्तेष्टग्विधायके सूत्रे--'अथ कथं 'बलभद्रः प्रलम्बघ्नः' 'कृतघ्नः' 'शत्रुघ्नः' इत्यादि । मूलविभुजादित्वात्सिद्धम्' इति । अरेः एतजातावेकवचनम् । शत्रूणामिसर्थः । विरामं नाशकम् । अत एव इता प्राप्ता रामा सीता येन तम् । सीतापहारकरावणादिशत्रुविनाशात् प्राप्तस्त्रीकमित्यर्थः। अतिशयेन अद्भुताः आश्चर्यावहाः अद्भुततराः, अतिशायने तरम् । च अमलाः निर्मलाश्च ते सद्गुणाः लोकत्रासावहशत्रुनिराकरण-लोकसुखोत्पादनादिरूपाः सुन्दरगुणास्तेषाम् । अद्भुततरत्वममलत्वं १ एतदर्ध कचिन्न दृश्यते. For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७ -वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता । ४७ दयासमुदयालये मुदधिकानने कानने पलाशनपलायनप्रणयिकार्मुके धार्मिके ॥ समीरजसमीडिते प्रविश चित्त मे सत्तमे बलीकृतवलीमुखे मनुजधर्मिणि ब्रह्मणि ॥ ७० ॥ अस्त्रामास तृणं प्रियाद्रुहि तृणाभास स्मरारेर्धनु रामास मुनेः शिलाऽपि नृवरामास स्वयं पादुका ॥ चैतद्विशेषणद्वयं गुणानां, न केवलमाश्चर्योत्पादका एव गुणाः किंतु निर्मलाः कुत्रापि दूषणोत्पादनानौंः इतरलोकानुकरणाश्चि इति यावत् । अन्यथा केवलं गुणानामा. श्वर्यावहत्वं दुष्टानां रावण-कुम्भकर्णादीनामपि वर्तते इति द्योतनार्थम् । तादृशगुणानां आरामं उपवनं, सकललोकानां सुखशान्त्युत्पादकत्वेनारामसादृश्यम् । घोरा भयंकराश्च ते आमयाः संसारसंबन्धिनो रोगाश्च तान् हन्ति विनाशयतीति घोरामयनं "घोरं भीमं भयानकम्” इति "रोग-व्याधिगदामयाः” इति चाप्युभयत्रामरः । जन्म-जरा-मरणादिसकलप्रापश्चिकदुःखनिवारकमित्यर्थः । असुरा दैत्याश्च अमरा देवाश्च तैर्वन्दितौ अङ्गी चरणौ यस्य तथाभूतम् । रामं ध्यायामि मनसि चिन्तयामि । इन्द्रवज्रावृत्तम् । लक्षणमुक्तं प्राक् (४९ श्लोकटीकायाम् ) ॥ ६९ ॥ दयेति । दयायाः समुदयस्य समुदायस्य "समुदायः समुदयः” इत्यमरः । आलयं स्थानं तस्मिन् । काननेऽरण्ये वनवासे सत्यपीत्यर्थः। मुदा आनन्देन "मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोद-संमदाः । स्यादानन्दथुरानन्द:-" इत्यमरः । अधिकं उल्लासयुक्तं आननं मुखं यस्य तस्मिन् । पलं मांसं "अधः-खरूपयोरस्त्री तलं स्याच्चामिषे पलम्" इत्यमरः “पलमुन्मानमांसयोः” इति रुद्रश्च । अशनं भक्षणं येषां ते पलाशना राक्षसास्तेषां पलायने विद्रावणे प्रणयि परिचययुक्तं समर्थमिति यावत् । कार्मुकं धनुः यस्य तस्मिन्, धर्म चरतीति धार्मिकः तस्मिन् “धर्म चरति" इति ठञ् । बलीकृताः शक्तियुताः कृताः वलीमुखा वानरा येन तस्मिन् । “कपिप्रवङ्ग-प्लवग-शाखामृग वलीमुखाः । मर्कटो वानरः कीशः" इत्यमरः । समीरात् वायोः जात उत्पन्नः समीरजो मारुतिस्तेन समीडितः स्तुतः तस्मिन् । मनुजधर्मिणि लीलार्थ मनुष्यधर्मवति, वस्तुतस्तु ब्रह्मणि ब्रह्मस्वरूपे सत्तमे अतिशयसाधौ श्रीरामे इत्यर्थः । हे मे चित्त मन्मानस, प्रविश प्रवेशं कुरु तं भजेत्यर्थः । पृथ्वी वृत्तम् । लक्षणं पूर्वोक्तम् ( १२ श्लोकटीकायां कथितम् ) ॥ ७० ॥ किंच अस्त्रामासेति । हे भगवन् श्रीरामचन्द्र, प्रियायै सीतायै द्रुह्यती.ते धुक् तस्मिन् सीताचरणाङ्गुष्ठभेदके ऐन्द्रकाके इत्यर्थः। तृणं दर्भखण्डं अस्त्रामास अस्त्रवदाचचार । अस्त्रशब्दात् “कर्तुः क्यङ्-" इति सूत्रस्थेन “आचारेऽवगल्भ-" इत्यादिवातिकात् 'आचारे' इत्यनुवर्तमाने सति "सर्वप्रातिपदिकेभ्यः किव्वा वक्त For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: [अयोध्या कुल्यामास महार्णवोऽपि कपयो योधांबभूवुस्तदा पौलस्त्यो मशंकांबभूव भगवंस्त्वं मानुषामासिथें ॥ ७१॥ अशिलाप्राणदपँदैरचराचरमुक्तिदैः ॥ असर्वभूताभयदैरशर्वधनुरर्दनैः ॥ ७२ ॥ अब्रह्मास्त्रीकृततृणैरतृणीकृतरावणैः ॥ अलं कातरदेवैस्तैरलङ्कापुरसाधकैः ॥ ७३ ॥ व्यः" इति वार्तिकेनाचारविपि तदन्तस्य धातुत्वात् तस्माल्लिविवक्षायां च तस्मिन् परे अनेकाच्त्वादामि अस्तेरनुप्रयोगः, क्वचिद्भवतेरपि । एवमग्रेऽप्यूह्यम् । तथा सीतास्वयंवरप्रसङ्गे इति शेषः । स्मरारेः शिवस्य धनुः तस्मिन् समये पणीकृतमित्यर्थः । तृणामास तृणवदाचचार । तत्रभवता तृणवद्भग्नमित्यर्थः। शिलाऽपि दृषदपि मुनेरौतमस्य दारामास स्त्री बभूव । पादुका, भवतः इत्यर्थः । वयं नृणां मनुष्याणां वरः श्रेष्ठः "देवादृते वरः श्रेष्ठे” इत्यमरः । राजा तद्वत् आचचारेति नृवरामास । वनवासगमनप्रसङ्गे भरताग्रहात् तस्मै समर्पितेत्यर्थः । भरतेनापि श्रीरामागमनपर्यन्तं राज्यं पादुकायां निवेद्य स्वयं प्रधानवत् आचरितमिति प्रसिद्धिः। तथैव महार्णवः समुद्रः अपि कुल्यामास अल्पा सरिदिव बभूव । “कुल्याल्पा कृत्रिमा सरित्" इत्यमरः । श्रीरामस्य लङ्कागमनसमये तत्कोपाद् भीतः समुद्रः क्षुद्ररूप आसीदिति श्रीरामायणे । तथा कपयो वानराः योधांबभूवुः योद्धारः बभूवुः । "भटा योधाश्च योद्धारः।" इत्यमरः। पुलस्त्यस्य विश्रवसः अपत्यं पौलस्त्यो रावणः मशकांबभूव मशकवदास । युद्धे मशकवदनायासेन पराभूत इत्यर्थः । त्वं श्रीरामश्च मानुषामासिथ मनुष्यवदाचेरिथ । शार्दूलविक्रीडितं वृत्तम् ॥ ७१ ॥ एवं चैतादृशमहाप्रभावत्वाद्यदि भजनीयः स्यात्तर्हि श्रीराम एवेति द्योतयनेतत्प्रकरणं (अयोध्यावर्णनं ) उपसंहरति-अशिलेति । श्लोकद्वयस्यैकान्वयः। प्राणं जीवनं ददातीति प्राणदं शिलायाः अहल्यारूपायाः प्राणदं जीवनप्रदं उद्धारकमिति यावत् । तादृशं पदं चरणः न भवति येषामित्यशिलाप्राणदपदास्तैः । तथा चराचराणां स्थावरजङ्गमानां मुक्तिदाः कैवल्यप्रदाः न भवन्तीति तथाभूतैः । तथा सर्वभूतानां प्राणिनां अभयदाः न भवन्ति तैः । शर्वस्य शिवस्य "शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः" इत्यमरः । धनुषः अर्दना भञ्जकाः न भवन्तीति तथा तैः । तथा ब्रह्मास्त्रमिव न कृतं तृणं यैस्तैः, न तृणीकृतः तृणवत्तुच्छीकृतः रावणः यस्तैः, अत एव न साधितं लङ्कापुरं लङ्कानगरी यैस्तथाभूतैश्च अत एव कातरा भीरवश्व "अधीरे कातरस्त्रस्ते भीरु-भीरुक-भीलुकाः” इत्यमरः । ते देवाश्च तैः । अलं कृतम्। ये तावदुपरिवर्णितानि लोकोपकारभूतानि कार्याणि कर्तुं न शक्नुवन्ति ते देवा मा सन्त्वित्यर्थः । अनुष्टुप् ॥ ७२ ॥ ७३ ॥ १ 'मशकी'. २ 'मासिथाः'. ३ 'परै'. For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् ६ ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिकाटीकासहिता । अथ गङ्गानदीवर्णनम् ६. इति विमानं दक्षिणतः प्रस्थाप्य कृशानुमुद्दिश्य - शिथिलितभवखेदा श्लिष्टवैकुण्ठपादा कृतविपदपनोदा क्लृप्तचित्तप्रसाद ॥ विमलतरतरङ्गा विश्रुताम्भोधिसङ्गा विहितदुरितभङ्गा वीक्ष्यतामत्र गङ्गा ॥ ७४ ॥ कृशानुः - उपेक्षणीयानि भागीरथीयानि पानीयानि किमिति वीक्षणीयानि ॥ १९ ॥ यतः येषां जनिश्चरणतस्तु हिरण्यहर्तु - दोंषाकरेण गुरुदारविटेन मूर्ध्नि ॥ ४९ इति विमानं दक्षिणतः दक्षिणस्यां दिशि, 'दक्षिणोत्तराभ्यामतसुच्' इत्यतसुच् । प्रस्थाप्य नीत्वा कृशानुमुद्दिश्य, आहेति शेषः । शिथिलितेति । शिथिलितः विनाशितः भवस्य संसारस्य खेदः दुःखं यया तादृशी । श्लिष्टौ आलिङ्गितौ आश्रिताविति यावत् । वैकुण्ठस्य विष्णोः पादौ यया तथाभूता । कृतः विपदां आपत्तीनां अपनोदो निवारणं यया तथाभूता । पुनश्च कृप्तः रचितः चित्तस्य प्रसादः प्रसन्नता यया तादृशी । यस्या दर्शनमात्रेणैव मनःसंतोषो जायते इत्यर्थः । विमलतराः अतिशयेन निर्मलास्तरङ्गा वीचयो यस्याः सा तथाभूता । "भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु" इत्यमरः । विश्रुतः प्रसिद्धः अम्भोधेः समुद्ररूपस्य पत्युः सङ्गः संगतिर्यस्याः सा । अत एव विहितः कृतः दुरितानां पापानां भङ्गः विनाशो यया तथाभूता च । अत्रास्मिन्स्थले गङ्गा भागीरथी नदी वीक्ष्यतां दृश्यतां त्वयेति शेषः । मालिनी वृत्तम् । लक्षणमुक्तं प्राक् ( ३५ श्लोकटीकायाम् ) ॥ ७४ ॥ अथाह कृशानुः - उपेक्षणीयानीति । उपेक्षितुं तिरस्कर्तुं योग्यानि उपेक्षणीयानि भागीरथीयानि गङ्गासंबन्धीनि पानीयान्युदकानि किमिति कुतो हेतोः वीक्षणीयानि अवलोकनीयानि ? अत्रोपेक्षणीयानीत्यस्य 'उप समीपे ईक्षणीयानि दर्शनी - यानि इति ष्टार्थो मुद्रितपुस्तके मधुरसुब्बाशास्त्रिविरचितटीकायामुपलभ्यते । परं च स न युक्तः । 'वींक्षणीयानि' इत्यग्रिमपदेनैव तदर्थलाभात् पुनरपि तथैवार्थ करणे श्लेषस्वरसाभावात् पुनरुक्तिदोषापत्तेश्व ॥ १९ ॥ वीक्षणीयत्वाभावमेव दर्शयति — यतः —— येषामिति । येषां गङ्गायाः इमानि १ 'प्रमोदा'. २ 'विस्तृताम्भोधिसङ्गा' ३ 'मौली'. For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [ गङ्गानदीब्रह्मोत्तमाङ्गभिद एव सहस्थितिश्च __ ख्यातो लयो जलनिधौ किल गाङ्गवाराम् ॥ ७५ ॥ विश्वाव०-शान्तं पापम् । मन्दमते किं मुकुन्दपादारविन्दनियन्दिनीं धुनीमपि निन्दसि ? ॥ २० ॥ गाङ्गानि तादृशानि च वारि उदकानि च तेषां, “आपः स्त्री भूम्नि वार्वारि" इत्यमरः । गङ्गोदकानामित्यर्थः । जनिरुत्पत्तिस्तु "जनिरुत्पत्तिरुद्भवः” इत्यमरः । हिरण्यहर्तुः सुवर्णचोरस्य चरणतः आचरणात् , जातेति शेषः । तथा ब्रह्मणः ब्राह्मणस्य उत्तमा शिरः । “उत्तमाङ्गं शिरः शीर्ष" इत्यमरः । भिनत्ति छिनत्तीति उत्तमाङ्गभित् तस्य ब्रह्महन्तुरित्यर्थः । मूर्ध्नि मस्तके "मूर्धा ना मस्तकोऽस्त्रियाम्" इत्यमरः । गुरोरध्यापकस्य दाराणां भार्यायाः विटेन जारेण "भार्या जायाऽथ पुभूम्नि दाराः" इत्यमरः । “विटोऽद्रौ लवणे षिङ्गे (जारे) मूषिके खदिरेऽपि च" इति मेदिनी च । अत एव दोषाणां आकरेण उत्पत्तिस्थानेन सह स्थितिः वासश्च । तथा लीयते एकीभूयते अनेनेति लयः मैत्रीति यावत् । जलानां डलयोः सावता॑त् जडानां मद्यपानेन मत्तानां निधौ समुदाये, ख्यातः प्रसिद्धः एव । किलेल्यैतिर्यो । अनेन भागीरथीजलानां पञ्चमहापातकवत्त्वं सूचितम्। तथा चाह मनु:-"ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुः संसर्गश्चापि तैः सह" इति । अयमर्थस्त्वापाततः । वास्तवस्तु येषां गाङ्गवारां जनिः प्रादुर्भावः, हिरण्यहर्तुर्हिरण्यकशिपुनामकदैत्यस्य हन्तुः । नामैकदेशेन नामग्रहणात् हिरण्यशब्देन हिरण्यकशिपुग्रहणम् । विष्णोरिति यावत् । चरणतः पादात् , ब्रह्मणः ब्रह्मदेवस्योत्तमाझं पञ्चमशिरः तद्भिनत्ति छिनत्तीति तथाभूतस्य शिवस्येत्यर्थः । शिवेन हि ब्रह्मणः पञ्चमशिरश्छिन्नमिति पुराणप्रसिद्धिः । मूर्ध्नि, गुरुदारविटेन वृहस्पतिपत्नीविटेन दोषाकरश्चन्द्रः तेन सह स्थितिश्च ख्याता । जलनिधौ समुद्रे च लयः ख्यातः इति । एवं च विष्णुचरणोत्पत्त्या, शिवमस्तके चन्द्रेण सह स्थित्या च परमपावनत्वं गङ्गाजलानां सूचितमिति ज्ञेयम् । अत्र श्लेषमूलका व्याजस्तुतिईया । मुखनिन्दायाः स्तुतौ पर्यवसानात् । तदुक्तम्-"व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा" इति । अतः परं पूर्वकथितवृत्तानां नामलक्षणं नैवोच्यते ॥ ७५॥ एवं कृशानूक्तं निन्दनमसहमान आह विश्वावसुः-शान्तमिति । शान्तं पापं पापवचनं नोचारणीयमित्यर्थः । हे मन्दमते मन्दबुद्धे, मुकुन्दस्य श्रीकृष्णस्य पादारविन्दाचरणकमलात् निष्यन्दिनी प्रस्रवन्ती, अनेन तस्याः परमपावित्र्यं सूचितम् । धुनी गङ्गानदीमपि किं कस्माद्धेतोः निन्दसि ? ॥२०॥ १ एतत् कचित्पुस्तत्रे नैव दृश्यते. २ 'मरन्दधारा'. ३ 'विनिन्दयसि'. For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ६] पदार्थचन्द्रिकाटीकासहिता । पश्यगाङ्गानि वारि गरुडध्वजपादपद्मा दाविर्बभूवुरपुनन् पुनरिन्दुमौलिम् ।। निन्युर्विचित्रममृतं सगरान्वयं च 'नेतोऽधिकं भुवि पवित्रतमं समं वा ॥ ७६ ॥ किंचसा सर्वतोमुखवती तटिनी सरागां मूर्तिर्विधेरिव बिभर्ति सरखतीं च ॥ भेदस्त्वियान् बलिभिदश्चरणारविन्दा दाद्या बभूव चरमा किल नाभिपद्मात् ॥ ७७ ॥ निन्दानहत्वमेव प्रतिपादयति-गाङ्गानीति । गाङ्गानि गङ्गासंबन्धीनि वारि जलानि, रेफान्तोऽयं वाशब्दः । गरुडः ध्वजे यस्य तस्य विष्णोरित्यर्थः । पादपद्माचरणकमलात्, आविर्बभूवुः प्रकटीबभूवुः । नैतावदेव, अपि तु इन्दुश्चन्द्रः "च. न्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः" इत्यमरः । मौलौ मस्तके यस्य तं शंकरमित्यर्थः । अपुनन् पवित्रीचक्रुः । कालकूटदाहं शमयामासुरित्यर्थः । 'पूञ् पवने' इत्यस्मात् धातोर्लङ् प्रथमपुरुषबहुवचनम् । अपि च विचित्रं कपिलमहामुनिशापात् अधोगति. रूपविचित्रदशापन्नं, सगरस्य राज्ञोन्वथं वंशं च "संततिर्गोत्र-जनन-कुलान्यभिजनान्वयौ । वंशोऽन्ववायः" इत्यमरः । अमृतं मोक्षं निन्युः प्रापयामासुः । तस्मात् उपयुक्तप्रभावात् , इतः गङ्गाजलेभ्योऽधिकं, इत इत्यत्र सार्वविभक्तिकस्तसिः। भुवि पवि. तममतिशयपवित्रं वाथवा समं तुल्यमपि न । अस्तीति शेषः । अपि तु अन्यानि सर्वाण्यपि तीर्थानि न्यूनान्येवेति भावः ॥ ७६ ॥ किंच-सेति । सर्वतोमुखवती प्रशस्तजलयुक्ता, प्राशस्त्ये मतुप् । “पुष्कर सर्वतोमुखम्" इत्यमरः । यद्वा सर्वतः स्वर्ग-पाताल-भूलोकेषु मुखानि प्रवाहरूपेण प्रसरणानि यस्याः सा तथाभूता "मुखं निःसारणे के प्रारम्भोपाययोरपि" इति मेदिनी । पक्षे सर्वतश्चतुःपार्श्वेषु मुखानि यस्याः सा तथाभूता च । सा प्रसिद्धा तटिनी नदी भागीरथीत्यर्थः । “तटिनी हादिनी धुनी" इत्यमरः। विधेः ब्रह्मणः मूर्तिदेह इव रागेण रक्तिना अनुरागेण च । “रागोऽनुरागे लाक्षादौ मात्सर्यालोकयोरपि” इति वैजयन्ती । सहिता युक्ता तां सरस्वती नाम नदी, वाणी च "ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरखती" "चन्द्रभागा सरखती" इत्युभयत्राप्यमरः । बिभर्ति धारयति। उभयोर्भेदमाह-भेद इति। उभयोर्भागीरथीब्रह्ममूर्योः आद्या प्रथमा भागीरथी, बलिं भिनत्तीति बलिभिद्विष्णुस्तस्य "सत्सू”-इत्यादिना क्विप् । चरणारविन्दात् १ 'नातोऽधिकं'. २. 'बलिजितः'. For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५२ अपि च अन्यच्च P www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: भागीरथीं प्राप्य बुधाः पितृभ्यो जलाञ्जलिं सादरमर्पयन्ति ॥ पापानि सर्वाणि ततः पितॄणां भवन्त्यहो दत्तजलाञ्जलीनि ॥ ७८ ॥ भागीरथीं यः पटुधीरुपास्ते यथाक्रतुन्यायत एष धन्यः ॥ देवत्वमेत्य त्रिदिवे सुधयां भागीरथीति व्यपदेशमेति ॥ ७९ ॥ [ गङ्गानदी चरणकमलात् बभूव उत्पन्ना । चरमा अन्त्या ब्रह्ममूर्तिरित्यर्थः । नाभिपद्मान्नाभिकमलात् बभूव । इयानेव तु भेदः । किलेति निश्चये । उपमालंकारः ॥ ७७ ॥ नैतावदेव, अन्यदपि तन्महित्वं श्रण्वित्याह-अपि चेति-भागीरथीमिति । बुधाः पण्डिताः शास्त्रतस्तन्माहात्म्याभिज्ञा इत्यर्थः । भागीरथीं प्राप्य गत्वा, पितृभ्यः जलाञ्जलिमुदकाञ्जलिं आदरेण पूज्यभावेन सहितं यथा स्यात्तथा अर्पयन्ति ददति । एवं कृते किं भवति तदाह- तत इति । ततः उदकाञ्जलिसमर्पणात्, पितॄणां सर्वाणि पापानि दुरितानि, दत्तः समर्पितः जलाञ्जलिरुदकाञ्जलि: 'अद्यप्रभृति पितृणामस्माकं च न कोऽपि संबन्ध:' इत्युक्त्वा जलनिक्षेपो यैस्तथाभूतानि भवन्ति । अर्थात् अञ्जलिसर्पणक्षण एव पितॄणां सर्वाणि पापानि नश्यन्तीति भावः । अहो इति विस्मये ॥ ७८ ॥ अन्यदप्याह-भागीरथीमिति । यः पट्टी कुशला धीर्बुद्धिर्यस्य सः “स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्-" इत्यादिना पटुशब्दस्य पुंवद्भावः । भागीरथीं गङ्गां उपास्ते सेवते भजते इति यावत् । उपपूर्वकस्य 'आस उपवेशने' इत्यादादिकस्य लटि रूपम् । अत एव धन्यः पुण्यवान् "सुकृती पुण्यवान् धन्यः" इत्यमरः । एषः भागीरथ्युपासकः । यथाक्रतुन्यायतः यथा यादृशः ऋतुः संकल्पो यस्य स यथाक्रतुः तस्य न्यायः संकल्पानुसारेण परत्र फलप्राप्तिरूपः 'यथाक्रतुरस्मिंल्लोके पुरुषो भवति ततः प्रेत्य भवति' इति छान्दोग्ये प्रसिद्धः तेन देवत्वं देवरूपमेत्य प्राप्य, त्रिदिवे स्वर्गे, सुधायां अमृतमध्ये इत्यर्थः । भागी भागवान्, रथी रथयुक्तः विमानयुक्त इति यावत् । इत्येवंरूपं व्यपदेशं व्यवहारं एति प्राप्नोति । अर्थात् भागीरथीं संसेव्य स्वर्गे लोके देवखरूपं संपाद्य विमानेन संचरतीति ज्ञेयम् ॥ ७९ ॥ १ 'सुराणां '. For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णनम् ६] पदार्थचन्द्रिकाटीकासहिता । किंचसरखत्याऽऽश्लिष्टा सवितृतनयालिनितझरा .. स्फुरद्गुच्छवच्छा प्रकृतिरिव भाति त्रिगुणभाक् ।। तथाप्येषा दोषापनमनपटुः स्वाकलनया प्रगल्भं संसारं प्रशमयति कंसारिपदभूः ॥ ८० ॥ किंचगाम्भीर्येण गदाधरस्य हृदयं माधुर्यतस्तद्गिरं श्वेतिम्ना च यशस्तदीयमनघं शैतल्यतस्तत्कृपाम् ।। सरस्वत्येति । किंच कंसारेः श्रीविष्णोः पदाचरणाद्भवति उत्पद्यते इति कंसारिपदभूः श्रीकृष्णचरणकमलोत्पन्ना भागीरथीत्यर्थः । सरखत्या रक्तया नद्या आश्लिष्टा आलिङ्गिता कृतसंगमेति यावत् । तथा सवितृतनया सूर्यकन्या यमुनाभिधा नीलवर्णी नदी तया आलिङ्गितः संगतः झरः प्रवाहो यस्याः सा तथाभूता । यमुनाप्रवाहसंगमित्यर्थः । खतस्तु स्फुरन् प्रफुल्लितः यः गुच्छः पुष्पस्तबकः स इव खच्छा शुभ्रवर्णा एषा पुरोदृश्यमाना गङ्गा, त्रीन् गुणान् सत्त्वरजस्तमोरूपान् , पक्षे शुक्ल-रक्त-कृष्णवर्णान् भजतीति तथाभूता । प्रकृतिरिव प्रपञ्चोत्पादिका मायेव भाति केवलं उपरितनरूपेण दृश्यते । भगवन्मायाया हि "अजामेकां लोहित-शुक्ल. कृष्णां" इत्यादिश्रुत्या "दैवी ह्येषा गुणमयी मम माया दुरत्यया" इति भगवद्गीतया च त्रिगुणत्वं प्रतिपादितम् । अन्ततस्तुन तथा, कुतः तदाह-तथापीति । यद्यपि त्रिगु. णात्मिकेव भाति, तथापि दोषाणां प्रापञ्चिकदुःखानां अपनयने विनारणे पटुः समर्था । पटुशब्दात् “वोतो गुणवचनात्" इति विकल्पात् ङीषभावः । एषा भागीरथी खस्याः आकलनया सेवया, प्रगल्भं प्रौढं विस्तृतमिति यावत् । संसारं जन्म-जरा मरणादिरूपं प्रशमयति विनाशयति । प्रकृतिस्तु संसारं जनयतीति भावः । तस्मादतुलमाहात्म्यवतीयमित्यर्थः ॥ ८०॥ किंच इयं तावत्सर्वचेष्टितैः श्रीविष्णुमेवानुसरतीत्याह-गाम्भीर्येणेति । तस्य गदाधरस्य श्रीविष्णोरिति यावत् । पदाचरणात् भवन्ति उत्पद्यन्ते इति तत्पदभुवः। सर्वनानः प्रकृतपरामर्शकत्वात् तच्छब्दस्य गदाधरपदेन संबन्धः । इमे पुरोवर्तिनः वारां जलानां राशिः समुदायः समुद्रस्तस्य दाराः पत्नी गङ्गेत्यर्थः । दारशब्दस्य पुंसि नित्यं बहुवचनत्वात् । “भार्या जायाथ पुंभूग्नि दाराः स्यात्तु कुटुम्बिनी" इत्यमरः । वाराशिरित्यत्र 'वार राशिः' इति स्थिते "रो रि" इति रेफस्य लोपः । गम्भीरस्य निम्नस्य भावः गाम्भीर्य अगाधत्वमिति यावत् । “निम्नं गभीरं गम्भीरं" इत्यमरः । तेन गदाधरस्य विष्णोः हृदयमन्तःकरणं, इत आरभ्य गिरम्' 'यशः' इत्यादिसर्वपदानां 'अनुसरति' इत्यनेनान्वयः । माधुर्यतः खादुतया, १ 'पटुत्वाकलनया'. - un For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ विश्वगुणादर्शचम्पू:- [काशीनैर्मल्यातिशयेन तस्य धिषणां नित्यं प्रसादेन त-." द्वकं चानुसरन्ति तत्पदभुवो वाराशिदारा ईमे ॥ ८१ ॥ अथ काशीवर्णनम् ७. इति बद्धाञ्जलिरमतोऽवलोक्य सानन्दम्काशी सकाशीभवदिन्द्रगेहसौधाग्रभागा बहुसप्तिनांगा ॥ इन्धे मयूखैरियमन्धकारव्युत्पत्तिशून्या शिवशेखरेन्दोः ॥ ८२ ॥ तृतीयार्थे तसिः । तस्य विष्णो: गिरं वाणी, श्वेतस्य शुक्लस्य भावः श्वेतिमा शुक्लत्वेनेत्यर्थः । “वर्ण-दृढादिभ्यः-" इति भावार्थे इमनिच् । तदीयं श्रीविष्णुसंबन्धि अनघं निर्मलं, यशः कीर्ति, शैतल्यतः शीतलत्वेन, 'गुणवचनब्राह्मणादिभ्यः-' इति ध्य प्रत्ययः । तस्य कृपा, नैर्मल्यस्य निर्मलत्वस्य अतिशयेनोत्कर्षेण तस्य विष्णोः धिषणां बुद्धिं "बुद्धिर्मनीषा धिषणा" इत्यमरः । नित्यं प्रसादेन प्रसन्नतया, तस्य भगवतो वकं मुखं च अनुसरन्ति अनुकुर्वन्ति । एवं च पूर्वोक्तसकलोदात्तगुणविशिष्टत्वाद्भगवती भागीरथी दोषशल्यमपि नाहति, किंतु संततप्रशंसामेवाईतीति सूचितमिति भावः ॥ ८१॥ एवं भागीरथीं स्तुत्वा तनिवासस्थानभूतां काशीं वर्णयितुमाह-इतीति । इत्येवमुक्त्वा बद्धाञ्जलिः सन् अग्रतोऽवलोक्य दृष्ट्वा, सानन्दमानन्देन सहितं यथा तथा, आहेति शेषः। काशीति । सकाशीभवत् संनिधित्वेन विद्यमानं इन्द्रगेहं वर्गलोको येषां तादृशाः सौधानां उच्चैस्तरगृहाणामग्रभागा यस्यां सा इति बहुव्रीहिगर्भो बहुव्रीहिः। तथा बहवः सप्तयोऽश्वाः नागा गजाश्च यस्यां सा तथाभूता । "घोटके वीति-तुरग-तुरं. गाश्व-तुरंगमाः । वाजि-वाहार्व-गन्धर्व-हय-सैन्धव-सप्तयः ।" इति "मतंगजो गजो नागः" इति चामरः। तथा शिवस्य विश्वेश्वरस्य शेखरेन्दोमस्तकभूषणभूतचन्द्रस्य "शिखाखापीड-शेखरौ” इत्यमरः । मयूखैः किरणैः "किरणोऽस्रमयूखांशु-" इत्यमरः । अन्धकारस्य व्युत्पत्त्या उद्भवेन शून्या रहिता । भगवतः शंकरस्य नित्यनिवा. सात् तच्छिरःस्थचन्द्रकिरणैः सूर्याभावेऽपि प्रकाशयुक्तेत्यर्थः । इयं काशी नगरी इन्धे प्रकाशते । 'नि इन्धी दीप्तौ इत्यस्माद्वधादेर्लट् ॥ ८२ ॥ १ 'इव'. २ 'साञ्जलि:'. ३ 'नादा'. For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ७] पदार्थचन्द्रिकाटीकासहिता। कृशानु:-वयस्य किमेषापि तव स्तवास्पदम् ? ॥ २१ ॥ पश्यये मिष्टान्नभुजो गजोत्तमहयारोहाः सुगेहान्तरे मत्तांभिर्महिलाभिरत्र विहरन्त्यामुक्तमुक्तास्रजः ॥ ते घोरास्थिधरा विराजदनडुद्वाहा विषाहारिणो . नर्तिष्यन्त्यवशाः स्मशाननिलया नीचैः पिशाचैः समम् ।। ८३ ॥ अथाह कृशानु:-यवस्येति । वयस्य भो मित्र "वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्" इत्यमरः । एषा काशीनगर्यपि, अपिना गर्दा द्योत्यते । तव स्तवास्पदम् स्तुतिस्थानम् । किमिति प्रश्ने । इत्यापाततः। वस्तुतस्तु-एषा महामहिमवती काशी अपि तव स्तवास्पदं किम् ? तस्मात् त्वं धन्योऽसि ! तत्प्रभावस्य सामान्येन वक्तुमशक्यत्वादिति भावः ॥ २१ ॥ पश्येति । स्तुतियोग्यत्वमयोग्यत्वं वेत्यर्थः । तत्रतावत्प्रथमं काशीनिवासिनां पारमार्थिकफलं निरूपयति-य इति। अत्र काइयां ये जनाः मिष्टं षड्रसयुक्तभन्नं भुजते इति मिष्टान्नभुजः । तथा गजोत्तमा हस्तिश्रेष्ठाश्च हया अश्वाश्च तेषु आरोह आरोहणं येषां तथाभूताः । अश्वादिष्वारुह्य नगरे परिभ्रमन्त इत्यर्थः । किंच आमुक्ताः धृताः मुक्तास्रजो मुक्ताहारा यैस्ते तथा अपि च मुगेहान्तरे शोभनान्तःपुरे मत्ताभिः यौवन-रूपादिभिरित्यर्थात् । महिलाभिः स्त्रीभिः "श्री योषित्" इत्यारभ्य “वनिता महिला तथा" इत्यन्तोऽमरः । सह विहरन्ति क्रीडन्ति । एवं विषयासक्तचित्ता अपीति वास्तवोर्थः । प्रातीतिकस्तु एवं सुखिन इत्यर्थः । ते जनाः, परलोके इति शेषः । मुक्ताहाराणां स्थाने घोराणां भयंकराणामस्नां धरा धारकाः, तथा गजाश्वादिस्थाने विराजन् शोभमानः अनड्डान् वृषभो वाहो वाहनं येषां तादृशाः । “उक्षा भद्रो बलीवर्दो ऋषभो वृषभो वृषः । अनड्डान्" इत्यमरः । तथा मिष्टान्नस्थाने विषाहारिणो विषभोजिनः । अन्तःपुरस्थसुन्दरस्त्रीविलासस्थाने च स्मशानमेव निलयो गृहं येषां तथाभूताः स्मशाननिवासिनः सन्त इत्यर्थः । अवशाः उन्मत्ताः खतन्त्राश्च, नीचैः क्षुदैः, पिशाचैः ब्रह्मराक्षस-मारोच-वेतालादिभिः समं सह, नर्तिष्यन्ति नृत्यं करिष्यन्ति । एवं च अत्रत्यसुखिजनानामप्येवंविधदुःखोत्पादिकेयमिति रभसार्थः । वास्तवस्तु पूर्वोक्तप्रकारेण विषयासक्तत्वेऽपि केवलं काशीवासेनैव जनानां शंकरसारूप्यसंपादयित्रीत्यर्थः । विरोधालंकारः ॥ ८३ ॥ ३ 'गजोद्धतहयारोहा:'. १ किमरे वयस्यैषापि तव स्तव्यपदम्'. २ 'मृष्टान्न'. ४ 'स्वगेहान्तरे'. ५ 'सक्ताभिः'. For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [काशी . काशीमुद्दिश्य'दत्तं साधुमुदे यदेकमपि तत् क्षेत्रप्रभावाद्भवेत् __कामं कोटिगुणं भवान्तर' इति ख्यातं त्वयि त्वास्थैया ।। वासं प्राप्य मुहुर्बहूनि ददतो वासांसि जन्मान्तरे । ___लोका हन्त भजन्ति दिग्वसनतां हे काशि तुभ्यं नमः।। ८४ ॥ वाराणसि त्वयि सदैव सरोगभूमावारोग्यभूमिरिति काममलीकवादः॥ संतस्थुषां भवति यत्र वपुः सशूलं जन्मान्तरेऽपि जलभारवदुत्तमानम् ८५ एवं विश्वावसुमुक्त्वा काशीमुद्दिश्याह-दत्तमिति । हे काशि 'यत् यदि साधोः सत्पात्रस्य मुदे संतोषार्थ, एकमपि न त्वधिकं दत्तमर्पितं, तर्हि तत् क्षेत्रस्य अर्थात् त्वदन्यप्रयाग-पुष्करादेः प्रभावात् माहात्म्यात् , भवान्तरे अन्यजन्मनि 'कामं निश्चयेन कोटिगुणं दत्तापेक्षया कोटिसंख्ययाधिकं भवेत् संपद्येत' इति ख्यातं पुराणादौ प्रसिद्धम् ।त्वयि तु। वासं वसतिं प्राप्य कृत्वा, महुर्वारंवारं आस्थया अनेन दानेन जन्मान्तरे सुखिनो भवामः' इत्यादिरूपया, बहूनि वासांसि एतदुपलक्षणम् । तेन महावस्त्र-सुवर्णादीनीत्यर्थः । ददतः सत्पात्रेभ्यः समर्पयन्तः 'डुदाञ् दाने' इत्यस्मात् लटः शत्रादेशः । “नाभ्यस्ताच्छतुः" इत्यभ्यस्तत्वानुमभावः । ते लोकाः जन्मान्तरेऽन्यजन्मनि दिग्वसनतां दिगम्बरतां भजन्ति प्राप्नुवन्ति । अर्थात् वस्त्रहीना दरिद्रा भवन्तीति भावः । इति प्रातीतिकोऽर्थः । वास्तवस्तु दिग्वसनतां नाम शिवसारूप्यं प्राप्नुवन्तीति । तस्मात् तुभ्यं नमः। प्रातीतिके दूरत एव त्वां नमस्कुर्मः न तु त्वयि वासं कर्तुमिच्छाम इति । वास्तवे तु एवं शिवसारूप्यप्रदायै तुभ्यं नमः, त्वन्माहात्म्यस्य दुराकलनीयत्वात्केवलं नमाम एवेत्यर्थः । हन्तेत्यानन्दे विषादे वा ॥ ८४ ॥ __ काशीनिवासिनो जनास्तावद्दिगम्बरत्वं प्राप्नुवन्तीत्येतावदेव न, किंतु अन्यदपि प्राप्नुवन्तीत्याह-वारणसीति । हे वाराणसि काशि, “अम्बार्थ-नद्यो-" इति वाराणसीशब्दस्य संबुद्धौ ह्रस्वत्वम् । सदैव संततमेव रोगेण शीतादिना सहिता सरोगा तादृशी भूमिः यस्यां तस्याम् । वस्तुतस्तु सरः गङ्गाप्रवाहरूपं गच्छति प्राप्नोतोति सरोगा तथाभूता भूमिर्यस्यामित्यर्थः । तस्यां त्वयि आरोग्येण रोगराहित्येन युक्ता भूमिः इति कामं अत्यन्तं निश्चयेनेति यावत् । अलीकवादः असत्यवचनमित्यर्थः । “अलीकं त्वप्रियेऽनृते' इत्यमरः । वास्तवस्तु अः विष्णुर्बिन्दुमाधवरूपः "अकारो वासुदेवः स्यात्" इत्येकाक्षरः । रेण नेत्राग्निना युक्तः उः शिवः अर्थात् विश्वेश्वरः तौ अरौ, "रश्च कामेऽनिले वहौ” इति, “उकारः शंकरः प्रोक्तः" इति चैकाक्षरः तौ गच्छतीति अरोगा तस्याः भावः आरोग्यं तेन युक्ता भूमिरिति अलीकवादः किमिति काकुः। अपि तु नैवालीक इत्यर्थः। तथाहि-यत्र त्वयि संतस्थुषां स्थिता १ 'अन्यच्च'. २ 'त्वयीत्याख्यया'. ३ 'भूरिति निकाम'. ४ 'जडभाववत्'. 'जलभाववत्'. For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ७] पदार्थचन्द्रिकाटीकासहिता । विश्वावसुः-अनिपुणधिषण गुणमपि किमिति दोषीकरोषि ? यदेतन्नगरवासिना भोगिनाऽपि योगिनोमप्राप्यं शिवसारूप्यमाप्यते २२ अत्र देहमपवित्रमपास्यन्नच्छमृच्छति वपुः किल यस्य ॥ लोचने शुचिरवाप्तनिटाले मस्तके हरिपदाम्बु जटाले ॥ ८६ ॥ अदःपुरवासिनामन्याप्येषा धन्यता ॥ २३ ॥ नां, संपूर्वकात् 'टा गतिनिवृत्तौ' इत्यस्माद्धातोभूतसामान्य विवक्षायां लिटि "क्कसुश्च" इति च कसौ "वसोः संप्रसारणम्” इत्यामि संप्रसारणम् । वपुः शरीरं, जन्मान्तरे. ऽन्यजन्मन्यपि किमुतास्मिन् जन्मनि। शूलेन शूलरोगेण पक्षे शूलायुधेन सहितं भवति । उत्तमाझं मस्तकं च जलभारवत् शैत्यरोगयुक्तं, पक्षे जलस्य गङ्गाजलस्य भारेण युक्तं भवतीति । एवं च सर्वथा शिवसारूप्यमेव प्राप्नोतीति भावः । इति वास्तवोऽर्थः । अत्रापि व्याजस्तुतिरलंकारः ॥ ८५॥ . एवं कृशानुप्रोक्तमर्थ दूषणपरतयैव संगृह्याह विश्वावसुः-अनिपुणेति । अनिपुणा सदसद्विवेकविधुरा धिषणा बुद्धिर्यस्य तत्संबोधने हे अनिपुणधिषण मन्द. बुद्धे, वाराणस्या इति शेषः । गुणमपि किमिति कस्माद्धेतोरित्यर्थः । दोषीकरोषि दूषणयुक्तमिव करोषीत्यर्थः । यत् यस्मात्कारणात् एतनगरवासिना काशीपुरनिवासिना, भोगिना स्यादिविषयभोगवतापि किमुत वैराग्यादियुतेन जनेन, योगिनां यमनियमासनाद्यष्टाङ्गयोगयुक्तानामपि अप्राप्यं प्राप्नुमशक्यं, शिवस्य विश्वेश्वरस्य सरूपस्य तुल्यरूपस्य भावः सारूप्यं शिवसमानरूपतेत्यर्थः । आप्यते प्राप्यते ॥ २२॥ शिवसारूप्यमेवोपपादयति-अत्रेति । अत्र काश्यां, जन इति शेषः । अपवित्रं विषयासक्त्यादिना मलमूत्रादिसंबन्धेन वा अपवित्रं देहं अपास्यन् त्यजन् सन् , अच्छं खच्छं पवित्र मिति यावत् । वपुः शरीरं ऋच्छति प्राप्नोति । किलेति निश्चये । यस्य शरीरस्य अवाप्तं प्राप्तं निटालं भालं येन तथाभूते भालदेशस्थिते इत्यर्थः । लोचने नेत्रे शुचिरग्निः । अस्तीति शेषः । “अग्निवैश्वानरः-" इत्यतः "शुचिरप्पित्तम्-" इत्यन्तोऽमरः । जटां लाति धारयतीति जटालं तस्मिन् जटायुक्ते इत्यर्थः । मस्तके शिरसि हरिपदाम्बु विष्णुचरणसंवन्धि उदकं, अर्थात् गङ्गोदकं, वर्तते इति शेषः । 'अपास्यन्' 'ऋच्छति' इति च वर्तमानकालनिर्देशेन शरीरत्यागक्षणे एवोक्तविधं शिवसारूप्यं प्रतीयते ॥ ८६ ॥ नैतावदेव अन्यदपि तन्महित्वमाह-अद इति । अदःपुरनिवासिनां अमुमिन् पुरे काश्यां निवसन्तीति तथाभूतानां, अन्या पूर्वोक्तसारूप्यप्राप्तेरितरा, एषा वक्ष्यमाणरूपा धन्यता महत्त्वम् , अस्तीति शेषः ॥ २३ ॥ १ गुणोदयामपि किमिति', 'गुणान् किमिति'. २ योगिनां प्राप्य', 'योगिनामप्यप्राप्यं'. For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ विश्वगुणादर्शचम्पू:- [काशीप्रदोषवत्प्राप्त इह प्रदोषनटोऽन्धकारिव्यपदेशमेति'। प्रकाशयत्येष हि तारकोद्यद्वर्णान्नृणां कर्णनभःप्रदेशे ॥ ८७ ॥ इति गङ्गातीरजनपदं कृत्स्नमवेक्ष्य साञ्जलिबन्धम्प्रातः प्रातर्जाह्नवीवारि भक्त्या गाहं गाहं कुप्तैनित्यक्रियेभ्यः ॥ पुष्पैराद्यं पूरुषं पूजयन्यः पूतात्मभ्यो भूसुरेभ्यो नमोऽस्तु ॥ ८८ ॥ का सा धन्यतेत्याकाङ्क्षायामाह-प्रदोषवदिति । इह काश्यां प्रदोषवत् रजनीमुखवत् सायंकालवदिति यावत् । प्रदोषो रजनीमुखम्" इत्यमरः । प्रदोषे सायंकाले नटति नृत्यतीति प्रदोषनटः एषः शिवः प्राप्तः अन्धकस्य एतन्नाम्नः कस्यचि. इत्यस्य अरिः शत्रुः। पक्षे अन्धकारः ध्वान्तं अस्मिन्नस्तीति अन्धकारी।मत्वर्थीय इनिः। इति व्यपदेशं शब्दं अभिधानमिति यावत् । एति प्राप्नोति । अपि च नृणां मानां देहावसाने इति शेषः । कर्णनभःप्रदेशे श्रोत्रान्तर्गताकाशदेशे, पक्षे किरति सर्वत्र प्रसरति व्याप्नोतीति यावत् । कर्णः व्यापकः, उभयत्रापि "कृ-व-जसि" इत्यागुणादिसूत्रेण युप्रत्ययः । तस्य बाहुलकात् केवलो नकारादेशश्च । स चासो नभःप्रदेशः आकाशदेशः तस्मिन् , तारयति जन्म-जरा-मरणादिदुःखेभ्य इति तारः स एव तारकः खार्थे कः । तस्मिन् उद्यन्तः उपदेशरूपेण प्रकटीभवन्तः वर्णाः अकारोकारमकाररूपास्तान् । “वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु वाक्षरे" इत्यमरः । पक्षे तारकाभ्यो नक्षत्रेभ्यः उद्यन्तः वर्णाः प्रभारूपास्तान् , प्रकाशयति उपदेशरूपेण कथयति पक्षे प्रकटयति च । केचित्त तारकशब्देन राममन्त्रं गृह्णन्ति, तत्तु वैष्णव-राजानुजी. यादिमतानुसारेण योजनीयम् । अस्यापि श्रीरामायणे शिववाक्यं प्रमाणभूतम् । यथा "अहो भवन्नाम जपन् कृतार्थो वसामि काश्यामनिशं भवान्या। मुमूर्षमाणस्य विमुतयेऽहं दिशामि मन्त्रं तव राम नाम" इति । काशीखण्डेऽपि-"पेयं पेयं श्रवणपुटकै रामनामाभिरामं ध्येयं ध्येयं मनसि सततं तारकं ब्रह्मरूपम् । जल्पन् जल्पन् प्रकृतिविकृतौ प्राणिनां कर्णमूले वीथ्यां वीथ्यामटति जटिलः कोपि काशीनिवासी" इति च ॥ ८७ ॥ __ इतीति । इत्येवमुक्त्वा गङ्गातीरजनपदं भागीरथीतीरस्थदेशं, कृत्स्नं सर्व "अथ समं सर्वम् । विश्वमशेषं कृत्स्नं" इत्यमरः । अवेक्ष्य दृष्ट्वा, अञ्जलिबन्धेन करसंपुटेन सहितं साञ्जलिबन्धं यथा तथा । आहेति शेषः । प्रातः प्रातरिति । प्रातः प्रातः प्रतिप्रातःकाले "नित्यवीप्सयोः” इति निसार्थे द्वित्वम् । जान्हवीवारि गङ्गोदकं भक्त्या आदरेण गाहं गाहं स्नात्वा स्नाला 'गाहू विलोडने' इत्यस्मात् आभीक्ष्ण्ये णमुल् । कृप्ताः कृताः आचरिता इति यावत् । नित्याः अकरणे प्रत्यवायसाधकाः क्रियाः सन्ध्यादिकाः यैस्तेभ्यः, तथा आद्यं सृष्टेरपि पूर्व वर्तमानं पूरुषं शंकरं विश्वनाथमित्यर्थः । पूजयङ्ग्यः अर्चयञ्यः, अत एव पूतः पवित्रः आत्मा चित्तं येषां तथाभूतेभ्यः । “पवित्रः प्रयतः पूतः" इत्यमरः । “आत्मा १ 'व्यपदेशमन्ते'. २ 'प्राप्तनित्यक्रियेभ्यः'. For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ६] पदार्थचन्द्रिकाटीकासहिता। कृ०-किमेतद्देशवासिनोऽपि ब्राह्मणाः केवलं कलिमाहात्म्याकलितशास्त्रीयचर्याविपर्यया भवता नमस्क्रियन्ते ? पश्य तावत् प्रायेणास्य काशीदेशजनस्य सुचर्याविपर्यासम् ॥ २४ ॥ शस्त्रैर्जीवति शास्त्रमुज्झति परं शूद्राहृतैरम्बुभिः । ___ स्नात्यांचामति देवताः सपयति खैरं पचत्योदनम् ॥ उच्छिष्टान्न बिभेति याति यवनैरुच्चावचैः सङ्गतिं मातङ्गान्निकटं गतानगणयन् मार्गान् मुहुर्गाहते ॥ ८९ ॥ कलेवरे यत्ने स्वभावे परमात्मनि। चित्ते धृतौ च" इति च धरणिः । भूसुरेभ्यः ब्राह्मणेभ्यः नमः अस्तु ॥ ८८ ॥ ब्राह्मणस्तुतिमसहमान आह कृशानुः-किमिति।एतद्देशवासिनःगङ्गातीरानवासिनः केवलं भृशं कलिमाहात्म्यात् कलियुगप्रभावात् आकलितः खीकृतः शास्त्रीयायाः श्रुति-स्मृतिविहितायाः चर्यायाः आचारस्य विपर्ययो वैपरीत्यं यैस्तथाभूताः, अर्थात् विहितमकुर्वन्तः प्रतिषिद्धं कुर्वन्तश्च, तेऽपि ब्राह्मणाः भवता नमस्क्रियन्ते किम् ? आश्चर्यमिदमिति भावः । कुत एतदिति चेत् प्रत्यक्षमेव पश्येत्याह-पश्य तावदिति। अस्य काशीदेशजनस्य प्रायेण सुचर्याविपर्यासं खाचारवैपरीत्यं पश्य तावत् । इदानीमेव मया कथ्यमानमवधारयेत्यर्थः । प्रायेणेत्यनेन शास्त्रविहिताचरणस्य क्वाचित्कं सूचितम् ॥ २४ ॥ तदेवाह शस्त्रैरिति । काशीनिवासब्राह्मण इति शेषः । अत्र सर्वत्र जातावेकवचनम् । शस्त्रैः आयुधधारणैः, जीवति उपजीविकां करोति । ब्राह्मणस्यापत्कालं विना शस्त्रग्रहणनिषेधादेतदयुक्तमिति भावः । तथा परंखधर्मभूतत्वादुत्कृष्टं, शास्त्रं वेदाध्ययनादिकं उज्झति त्यजति । अपि च शूद्राहृतः शूद्रेणानीतैः अम्बुभिः उदकैः, स्नाति स्नानं करोति, आचामति आचमनं करोति, देवताः देवानपि नपयति अभिषिञ्चति, किंच खैरं यथा तथा ओदनमन्नमपि पचति । एतत्तु अतीवावद्यमिति भावः। तथा उच्छिटात् उच्छिष्टभक्षणात् न बिभेति । तदपि भक्षयतीत्यर्थः । उच्चावचैः अनेकविधैः य. वनैः नीचम्लेच्छादिजातीयैर्जनैः सह संगति सहवासं तैः सह स्पर्शनभाषणादिकं, याति प्राप्नोति, करोतीति यावत् । नैतावदेव, किंतु निकटं गतान् समीपं प्राप्तानपि "समीपे निकटासन्न-" इत्यमरः । मातङ्गान् चाण्डालान् "चाण्डाल-प्लव-मातङ्ग-दिवाकीर्ति-जनंगमाः" इत्यमरः । अगणयन् तेषां स्पर्शास्पर्शविचारमकुर्वन्, मुहुर्वारंवारं मार्गान् गाहते मार्गेषु इतस्ततो भ्रमतीत्यर्थः । एवं चैतत्सर्वं ब्राह्मणाचारविरुद्धमित्यर्थः॥८९॥ १ लात्वा'. २ निकटागताम्'. For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६० विश्वगुणादर्शचम्पू: किंच प्रातर्हन्त कृताप्लवोऽपि रजकस्पृष्टान् जडो रासभैरूढान् धारयते पटाननुदिनं धृत्वा बहिर्गच्छति ॥ गत्वा म्लेच्छमुखाशुचीन् स्पृशति च स्पृष्ट्रापि न स्वात्यहो स्नातोऽप्यथ भुत एष चपलो भुक्त्वापि न व्रीडति ॥ ९० ॥ [ काशी अपि च-नीचैर्दुर्यवनैः शुनीभिरपि वा निःशङ्कमालोकितं भुङ्क्ते पतिविदूषकैः सह नरैरज्ञातवेदाक्षरैः ॥ मद्याखादनमत्तचित्तजनतामोहाय भीहानित: कर्माण्यारभते श्रुति स्मृतिवचोदूराण्यसाराण्यैहो ॥ ९१ ॥ नन्वयं जनः प्रातः स्नानं करोति तेन सर्वदोषक्षपणं भवतीति चेत्तत्राह - प्रातरिति । किंच अयं जनः प्राप्तः प्रातःकाले कृतः आलवः गङ्गास्नानं येन तथाभूतोSपि "समे आप्लाव आप्लवः । स्नानं" इत्यमरः । रजस्पृष्टान् रजकेन कृतस्पर्शान् प्रक्षालितानिति यावत् । किंच रासभैर्गर्दभैः ऊढान् धृतान् गर्दभवाहितानित्यर्थः । पटान् वस्त्राणि अनुदिनं प्रतिदिनं, न त्वेकदिनमपि धारयते । नत्वेतावदेव । अपि तु धृत्वा बहिर्भ्रमणार्थमित्यर्थः। कार्यार्थे वा गच्छति । गत्वा च म्लेच्छमुखाशुचीन् म्लेच्छ-यवनप्रमुखान् अपवित्रजनान् स्पृशति । स्पृशतु नाम कार्यार्थ का वा हानिरिति चेत्तत्राह-स्पृष्ट्रापि न स्नाति स्नानमपि न कुरुते । अत एव जड: मूर्खः, चपल: चाञ्चल्ययुक्तश्च एषः नस्नातोsपि, अत्र नशब्दस्य "सह सुपा" इति समासः । नैकधेत्यादिवत् । अथ भु भोजनं करोति । भुक्त्वापि च न व्रीडति न लज्जते । अत्र रजकस्पृष्ट - रासभोढपटधारण - बहिर्गमनाद्यनेकलज्जाकारणसत्त्वेऽपि लज्जारूपकार्यस्यावर्णनाद्विशेषोक्तिरलंकारः । “विशेषोक्तिरखण्डेषु कारणेषु फलावचः" इति तलक्षणात् ॥ ९० ॥ नन्वेते राजाधिकारिणस्तस्माद्राजकार्यव्यापृतत्वान्न तेषां स्वकर्मकरणेऽवकाशः परं तु ये केचित्तदधिकाररहितास्ते तु स्वकर्म कुर्वन्त्येवेति चेत्तत्राह - अपि च नीचैरित्यादि । अत्रत्यजन इति शेषः । नीचैः हीनजातीयैः दुर्यवनैः दुष्टम्लेच्छैः, तथा शुनीभिः श्व स्त्रीभिरपि वा आलोकितमवलोकितं, अन्नादिकमिति शेषः । नैतावदेव, अपि तु अज्ञात वेदस्य अक्षरमपि किमुत मन्त्रादिकं यैस्तैः, अत एव मद्यपान - मांसाशनादिशास्त्रनिषिद्धकर्माचरणात् पङ्किविदूषकैः पङ्गिवायैर्नरैः सह नि:शङ्कं कस्यापि लोक-शास्त्रादेः शङ्कारहितं यथा स्यात्तथा भुङ्क्ते । भोज्यान्नं चाण्डालादिभिर्न द्रष्टव्यमिति हि धर्मशास्त्रम् । तदाह मनु:-- “ चाण्डालश्च वराहश्च कुक्कुट : श्वा तथैव च ॥ रजखला च षण्टश्च नेक्षेरन्नश्नतो द्विजान् " इति । दृष्टे किं भवति : १ 'वेदाक्षर : '. २ ' हानतः ' ३. असाराणि च . For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ७] पदार्थचन्द्रिकाटीकासहिता । अपि च-- कन्यां कामप्युदूह्य प्रविजहदुदयद्यौवनामज्ञ एनां द्रव्याशापाशकृष्टो भ्रमति चिरतरं हन्त देशान्तरेषु ॥ अन्योन्याश्लेषवाञ्छाविगलितवयसोरात्तमालिन्यमत्यो दम्पत्योाकृतैवं हतविधिरुभयोर्लोकयोः शोकयोगम् ॥ ९२ ॥ अपि च नाऽधीतेऽत्र जनो यदि कश्चिदधीते शते सहस्र वा ॥ तदाह-"घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः । श्वा तु दृष्टिनिपातेन स्पर्शनावरवर्णजः" इति । किं च नैतावदेव कृखा स उपरमति, किं तु मद्यस्य मदिरायाः आस्वादनेन पानेन मत्तं विवेकशून्यं चित्तं यस्यास्तश्राभूतायाः जनतायाः जनसमूहस्य मोहाय 'किमयं ब्राह्मणः कर्मठः, योग्योऽयं, अस्मै एव दानादिकं देयम्' इति मोहोत्पादनं कर्तु, अत्र “क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इति चतुर्थी । भीहानितः ऐहलौकिक-पारलौकिकभयं संत्यज्य, "ल्यब्लोपे कर्मण्यधि-" इति पञ्चमी । तस्याश्च तसिलू । श्रुति-स्मृतिवचोदूराणि वेदशास्त्राभ्यामविहितानि तत्र निषिद्धानीति वा । अत एव असाराणि तुच्छानि फलरहितानीति यावत् । कर्माणि आरभते करोति आचरतीत्यर्थः । अहो इत्याश्चर्ये ॥ ९१॥ अपि चेति । अन्यदपि निन्द्यं कर्म शृण्वित्याह कन्यामिति । अज्ञः शास्त्रविधिमजानन् अत एव कामपि या काचित् खमनसे रोचेत तामित्यर्थः । न तु कुलशीलसंपन्नाम् । कन्यां उदूह्य विवाह्य, अथ च उदयत् उत्पद्यमानं यौवनं तारुण्यं यस्यां तथाभूतां एनां कन्यां, अन्वादेशत्वात् “द्वितीयाटौस्वेनः" इत्येनादेशः । प्रविजहत् गृहे एव त्यजन् सन् , द्रव्याशापाशकृष्टः द्रव्यसंपादनेच्छापरवश: सन्नित्यर्थः । देशान्तरेषु, परदेशेषु चिरतरं अतिचिरकालपर्यन्तं भ्रमति अटति । हन्तेति खेदे । भ्रमतु नाम देशान्तरेषु, ततः पुनर्निवृत्तौ भवेदेवोभयोः संगम इति चेत्तत्राह-अन्योन्येति । अन्योन्यस्य परस्परस्य य आश्लेषः आलिङ्गनं तस्य वाञ्छयैव न तु उपभोगेन, विगलितं नष्टं वयस्तारुण्यं ययोस्तयोः । अत एव आत्तं प्राप्तं मालिन्य कामाद्युपभोगराहित्यं यस्याः तथाभूता मतिर्बुद्धिर्ययोस्तयोर्दम्पत्योः स्त्रीपुरुषयोः “दम्पती जम्पती जायापती भार्यापती च तौ" इत्यमरः । एवमुक्तप्रकारेण, हतविधिः दुष्टदैवं कर्तृ, “विधिविधाने दैवेऽपि" इत्यमरः । उभयोर्लोकयोः इहलोके संगमाभावात् परलोके च अकर्मकरणात् , शोकयोगं शोकसम्बन्ध व्याकृत अकरोत् । 'डुकृञ् करणे' इत्यस्मात् कर्तरि लुङ् "ह्रखादङ्गात्" इति सिचो लुक् । 'व्यादित' इति पाठे 'दम्पत्योः' इति षष्ठी प्रामादिकी ॥ १२॥ अपि च-नेति । अत्र अस्मिन् देशे कोऽपि जनः नाधीते वेदशास्त्राद्यध्ययनं १ व्यादितैवम्'. For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ विश्वगुणादर्शचम्पू:- [काशीदुस्तकेंषु श्राम्यति दूरीकुरुते श्रुति-स्मृतिसुतर्कान् ।। ९३ ॥ वि०-कष्टमरे ब्राह्मणनिन्दां शृण्वतः कम्पते मे हृदयम् । यस्त्वयोपन्यस्तः सच्चर्याविपर्ययः स एष कलेरेव दोषो न ब्राह्मणानाम् । कलौ युगे कार्तयुगं चारित्रं कुत्रे नाम संभाव्यते ? दुरितलतिकोपन्नात्मा दुर्जयः खलु कलिः ॥ २५ ॥ पश्य हर्म्यस्थानमधर्मकर्मविततेर्तुर्मानधूर्मासनम् __ शास्त्रस्तोमललाट लिपिलयः शान्तिः सवानामपि । सर्वाम्नायवचस्समापनदिनं संस्था सद_विधे राशाजनिभूरभूदिह महानवहोऽयं कलिः ॥ ९४ ॥ न करोति, यदि कश्चित् एकः कोऽपि शते सहस्रे वा, अधोते अध्ययनं करोति चेत् , तदा सः दुस्तर्केषु युक्तिश्रुतिविरुद्धतर्कोपहतेषु चार्वाक-गौतमादिप्रणीतशास्त्रेषु,श्राम्यति परिश्रमं करोति । अपि च श्रुतिस्मृतिसुतर्कान् उपनिषद्-व्याससूत्र-मनुस्मृत्यायुक्तजीवात्मपरमात्माभेदप्रतिपादकसत्तान्, दूरीकुरुते नाधीते । एवं च सर्वेऽपि वेदशास्त्रपराङ्मुखा एवेत्यर्थः ॥ ९३ ॥ एवं कृशानुप्रतिपादितं दूषणपरं भाषणं श्रुत्वा कष्टयुक्तः प्राह विश्वावसुःकष्टमिति । अरे भोः कृशानो ! कष्टम् । एतद्दुःखप्रद्योतकमव्ययम् । ब्राह्मणानां निन्दां शृण्वतः आकर्णयतः, मे मम हृदयं कम्पते । कुतः । त्वयोपन्यस्तः 'शस्त्रैर्जीवति शास्त्रमुज्झति' इत्यादिवाक्यैः प्रतिपादितः यः सच्चर्याविपर्ययः सच्छास्त्रवैपरीत्यं, स एष कले: कामाद्यासक्तस्य कलियुगस्यैव दोषः, न ब्राह्मणानाम् । कुतः । अस्मिन् कलौ युगे, कृतयुगे भवं कार्तयुगं 'तत्र भवः' इत्यर्थेऽण् । चारित्रं आचरणं कुत्र नाम केन कारणेन संभाव्यते? नैव संभाव्येतेत्यर्थः । यतः दरितं पापं तद्रूपा या लतिका तस्या उपन्न आश्रयभूतः आत्मा यस्य तथाभूतः । “स्यादुपनोन्तिकाश्रयः" इत्यमरः । कलिर्दुर्जयः खलु । निश्चयेन जेतुमशक्यः ॥ २५॥ __ दुर्जयत्वमेवोपपादयति-हम्येति । अयं कलिः एतत् कलियुगं, महतः अनर्थान् वक्ष्यमाणरूपान् आवहति संपादयतीति तथाभूतः अभूत् प्रादुर्बभूव । के ते अनर्था इत्याकालायामाह-धर्मः पुण्यं तद्विरुद्धः अधर्मः पापं"धर्माः पुण्य-यम-न्याय-खभावाचार सोमपाः" इत्यमरः । तजनकानि यानि कर्माणि परधनहरण-परस्त्रीगमन-मद्यपानादीनि तेषां विततेः परंपरायाः हर्म्यस्थानं निवासगृहं तथा दुर्मानधर्मासनं दुर्मानस्य दुरभिमानस्य गर्वस्येति यावत् । धर्मासनं धर्मपीठं, अथवा दुर्मानस्य ये धर्माः परपैशून्यपराधिक्षेपादयस्तेषामासनमिति वा । शास्त्रस्तोमस्य शास्त्रसमूहस्य ललाटभूलिपेः १ सुचर्याविपर्यासः'. २ 'कुतो नाम'. ३ 'उपनायितात्मा'. ४ 'भर्मासन'. ५'दुलिपिचयः'. For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ७] पदार्थचन्द्रिकाटीकासहिता । एतादृशे कलियुगेऽपि शतेषु कश्चि जातादरो जगति यः श्रुतिमार्ग एव ।। यत्किंचिदाचरति पात्रमसौ स्तुतीनां __ श्लाघ्यं मितापमपि किं न मरौ सरश्चेत् ॥ ९५॥ किंचये कायस्थजनाश्च ये नृपसुता ये च द्विजाश्शस्त्रिण स्ते यत्नादनुसृत्य निर्दयतया शुष्कांस्तुरुप्काधिपान् ॥ देवान् भूमिसुरांश्च पान्ति कृतिनस्ते चेद्गृहेप्वासते ब्राह्मण्याय जलाञ्जलिः किल भुवि प्राज्ञैः प्रदेयो भवेत् ॥९६॥ कपालस्थानस्थितायुरक्षराणां लयः नाशः । एतत्प्रादुर्भावाच्छास्त्राणि विलयं यान्तीत्यर्थः । तथा सवानां यज्ञानामपि “यज्ञः सवोऽध्वरो यागः” इत्यमरः । शान्तिः शमनम् , सर्वाणि यान्यानायवचांसि वेदवचनानि तेषां समापनदिनं समाप्तिदिवसः। सद विधेः सत्पूजादिकर्मानुष्ठानस्य संस्था मर्यादा। अस्य पापप्रचुरत्वान्न तावत्सत्कमणोऽवकाश इति भावः । “संस्था तु मर्यादा धारणा स्थितिः" इत्यमरः। दम्भादिप्रदर्शनार्थे तावत्प्रचुरं असदर्चनादिकं कलौ प्रवर्तते इत्येतत्सूचनार्थ सच्छब्दप्रयोगः। तथा अर्थाशायाः द्रव्यवाञ्छायाः, जनिभूः जन्मभूमिः । एतादृशः अयं कलिरिति संबन्धः ॥ ९४ ॥ __ एतादृश इति । एतादृशे पूर्वोक्तानेकानर्थकारके कलियुगेऽपि, शतेषु असंख्यातेषु जनेषु मध्ये, यः कश्चित् एकः कोऽपि, श्रुतिमार्गे वेदमार्गे वेदविहितकर्मानुष्ठाने इत्यर्थः। जातः उत्पन्नः आदरः श्रद्धा यस्य सः तथाभूतः एव, यत्किचित् यावत् कर्तुं शक्येत तावत् कर्म आचरति करोति चेत्, तर्हि असौ कर्मकर्ता स्तुतीनां प्रशंसानां पात्रम् । प्रशंसितुं योग्य एवेत्यर्थः । तत्र दृष्टान्तः। मरौ म्रियन्ते पिपासया जन्तवो यस्मिन्देशे तस्मिन् निर्जलप्रदेशे इत्यर्थः । ('मारवाड' इति प्रसिद्ध इति यावत्) मिता अल्पाः आपः उदकानि यस्मिंस्तथाभूतमपि सरः सरोवरं चेत्, स्यात् इति शेषः । तर्हि तत् न श्लाघ्यं किं न प्रशंसायोग्यं किं? अपि तु प्रशंसनीयमेवेत्यर्थः॥९५ 'शस्त्रैर्जीवति-' इत्यादिनोक्तं दूषणमपाकरोति-ये कायस्थेति। ये कायस्थजनाः ग्रामायव्ययलेखकाः, ये च नृपसुताः राजपुत्रज्ञातीयाः, ये च द्विजाः ब्राह्मणाः सन्तः शत्रिणः शस्त्रधारिणः, ते त्रिप्रकारा अपि यत्नात् , दुःसहक्लेशसहनमङ्गीकृत्येत्यर्थः । ल्यब्लोपे पञ्चमी । निर्दयतया दयाराहित्येन शुष्कान् दयारसरहितान् ,केवलं खार्थसाधनतत्परानित्यर्थः।तुरुष्काधिपान तुरुष्क-(महाराष्ट्रभाषया 'तुर्क')देशीययवनभूपतीन् अनुसृत्य सेवाधर्मेणानुगम्य,देवान् , विश्वेश्वरानपूर्णादिदेवतायतनानि भूमिसुरान् ब्राह्मणांश्च पान्ति रक्षन्ति।अयमाशयः-यवनास्तु खभावतः क्रूरा निर्दयाश्च परधर्मद्वेषिणश्चा १ 'क्षितावपि च'. २ 'शास्त्रिणः'. ३ 'मुधोदासते'. For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [काशीसर्वतो दृष्टिं प्रसार्य सश्लाघम्आक्रान्तासु वसुंधरासु यवनैरासेतुहैमाचलम् विद्राणे क्षितिभृद्गणे विकरुणे निद्राति नारायणे ॥ निर्विघ्नप्रसरे कलावपि बलान्निष्कण्टकं वैदिकम् पन्थानं किल तत्र तत्र परिपात्येको हि लोकोत्तरः ॥ ९७ ॥ पुनः सश्लाघम् अत एव ते ब्राह्मणान् , तद्धर्मान् , तद्देवताश्च अंशयन्ति नाशयन्ति च । तस्मादेत कायस्थादय एव तत्सेवाखीकरणेन जनपदरक्षणाद्यधिकारं लब्ध्वा देवभूसुरादीन् पान्तीति । अत एव ते कृतिनः धन्याः। ते च शस्त्रधारणादिसेवां विनैव गृहेषु आसते तिष्ठन्ति चेत्, यद्वा गृहेषु उदासीना भवेयुश्चेत्, तदा भुवि भूमौ प्राज्ञैः पण्डितैः, ब्राह्मण्याय ब्राह्मणानां कर्म सन्ध्याद्यनुष्ठानरूपं यजनादिषधिं वा, तस्मै जलाञ्जलि: त्यागरूपोदकाञ्जलिः प्रदेयः दातव्यो भवेत् । अस्यायं भाव:-"विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः" इत्यमरात् शास्त्रतश्च यजन-याजन-अध्ययन-अध्यापनदान-प्रतिग्रहरूपैः षट्कर्मभिरुपेतो ब्राह्मणः। तत्र याजनाध्यापन-प्रतिग्रहरूपाणि त्रीणि आजीविकाभूतानि । इतराणि त्रीणि च परमार्थसाधकानि । तत्र च तुरुष्काधिपये याजनादीनामशक्यत्वात् ब्राह्मणानां जीविकाभावः । ततश्च द्रव्याभावादेवान्यानि त्रीणि कर्माणि शिथिलीभवेयुरिति ॥ ९६ ॥ सर्वेति । सर्वतः सर्वत्र काशीप्रदेशे इत्यर्थः । दृष्टिं प्रसार्य मार्मिकतया निरीक्ष्य, श्लाघया प्रशंसया सहितं यथा तथा, उवाचेति शेषः । आक्रान्ताविति । आसेतु हैमाचलं सेतुं सेतुबन्धरामेश्वरं हिमाचलं चाभिव्याप्य "आङ् मर्यादाभिविध्योः” इत्यभिविधावव्ययीभावः । वसुंधरासु पृथ्वीस्थषट्पञ्चाशद्देशेषु । वसुंधराशब्देन तत्स्था देशा गृह्यन्ते लक्षणया। यवनैः आक्रान्तासु व्याप्तासु सतीषु, तथा क्षितिभृतां राज्ञां गणः समुदायस्तस्मिन् , यवनभयादिति शेषः। विद्राणे पलायमाने सति, विकरुणे करुणारहिते अत एव नारायणे भगवति विष्णौ, निद्राति भूस्थजनानां स्थितिमनवलोक्य निद्रितप्राये सति, तथा कलौ कलियुगेऽपि निर्विनप्रसरे निर्विघ्नः विघ्नरहितः प्रतिबन्धरहित इति यावत् । प्रसरः संचारः यस्य तथाभूते सति च, लोकोत्तरः इतरलोकविलक्षण: सामान्यजनापेक्षयाऽधिककर्तृत्वशक्तिसंपन्न इति भावः । एकः हि एक एव कश्चित् पुरुषः, अत्र हिरवधारणे "हि हेताववधारणे" इत्यमरात् । तत्र तत्र तस्मिंस्तस्मिन् देशे, वैदिकं वेदोक्तं पन्थानं मार्ग अर्थात् कर्मरूपं, बलात् स्वकीयश्रद्धारूपसामर्थ्यात् , निष्कण्टकं प्रतिबन्धरहितं यथा स्यात् तथा, पाति रक्षति । तस्मादयं धन्य इति भावः ॥ ९ ॥ पुनरिति । पुनश्च पुनरपि सश्लाघं यथा तथा आह For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् ७ ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिका टीकासहिता । त्यजतु विहितमेतद्देशवासी निषिद्धम् भजतु तदपि लोके नास्ति धन्यस्तदन्यः ॥ त्रियुगपदनख श्रीदत्तशुद्धिर्यदङ्गे लगति दुरितभङ्गे लग्नको गाङ्गपूरः ॥ ९८ ॥ प्रौढेषु गौडेषु च कान्यकुब्जेष्वङ्गेषु वङ्गेषु च मैथिलेषु ॥ अन्येषु सत्वेवं बुधेषु धन्येष्वद्यापि जीवन्त्यधिभूमि विद्याः ॥ ९९ ॥ इदं तावदवधेहि ॥ २६॥― ६५ त्यजत्विति । किंच एतद्देशवासी काशीक्षेत्रनिवासी जनः, विहितं श्रुति स्मृतिविहितं कर्म त्यजतु, तथा निषिद्धं श्रुतिस्मृतिषु अनिष्टसाधनत्वेन बोधितं भजतु करोतु आचरत्विति यावत् । तदपि निषिद्धाचरणेऽपि लोके तदन्यः एतद्देशवासिन इतरः, धन्यः पुण्यवान् नास्ति । कुतः । यस्मात् त्रीणि युगानि युग्मानि उत्पत्त्या - दिषट्कं यस्य सः तस्य त्रियुगस्य, उत्पत्त्यादिषटुं च - " उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति" इति । श्रीविष्णोः पदसंबन्धिनखानां श्रिया कान्त्या दत्ता समर्पिता शुद्धिः पावित्र्यं यस्य सः, अत एव दुरितानां पापानां भने विनाशे लग्नकः प्रतिभूरूप: ( 'जामीन' इति महाराष्ट्रभाषाप्रसिद्धः ) “स्युर्लग्नकाः प्रतिभुवः" इत्यमरः । गाङ्गपूरः गङ्गाप्रवाहः, यदङ्गे यस्य काशीनिवासिजनस्य शरीरे, लगति संसक्तो भवति । ' लगे सङ्गे' इत्यस्य रूपम् । तेन चात्रत्यजनः पातक्यपि शुद्धोभवतीति भावः ॥ ९८ ॥ प्रौढेष्विति । अपि च प्रौढेषु प्रगल्भेषु प्रतिभायुक्तेष्विति यावत् । प्रतिभा च "प्रज्ञा नवनवोत्मेषशालिनी प्रतिभोच्यते" इत्युक्ता ज्ञेया । गौडेषु गौडदेशस्थजनेषु कान्यकुब्जेषु तद्देशनिवासिजनेषु, तथा अङ्गेषु अङ्गवासिषु, वङ्गेषु वङ्गदेशवासिषु, मैथिलेषु मिथिलादेश निवासिषु च तथा अन्येषु उक्तान्यदेशेषु पाञ्चालादिषु सत्खपि, काशीनिवासिषु इति शेषः पूर्वापरसंबन्धात् ज्ञेयः । धन्येषु विश्वेश्वरदर्शन - गङ्गास्नानादिना पुण्यवत्सु, बुधेषु पण्डितेष्वेव अधिभूमि भूमौ सप्तम्यर्थस्य द्योतकोऽधिः । तस्य विभक्त्यर्थेऽव्ययीभावः । अद्यापि कलौ युगेपि, विद्याः वेदशास्त्रादयः जीवन्ति विद्यन्ते । अयं भावः - गौड - वङ्ग-मैथिलादिदेशेषु विद्यासंपन्नेषु सत्स्वपि तदपेक्षया काश्यामेव विद्याधिक्यं ज्ञेयम् । तस्माच 'शस्त्रैर्जीवति शास्त्रमुज्झति' इत्यादि पूर्वोक्तं दूषणं नैवात्र संगच्छत इति ॥ ९९ ॥ इदमिति । अपि च इदं मया वक्ष्यमाणं तावत् साकल्येन " यावत्तावच्च साकल्ये" इत्यमरः । अवधेहि सम्यगाकर्णय ॥ २६॥ १ 'ध्वगाधमेधेषु च ' २ 'सत्स्वेषु'. For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचन्पू:- [काशीएतद्देश्यप्रचुरचरितान्यन्यदेशस्थितानाम् रोचन्ते चेन्न न मनसे मा रुचन्काऽत्र हानिः ।। प्राज्ञाः पुत्रा जनयितृहृदे पश्य यद्वत्वदन्ते तद्वद्विद्वन्न परमनसे तावता कोऽत्र दोषः ॥ १० ॥ किंचप्रातश्शीतजले निमज्य विबुधानभ्यर्चयत्युच्चकै रार्यः पर्युषितं तु नाभ्यवहरत्यन्धः क्षुधान्धोऽप्यसौ ॥ भागे गोमयलिप्त एव पचते भुङ्क्ते ततोऽन्यत्र य नीतं तद्विजहाति भुक्तिनियमो दृष्टः क्व भूयानियान् ? ॥१०१॥ किं तदित्यपेक्षायामाह-एतदिति । एतस्मिन् देशे भवा एतद्देश्यास्तेषां, भवार्थे यत् प्रत्ययः । प्रचुराणि बहूनि "प्रभूतं प्रचुर प्राज्यमददँ बहुलं बहु" इत्यमरः । न तु एक-द्वित्राणि । चरितान्याचरणानि, अन्यदेशे तिष्ठन्ति निवसन्तीत्यन्यदेशस्थितास्तेषां मनसे रोचन्ते प्रीणयन्ति चेत् , ननु किंवा न रोचन्ते, तर्हि मा रुचन् न रोचन्ताम् "माङि लुङ्" इति लुङ् “न माड्योगे" इत्यडागमनिषेधश्च । अत्र उभयपक्षेऽपि का हानिः ? न कापीत्यर्थः । तत्रोदाहरणम्-प्राज्ञाः विद्वांसः पुत्राः जनयित्रोः मातापित्रोः “माता-पितरौ पितरौ मातर-पितरौ प्रसू-जनयितारौ” इत्यमरः। हृदे मनसे यद्वत् यथा स्वदन्ते रोचन्ते, "रुच्यर्थानां" इति चतुर्थी । तद्वत् तथा परमनसे अन्यमनसे न रोचन्ते, हे विद्वन् सुज्ञ कृशानो, अत्र तावता परमनसेऽरोचनेन को दोषः ? पुत्राणामिति शेषः । पश्य विचारय। प्रतिवस्तूपमालंकारः । “प्रतिवस्तूपमा तु सा । सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः” इति तल्लक्षणात् ॥१०॥ 'नीचैर्दुर्यवनैः-' इत्यादिनोक्तं दूषणमपाकरोति-प्रातरिति । किंच असावेतद्देशीय आर्यः श्रेष्ठः। प्रातः प्रातःकाले, शीतजले निमज्ज्य स्नात्वा, विबुधान् विश्वेश्वरबिन्दुमाधवढुण्ढिविनायकादिदेवान् उच्चकैः सम्यक् अर्चयति पूजयति । अनन्तरं क्षुधा क्षुधया अन्धः पीडितोऽपि, पर्युषितं निशावशिष्टं अन्धः अन्नं "भक्तमन्धोऽनं" इत्यमरः । तु नाभ्यवहरति नैव भुले, किंतु तत्कालं परत्वैव भुङ्क्ते इत्यर्थः । तच्च स्वतः गोमयलिप्ते गोमयेनालेपिते भागे प्रदेशे पचते, भुङ्क्ते भुनक्ति च । किंच ततः पाकस्थानात् अन्यत्र यत् खतोऽन्येन केनापि वा नीतं चेत्, तद्विजहाति त्यजति च । ततः भुक्तेः भोजनस्य नियमः इयान् एतत्परिमाणः इदम्शब्दात् वतुपि वस्य घादेशे तस्य चेयादेशे इदम इशादेशे “यस्येति च" इतीकारलोपे च सिद्धमिदम् । भूयान् महान् क दृष्टः ? न कुत्रापीत्यर्थः एवं । च यवनादिभिरवलोकितेऽपि एतनियमदाढर्यान्न तावदूषणावहमिति भावः । इतस्तावन्मध्यदेशवर्णनम् ॥ १.१॥ १ रोचन्ते चेदथ'. २ 'क्षुदन्धः'. For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ८] पदार्थचन्द्रिकाटीकासहिता । अथ समुद्रवर्णनम् ८. इति विमानं दूरतः प्रस्थाप्य साञ्जलिबन्धनम्भुवनकदनक्रुष्यद्वृद्धश्रवःकुलिशायुध प्रचकितगिरिप्राणत्राणप्रतिष्ठितकीर्तये ।। प्रसृमरमरुन्नाट्याचार्यप्रणर्तितवीचये महितजनतामान्यायास्सै महोदधये नमः ॥ १०२॥ कृ०-सहासम्पामरैरप्यपेयानां नीरोणां परिपातरि ।। आश्रये जलजन्तूंनामानिनंसा कथं तव ? ॥ १०३ ॥ अथ समुद्रवर्णनार्थ प्रस्तौति-इतीति । इत्येवमुक्त्वा विमानं दूरतः प्रस्थाप्य नीत्वा, साञ्जलिबन्धं यथा तथा । प्राहेति शेषः। भुवनेति । भुवनानां लोकानां कदनेन उत्पतनवशान्नाशनेन क्रुध्यन् क्रोधं कुर्वन यो वृद्धश्रवा इन्द्रः “इन्द्रो मरुत्वान् मघवा बिडोजाः पाकशासनः । वृद्धश्रवाः-" इत्यमरः । तस्य कुलिशायुधेन वज्राख्यप्रहरणात् “वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः” “आयुधं तु प्रहरणं" इत्युभयत्राप्यमरः। प्रकर्षेण अतिशयेन चकितस्य भीतस्य गिरेः मैनाकस्य प्राणत्राणेन प्राणसंरक्षणेन प्रतिष्ठिता स्थिरीकृता कीर्तिर्यशो यस्य तस्मै । पूर्व हि सपक्षाः पर्वता इतस्तत उत्पत्य लोकानत्रासयन् । तत इन्द्रेण तेषां पक्षाश्छिन्नाः। परं च मैनाकाख्यो हिमवतो नगाधिराजस्य सूनुः समुद्रे निमज्ज्य स्थित इत्यादिपौराणिकी कथात्रानुसंधेया। प्रसृमरः प्रसरणशील: “मृ-घस्यदः-" इति क्मरच् प्रत्ययः । स चासौ मरुद्वायुश्च स एव नाट्याचार्यः सूत्रधारस्तेन प्रणर्तिता ताण्डविता वीचयो लहर्यो यस्य तस्मै, तथा महितजनतायाः मान्यजनसमूहस्य "ग्राम-जन-बन्धुभ्यः" इति समूहार्थे तल् । मान्याय अस्मै पुरोदृश्यमानाय महोदधये महासमुद्राय नमः॥ १०२॥ कृशानुः। हासेन परिहासेन सहितं यथा तथा प्राह पामरैरिति । पामरैनींचैरपि अरिति वा, किमुत श्रेष्ठैः । अपेयानां पातुमयोग्यानां क्षारत्वात् पक्षे निषिद्धत्वाचेति भावः । नीराणां उदकानां 'इराणां' इति पाटेइराणां सुराणां जलानां चेति श्लेषादर्थद्वयम् । “इरा भू-वाक्-सुराप्सु स्यात्" इति नानार्थः । परिपातरि परितः आसमन्तात् पातरि रक्षके, पक्षे पानकर्तरि च । जलजन्तूनां मत्स्यादीनां, डलयोरेकत्वस्मरणात् जडजन्तूनां मूर्खाणां आश्रये आश्रयभूते, आनिनंसा नमस्कर्तुमिच्छा ‘णम प्रहृत्वे' इत्यस्मात् सन्नन्तात् प्रत्ययान्तत्वादप्रत्ययः । तव कथम् ? जातेति शेषः ॥ १०३ ॥ १ 'कदनोत्क्रुध्यद्'. २ 'मिराणां'. ३ 'जडजन्तूनां', For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [समुद्रमम त्वेधमानपरुषघोषे खल्वेतस्मिन् रोष एवोन्मिषति ॥२७॥ सन्ततं क्रन्दते सर्वो दीप्यमानोदरामये ।। महापाय-समुद्राय दरिद्रायैव कुप्यति ॥ १०४ ॥ समृद्धोऽप्ययमतिलुब्धतया बुद्धिमद्भिरनादृत्यः ॥ २८ ॥ पश्यरत्नाकरोऽपि च रमाभ्युदयालयोऽपि वर्णस्थैलीरधिगतोऽपि बहूँर्मिकोऽपि ॥ ममेति । किंच मम तु एधमानः वर्द्धमानः परुषः कठोरः घोषो गर्जना यस्य तस्मिन्नेतस्मिन् समुद्रविषये, खलु निश्चयेन रोष एव क्रोध एव "कोप-क्रोधामर्ष-रोष-" इत्यमरः । उन्मिषति प्रकटीभवति ॥ २७ ॥ रोषोन्मेषकारणं श्लेषेण समर्थयति-संततमिति । सर्वोपि जातावेकवचनम् । सर्व जना इत्यर्थः । महत् च तत् पायसं क्षीरानं च तस्मिन् मुदं राति गृह्णातीति तस्मै, प्रकृतपक्षे महत्यः आपः जलानि यस्मिन् तस्मै महापाय इति विशेषणम् । समुद्राय, दीप्यमानः प्रदीप्तः उदरामिर्जठराग्निर्यस्य तस्मै, पक्षे दीप्यमानः उदरे मध्ये अग्निर्वाडवानलः यस्य तस्मै अत एव संततं निरन्तरं क्रन्दते अहं क्षुधितः मह्यं देहि देहि इति रुदते, पक्षे गर्जते ( चतुर्थ्यन्तमेतत् ) दरिद्रायैव पक्षे दुर्गतये कुप्यति । न तु कश्चिदपि पुरुषः धनादिसंपन्नाय कुप्यति धनादिलोभात् , दरिद्रात्तु किमपि नैव लभ्यते तस्मात्तादृशायैवेति भावात्सुभाषितरूपोऽयं श्लोकः । श्लेषमूलकश्वार्थान्तरन्यासोऽलंकारः ॥ १०४ ॥ समृद्धोऽपीति । किंचायं समुद्रः समृद्धः रत्नादिसंपत्तियुक्तोऽपि, पुनरपि लुब्धतया लोभयुक्ततया हेतुना बुद्धिमद्भिः प्रशस्तबुद्धियुक्तैः अनादृत्यः आदरानहः ॥ २८॥ पश्येति । आदरानहत्वमेवोपपादयामीति भावः । रत्नाकर इति । अयं समुद्रः रत्नानां मौक्तिकविद्रुमादीनां कौस्तुभादिचतुर्दशरत्नानां च आकरः उत्पत्तिस्थानमपि "आकरो निवहोत्पत्तिस्थान श्रेष्ठेषु कथ्यते" इति विश्वप्रकाशः।रमायाः लक्ष्म्याः अभ्युदयस्य समृद्धेः उद्भवस्य च आलयः गृहमपि, खर्णस्थली: सुवर्णयुक्तस्थलानि सुष्ठ अर्ण: जलं “अम्भोर्णस्तोय-पानीय." इत्यमरः । तयुक्ताः स्थलीरिति च, अधिगतः प्राप्तोऽपि, बह्वयः ऊर्मिकाः अङ्गुलीयकानि तरङ्गाश्च यस्य सः “अङ्गुलीयकमूर्मिका" इति "भङ्गस्तरङ्ग ऊर्मिवा" इति चामरः । तरणीनां नावां प्रचारात् "स्त्रियां नौस्तरणिस्तरिः" इत्यमरः । तादृशः उक्तप्रकारः घनोपचयकृत् बहुसंचयकारकः अर्थाद्रव्यस्य । घनानां मेघानां उपचयकृत् वृद्धिकर्ता च, असौ १ दोष एव'. २ ‘समुद्रोऽपि'. ३ स्थिती'. ४ 'महोर्मिकोऽपि'. For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णनम् ८] पदार्थचन्द्रिकाटीकासहिता । ६९ तादृग्धनोपचयकृत्तरणिप्रचारा___ नोपैत्यहो वितरणित्वमसौ कदापि ॥ १०५ ॥ सृष्टिरेवास्य विफलेति मे दृष्टिः ॥ २९॥ तथा हिनास्त्येषामुपयुक्तता तटतरोः सस्योपयोगः कुतः ? न स्नानाय च योग्यताऽस्य पयसां का नाम पानार्हता ? ॥ उद्गजन्तैमियन्तमन्तरुषितैर्दुर्जन्तुभिर्भीषणम् स्रष्टुः सृष्टवतो जलाशयममुं कोऽवाशयः कथ्यताम् ? ॥ १०६ ।। यस्य खर्णश्रिय उरुतरा नित्यमायान्त्ययत्नात् तेन स्वायत्यनुगुणतया न क्रियेत व्ययश्चेत् ॥ वहिनासो भवति विधितो मन्थनं बन्धनं वा ___ लक्ष्मी प्रेप्सोर्जगदधिपतेरत्र साक्षी सरखान् ॥ १०७ ॥ समुद्रः, वितरणित्वं नौकारहितत्वं दातृत्वं च कदापि नोपैति न प्राप्नोति । नौभिः संचारं कृत्वा बहुधनसंचयकर्तुः पुरुषस्य दातृत्वरहितत्वमनुचितमिति श्लिष्टभावार्थः ॥ १०५ ॥ सृष्टिरिति । अस्य समुद्रस्य सृष्टिः सर्गोऽपि, विफला निष्फला व्यर्थेति यावत् । इति मे मम दृष्टिः अभिप्राय इत्यर्थः ॥ २९॥ यथेति । तदेवोपपादयति नास्तीति । अस्य समुद्रस्य एषां पयसामुदकानां " पयः कीलालममृतं जीवनं भुवनं वनम् । कबन्धमुदकं पाथः " इत्यमरः । तटतरोः तीरस्थवृक्षस्य उपयुक्तता उपयोगित्वं नास्ति, तर्हि सस्यानां फलानां धान्यानां वा उपयोगः कुतः स्यात् । एषां पयसामित्यनुषञ्जनीयम् । स्नानाय च स्नानं कर्तुमपि योग्यता न, तर्हि पानस्य प्राशनस्य अर्हता योग्यता का नाम ? अर्थान्नास्येव । तस्मात् उद्गर्जन्तं उच्चैः शब्दायमानं, इयन्तं एतादृशप्रमाणं महान्तमित्यर्थः । किंच अन्तः मध्ये उषितैः स्थितैः दुर्जन्तुभिः मकरादिदुष्टप्राणिभिः भीषणं भयंकरं च, एतादृशममुं जलाशयं समुद्रं, सृष्टवतः उत्पादयतः स्रष्टुब्रह्मणः को वा आशयः अभिप्रायः ? कथ्यताम् । मन्मते तु कोपि नास्तीत्यर्थः ॥ १०६॥ इदानीं श्लेषमूलकदृष्टान्तेन समुद्रस्यानुपयुक्ततामाह-यस्येति । यस्य पुरुषस्य उरुतराः अतिबहवः, स्वर्णस्य कनकस्य सुन्दरस्य अर्णसः जलस्य च, श्रियः समृद्धयः नित्यं प्रतिदिनं अयत्नात् प्रयत्नं विनैव आयान्ति, प्राप्नुवन्ति तेन तादृशपुरुषेण खस्य आयतेः प्राप्तेः अनुगुणतया अनुरूपत्वेन व्ययः दानादिरूपत्यागः, न क्रियेत १ 'तटतरौ'. २ 'उद्भर्जन्तमनन्त'. ३ 'विदितो'. For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [समुद्र बहुना-- कुम्भजपीतोत्सृष्टं शिष्टैरस्पृश्यमर्णवमुपेत्य ॥ उद्गततृष्णोऽप्यस्मादुदकं पान्थो जनो न गृह्णाति ॥ १०८ ॥ वि०--सखे सर्वगुणाकरः सरित्पतिरेष न दृषणीयः ॥ ३० ॥ तथाहि उच्चैःश्रवःप्रदातुर्वृद्धश्रवसे पुनस्तदनुजाय ॥ वामविलोचनदातुर्वदान्यमस्माद्वदाऽन्यमर्णवतः ॥ १०९॥ चंत् , तर्हि कालान्तरेणेति शेषः विधितः दैववशात् , वढेरग्नेः ग्रासः दहनं वडवाग्निकृतं भक्षणं च भवति । अथवा लक्ष्मी धनसंपत्तिं रमां सीतारूपां च प्रेप्सोः प्राप्तमिच्छोः,जगतःअधिपती राजा तस्मात् त्रैलोक्याधिपतिर्विष्णुस्तस्मात् श्रीरामचन्द्राच, मन्थनं केनापि निमित्तेन ताडनादिरूपं मन्थनं विलोडनं च, तथा बन्धनं निगडादिना शिलापर्वतादिभिश्च सेतुरूपेण भवति । अत्र अस्मिन् विषये, साक्षी साक्षाद्रष्टा " साक्षादृष्टरि-" इति संज्ञायामिनिः । प्रत्यक्षतयानुभवितेत्यर्थः । सरखान् समुद्रः । अस्मिन् हि वडवाग्निभक्षणं, विष्ण्वादिदेवैर्मन्थनं, रामकृतं सेतुबन्धनं च संभूतमिति भावः । तस्माद्रव्यवता पुरुषेण एतन्मनसि निधाय पूर्वमेव दानभोगादिना द्रव्यस्य व्ययः कार्य इति भावः । एतदनुगुणमेव भर्तृहरिरप्याह-" दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुक्ते तस्य तृतीया गतिर्भवति ” इति । सुभाषितरूपं चैतत् पद्यम् ॥ १०७॥ किमिति । बहुना उक्तेन किं फलमित्यर्थः । संक्षेपेणैव कथयामीत्याह-कुम्भजपीतेति । कुम्भात् जात उत्पन्नः कुम्भजोऽगस्त्यः तेन प्रथमं पीतं प्राशितं पश्चात् उत्सृष्टं सकम् मूत्रद्वारेणेति भावः । अत एव शिष्टैः सज्जनैः अस्पृश्यं स्प्रष्टुमयोग्यमर्णवं समुद्रं उपेत्य प्राप्य, उद्गता अतिशयेन प्राप्ता तृष्णा तृषा यस्य तथाभूतोऽपि पान्थः पथिकः जनः लोकः, अस्मात् समुद्रात् उदकं न गृह्णाति । क्षारवत्त्वादिति भावः ॥ १०८॥ . विश्वावसुराह सखे इति । हे सखे मित्र, सर्वगुणानामाकरः खनिरूपः " खनि स्त्रियामाकरः स्यात् " इत्यमरः । सरितां नदीनां पतिश्च एषः समुद्रः न दूषणीयः ॥ ३० ॥ तथेति । दूषणानहत्वमेवोपपादयति 'यस्य स्वर्णश्रियः-' इत्यादिनोक्तं दूषणं परिहरति-उच्चैरिति । वृद्धे जरसा बधिरे श्रवसी कौँ " कर्णशब्दग्रही श्रोत्रं श्रुतिः स्त्री श्रवण श्रवः" इत्यमरः । यस्य तस्मै कस्मैचित्पुरुषाय, वस्तुतस्तु इन्द्राय उच्चैः महतोः श्रवसोः कर्णयोः, वस्तुतः उच्चैःश्रवसोनाम्नः अश्वस्य " हय उच्चैःश्रवाः सूतः" इत्यमरः । प्रदातुः । नैतावदेव १ 'च्छिष्टम्'. For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् ८] पदार्थचन्द्रिकाटीकासहिता । अमृतं विबुधेभ्योऽदादभीष्टफलं तरुं च धेनुं च ॥ दिग्वसनाय सितांशुकमीक्षित एतादृशः क्व वा दाता ? ॥ अमुप्य खलु भाग्यवत्तां शेषादयोऽपि वक्तुमशक्ताः ॥ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्य जोरपत्यं जगतः पवित्रम् कलत्रमब्धेस्तनयः कलात्मा ॥ कन्या तु धन्या कमला बिभर्ति जामातृभावं जगदीश एव ॥ १११ ॥ '७१ ११० ॥ ३१ ॥ किंतु पुनः तस्य बधिरस्य इन्द्रस्य च अनुजाय कनिष्ठबन्धवे (वामनेत्र र हिताय, ) विष्णवे च " उपेन्द्र इन्द्रावरजः" इत्यमरात् विष्णोरिन्द्रानुजत्वं प्रसिद्धम् । वामस्य सव्यस्य विलोचनस्य नेत्रस्य चन्द्रात्मकस्य च दातुः । श्रीविष्णोर्हि दक्षिणनेत्रं सूर्यो वामनेत्रं च चन्द्र इति प्रसिद्धम् । अस्मात् अर्णवतः समुद्रात् पञ्चम्यर्थे तसिः । वदान्यं उदारं अन्य वद कथय ? सर्वापेक्षया विकलाङ्गप्रदानमतिदुष्करमिति भावः ॥ १०९ ॥ अमृतमिति । किंच अयं समुद्रः अमृतं पीयूषं मोक्षं च विबुधेभ्यः देवेभ्यः ज्ञानिभ्यश्च, अदात् ददौ । ' डुदाञ् दाने ' इत्यस्मात् लुङि गाति स्था" इति सिचो लुक् । अभीष्टफलदं इच्छितफलदातारं, एतदुभयत्रापि संबध्यते । तरुं कल्पवृक्षं धेनुं कामधेनुं च अदात् दिश एव वसनं वस्त्रं यस्य तस्मै कस्मैचिद्दरिद्राय वरहिताय, श्रीशंकराय च, सितं शुभ्रं अंशुकं वस्त्रं, सिताः श्वेताः अंशवः किरणा यस्य स सितांशुः स एव सितांशुकश्चन्द्रः खार्थे कः । तं च अदात् । तस्मात् एतादृशसमुद्रसदृशः दाता क वा ईक्षितः अवलोकितः न कुत्रापीत्यर्थः ॥ ११० ॥ For Private And Personal Use Only अमुष्येति । अमुष्य समुद्रस्य भाग्यवत्तां ऐश्वर्यवत्त्वं, शेषादयः सहस्रमुखशेषसदृशाः अत्रादिशब्दः सादृश्ये । "भूवादयो धातवः" इति पाणिनिसूत्रे इव । किमुन अन्ये । वक्तुं कथयितुमशक्ता, असमर्थाः ॥ ३१॥ 3 भाग्यवत्तामेव दर्शयति-जह्वोरिति । अस्य अन्धेः समुद्रस्य जहो : एतन्नान्नो मुनेः अपत्यं कन्या, तच्च जगतः पवित्रं पवित्रकारकं न सामान्यम् । कलत्रं पत्नी । " कलत्रं श्रोणि-भार्ययोः " इत्यमरः । तथा अब्धेरिति सर्वत्रानुषञ्जनीयम् । तनयः पुत्रः कलात्मा कलास्वरूपः कलाभिर्वर्धमान इत्यर्थः । चन्द्रः । कन्या तु अत्र तु श्रार्थे । कमला लक्ष्मीः धन्या भाग्यवती, न तु हीना । अपि च जगतां स्वर्ग-मृत्यु पातालादिलोकानां ईशः अधिपतिः श्रीविष्णुः, जामातृभावं कन्यापतित्वं बिभर्ति धारयत एव । न त्वीदृशी भाग्यवत्ता त्रैलोक्येऽपि कस्य पुरुषस्यास्तीति भावः ॥ १११ ॥ Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [जगन्नाथक्षेत्रअथ जगन्नाथक्षेत्रवर्णनम् ९. अन्यच्चेदमस्य भागधेयं वर्तते ॥ ३२ ॥ यत्तीरे पुरुषोत्तमस्थलमिदं यक्षाप्सरः-किन्नर श्रेष्ठैर्नित्यमधिष्ठितं भगवतः सान्निध्यसौख्यास्पदम् अत्र त्यक्तवतामसून् करगता मुक्तिस्तदास्तामहो देहो दाहविनाकृतोऽप्यविकृतः काष्ठादिवत्तिष्ठति ॥ ११२ ॥ किंच निवेदितस्यात्र रमासखाय नीचाहतस्यापि किलौदनोंदेः ॥ भक्त्याँशनं हन्त भवार्जितानां महांहसां नाशनमामनन्ति ॥११३॥ अथेदानी तत्तीरस्थजगन्नाथक्षेत्रवर्णनमाक्षिपति-अन्यञ्चेति । अस्य समुद्रस्य अन्यच्चान्यदपि, इदं वक्ष्यमाणरूपं भागधेयं भाग्य, अस्तीति शेषः ॥ ३२ ॥ यत्तीर इति । यस्य समुद्रस्य तीरे अर्थाद्दक्षिणे । भगवतः ईश्वरस्य सानिध्येन संनिधित्वेन जागरूकतयेत्यर्थः सौख्यास्पदं सुखस्य स्थानं अत एत यक्षाश्च अप्स. रसः सर्वेश्याश्च किंनराश्च एते देवविशेषाः । तेषु श्रेष्ठैः । यद्वा यक्षादयः श्रेष्टा मुख्या येषु तैः सर्वैरपि देवैरित्यर्थः । नित्यं संततमधिष्ठितमाश्रितं, एतादृशमिदं पुरो दृश्यमानं, पुरुषोत्तमस्य भगवतो जगन्नाथाभिधस्य स्थलं स्थानं, अस्तीति शेषः। अत्र क्षेत्रे असून प्राणान् “पुंसि भूम्यसवः प्राणाः” इत्यमरः। त्यक्तवतां जीवितकालपर्यन्तमत्रैव स्थित्वा देहं त्यक्तवतामित्यर्थः । न तु आत्महत्यादिना । दोषास्पदत्वात् । मुक्तिः कैवल्यं करगता हस्तस्थिता स्वाधीनेत्यर्थः तत्तु आस्ताम् । किंतु अत्र देहः शरीरं,मृत इति ज्ञेयम् । दाहेन मन्त्राग्निना विनाकृतः रहितोऽपि,अविकृतः दुर्गन्ध्यादिविकाररहितः, काष्ठादिवत् आदिशब्देन शिलापाषाणसंग्रहः । तिष्ठति । अहो ! इदमतीवाश्चर्यमित्यर्थः ॥ ११२ ॥ निवेदितस्येति । किंच अत्र अस्मिन् क्षेत्रे रमाया लक्ष्म्याः सखा तस्मै "राजाह:-"इति टचू । जगन्नाथाभिधाय विष्णवे इत्यर्थः।नीचैःकुल-शील-विद्या-कलादि. भिहीनः, आहृतस्य आनीतस्य समर्पितस्येत्यर्थः । ओदनादेः अन्नादिनैवेद्यस्येत्यर्थः । किमुत महद्भिरर्पितस्य । भक्त्या प्रीला अशनं भक्षणं, भवे संसारे अर्जितानां संपादितानां, महान्ति च तानि अंहांसि पापानि च तेषां "पापं किल्बिषकल्मषम् । कलुषं वृजिनैनोघमंहो दुरितदुष्कृतम्" इत्यमरः। नाशनं विनाशकारकं, भवतीति शेषः। इति आमनन्ति कथयन्ति । अत्रया जना इति शेषः । किलेति प्रसिद्धौ। हन्तेति हर्षे॥११३॥ १ प्रे?'. २ 'सान्निध्यमुख्यास्पदम्'. ३ 'किलौदनस्य'. ४ 'भक्ताशन'. For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १०] पदार्थचन्द्रिकाटीकासहिता । सभक्त्युन्मेषम् दारुणि सन्निहिताय प्राज्ञैर्हतमश्नते मखेषु हविः॥ . शिशिराय नित्यरुचये शुचये रचयेयमद्भुताय नतीः ॥ ११४ ॥ अथ गुर्जरदेशवर्णनम् १०. इति नमस्कृत्य सुदूरमन्यतो विमानं प्रस्थाप्य सश्लाघम् सखे स एष सर्वसंपदामास्पदतया त्रिदशालयस्यादेश इव गुर्जरदेशश्चक्षुषोः सुखीकरोति ॥ ३३ ॥ अत्र हि-~सकर्पूरखादुक्रमुकनववीटीरसलस न्मुखाः सर्वश्लाघापदविविधदिव्याम्बरधराः ॥ सभक्त्युन्मेषम् । अस्य पूर्व पुनरिति शेषः । अन्ते च आहेति । दारुणीति । दारुणि काष्ठे संनिहिताय संनिधित्वेन स्थिताय, प्राज्ञैः पण्डितैः मखेषु यागेषु हुतं विधिवदर्पितं हविः घृतादिहवनीयद्रव्यं अश्नते ग्रहीत्रे पक्षे हविर्भुजे इत्यर्थः । विरोधमाह-शिशिराय दयया शीतलाय शिशिरऋतवे च, नित्या विनाशरहिता रुचिः कान्तिर्यस्य तस्मै शाश्वतप्रभायेत्यर्थः । पुनरपि विरोधमाह शुचये ग्रीष्मतवे नित्यशुद्धाय इति विरोधपरिहारः । अग्नये च “ शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोरपि । ग्रीष्मे हुतवहेऽपि स्यात् ” इति विश्वः । अद्भुताय लोकविलक्षणैः कर्मभिर्विस्मयकराय, नतीनमस्कारान् रचयेयम् कुर्याम् । 'रच प्रतियत्ने' इत्यस्माचौरादिकाद्विधिलिङयुत्तमपुरुषैकवचम् ॥ ११४ ॥ अथ गुर्जरदेशवर्णनप्रस्तावमाह-इतीति । इत्येवमुक्त्वा नमस्कृत्य जगन्नाथमित्यर्थः । सुदूरं तत्क्षेत्रादतिदूरं अन्यतोऽन्यत्र स्थले विमानं प्रस्थाप्य सश्लाघं प्राहेति। सख इति । हे सखे, सः य एतावत्कालपर्यन्तं केवलं श्रुतः स इत्यर्थः । एषः प्रत्यक्षतया दृश्यमानः, सर्वसंपदामास्पदतया स्थानतया त्रिदशालयस्य वर्गस्यादेशः आदिश्यते प्रतिनिधितया निर्दिश्यते तथा, प्रतिमारूप इवेत्यर्थः । गुर्जरदेशः चक्षुषोः नेत्रयोः सुखीकरोति आनन्दमुत्पादयति ॥ ३३ ॥ तदेवाह-सकर्पूरेति । अत्र हीत्यनुषञ्जनीयम् । अस्मिन्देशे इति तदर्थः । कर्पूरेण सहिता युक्ता सकर्पूरा सा च खादुकमुका मधुरपूगीफलसहिता । "घोण्टा तु पूगः क्रमुकः” इत्यमरः । सा चासौ नवा वीटी ताम्बूलपट्टिका च तस्याः रसेन १ 'चक्षुषी सुखिनी करोति', 'सुखाकरोति'. For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ७४ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: लैसद्रत्नाकल्पा घुमघुमितदेहाश्च घुसृणै युवानो मोदन्ते युवतिभिरमी तुल्यरतिभिः ॥ ११५ ॥ अत्र वधूनामप्यन्यादृशं सौन्दर्यम् ॥ ३४ ॥ तप्तखर्णसवर्णमङ्गकमिदं ताम्रो मृदुश्चाधरः पाणी प्राप्तनवप्रवालसरणी वाणी सुधाधोरणी || [ गुर्जरदेश वक्रं वारिजमित्रमुत्पलदल श्रीसूचने लोचने के वा गुर्जरसुभ्रुवामवयवा यूनां न मोहावहाः १ ॥ ११६॥ कु० - सत्यमेवं तथापि नैते सारवस्तूपभोगचतुराः ॥ ३५ ॥ रक्तवर्णद्रवेण “रागे द्रवे रसः" इत्यमरः । लसन्ति शोभमानानि मुखानि येषां ते, तथा सर्वेषां जनानां या श्लाघा प्रशंसा तस्याः पदानि पात्रभूतानि विविधान्यनेकप्रकाराणि च दिव्यानि च यान्यम्बराणि वस्त्राणि तेषां । " अम्बरं व्योम्नि वाससि " इत्यमरः । धराः धारकाः । लसन्तः रत्नानां मणीनां आकल्पाः भूषणानि येषां तथाभूताः । घुसृणैः कुङ्कुमैः- “अथ कुङ्कुमम् । काश्मीरजन्माग्निशिखं वरं " इत्यमरटीकायां व्याख्यासुधायां "वरं तु घुसणे किंचिदिष्टे" इति हैम: । घुमघुमिताः सुवासयुक्ता देहा येषां तथाभूताश्च अमी युवानः तरुणाः, तुल्या समाना रतिरनुरागो यासां ताभिः युवतिभिः तरुणस्त्रीभिः सह मोदन्ते रतिसुखानन्दमनुभवन्तीत्यर्थः ॥ ११५ ॥ अत्रेति । अत्र देशे वधूनां स्त्रीणां "वधूजया स्रुषा नार्योः स्पृक्का-सारिवयोरपि " हति हैमः । अपि सौन्दर्य अन्यादृशं भिन्नप्रकारकम्, इतर विलक्षणमित्यर्थः ॥ ३४ ॥ > तदेव प्रतिपादयति- तप्तेति । इदं इदानीं दृश्यमानं, एतत् सर्वत्र लिङ्गवचनमनुनृत्यानुषञ्जनीयम् । गुर्जरसुभ्रुवां गुर्जरदेशीयस्त्रीणां अङ्गं शरीरमेवाङ्गकं स्वार्थे कः । तप्तं पुटपाकेन शोधितं च तत् खर्ण सुवर्ण च तेन सवर्ण सदृशम् । अधरः अधरोष्ठश्च ताम्रो रक्तवर्णः मृदुश्च कोमलोsपि । पाणी हस्तौ प्राप्ता नवानां नूतनानां पल्लवानां सरणिः पद्धतिर्ययोस्तथाभूतौ । नूतनपल्लवसदृशौ सुकुमारावित्यर्थः । वाणी सुधाधोरणी अमृतस्रवा अतिमधुरेत्यर्थः । वक्रं मुखं च वारिजमित्रं कमलसमानमित्यर्थः । लोचने नेत्रे च उत्पलस्य कमलस्य यद्दलं पत्रं तस्य श्रियः शोभायाः सूचने सूचके । नेत्रदर्शनेन कमलपत्रस्मरणं भवतीति भावः । एवं गुर्जरसुभ्रुवां के वा अवयवाः यूनां तरुणानां मोहावहाः मोहसंपादकाः न भवन्ति ? अपि तु सर्वेऽपि भवन्तीति॥११६॥ १ 'कनद्रलाकल्पा'. सत्यमिति । एवं त्वत्कथितप्रकारं सत्यं, तथापि एते अत्रत्यपुरुषाः सारवस्तूनां श्रेष्ठवस्तूनां उपभोगे चतुराः निपुणाः न भवन्ति ॥ ३५ ॥ २ 'अत्रत्यानाम्'. ३ ‘सरसवस्तूपभोग'. For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १०] पदार्थचन्द्रिकाटीकासहिता । तथाहि ब्रीडामारव्यतिकरवतीविद्युदाभाः कृशाङ्गीः ___ क्रीडायोग्येऽप्यहह समये गेह एव त्यजन्तः ॥ नित्यासक्ता निरुपममणिश्रेणिवाणिज्यलाभे बंभ्रम्यन्ते बहुदिनपरिप्राप्यदेशान्तरेषु ॥ ११७ ॥ वि०-मन्दमनीष ! सएष पुरुषाणां गुणविशेष एव न तु दोषः ॥३६॥ देशे देशे किमपि कुतुकादद्भुतं लोकमानाः ___ संपाद्यैव द्रविणमैतुलं सद्म भूयोऽप्यवाप्य ॥ संयुज्यन्ते सुचिरविरहोत्कण्ठिताभिः सतीभिः सौख्यं धन्याः किमपि दधते सर्वसंपत्समृद्धाः ॥ ११८ ॥ तथाहि । अनैपुण्यमेवोपपादयामि शृण्वित्याह-व्रीडामारेति । एते इत्यनुषजनीयम् । निरुपमानां बहुमूल्यानां मणीनां श्रेणिभी राशिभिर्यद्वाणिज्यं क्रयविक्रयादिव्यापारः तस्माद्यो लाभो मूलाधिकद्रव्यप्राप्तिः तस्मिन् नित्यासक्ताः सततमासक्ताः सन्तः, व्रीडा लज्जा च मारो मदनश्च “मदनो मन्मथो मारः" इत्यमरः। तयोः यः व्यतिकरः मिश्रीभवनं, सः अस्ति यासां ताः, न केवलं कामाकुलाः न केवलं लज्जायुक्ताश्चेति भावः । अनेन तासां कुलीनत्वं सूचितम् । विद्युदिव आभा कान्तिः यासां ताः न तु कुरूपाः कृष्णवर्णाश्च । एतादृशाः कृशाङ्गीः स्त्रियः क्रीडायोग्ये मदनकेलिसमुचितेऽपि समये काले तारुण्यावस्थायामित्यर्थः । अहह इति खेदे ।"अहहेत्यद्रुते खेदे" इत्यमरः । गेहे गृहे एव त्यजन्तः सन्तः, बहुभिः न तु त्रिचतुरैः दिनैः परिप्राप्येषु गन्तव्येषु देशान्तरेषु बंभ्रम्यन्ते पुनः पुनः भृशं वा संचरन्ति । 'भ्रम अनवस्थाने ' इत्यस्य यङन्तस्य लटि रूपम् “ सन्यडोः” इति द्वित्वम् " नुगतोऽनुनासिकान्तस्य " इत्यभ्यासस्य नुगागमश्च ॥ ११७ ॥ मन्देति । मन्दमनीष मन्दबुद्धे, सः व्यापारार्थ देशान्तरपरिभ्रमणादिरूपः एष पुरुषाणां गुणविशेषः गुणाधिक्यमेव न तु दोषः ॥३६॥ गुणखमेवोपपादयति-देशे देशे इति । एते देशे देशे किमपि मनोहरं अद्भुतमाश्चर्यकारकं च वस्तु कुतुकात्कौतुकात् "कौतुकं च कुतुकं च कुतूहलम्" इत्यमरः। लोकमानाः पश्यन्तः सन्तः, एवं अमितं न तु अल्पं द्रविणं द्रव्यं संपाद्य, भूयः पुनरपि सद्म गृहं अवाप्य, प्राप्य, सर्वसंपत्समृद्धाः सकलोपभोग्यवस्तुसमृद्धियुक्ताः सन्तः सतीभिः पातिव्रत्ययुक्ताभिः न तु खैरिणीभिः अत एव सुचिरं चिरकालपर्यन्तं यो विरहः स्वप्रियवियोगः तेन उत्कण्ठिताभिः 'कदास्माकं पतिभिः सह संगमो भवेत्'इतीच्छावतीभिः सह, संयुज्यन्ते संगमं कुर्वन्ति । अत एव ते धन्याः सन्तः १ मिमितं'. २ 'वधूभिः. For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [गुर्जरदेश ७६ अनेवंभावोऽपि पुरुषाधमत्वमावेदयति ॥ ३७ ॥ तथाहिआकिंचन्यादतिपरिचयाज्जाययोपेक्ष्यमाणो . भूपालानामननुसरणाद्विभ्यदेवाखिलेभ्यः ॥ गेहे तिष्ठन् कुमतिरलसः कूपकूमैः सधर्मा किं जानीते भुवनचरितं किं सुखं चोपभुङ्क्ते ? ॥ ११९ ॥ तथाहि व्यापारान्तरमुत्सृज्य वीक्षमाणो वधूमुखम् ॥ यो गृहेष्वेव निद्राति दरिद्राति स दुर्मतिः॥ १२० ॥ किमप्यनिर्वाच्यं सौख्यं दधते धारयन्ति । 'डु धा धारण-पोषणयोः' इत्यस्माल्लव्यात्मनेपदे प्रथमपुरुषबहुवचनम् । अयं भावः-यथा तावत्कश्चिदपि पान्थो मार्गेण गच्छन् सूर्यातपसंतप्तश्च वृक्षच्छायायां यत्सुखमनुभवति न तदन्येन केनाप्यनुभवितुं शक्यते, तथैव यत्प्रथमं दुःखमनुभूय पश्चात् सुखं प्राप्नोति तदेवाधिकसंतोषास्पदम् । तदुक्तम् विक्रमोर्वशीये महाकविना कालिदासेन-“यदेवोपनतं दुःखात्सुखं तद्रसवत्तरम् । निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः” इति ॥ ११८ ॥ व्यतिरेकमाह-अनेवंभाव इति । एवं देशान्तरसंचारादिप्रकारेण भावः खभावः "भावः सत्ता-खभावाभिप्राय-चेष्टात्मजन्मसु" इत्यमरः । द्रव्यार्जनादिरूपः न भवतीत्यनेवंभावः अर्थात्संततं गृह एव संवास इत्यर्थः । पुरुषाधमत्वं आवेदयति संपादयति ॥ ३७॥ तथाहि तदेव वक्ष्यामीति भावः।। आकिंचन्यादिति । यः कुमतिः कुबुद्धिः अलसः मन्दश्च अत एव गेहे गृहे तिष्ठन् संश्च कूपे वाप्यां ये कूर्माः कमठाः तैः समान: तुल्यः धर्मः कुत्रापि बहिरगमनादिरूपः खभावः "धर्माः पुण्य-यम-न्याय-स्वभावाचारसोमपाः" इत्यमरः । यस्य सः “धर्मादनिच् केवलात्" इति समासान्तोऽनिच् प्रत्ययः । अत एव नास्ति किंचन द्रव्यादिकं यस्य तस्य आकिंचनस्य दरिद्रस्य भावः आकिंचन्यं तस्मात् संततगृहसंवासात् अतिपरिचयाच्च जायया स्त्रिया उपेक्ष्यमाणः, किंच भूपालानां राज्ञां अननुसरणात् संनिधगमनाभावाच्च, अखिलेभ्यो महाजनेभ्यः बिभ्यदेव भीतिं कुर्वन्नेव बिभेतेः शतरि रूपम् । अभ्यस्तत्वानुमभावः । एतादृशः पुरुषः भुवनचरितं विविध. चमत्कारनिरीक्षणादिरूपं जानीते किम् ? तत एव च सुखं च सुखमपि उपभुते किम् ? अपि तु किमपि नैव जानाति, सुखमपि नैव भुङ्क्ते इत्यर्थः ॥ ११९ ॥ व्यापारेति । व्यापारान्तरं द्रव्यसंपादनार्थमन्यदेशगमनादिरूपमन्यव्यापारं, उत्सृज्य त्यक्त्वा यः दुर्मतिर्दुर्बुद्धिः पुरुषः, वध्वाः स्त्रियाः मुखं वीक्षमाणः अवलोकयन् . १ 'मुद्दिश्य'. For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १०] पदार्थचन्द्रिकाटीकासहिता । 9 इदं चावधीयताम् ॥ ३८ ॥इच्छेद्यस्तु सुखं निवस्तुमवनौ गच्छेत्स राज्ञः सभाम् कल्याणी गिरमेव संसदि वदेत्कार्य विदध्यात्कृती ॥ अक्लेशाद्धनमर्जयेदधिपतेरावर्जयेद्वल्लभान् कुर्वीतोपकृतिं जनस्य जैनयेत् कस्यापि नापक्रियाम् ॥ १२१ ॥ अन्यच्चेदमवर्धार्यताम् ॥ ३९ ॥अयुक्तं युक्तं वा यदभिहितमज्ञेन विभुना __ स्तुयादेतन्नित्यं जडमपि गुरुं तस्य विनुयात् ॥ विवित्सुनॆःस्पृह्यं कथमपि सभायामभिनयेत् खकार्य संतुष्टे क्षितिभृति रहस्येव कथयेत् ॥ १२२ ॥ सन्, गृहेष्वेव निद्राति निद्रित इव स्तब्धरूपतया तिष्ठति, स पुरुषः दरिद्राति दारिययुक्तो भवतीत्यर्थः ॥ १२० ॥ इदमिति । इदं च वक्ष्यमाणमप्यवधीयताम् सावधानतया श्रूयतामित्यर्थः॥३८॥ इच्छेदिति । यस्तु यश्च पुरुषः अवनौ पृथिव्यां सुखं यथा स्यात् तथा निवस्तुं वासं कर्तु इच्छेत् , सः कृती धन्यः पुरुषः राज्ञः सभां गच्छेत् , तत्र संसदि सभायां च कल्याणी समास्थितसर्वजनसुखकरीमेव, अथवा सकलजनरुच्युत्पादिकामेव गिरं वाणी वदेत् उच्चारयेत् । एवं कार्य खकीयं धनसंपादनरूपं विदध्यात् साधयेत् । कार्यचिकीर्षुणा जनेन न तावत्कुत्रापि कटुभाषणादिकं कर्तव्यं, तस्य च कार्यहानिकरत्वादिति भावः । एवंरीत्या अक्लेशात् राजपुरुषर्षणादिरूपक्लेशं विनैव धनमर्जयेत् संपादयेत् । किंच धनार्जने सत्यपि अधिपते राज्ञः वल्लभान् प्रियान् पुरुषान् आवर्जयेत् संतोषयेत् , न तु तुच्छबुद्ध्या तिरस्कुर्यात् । अपरं च उपकृतिमुपकारमेव कुर्यात् ,कस्थापि शत्रु-मित्रोदासीनाद्यन्यतरस्य जनस्य, अपक्रियामपकारं न जनयेत् नोत्पादयेत् ॥ १२१॥ अन्यदिति । अन्यच्चान्यदपि इदं वक्ष्यमाणमवधार्यतां निश्चीयताम् ॥ ३९ ॥ अयुक्तमिति । अज्ञेन बाह्यव्यवहारानभिज्ञेन संपत्त्युन्मत्तेन वा, विभुना राज्ञा अयुक्तं देशकालाद्यनुचितं, वाथवा युक्तं समयानुरूपं यदभिहितमुच्चारितं स्यात् , तदेतत् नित्यं संततं स्तुयात् प्रशंसेत् । किंच तस्य राज्ञः जडं बुद्धिहीनमपि गुरुं पुरोहितं विनुयात् स्तुयात्, तद्वारेणैव कार्यसाधनसंभवात् । किंच विवित्सुः खविषये अनुकूलप्रतिकूलादिरूपमभिप्रायं वेत्तुमिच्छुः सन् 'विद ज्ञाने' इत्यस्य सन्नन्तस्य रूपम् "सनाशंस-" इत्यादिना उप्रत्ययः। सभायां कथमपि निःस्पृहस्य भावो नैःस्पृह्य १ 'अवधार्यता'. २ 'कार्येषु दद्यात्'. ३ 'समये'. ४ 'मवधारणीयम्'. ५ गिरा तं च विनुयात्'. For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [यमुनानदीअथ यमुनानदीवर्णनम् ११. इत्यलं प्रसक्तानुप्रसक्त्येति दूरतो विमानमानयन् साञ्जलिबन्धम्कृष्णाश्लेषविशेषिताऽसितरुचे कालिन्दि तुभ्यं नमः । __ कुछेभ्यः श्रिततावकाम्बुकणिकापुञ्जेभ्य एषोऽञ्जलिः ।। गोपीभ्यः परिरिप्सया मुररिपोस्तेषु स्थिताभ्यो नति थायाभिरुपासिताय च नमोवाकानधीयीमहि ॥ १२३ ॥ निरभिलाषभावं अभिनयेत् प्रकटयेत् । खकार्य च क्षितिभृति राज्ञि संतुष्टे सति रहस्येव एकान्ते एव कथयेत् । कदाचित् राज्ञा प्रत्यादिष्टेऽपि खावमानस्य गोप्यत्वादिति भावः । एतच्छोकद्वयं प्रकृतवर्णनस्यासंगतमिति भाति । किंच सन्नीतिप्रतिकूलमपि । यतो राज्ञः सभायां नयानुसारिभाषणस्यैवाभिरूपैरुक्कत्वात् । यथाहुर्मन्वादयः-"सभा वा न प्रवेष्टव्या वक्तव्यं वा समन्जसम् । अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी" इति । तदनेन प्रत्युक्तमिव भवतीति मदभिप्रेतम् । अत्र युक्तायुक्तविचारणा तु सर्वथा सुधीभिरेव करणीया ॥ १२२ ॥ __ अथ यमुनावर्णनमाक्षिपति-इतीति । इत्येवमुक्त्वा प्रसक्तस्य प्रकृतस्य गुर्जरदेशवर्णनस्य अनुप्रसक्त्या तत्रत्यपुरुषाणामुत्तमाधमत्वनिरूपणेन, अलं पर्याप्तं इत्युक्त्वा दूरतो दूर विमानमानयन् अञ्जलिबन्धेन करसंपुटेन सहितं तथा तथा प्राहेति। कृष्णेति । हे कालिन्दि यमुने श्रीकृष्णाष्टनायिकानामन्यतमे च, कृष्णस्य य आश्लेषः जलविहाररूपः आलिङ्गन च तेन विशेषिता वर्द्धिता कृष्णवर्णा असिता रुकू . कान्तिर्यस्यास्तस्यै तुभ्यं नमः । तथा श्रिताः संलग्नाः तव इमे तावकास्त्वदीया इत्यर्थः । युष्मच्छब्दात् "तस्येदम्" इत्यर्थेऽणि "तवक-ममकावेकवचने” इति तवकादेशः । अम्बुकणिकानां जलकणानां पुजा राशयो येषु तेभ्यः कुञ्जभ्यः लतागृहेम्यः " निकुञ्ज-कुञ्जौ वा क्लीबे लतादिपिहितोदरे " इत्यमरः । एषः मया क्रियमाणः अञ्जलि: नमस्काररूपः, अस्तु इति शेषः। अपि च मुरस्य मुरनामकदैत्यस्य रिपोः शत्रोः श्रीकृष्णस्य परिरिप्सया आलिङ्गनेच्छया, परिपूर्वकाद्रभेः सन्नन्तादकारप्रत्ययः। “सनि मी-मा-घु-रभ-लभ" इत्यादिना इसादेशः । तेषु कुजेषु स्थिताभ्यः गोपीभ्यः नतिर्नमस्कारः। किंच आभिर्गोपस्त्रीभिः उपासिताय पूजिताय नाथाय श्रीकृष्णाय, नमोवाकान् नमस्कारोक्तीः अधीयीमहि पुनः पुनरुचारयामः 'इङ् अध्ययने' इत्यस्मादधिपूर्वात् विधिलिङयुत्तमपुरुषबहुवचनम् ॥ १२३ ॥ १ 'सानन्दम्' इत्यधिकः पाठः कचिदृश्यते. २ परिलिप्सया'. For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ११ ] पदार्थचन्द्रिकाटीका सहिता । कृ० - कृतं सखे चोर - जारेशिखामणेः कृष्णस्य जगदतिसंधातुर नुसंधानेन ! ॥ ४० ॥ तथाहि लुण्ठित्वा नवनीतमन्यसदने लोलेक्षणो भक्षयन् गोपीभिः परिगृह्ये मातृसविधं नीतो मुकुन्दस्तया ॥ 'लुण्ठीर्मा नवनीतमित्यभिहितोऽप्येतद्यलुण्ठीः किमि' — त्युक्तो 'मानवनीतमेव हृतमि' - त्यागो जनन्यां न्यधात् ॥ १२४॥ किंच अंसे सलीलमधिरोप्य शुकं खहस्ता गोप्या भयाकुलदृशः कुतुकी मुकुन्दः ॥ कृतमिति । हे सखे विश्वावसो, चोर-जारशिखामणेः चोराणां जाराणां चाग्रेसरस्येत्यर्थः । अत एव जगतः तत्स्थलोकस्य अतिसंधातुर्वञ्चयितुः । यद्वा जगतः अति अत्यन्तं संधानं उत्पत्तिः पालनं च अतिसंधानं लयश्च तत्रितयकर्तुः, अनुसंधानेन संस्तवनेन कृतं अलं पर्याप्तमित्यर्थः । पक्षे कृतं त्वयैतच्छोभनं कृतमिति वार्थः । “कृतं युगेऽलमर्थे स्याद्विहिते हिंसिते त्रिषु" इति मेदिनीकोशात् कृतमित्यस्यालमर्थत्वात् ॥ ४० ॥ तथेति । चोर-जार शिखामणित्वमेवोपपादयति लुण्ठित्वेति । अयं मुकुन्दः श्रीकृष्णः अन्यसदने परकीयगृहे, नवनीतं लुण्ठिवा चोरयित्वा अत एव लोले चौर्यभयाच्चञ्चले ईक्षणे नयने यस्य तथाभूतः सन् भक्षयन् खादन्, अत एव च गोपीभिर्गोपस्त्रीभिः परिगृह्य कृष्णागमाप्रतीक्षया गूढं स्थित्वा नवनीतचौर्यसमये धृत्वेत्यर्थः । मातुर्यशोदायाः सविधं समीपं “समीपे निकटा - सन्न-संनिकृष्ट-सनीडवत् । सदेशाभ्याश - सविध" इत्यमरः । नीतः प्रापितः । तदेति शेषः । तया यशोदया 'नवनीतं मा लुण्ठीः मा चोरय,' इति पूर्वमिति शेषः । अभिहितः उक्तोऽपि, एतन्नवनीतं किं कुतो व्यलुण्ठी: अचूचुरः ?' इत्युक्तप्रकारेण उक्तः मात्रा पृष्टः सन् ‘मानवनीतमेव हृतं न तु नवनीतम्' नवनीतस्य मनुष्यकर्तृत्वादिति भावः । इत्युक्तप्रकारेण, आगोऽपराधं “ आगोऽपराधो मन्तुश्च इत्यमरः । जनन्यां मातरि यशोदायामेव न्यधात् स्थापितवान् । दधातेर्लुङि - "गाति-स्था-घु -" इति सिचो लुक् । श्लेषालंकारः ॥ १२४ ॥ I असे इति । किंच अयं मुकुन्दः श्रीकृष्णः कुतकी कौतुकयुक्तः सन् भयेन कृष्णभीत्या आकुले दृशौ यस्यास्तस्याः कस्याश्चित् गोप्याः अंसे स्कन्धे “स्कन्धो भुजशिरोंऽसो स्त्री” इत्यमरः । लीलया क्रीडया सहितं सलीलं यथा स्यात्तथा स्वहस्तानि - जकरेण शुकं कीरं अधिरोप्य स्थापयित्वा पुनः ' असं स्कन्धं गतं शुकं पक्षे 'अं' २ 'परिकृष्य'. १ 'चोर - जारशिरोमणे : '. , ७९ For Private And Personal Use Only 99 Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [यमुनानदी'असंगतं शुकमिहापनयेति' वाचम् ___ तस्या निशम्य स तदंशुकमाचकर्ष ॥ १२५॥ अपि चनीत्वा राधिकया निशां मुररिपुः प्रातहानागतस् ___ 'त्वं मा भूरपराधिकः पुनरिति प्रोक्तोऽपि पूर्व मया ॥ कस्मादेवमभूरिति' श्रितरुषा निर्सितो लीलया ____ 'त्वद्वाचैव सराधिकोऽहमिति' तां व्यामोहयन्मायया ॥ १२६ ॥ वि०-वयस्य मैवं वादीः स हि परमपावनः सकलजगदंहस्संहरणकृते कृतावतारो वन्दारुजनानन्दनो यदुनन्दनो निन्दापदवीदवीयान् ॥ ४१ ॥ इत्यक्षरेण संगतं शुकं- अंशुक वस्त्रं च इह सांप्रतं अपनय दूरीकुरु' इति तस्या गोप्याः वाचं निशम्य श्रुत्वा, तस्याः गोप्याः अंशुकं वस्त्रं, आचकर्ष अपहृतवान् ॥ १२५ ॥ नीत्वेति । अपि च राधिकया सह निशां रात्रि नीत्वा निशावसानपर्यन्तं तामुपभुज्येत्यर्थः । मुररिपुः श्रीकृष्णोऽयं प्रातः प्रातःकाले, गृहान् खगृहं “गृहाः पुंसि च . भूम्येव निकाय्य-निलयालयाः" इत्यमरात् गृहशब्दस्य पुंस्त्वं नित्यं बहुवचनत्वं च । आगतः प्राप्तः सन् , श्रिता प्राप्ता रुट क्रोधो यस्यास्तया यशोदयेति शेषः । त्वं अपराधः परगृहगमनादिरूपोऽस्यास्तीति अपराधी स एवापराधिकः अपराधकर्तेति यावत् । अपगता राधिका यस्मात्तथाभूतश्च, मा भूः इति एवं पूर्व मया प्रोक्तोऽपि, कथितोपि, पुनः एवमपराधिकः कस्मात् कारणात् अभूः जातोसि ?' इति लीलया बहिः क्रोधप्रदर्शनेऽपि मनसि पुत्रवात्सल्यरूपया। करणे तृतीया। निर्भसितः सकोधमधिक्षिप्तोऽपि, 'भो मातः । त्वद्वाचैव 'अपराधिको मा भूः' इति तव वाण्यैव अहं सराधिकः राधया सहितः जातः' इति तां मातरं यशोदां मायया तदुक्तार्थापह्नवरूपया, अघटितघटनापटीयस्या वा व्यामोहयत् मोहितवान् । अत्र 'लुण्ठित्वा नवनीत--' इत्यादिश्लोकत्रयेऽपि एकस्यैव वाक्यस्म श्लेषेणान्यार्थकरणादभङ्गश्लेषवक्रोक्तिरलंकारः । तदुक्तम्- “यदुक्तमन्यथा वाक्यमन्यथान्यन योज्यते । श्लेषेण काका वा ज्ञेया सा वक्रोकिस्तथा द्विधा" इति ॥ १२६ ॥ __एवं कृशानूक्तं दूषणं श्रुत्वा निर्विष्णो विश्वावसुराह-वयस्येति । हे वयस्य कृशानो एवं 'लुण्ठित्वा नवनीत-' इत्यादिप्रकारं दूषणं मा वादीः नोच्चारय । हि यस्मात् कारणात् परमपावनः अत्यन्तपवित्रः, अत एव सकलजगतः अंहसां पा. पानां संहरणकृते विनाशार्थ, कृतः धृतः अवतारो येन सःवन्दारून् स्तोतॄन् नमस्कर्तृन् वा 'वदि अभिवादन-स्तुत्योः' इत्यस्मात् "श-वन्योरारुः" इति आरुप्रत्य १ 'रितः'. २ 'कृतरुषा'. ३ 'नीलया'. For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ११] पदार्थचन्द्रिकाटीकासहिता। असत्क्षयार्थाभ्युदयस्य यस्य जगुश्चरित्रं जगतः पवित्रम् ॥ पुनः परस्मै पुरुषाय तस्मै समस्तनम्याय नमस्तनोमि ॥ १२७ ॥ अस्य खल्वत्यद्भुतं चारित्रमाकर्ण्यताम् ॥ ४२ ॥ चोरस्य चौर्य जगति प्रतीतं चौर्यस्य चौर्य न तु दृष्टपूर्वम् ॥ चौधिकार्याणि बतै श्रुतानि कृष्णस्य मुष्णन्तितमां तमांसि ॥ १२८ ॥ किंचचित्रं चित्रं जृम्भिते कृष्णमेघे कंसं प्राप्ता प्राप लोपं समृद्धिः ॥ आसीद्युक्तं हानिदाघप्रशान्तिहसो हिंसां मानसे कीर्तिरुत्था ॥ १२९ ॥ यः । 'वन्दारुरभिवादके' इत्यमरश्च । जनानानन्दयतीति तथाभूतः सः यदुनन्दनः श्रीकृष्णः, निन्दापदव्याः निन्दारूपमार्गस्य दवीयान् दूरे वर्तमानः अस्तीति शेषः । दवीयानित्यत्र दूरशब्दादीयसुनि "स्थूल-दूर-युव ह्रख-" इत्यादिना रकारलोपः। 'दू' इत्यस्य गुणादेशश्च ॥४१॥ निन्दापदवीदवीयस्त्वमेवोपपादयति-असदिति । असतां पापानां दैत्यादीनां क्षयो नाश एवार्थों मुख्यं प्रयोजनं यस्य तादृशः अभ्युदय उत्पत्तिर्यस्य तथाभूतस्य यस्य श्रीकृष्णस्य जगतः पवित्रं पावित्र्यावहं चरित्रं कंसवधादिरूपं न तु त्वदुपपादितं चौर्यादिरूपमेव, जगुः गायन्ति स्म । ज्ञानिन इति शेषः । तस्मै परस्मै देहेन्द्रियादिसंघात् परस्मै पुरुषाय, अत एव समस्तानां सकललोकानां नम्याय नमस्कर्तु योग्याय, पुनः नमः नमस्कारं तनोमि करोमि ॥ १२७ ॥ अस्येति । अस्य श्रीकृष्णस्य अत्यद्भुतमतीवाश्चर्यजनकं चारित्रमाकर्ण्यतां श्रूयतां खलु ॥ ४२ ॥ अत्यद्भुतत्वमेव विवृणोति-चोरस्येति । चोरस्य, कर्तरि षष्ठी। चोरकर्तृकमित्यर्थः । चौर्य कर्म जगति प्रतीतमनुभूतं प्रसिद्ध वा । परंतु चौर्यस्य अत्रापि पूर्ववदेव षष्ठी । चौथै चोरकर्म तु, दृष्टपूर्वं पूर्व दृष्टं न । इदमुपलक्षणम् । तेन श्रुतपूर्वमपि नेत्यर्थः । परं च कृष्णस्य चौर्य नवनीतादेः आद्यं प्रधानं येषु तानि कार्याणि गोवर्धनोद्धरणादीनि, श्रुतानि आकर्णितानि सन्ति, तमांसि पापानि मुष्णन्तितमामतिश. येन चोरयन्ति । अत्रातिशयार्थे तमप् । ततश्च "किमेत्तिडव्यय-" इत्यादिना आमुः। बतेत्याश्चर्ये ॥ १२८॥ चित्रमिति । कृष्ण एव मेघस्तस्मिन् पक्षे कृष्णे नीलवर्णे मेघे इति च, जृम्भिते उत्पन्ने सति, हानिदस्य लोकविनाशकरस्य अघनाम्नोदैत्यस्य प्रशान्ति शः, पक्षे 'हा' इत्यानन्दे । निदाघस्य ग्रीष्मऋतोश्व शान्तिः प्रशमः "ग्रीष्म उम्मकः । निदाघ उष्णोपगमः" इत्यमरः । आसीत् । तथा हसो बकासुरः पक्षे हंसः पक्षी च, हिंसां नाशं धा १ 'समस्तरम्याय'. २ 'अद्भुतं चरितम्', 'अद्भुतं चारित्र्यम् ,' 'अद्भुतं चरित्रम्'. ३ प्रसिद्धम्'. ४ 'चौर्याणि कार्याणि,' 'चोर्यादिकार्याणि'. ५ 'नृणां'. For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८२ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: [ यमुनानदी पुनस्सभक्त्युन्मेषं भगवन्तमुद्दिश्य - कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं क्षीणयते बकं लघयते पौण्ड्रं परं लुम्पते ॥ भौमं क्षामयते बलाद्बलभिदो दर्पं पराकुर्वते क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः ॥ १३०॥ तूनामनेकार्थत्वात्, मानसे मानससरोवरे हिंसां गतिं च प्राप्तः । हंसानां वर्षाकाले मानससरोवरगमनं प्रसिद्धम् । अत्र मुद्रितपुस्तकटीकायां 'वार्षिकाव सरस्य हंस हिंसाकार - णत्वं प्रसिद्धम्' इति सिद्धान्तितं दृश्यते, परं तत्प्रमादविलसितम् । अत एव तस्यैव पुस्तकस्य टिप्पणीकारेण 'हंसास्तावन्मानसे सरसि निवसन्ति, तत्रान्यर्तुषु हिमबाहुल्यात् हिमस्य च हंसानां रोगहेतुत्वात् अष्टौ मासानन्यत्रोषित्वा वर्षागमे हंसा मानसं गच्छन्ति, तस्माद्वर्षाकालस्य हंसहिंसाकारणत्वं न, प्रत्युत बलपुष्ट्यादिहेतुत्वमेव' इति प्राचीन सत्कविप्रसिद्धिपुरस्कारेण तत्खण्डितं तदेव युक्तमिति कोविदा अवगच्छन्तु । कीर्तिर्यशः पङ्कश्च‘कीर्तिर्यशसि कर्दमे " इति विश्वः । उत्था उत्पन्ना इति यत् तत्, सर्व युक्तं, परं च कंसं कंसनामकमसुरं, पक्षे कं उदकं प्रति “कं वारिणि च मूर्धनि” इत्यमरः । प्राप्ता उत्पन्ना पक्षे संप्राप्तेति छेदः । समृद्धिः लोपं विनाशं प्राप, यद्वा कृष्णरूपे मेघे उदिते कं पुरुषं प्राप्ता समृद्धिर्लेपं प्राप इति काकुः । अपि तु कस्यापि समृद्धिर्लोपं न प्रापेत्यर्थः । एतदेव चित्रं चित्रं परममाश्चर्यमित्यर्थः । अत्र श्लोकद्वयेऽपि विरोधालंकारः । अत्र तु श्लेषानुगत इति विशेषः ॥ १२९ ॥ पुनरिति । पुनः भक्त्युन्मेषेण भक्तिविकासेन सहितं यथा तथा भगवन्तं श्रीकृष्णं उद्दिश्य, आहेति शेषः । - कंसमिति । कंसमेतदाख्यदैत्यं ध्वंसयते सिंहासनादधो निपात्य मारयते, चतुर्थ्यन्तमेतत् । एवमग्रेऽप्यूह्यम् । मुरं दैत्यं च तिरयते तिरोहितमदृश्यं कुर्वते, तथा हंसमसुरं हिंसते नाशयते, बाणं बाणासुरं क्षीणयते अष्टनवत्यधिकनवशतभुजच्छेदनेन क्षीणशरीरं कुर्वते, न तु विनाशयते इत्यर्थः । तस्य प्रह्रादान्वयजत्वात् । तदन्वयस्य च भगवतोऽवध्यवरप्राप्तत्वात् । तथा बकं दैत्यं लघयते लघूकुर्वते विनाशयते इत्यर्थः । पौण्डूं परं शत्रुभूतं लुम्पते हन्त्रे, भूमेरपत्यं भौमस्तमसुरं क्षामयते तद्वधकर्त्रे इत्यर्थः । तथा बलभिदिन्द्रस्तस्य दर्प गर्व, बलात् हठात् पराकुर्वते निवारयित्रे । अपि च क्लिष्टं दैत्यत्रासात् संसारक्लेशाद्वा त्रस्तं शिष्टगणं सज्जनसमूहं, अत एव प्रकर्षेण नम्रं शरणागतं अवते रक्षते, तुभ्यं कृष्णाय नमः अस्तु ॥१३०॥ 1 १ 'गर्व'. २ ' निराकुर्वते' For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८३ -वर्णनम् १२ ] पदार्थचन्द्रिकाटीकासहिता । अथ महाराष्ट्रवर्णनम् १२० इति विमानं सुदूरमानयन् वन-जनपद-सरिगिरिप्रभृतीनवेक्ष्य सेविस्मयमीश्वरमुद्दिश्यकत्यौषधीः कति तरून् कति वो महीध्रान् । कत्यम्बुधीन् कति नदीः कति पुंस एतान् । कत्यङ्गनास्त्वमसृजः कति नाथ देशान् ___ मन्ये तवैष महिमा नहि माति बुद्धौ ॥ १३१ ॥ इत्यन्यतो गच्छन् पुरतोऽवलोक्य सबहुमानम्महाराष्ट्राभिख्यो मधुरजलसान्द्रो निरुपमः प्रकाशो देशोऽयं सुरपुरनिकाशो विजयते ॥ गृहस्था यत्रामी गुणजलधयः केऽपि विभवैः __ समृद्धाः श्रद्धातो मुहुरतिथिपूजां विदधते ॥ १३२ ॥ अथ महाराष्ट्रदेशवर्णनं सूचयन्नाह-इतीति । इत्युक्त्वा सुदूरं विमानमानयन् प्रापयन् वनानि च जनपदा देशाश्च सरितो नद्यश्च गिरयः पर्वताश्च ते प्रभृतयो मुख्या येषु तान् देशानवेक्ष्य दृष्ट्वा, सविस्मयमाश्चर्यसहितं यथा तथा ईश्वरमुद्दिश्याहेति। कतीति । हे नाथ जगदुत्पादक प्रभो, त्वं कति कियत्संख्याकाः औषधीवल्लीसस्यमुख्या फलपाकान्ताः, तथा तरून वृक्षांश्च कति, महीध्रान् पर्वतान् , अम्बुधीन् समुद्रान् , नदीः, एतान् दृश्यमानान् पुंसः पुरुषान् , तथा अङ्गनाः स्त्रियश्च, देशांश्च, कति असंख्यातानित्यर्थः । असृजः सृष्टवानसि ? । तस्मात् हे प्रभो, एष तव अगाधसर्गकर्तृत्वरूपो महिमा माहात्म्यं, बुद्धौ नहि माति न प्रवेष्टुं शक्नोति, इति मन्ये,इति निश्चिनोमीत्यर्थः ॥ १३१ ॥ इतीति । इत्यन्यतोऽन्यत्र गच्छन् पुरतोऽग्रभागेऽवलोक्य बहुमानेन सहित यथा तथा प्राह महाराष्ट्रेति । मधुरं खादु च तज्जलं च तेन सान्द्रः पूर्णः अत एव निरुपमः उ. पमारहितः प्रकाशः प्रसिद्धः "प्रकाशोऽतिप्रसिद्धेऽपि" इत्यमरः । अत एव च सुर. पुरस्य वर्गलोकस्य निकाशः सदृशोऽयं महाराष्ट्र इति अभिख्या नाम यस्य सः "अभिख्या नाम-शोभयोः" इत्यमरः। विजयते सर्वोत्कर्षेण वर्तते । यत्र महाराष्ट्रदेशे, अमी गुणजलधयः विद्यादिसद्गुणसमुद्राः, विभवैरैश्वर्यैश्च समृद्धाः परिपूर्णाः, केऽप्यनिर्वाच्यप्रभावाः विद्यादिगुणानामैश्वर्यस्य चैकत्र वासस्य दुर्लभत्वादित्यर्थः । १ 'सबहुमानं'. २ 'कति नो'. For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४ विश्वगुणादर्शचम्पू: [ महाराष्ट्र कृ० – सखे किं प्राक्कालीन चरित्रमधुना कथयसि ? अधुना किल कलि मौलिन्यादीदृशी रीतिरेतद्देशवासिनामासीत् ॥ ४३ ॥ तथाहिअपारैर्व्यापारैरहरिह नयन्तोऽशनैदशा स्वथ स्नाताः संध्यां विदधति न जातु खसमये ॥ त्यजन्तः खां वृत्तिं द्विजकुलैभवा ग्रामगणकी भवन्तो हन्तामी कथमपि च जीवन्ति बहवः ॥ १३३ ॥ किंच --- ‘उपनयन–विवाहावुत्सवैकप्रधानौ' कलिविभवत एषां कालभेदानभिज्ञौ || गृहस्था लोकाः, श्रद्धातः आस्तिक्यबुद्धया मुहुर्वारंवारं अतिथिपूजामभ्यागतसत्कारं विदधते कुर्वते । न त्वैश्वर्यस्य व्यसनादिनां विषयासक्त्या वा दुरुपयोगं कुर्वन्तीत्यर्थः ॥ १३२ ॥ सख इति । हे सखे, प्राकालीनं कृतयुगादिपूर्वकालभवं चरित्रमधुना सांप्रतं किं कुतो हेतोः कथयसि ? कुतो वा प्राकालीनं चरित्रमधुना न कथनीयमित्याशङ्कयाहअधुना किल सांप्रतं तु, कले: कलियुगस्य मालिन्यात् मलिनत्वात् पापप्रचुरत्वादित्यर्थः । एतद्देशवासिनां महाराष्ट्रवासिनामीदृशी वक्ष्यमाणप्रकारा रीतिराचारः आसीत् अस्तीत्यर्थः । प्रकृतवर्णनस्य वर्तमानकालीनत्वाल्लङ् प्रामादिक इति भाति ॥ ४३ ॥ अपारैरिति । तथाहि अपारैर्बहुभिर्व्यापारैर्मामायव्ययलेखन कृषिवाणिज्यादिरूपैः कर्मभिः इह देशे, अहः दिवसं नयन्तः सन्तः, अथ अशनदशासु भोजनावसरेषु न तु संध्याकालसमये, स्नाताः कृतस्नानाः अत एव जातु कदापि स्वसमये शास्त्रविहितकाले, संध्यां न विदधति नानुतिष्ठन्ति । किंच अमी बहवः न तु द्वित्राः द्विजकुलभवाः ब्राह्मणान्वयोत्पन्ना अपि, स्वां स्वकीयां याजनाध्यापन - प्रतिग्रहादिरूपां वृत्तिं जीविकां "वृत्तिर्वर्तनजीवने" इत्यमरः । त्यजन्तः सन्तः, ग्रामेषु गणकीभवन्तः ग्रामाय - व्ययलेख करूपा भवन्तः सन्तश्च कथमपि निषिद्धाचरणादिरूपया तुच्छवृत्त्या जीवन्ति । एतादृशनीचजनाधिष्ठितदेशस्य का नाम प्रतिष्ठेति भावः ॥ १३३ ॥ उपनयनेति । किंच उपनयनं व्रतबन्धश्च विवाहश्च तौ, एषां लोकानां कलिविभवतः कलिमाहात्म्यात्, कालस्य " गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनायनम्" इत्यादिशास्त्रविहितस्य भेदः ब्राह्मण-क्षत्रियादिभेदेन विशेष: “गर्भादेकादशे राज्ञो गर्भातद्वादशे विशः" इत्यादिरूपः, अथवा " ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । राज्ञो , 1 २ 'प्राक्कालिकं चरित्रं', 'चारित्र्यं'. २ ' कलयसि' ३ ' माहात्म्यात्'. ४ 'दशदिशास्त्र' ५ ' द्विजकुलभुवां' ६ 'कालभेदानभिज्ञा:'. For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १२] पदार्थचन्द्रिकाटीकासहिता । विजहंति न कदाचिद्वेदपाठैकयोग्ये ___ वयसि च यवनानीवाचनाभ्यासमेते ॥ १३४ ॥ अपि चअज्ञानामविरामलौकिकवचोभाजाममीषां पुन मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु ॥ ग्रामाय-व्ययलेखनेन नयतां कालानशेषानहो __ पारंपर्यत ईदृशामिह नृणां ब्राह्मण्यमन्यादृशम् ॥ १३५॥ अन्यच्च कुक्षेः पूर्यं यवननृपते त्यकृत्यानि कर्तुम् विक्रीणीते वपुरपि निजं वेतनैरेतदास्ताम् ॥ बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे” इत्यादिकामनाभेदेन विशेषः तस्य न विद्यते अभिज्ञा ज्ञानं ययोस्तौ, अत एव उत्सवः एव एकं मुख्यं प्रधान प्रयोजनं ययोस्तौ तथाभूतौ संवृत्ताविति । अनेन निमित्तेन सुहृत्संबन्धिजनानेकीकृत्य मिष्टान्नभोजनादिरूपसमारम्भार्थमेवोपनयन-विवाहकरणमित्यर्थः । न तु वेदोपदेशाद्यर्थमिति भावः । कुत एतज्ज्ञायते इत्यत आह-एते जनाः वेदस्य पाठः पठनं विधिवदध्ययनमिति यावत् । तदेकयोग्ये वेदाध्ययनमात्रपरतया नेतुमुचिते वयसि कदाचिदपि यवनान्याः यवनलिपेः “इन्द्र-वरुण-भव-शर्व-" इत्यादिसूत्रस्थेन “यवनाल्लिप्याम्" इति वार्तिकेन यवनशब्दाल्लिप्यर्थे आनुगागमो डीप् च । वाचनाभ्यासं सततपरिशीलनरूपं न विजहति न त्यजन्ति ॥ १३४ ॥ अज्ञानामिति । अपि च अज्ञानां कर्तव्याकर्तव्यज्ञानरहितानामत एव अविराम विश्रामरहितं यथा स्यात्तथा लौकिकवचांसि लोकवार्तालापान भजन्ति कुर्वन्ति तथाभूतानां, न तु वेदशास्त्रभाजां, अमीषां लोकानां कर्मसु श्रौत-स्मार्तादिकर्मसु मन्त्रोच्चारणे तत्तत्कर्माङ्गभूतमन्त्रपठने एव, मौनव्रतं पर्यवसितं अवसन्नं आश्रितमिति यावत् । लौकिकवचांसि तु बहूनि भाषन्ते इत्यर्थः । किंच पुनः ग्रामस्य संबन्धिनौ यौ आय-व्ययौ तयोर्लेखनेन अशेषान् प्रातःकालमारभ्य सायंकालपर्यन्तमित्यर्थः । कालान् नयतां गमयतां, पारंपर्यतः वंशपरंपरया ईदृशां नृणां लोकानां, इह महाराष्ट्रदेशे ब्राह्मण्यं ब्राह्मणकर्म, अन्यादृशं अन्यब्राह्मणविलक्षणं शूद्रप्रायमिति यावत् ॥ १३५ ॥ अन्यच्चापि निन्द्यतमं कृत्यमाह-कुक्षेरिति । अयमेतद्देश निवासी जनः, विप्रो ब्राह्मणो भूलापि, यवननृपतेर्लेच्छजातीयराज्ञः भृत्यकलानि सेवककृत्यानि कर्तु, तञ्च केवलं कुक्षेः पूत्यै खोदरभरणायैव न तु खामिभक्त्यथै, वेतनैः मासिकद्रव्यखी १ 'विदधति च कदाचित्'. २ 'यवनानां'. ३ 'यवनविततेः'. For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [महाराष्ट्रविप्रो भूत्वाप्यहह गणनानैपुणैर्वञ्चयित्वा ___ वर्णस्तेयं रचयति जनैः खामिनां पोषकाणाम् ! ॥ १३६ ॥ अहो बत कलिमहिन्ना सदसद्विवेकवैधुर्यमखिलजनानाम् ! ॥ ४४ ॥ ये मुष्णन्ति निशि प्रविश्य भवनं ये वा बलात्कानेनं नैते खामिधनं हरन्ति ननु तान्निन्दन्ति चोरा इति ॥ सद्यो हन्त हरन्ति पोषकधनं संख्यां विपर्यस्य ये __ कष्टं तानपि वञ्चकानिह पुरस्कुर्वन्ति सर्वे जनाः ॥ १३७ ॥ 'अयं खल्वनुपमो देशः' इति त्वदुक्तं युक्तमेव । यदत्र खल्पेनापि यत्नेन महती प्रतिष्ठा सिध्यति ॥ ४५ ॥ वेदव्यासः स हि दश यो वेद वेदाक्षराणि श्लोकं त्वेकं परिपठति यः स खयं जीव एव ॥ कारैः, निजं खीयं वपुः शरीरमपि विक्रीणीते । एतत्तु आस्तां तावत् । परंतु अहह इति खेदे। गणनानैपुणैः आय-व्ययद्रव्यसंख्याकौशल्येः वञ्चयित्वा, अयं जनः पोष. काणां मासिकभृतिदानेन पोषणं कुर्वतां खामिनामपि किमुतान्येषां, वर्णस्तेयं द्रव्यचौर्य रचयति करोति । खामिवश्चनस्य नरकपातहेतुत्वादेतदतीव निन्द्यमित्यर्थः ॥ १३६ ॥ अहो इति । अहो इत्याश्चर्ये । बतेति खेदे । कलिमहिम्ना कलिमाहात्म्येन अखिलानां सर्वेषामपि जनानां सदसतोः उत्तमाधमयोः विवेकस्य विचारस्य वैधुर्य राहित्यम् ॥ ४४ ॥ कथं तावद्विवेकवैधुर्यमिति चेत्तदेव विवृणोति-य इति । ये निशि रात्रौ परस्य भवनं गृहं प्रविश्य, ये वा काननमरण्यं प्रविश्य, दिवापि बलात् मुष्णन्ति द्रव्यादिकं चोरयन्ति, एते तु खामिधनं निजपोषकद्रव्यं नैव हरन्ति, परंतु तान् गृहं प्रविश्य चौर्यकर्मकर्तृन् प्रति 'चोराः' इति उक्त्वा निन्दन्ति । ये च संख्या विपर्यस्य आयव्ययगणनावैपरीयं कृत्वा, पोषकधनं सद्यः तत्कालं हरन्ति, हन्तेति खेदे । तानपि वञ्चका खामिप्रतारकान् , इह देशे सर्वेऽपि जनाः पुरस्कुर्वन्ति मानयन्ति । कष्टमेतदतीवान्याय्यमित्यर्थः ॥ १३७ ॥ अयमिति । किंच 'अयं महाराष्ट्राभिख्यो देशः अनुपमः खलु' इति, पूर्वमिति शेषः । त्वया उक्तं प्रतिपादितं, युक्तमेव योग्यमेव । कुतः । यद्यस्मात् अत्र देशे स्वल्पेनापि स्तोकेनापि यत्नेन महती प्रतिष्ठा सिध्यति ॥ ४५ ॥ कथमित्युपपादयति-वेदव्यास इति । इह महाराष्ट्रे देशे, यः विप्रः दश वेद. स्य अक्षराण्येव केवलं, न तु संपूर्णमन्त्रमपि। वेद जानाति "विदो लटो वा" इति लटो १ 'पुनः', 'निजस्वामिनाम्'. २ 'कानने'. ३ 'इव'. ४ 'यशेन'. ५ 'नव दश'. For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १२] पदार्थचन्द्रिकाटीकासहिता । आपस्तम्बः स किल कलयेत्सम्यगौपासनं यः कष्टं शिष्टक्षतिकृति कलौ कार्यमृच्छन्ति विद्याः ॥ १३८ ॥ वि०-किमरे भूसुरेष्वेवं दोषमुद्घोषयसि ? ॥ ४६॥ अत्रापि सन्ति बहवः कलितामिहोत्राः शास्त्रार्थबोधकुशलाः किल शान्तिमन्तः ॥ अन्तर्मुखाः सततमात्मविदो महान्तो निर्धूतबाह्यविषया निगमाध्वनिष्ठाः ॥ १३९ ॥ अन्यच्चशुचीभूताः स्नानैः श्रुतहितपुराणाश्च नियमा__ दपूतानां स्पर्शानवहितहृदोऽमी विजहतः ॥ णलादेशः। सः वेदव्यासः भवति । एतदग्रेऽपि योज्यम् । यश्च एकमेव न तु अनेकान्, श्लोकं परिपठति, सः वयं जीवो बृहस्पतिरेव । "बृहस्पतिः सुराचार्यों गी. पतिर्धिषणो गुरुः । जीव आङ्गिरसः” इत्यमरः । यस्तु सम्यक् औपासनं सायंप्रातहोमरूपं कर्म कलयेत् कुर्यात् , सः किलेति गर्दायाम् । आपस्तम्बः ऋषिर्भवति । एवं शिष्टानां सभ्यानां क्षति नाशं करोतीति तत्कृत् तस्मिन् कलौ युगे, विद्याः वेद-शास्त्रा. दिज्ञानानि, काश्य कृशत्वं ऋच्छन्ति प्राप्नुवन्ति । कष्टमिति खेदे ॥ १३८ ॥ किमिति । अरे कृशानो ! भूसुरेषु ब्राह्मणेष्वपि एवं दोषमुद्घोषयसि आरोपयसि ? ॥ ४६॥ वस्तुतस्तु नैवायं देशो दूषणार्ह इत्याह-अत्रेति । अत्र महाराष्ट्रदेशेऽपि, बहवो बुधाः जनाः न तु द्वित्राः । शास्त्रस्य अर्थबोधे अर्थज्ञाने कुशलाः निपुणाः मार्मिका इति यावत् । अत एव निगमाध्वनि वेदविहितकर्मानुष्ठानरूपमार्ग निष्टा आसक्तिर्येषां तथाभूताः, अत एव च कलितं स्वीकृतं अग्निहोत्रं त्रेताग्निसाध्यः कर्मविशेषः यैस्ते ता. दृशाः । केचित्तु निर्धूताः निरस्ताः बाह्यविषयाः शब्दादिविषया यैस्ते तथाभूताश्च, अतो हेतोरेव अन्तः हृदयपुण्डरीके आत्मोपलब्धिस्थले एव मुखं सांमुख्यं येषां ते, सततमात्मानुध्यानासक्ता इति यावत् । सततं निरन्तरं आत्मानं विदन्ति खानुभूत्या साक्षात् कुर्वन्तीति तथाभूताः । किलेल्यवधारणे, हेतौ वा । अव्ययानामनेकार्थत्वात् । शान्तिमन्तो बाह्येन्द्रियनिग्रहतत्परा इत्यर्थः । अत एव महान्तः महत्त्वलक्षणसंपन्नाः । महत्त्वलक्षणमुक्तं श्रीमद्भागवते-"महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये" इति। एवं च कर्म-ज्ञाननिष्ठा उभयविधा अपि जनाः अत्र देशे सन्ति॥१३९॥ शुचीभूता इति । किंच स्नानैः शुचीभूताः पवित्रीकृताः। नैतावदेव, किंतु नियमात् श्रुतानि आकार्णतानि हितानि हितकराणि पुराणानि श्रीमद्भागवतादीनि भक्ति १ 'भासुरेषु' इत्यधिकं क्वचिदृश्यते. २ 'शुचीभूत्वा'. ३ 'श्रुतिहितपुराणोक्त'. For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [ महाराष्ट्रसुराभ्यची कृत्वा शुचिकृतमदन्त्यन्नमनघं ___ महाराष्ट्र देशे विलसति महानेष हि गुणः ॥ १४० ॥ किंच चमूनियमनेन वा जनपदाधिकारेण वा द्विजवज उपव्रजन्प्रभुपदं महाराष्ट्रजः ॥ न वृत्तिमिह पालयेद्यदि धरासुराणां ततो भवेद्यवनवेष्टितं भुवनमेतदब्राह्मणम् ॥ १४१ ॥ यच्च दोषान्तरं भवता परिभाषितं तदशेषमपि साधुजनोपकारेण परिहीयते ॥ ४७॥ ज्ञानादिविषयप्रतिपादकानि यैस्तथाभूताः । अत्र श्रुतपुराणप्रहणमुपलक्षणम् । तेन न केवलं श्रुतानि, किंतु सम्यगधीतानि मीमांसितानि च । वेद शास्त्र-पुराणानीत्यपि ज्ञेयम् । अत एव अवहितं श्रुतिस्मृत्यादिविहितप्रतिषिद्ध विषये प्रमादरहितं हृत् चित्तं येषां ते तथाभूताः सावधानचित्ता इत्यर्थः। एतादृशा अमी जनाः अपूतानां अपवित्राणां चाण्डालादीनां स्पर्शान् शरीरसंपर्कान् , विजहतः त्यजन्तः सन्तः, सुराणां विष्णु-शिवादिदेवानामभ्यची पूजां कृत्वा शुचिभिः पवित्रजनैः कृतं पक्तं अत एव अनघं निमलमन्नं अदन्ति भुञ्जन्ति । न तु येन केनापि कृतमित्यर्थः । तस्मादेष पूर्वोक्तःमहान् गुणः महाराष्ट्र देशे हि एव विलसति प्रकाशते दृश्यते । नान्यत्रेत्यर्थः ॥ १४० ॥ 'कुक्षेः पूत्यै यवननृपतेः' इत्यादिनोक्तं दूषणं परिहरति-चम्विति । किंच महाराष्ट्रजः तद्देशोत्पन्नः द्विजानां ब्राह्मणानां व्रजः समूहः, चम्वाः सेनायाः नियमनेन सेनाधिपत्यं स्वीकृत्येत्यर्थः । जनपदस्य देशस्य अधिकारेण आय-व्ययलेखनादिरूपेण वा, प्रभुपदं तत्तदधिकारस्थानमुपव्रजन् प्राप्नुवन् , यदि धरासुराणां ब्राह्मणानां वृत्तिं जीविकां न पालयेत् न रक्षेचेत् , ततस्तर्हि एतद्भुवनं सर्वोऽप्ययं भूलोक इत्यर्थः । यवनैः म्लेच्छैः वेष्टितं सर्वत्र व्याप्तं, ततश्च अब्राह्मणं ब्राह्मणरहितमपि भवेत् संपद्येत । यवनानामेव सर्वत्र प्रावल्यात् ते वर्णाश्रमधर्म विनाश्य ब्राह्मणादीनपि भ्रंशयिष्यन्तीति भावः ॥ १४१॥ __ अथ 'उपनयन-विवाहौ-' इत्यादिनोक्तं दूषणं परिहरति-यच्चेति । भवता यच्च दोषान्तरं 'विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासं' इत्यादिरूपं परिभाषितं, तत् अशेषं सकलमपि साधुजनानां उपकारेण परिहीयते निवार्यते ॥ ४७ ॥ १'चेष्टितं'. २ परिहार्यते'. For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १२) पदार्थचन्द्रिकाटीकासहिता । अलं मच संहर्तुमंहस्सहस्रं स एकोऽपि विप्रप्रवेकोपकारः ॥ कठोरः कुठारः किलैकोऽपि तिग्मो विनिर्भेत्तुमीष्टे विषढूननेकान्॥१४२॥ कृ०-अस्त्वेवमथाप्यत्रत्यानामाद्येतरवर्णप्रभवानां पुनरैतिदुस्सहं चेष्टितम् ॥ ४८ ॥ पश्यदेशे देशे लम्पटाः पर्यटन्तो भञ्ज भञ्ज ब्राह्मणादीनशेषान् ॥ हारं हारं हन्त सर्वखमेषां पापा एते स्वोदरं पूरयन्ति ॥ १४३ ॥ वि०-सत्यमेवैमथापि महनीयमेव तेषामेवं चेष्टितम् ॥ ४९ ॥ कथमिति चेत्तदाह-अलमिति । सः प्रसिद्धः एकोऽपि किमुतानेके ? विप्राणां ब्राह्मणानां मध्ये ये प्रवेकाः संध्यादिकर्मानुष्ठानेनोत्तमाः तेषां, "प्रवेकानुत्तमोत्तमाः" इत्यमरः। उपकारः अंहसां पापानां सहस्रं, मञ्जु शीघ्रमेव "द्राक् मङ्घ सपदि द्रुते" इत्यमरः । संहतु विनाशयितुं अलं समर्थः । दृष्टान्तमाह-कठोरः दण्डादिना दृढः तिग्मः धारया च तीक्ष्ण: "तिग्मं तीक्ष्णं खरं तद्वत्-" इत्यमरः । एकोऽप्येक एव किल कुठारः, अनेकानू बहून् विषदून विषवृक्षान् विनिर्भेत्तुं विशेषेण आमूलादित्यर्थः। भेत्तुं छेत्तुं ईष्टे समर्थो भवति । दृष्टान्तालंकारः । भुजंगप्रयातं वृत्तम् । “भुजंगप्रयातं भवेद्यैश्चतुर्भिः” इति तल्लक्षणात् ॥ १४२ ॥ इदानी क्षत्रियादीनां दोषानाह कृशानु:-अस्त्विति । एवं भवदुक्तं अस्तु नाम, अथापि भवदुक्तरीत्या ब्राह्मणानामुपकारकर्तृत्वे सत्यपि, अत्रत्यानामेतद्देशीयानां आद्यात् इतरे क्षत्रियादयस्तेषु वर्णेषु प्रभव उत्पत्तिर्येषां तेषां पुनरतिदुःसहं अत्यन्तं सोढुमशक्यं चेष्टितं आचरणम् । अस्तीति शेषः ॥ ४८ ॥ दुःसहचेष्टितत्वमेव प्रतिपादयति-देशे देश इति । लम्पटाः परद्रव्यापहारतत्पराः अत एव पापाः पापकारिणः एते एतद्देशीयाः क्षत्रियादयः देशेदेशे प्रतिदेशं पर्यटन्तः परिभ्रमन्तः सन्तः, ब्राह्मणादीत अशेषान् सर्वान् भखं भऊं द्रव्यवाञ्छया भक्त्वा भङ्क्त्वा एषां ब्राह्मणादीनां सर्वस्वं, हारं हारं हृत्वा हृत्वा । पूर्वत्रात्र च 'भो आमर्दने' 'हृञ् हरणे' इति धातुभ्यां " आमीक्ष्ण्ये णमुल् च" इति णमुल् । खोदरं पूरयन्ति । हन्तेति खेदे ॥ १४३ ॥ सत्यमिति । एवं 'देशे देशे-' इत्यादिप्रकारेणोक्तं दूषणं सत्यं, अथापि तेषां क्षत्रियादीनां एवमग्रे वक्ष्यमाणरीत्या चेष्टितमाचरणं महनीयमेव पूज्यमेव ॥ ४९ ॥ १ 'अस्त्वेवमप्यत्र'. २ 'वर्णानां'. ३ 'पुनरपि'. ४ 'सत्यमेव तथापि एतेषां चेष्टितं सहनीयम्'. For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ९० www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ---- विश्वगुणादर्शचम्पूः तथाहि मायाचुञ्चतया भयावहगतिः प्रत्यर्थिपृथ्वीभुजाम् माहाराष्ट्रभटच्छटा रणपटुनपर्यटाट्येत चेत् ॥ देव-ब्राह्मणवर्गनिग्रहकृतो देशांस्तुरुपका इमे निष्प्रत्यूहमनोरथा वितनुयुर्निर्देवै - भूमीसुरान् ॥ १४४ ॥ ततश्च देवक्षोणी सुरहितकृते दारितम्लेच्छपङ्क्तेर्मयां सह्या कथमपि महाराष्ट्रयूथस्य चेष्टा ॥ व्याधिव्यूहप्रतिहतिकृतां व्यक्तमुग्रौषधानां कायारोग्यप्रणयिहृदयैः काटवं मर्षणीयम् ॥ १४५ ॥ [ महाराष्ट्र - " कथं महनीयमित्येतदेवोपपादयति-मायाचुश्श्रुतयेति । रणे पटुः कुशला महाराष्ट्र भवा माहाराष्ट्रास्तेषां भटानां योधानां "भटा योधाश्च योद्धारः" इत्यमरः । छटा समूहः, मायया वित्ता प्रसिद्धा मायाचुच्चुः तस्याः भावः मायाचुञ्चुता तया " तेन वित्तञ्चुप-चणपौ” इति चुचुप्प्रत्ययः । युद्धकापट्यज्ञानप्रसिद्धत्वेनेत्यर्थः । प्रत्यर्थिनां शत्रुभूतानां क्षितिभुजां राज्ञां " दस्यु- शात्रव - शत्रवः । अभिघाति-पराराति-प्रत्यर्थि- परिपन्थिनः" इत्यमरः । भयावहा भयोत्पादका गतिः संचारो यस्यास्तथाभूता सती, नो पर्यटाट्येत भृशं पुनः पुनर्वा परिभ्रमणं न कुर्यात् चेत्, परिपूर्वकस्य 'अट गतौ' इत्यस्य यङन्तस्य विधिलिङि रूपम् । तदा देवाश्च ब्राह्मणाश्च तेषां वर्ग: समुदायः तस्य निग्रहं भ्रष्टकरण-धनग्रहणादिच्छलरूपं कुर्वन्तीति तथाभूताः इमे तुरुष्काः तुरुष्कदेशीया नृपाः, निष्प्रत्यूहः निर्विघ्नः " विनोऽन्तरायः प्रत्यूह: " इत्यमरः । मनोरथः परधनग्रहणादिरूपो येषां तथाभूताः सन्तः, सर्वान् देशान् निर्देवभूमीसुरान् देव-ब्राह्मणरहितान् वितनुयुः कुर्युरेव ॥ १४४ ॥ तत इति । ततश्च पूर्वोक्तत्रासनिवारण हेतोरेव - 3 देवेति । देव क्षोणीसुरहितकृते देव-ब्राह्मणहितार्थं दारिता विनाशिता म्लेच्छानां पङ्क्तिः समुदायो येन तथोक्तस्य महाराष्ट्रयूथस्य महाराष्ट्रनृपसैन्यस्य मयां पृथिव्यां कथमपि सोढुमशक्यत्वे सत्यपि संकटेनैव, चेष्टा कृतिः सह्या सहनीया । लोकैरिति परिशेषात् । यथा व्याधिव्यूहस्य रोगसमूहस्य प्रतिहतं नाशं कुर्वन्तीति तथाभूतानां उग्राणि खराणि च तानि औषधानि च तेषां व्यक्तं प्रसिद्धं काटवं कटुत्वं कायस्य देहस्य आरोग्ये प्रणयि अनुरागयुक्तं हृदयमन्तःकरणं येषां तैर्जनैः कथमपि मर्षणीयम् सहनीयम् दृष्टान्तालंकारः ॥ १४५ ॥ , १ 'मायाच तया' ' चत्वं मोहजनकत्वनैपुण्यम्' इति तट्टिप्पणी. चेत्. ३ ' निर्वेद'. ४ ' प्रतिकृति '. For Private And Personal Use Only २ 'पर्यटत्येव Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १२] पदार्थचन्द्रिकाटीकासहिता । इत्यन्यतो विमानं गमयन्नग्रतो दृष्ट्वा क इमे बहवः समवेता मानुषा मार्गानशेषानप्यशून्ययन्ति ॥ ५० ॥ निपुणं निरूप्य सश्लाघम्अङ्गान् वङ्गान् कलिङ्गानथ मगध-कुरून् कोसलान् केकयान् वा काश्मीरान् कुन्तलान्वा यवनजनपदान् किंच पाञ्चालदेशान् । नेपालान् केरलान्वा कतिचन कृतिनः पाण्ड्य-तुण्डीरचोलान् कर्नाटान् गौड-लाटान् परगतिघटनालम्पटाः पर्यटॅन्ति ॥१४६।। कृ०-अरे किमेतान्निन्दनीयानभिनन्दसि ! ॥ ५१ ।। नानाजातिभवा इमे कलिबलादेकीभवन्तो नरा वैराग्याभिनयं चिराद्विदधतो वर्णाश्रमत्यागिनः ॥ निर्धूतानघवैदिकप्रणमना निष्किंचना वञ्चना दक्षा दिक्षु विदिक्षु कुक्षिभृतये भिक्षाटनं कुर्वते ॥ १४७ ॥ इतीति । अन्यतोऽन्यत्र स्थले विमानं गमयन्नग्रतः पुरोभागे दृष्ट्वा आह क इति । इमे बहवः समवेता एकत्र मिलिताः मानुषाः अशेषान् सर्वानपि मार्गान् अशून्ययन्ति इतस्ततः परिभ्रमणेन सर्वदा परिपूरयन्ति, ते के? ॥ ५० ॥ निपुणमवलोक्य निश्चित्याह-अङ्गानिति । एते कतिचन कतिपयाः कृतिनः पुण्यवन्तो ( जनाः) परस्य स्वर्गादिलोकस्य गतेः प्राप्तेः घटनायां संपादने लम्पटाः आसक्ताः अङ्गादीन् देशान् पर्यटन्ति परिभ्रमन्ति । तत्र तत्र देशे यानि तीर्थानि याश्च देवताः सन्ति तेषां स्नानदर्शनादिकर्मभिरात्मानं पवित्रीकर्तुमिति भावः॥१४६॥ अरे इति । अरे विश्वावसो, एतान् वस्तुतो निन्दनीयान्निन्दायोग्यान किं कुतो हेतोः अभिनन्दसि ? ॥ ५१॥ कुतो वा नाभिनन्दनीया इत्याह-नानेति । इमे नानाजातिभवाः अनेकवर्णसंभवा अपि कलेबलात् माहात्म्यात् एकीभवन्तः एकत्र संमिलन्तः, तर्हि युक्तमेवैतत् , एकीभूय किमपि महत्कार्यं कुर्वन्तीति चेत्तत्राह-वर्णाश्रमत्यागिनः वर्णाश्रमधर्मत्यागशीलाः, एतेन खवधर्म त्यक्त्वैवैकीभूतास्ते धर्महानि विना नान्यत्किमपि कर्तुं शक्ताः इति सूचितम् । एतादृशा नराः चिरात् बहुकालपर्यन्तं वैराग्यस्य इन्द्रियदमनादिरूपस्य अभिनयं प्रकटीकरणं विदधतः, अभ्यस्तत्वानुमभावः। कुर्वन्तः, किंच निर्धूतं सर्वथा त्यक्तं अनघानां निष्पापानां वैदिकानां वेदज्ञानां प्रणमनं अभिवादनं यैस्तथाभूताः वेदज्ञान् जनान् तिरस्कुर्वन्त इति यावत् । निष्किचना नास्ति किंवन धनादिकं येषां ते, दरिद्रा इत्यर्थः । अत एव वञ्चनायां, परप्रतारणायां दक्षा १ 'अशेषान्' इत्येतत् कचित्पुस्तके न दृश्यते. २ 'देशान्'. ३ 'पर्यटन्ते'. ४ 'अ. भिनन्दयसि'. ५ निर्धूताखिल'. For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [ महाराष्ट्रकिंच- . विमलचरिता विश्वामित्रादयः परमर्षयो ___ बहुभिरतुलैर्ब्राह्मण्यं यत्तपोभिरुपार्जयन् ।। तदिह जहतो जन्मप्राप्तं त्रयीविमुखेष्वमी___ष्वहह कतिचित्पाखण्डेषु प्रविश्य हता जनाः ॥ १४८ ॥ वि०-कथमरे हरेभक्तेषु विरक्तेष्वप्यमीषु सन्नद्यसि ॥ ५२ ॥ दोषेभ्यो नैव भेतव्यं दृढा चेद्भक्तिरच्युते । तिमिरेभ्यो नहि भयं दीपश्चेल्लभ्यते महान् ॥ १४९ ॥ किंचदुःखं च जन्मदुरितं च दृढामविद्याम् हा हन्त हन्ति परमा हरिभक्तिरेका ॥ निपुणाः सन्तः, दिक्षु पूर्वादिषु, विदिक्षु आग्नेय्यादिषूपदिशासु, कुक्षिभृतये उदरभरणार्थं भिक्षाटनं कुर्वते ॥ १४७ ॥ किंच-विमलेति । विमलं निर्मलं चरितं आचरणं येषां ते, विश्वामित्रः "मित्रे वर्षों" इति विश्वशब्दस्य दीर्घः । आदिः प्रमुखो येषां ते परमर्षयः श्रेष्टा ऋषयः अतुलैः इतरैः कर्तुमशक्यैः बहुभिः षष्टिवर्षसहस्रसदृशबहुकालसाध्यैः तपोभिस्तपश्वर्याभिः, यत् ब्राह्मण्यं ब्राह्मणत्वं उपार्जयन् संपादितवन्तः, तत् ब्राह्मण्यं इह लोके जन्मतः प्राप्तं, न तु तपआदिप्रयत्नैः, जहतः त्यजन्तः सन्तः त्रयी विमुखेषु ऋगादिवेदत्रयपराङ्मुखेषु पाषण्डेषु वेद-शास्त्रविहितकर्मभ्रष्टेषु अमीषु वैरागिषु प्र. विश्य, तैः सहैकीभूयेत्यर्थः । एते जनाः हताः भ्रष्टाः । अहहेति खेदे ॥ १४८ ॥ कथमिति । अरे कृशानो ! हरेर्विष्णोर्भक्तेषु विरक्तेषु शब्दादिविषयपराङ्मुखेध्वपि, अमीषु दूषयितुमिति शेषः । संनह्यसि उद्युक्तो भवसि ॥ ५२ ॥ __ भक्तिसंपन्नेषु विरागयुक्तेषु च धर्मत्यागादिरूपं दूषणमकिंचित्करमित्याहदोषेभ्य इति । अच्युते श्रीभगवति विष्णौ दृढा भक्तिश्चेत् , दोषेभ्यः पूर्वोक्तेभ्यो नैव भेतव्यं, दृढभक्तेः पुरतः इतरे सर्वेऽपि दोषास्तुच्छा इत्यर्थः । एतद्भगवता श्रीकृष्णेनैव भगवद्गीतायां स्वमुखेन प्रतिपादितम्-"सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः" इति । एतदेव प्रतिवस्तूपमयाह-तिमिरेभ्य इति । महान् प्रज्वलितः दीपः लभ्यते चेत् , तिमिरेभ्यः अन्धकारेभ्यः भयं नहि नास्त्येव । प्रतिवस्तूपमालंकारः । लक्षणमुक्तं प्राक् ॥१४९॥ किंच-दुःखमिति । परमोत्तमा हरिभक्तिः श्रीकृष्णभक्तिः एकैव, दुःखं आधि १ किमरे हरिभक्तेषु'. २ 'विरक्तेषु' कचिञ्चैतन्न दृश्यते. ३ कचिदपि 'विदूपयितुं' इत्यधिकं दृश्यते. For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १२] पदार्थचन्द्रिकाटीकासहिता। एकोऽपि राघवशरः किल सप्ततालान् शैलं रसातलमपि त्वरया बिभेद ॥ १५० ॥ अपि चधुनोति निबिडं तमः परिलुनाति पापाटवीं तनोति च मनोरथानुपचिनोति नानोत्सवान् ॥ अनक्ति च पुनःपुनर्ननु मनः सुधानिझरै र्व्यनक्ति परिपवित्रमं वृषगिरीशभक्तिः शुभम् ॥ १५१ ॥ किं बहुनापूताङ्गानां पुण्यगङ्गादिसिन्धुस्नानान्नानाक्षेत्रयात्रापराणाम् ॥ दारागारापत्यवैराग्यभाजां साराभिज्ञैरादरः कार्य एषाम् ॥ १५२ ।। भौतिकादिकं, जन्मदुरितं जन्मनः आरभ्य संपादितं पापमित्यर्थः । दृढां त्यक्तुमशक्यां अविद्या अज्ञानं च हन्ति विनाशयति । हा हन्तेत्याश्चर्ये । अत्र दृष्टान्तमाह-राघवस्य श्रीरामचन्द्रस्य शरो बाणः एकोऽपि एक एव, सप्ततालान् सप्तसंख्याकांस्तालवृक्षान् , शैलं पर्वतं च रसातलं पातालमपि, त्वरया शीघ्रमेव बिभेद। किलेल्यैतिह्ये । वालिवधात् पूर्वं सुग्रीवप्रार्थितेन श्रीरामचन्द्रेणैतत् खसामर्थ्यप्रकटनार्थ कृतमिति श्रीरामायणकथात्रानुसंधेया । दृष्टान्तालंकारः ॥ १५० ॥ किंच-धुनोतीति । वृषगिरीशः श्रीवेङ्कटाचलनिवासी श्रीनिवासः अथवा वृषस्य गिरिः पर्वतः श्रीशैलः तस्येशो मल्लिकार्जुनः, वृष इव गिरिः शुभ्रः कैलासः तस्य ईशः श्रीशंकर इति वा। तस्मिन् कस्मिन्नपि भक्तिः की। निबिडं सान्द्रं तमः अज्ञानं धुनोति विनाशयति । पापानां अटवी अरण्य तत्सदृशं समूह मित्यर्थः परिलुनाति सर्वतश्छिनत्ति । मनोरथान् तनोति विस्तारयति । नानोत्सवान् अनेकविधानानन्दान् उपचिनोति वर्धयति । पुनः पुनः मनः सुधानिर्झरैः अमृतप्रवाहैः सह अनक्ति संयोजयति । ननु निश्चयेन । ईशभक्त्या स्वर्गप्राप्तिर्भवतीति भावः । परिपक्रिमं फलाभिमुखं सत्,पचेः"द्वितःक्रिः" इति क्रिप्रत्ययः। तदन्ताच "केर्मप्-" इति मप् । शुभं शुभफलावहं व्यनक्ति संपादयति। समुच्चयनामालंकारः । "तत्सिद्भिहेतावेकस्मिन्यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ स त्वन्यो युपगद्या गुणकिया" इति तल्लक्षणात् ॥ १५१ ॥ किमिति । बहुनाधिकेन उक्तेनेति शेषः । किं किं फलं, सारमेव संक्षेपेण कथयामीति भावः । पृतेति । नानाक्षेत्रेषु काशी-प्रयागादिबहुषु पुण्यक्षेत्रेषु यात्रायां गमनरूपायां पराणामासक्तानां अत एव पुण्यासु पवित्ररूपासु गङ्गा आदिमुख्या यासु तासु १'सप्तसालान्', For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [आन्ध्रदेश विश्वगुणादर्शचम्पू:- अथ आन्ध्रदेशवर्णनम् १३. इति विमानमन्यतः समानयन् निपुणं विभाव्य सुशोभनक्रमकरैः सेवितो जीवनार्थिभिः ।। मध्यस्थवाडवो राजत्यान्ध्रदेशो नंदीशवत् ॥ १५३ ॥ कृ०-अये किं प्रशंसस्यपयातमर्यादममुं देशम् ? ॥ ५३ ॥ पश्यग्रामे ग्रामे निवसति चिरात्स्वामिभावेन शूद्रो भृत्यो भूत्वा पठति गणनां ब्राह्मणस्तस्य पार्थे । सिन्धुषु नदीषु स्नानात् पूतं शुद्धियुक्तं 'पूञ् पवने' इत्यस्मात् भावे क्तप्रत्यये अर्श. आदित्वान्मत्वर्थीयोऽच्प्रत्ययः। अझं शरीरं येषां तेषाम् । तत एव च दाराः स्त्रियश्च अगारं गृहं च, एतद्धनादेरप्युपलक्षणम् । अपत्यानि पुत्राश्च तेषु वैराग्यं अनासक्ति भजन्ति कुर्वन्तीति तथाभूतानां, एषां जनानां साराभिज्ञैः सदसद्विवेकयुक्तैर्जनैः आदरः कार्यः कर्तव्यः ॥ १५२ ॥ सुशोभनेति । अयं आन्ध्रदेशः जीवनं उपजीविकां जलं च अर्थयन्ति इच्छन्तीति जीवनार्थिनः तैः सु उत्तमानि शोभनानि कल्याणानि येभ्यस्तान् क्रमान् आचारान् कुर्वन्तीति तत्करास्तैर्जनैः, पक्षे सुष्ठ शोभा येषां ते सुशोभाः ते च ते नका मत्स्यविशेषाश्च मकराश्च तैर्जलजन्तुभिश्च सेवितः अधिष्ठितः, मध्यस्था मध्ये वर्तमानाः वाडवाः ब्राह्मणा यस्य पक्षे मध्ये स्थितो वाडवो वाडवाग्निश्च यस्येत्यर्थः । नदीशवत् समुद्रवत् राजति शोभते । अत्र 'नदेशवत्' इति पाठान्तरं प्रकल्प्य नदेशवत् समुद्रवत्' इति, आन्ध्रदेशः देशवत् अन्यदेशवत् न राजति,अपि तु सर्वोत्तमतया राजति' इत्यप्यर्थान्तरं कुर्वन्ति केचित् । अत्र श्लिष्टोपमालंकारः ॥ १५३ ॥ अये इति । अये भो, अपयातमर्यादं त्यक्तवर्णाश्रमरीतिममुं देशं आन्ध्रदेशं, किं कुतो हेतोः प्रशंससि ? ॥ ५३॥ __ ग्राम इति । शूद्रः खामिभावेन प्रभुत्वेन उपलक्षितः, ग्रामे ग्रामे, वीप्सायां द्विर्भावः। चिरात् निवसति । तस्य शूद्रस्य पार्श्वे भृत्यः गणकसंज्ञया उपलक्षितः, सेवको भूत्वा ब्राह्मणः गणनां ग्रामाय-व्ययसंख्यां पठति । मरौ देशे सर इव क्वापि कुत्रापि वेदाध्यायी कश्चिदेकः स्यात् यदि वर्तते चेत् , असौ वेदपाठकः अत्र १ 'न-देशवत्'. For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १३] पदार्थचन्द्रिकाटीकासहिता । वेदाध्यायी सर इव मरौ क्वापि कश्चिद्यदि स्या दत्रामंत्रप्रकरकरणे वर्ततेऽसौ नियुक्तः ॥ १५४ ॥ किंच महाराष्टे दृष्टा दोषा अत्राप्यतिदेष्टव्याः ॥ ५४ ॥ विश्वावसुः-वयस्य, मैवं वादीः ॥ ५५ ॥ मा नाम यक्षत मखैरनधैरिहामी मो चाधिगीषत वचांसि चिरंतनानि ॥ देवेषु भक्तिरवनित्रिदशेषु चैषां विश्राणनं च विविधान् विधुनोति दोषान् ॥ १५५ ॥ पश्य तावदेतेषां भाग्यवत्ताम् ॥ ५६ ॥ रोमावल्या तपनसुतया रम्यहारधुनद्या हृद्यास्तुङ्गस्तनगिरिजुषो नाभिवापीमनोज्ञाः ॥ आन्ध्रदेशे अमत्राणां मलिनपात्राणां प्रकरे संक्षालने करणे कर्मणि नियुक्तः सन् , वर्तते । अतिनीचवृत्त्या जीवतीत्यर्थः ॥ १५४ वयस्येति । वयस्य भो मित्र, एवमुक्तप्रकारं दूषणं मा वादीः मा वद 'वद व्यक्तायां वाचि, इत्यस्मात् माङयोगे "माडि लुङ्” इति लुडि "न माझ्योगे" इत्यडागमाभावः ॥ ५५॥ मेति । इह आन्ध्रदेशे अमी ब्राह्मणादयः त्रयोवर्णाः, अनधैः मखैर्यज्ञैः मा यक्षत न यजन्तु । नामेत्यनादरे । सर्वत्र अतिसर्गे लोट् । अतिसर्गः कामचारानुज्ञा । किंच चिरंतनानि पुरातनानि वचांसि वेदवाक्यानि च माधिगीषत न पठन्तु नाम । तथापि देवेषु श्रीविष्ण्वादिषु भक्तिः, अवनित्रिदशेषु ब्राह्मणेषु निषये विश्राणनं दानं च “विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्" इत्यमरः । एषामान्ध्रदेश्यानां, समस्तान् दोषान् सर्वान् पूर्वोक्तान विधुनोति निवारयति ॥ १५५ ॥ पश्यति । एतेषां आन्ध्रदेशीयानां अन्यामपीति शेषः । भाग्यवत्तां अग्रे वक्ष्यमाणां पश्य तावत् ॥ ५६ ॥ रोमावल्येति। अत्र उपमाप्रायपाठात् , तपनसुतया यमुनयेवेति व्यवहितोऽपि इवशब्दोऽनुषञ्जनीयः । रोमावल्या, रम्येण हारेण धुनद्या गङ्गयेवेत्युपमितसमासः। १ कचित्पुस्तके 'पत्रामत्रप्रकरकरणे' इति पाठो दृश्यते । अस्मिंश्च पाठे"पत्रं पलाशं छदनम्' "पात्रामत्रं च भाजनम्" इति कोशात् पत्राणां पलाशानां अमत्रं पात्रं 'पत्रावली' इति महाराष्ट्रभाषायां प्रसिद्धं, तस्य प्रकरः समुदायः तस्य करणे इति व्याख्येयम् । क्वचित्कचित् दृश्यन्ते चाधुनातनानां धनिकानां गृहस्थानां गृहे मुखेन वेदपाठं कुर्वन्तः पत्रावलीकरणे नियुक्तास्तदाश्रिता वैदिकाः। २ 'मावाधिगीतवचनानि'. ३ 'हारा'. ४'स्तनगिरिजुषिर'. For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ९६ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पूः भूमेर्मूर्तीरिव वसुमतीर्भुञ्जते भाग्यवन्तः क्षोणीपाला इव युवजनाः काममान्ध्रीः पुरन्ध्रीः ॥ १५६ ॥ [ आन्ध्रदेश शृणु तावत्- को वा कल्पर्तरोर्गुणः सुमनसां यत्स्वाश्रितानामसौ सारांशान् हरतेः प्रसह्य मधुपान् धत्ते महामोदैतः ॥ कर्णे त्वर्जुनकीर्तिहानिपरता कालाम्बुदे गर्जनम् नीरन्ध्रं पुनरान्ध्रदेशनृपतिष्वास्तेऽनघं स्पर्शनम् ॥ १५७ ॥ समन्तादवलोक्य— [वयंस्यात्र गोदावरीतीरे केषांचिदेषामवनीदिविषदामति शिवपूजालोलुपतां पश्य ।। ५७ ॥ एवमग्रेऽपि । हृद्याः मनोज्ञाः तुङ्गौ स्तनौ गिरी इव तौ जुषन्त इति तथोक्ताः । नाभिः वापीव तया मनोज्ञाः वसुः कान्तिः वसु धनं च तद्वतीः, “वसुनी देवभेदाभि-भायोऋ - बक- राजसु । क्लीबं वृद्धयौषधे श्याले रै रत्ने मधुरे त्रिषु" इति मेदिनी । अत एव भूमेः मूर्तीरिव स्थिताः आन्ध्रीः आन्ध्रदेशजाः पुरन्ध्रीः कुटुम्बिनीः स्त्रियः, क्षोणीपाला इव स्थित्वा भाग्यवन्तः युवजनाः अत्रत्याः तरुणाः, कामं भुञ्जते अनुभवन्ति । अत्रत्यानां स्त्रीपुंसानां सौन्दर्य लोकोत्तरमिति भावः । उपमालंकारः ॥ १५६ ॥ 1 क इति । असौ कल्पवृक्षः स्वमात्मानं आश्रितानां सुमनसां विदुषां देवानां पुष्पाणां च । सारान् श्रेष्ठान् अंशान् धनरूपान् मकरन्दरूपांश्च भागान् प्रसह्य बलात्कृत्य, हरतः मधुपान् मद्यपायिनः भृङ्गांव, महामोदतः अतिसुगन्धेन च अतिसन्तोषेणेति वा उपलक्षितः धत्ते । शिरसीति शेषः । संमानयतीत्यर्थः । इति यत्, असौ शिरसि मधुपधारणरूपः कल्पतरोः को वा गुणः न कोऽपि । किंतु दोष एवेत्यर्थः । स्वसेवकैः विद्वद्धनापहरणस्य किरातराजप्रायतासूचकत्वादिति भावः । कर्णे सूर्यपुत्रे तु दातरि अर्जुनायाः शुभ्रायाः, अर्जुनस्य पार्थस्य च कीर्तेर्हानौ परता आसक्तिरस्ति । अयं दोषस्तस्मिन्नास्तीत्यर्थः । एवमग्रेऽपि कालाम्बुदे वार्षिकमेघे गर्जनं स्वकत्थनं स्तनितं च अस्ति । आन्ध्रदेशनृपतिषु पुनः नीरन्ध्रं अविच्छिन्नं स्पर्शनं दानं, अनघं उक्तदोषरहितं सत् आस्ते जागर्ति । व्यतिरेकालंकारः “ उपमानाद्यदन्यस्य व्यतिरेकः कः स एव सः । " इति तलक्षणात् ॥ १५७ ॥ वयस्येति । वयस्य भो मित्र, अत्रास्मिन् गोदावरीतीरे । केषांचिदेषां दृश्यमानानां अवनीदिविषदां ब्राह्मणानां, अति अत्यन्तं शिवपूजायां लोलुपतां आसक्तिं पश्य ॥५७॥ १ 'कल्पतरौ '. २ ' दधतः '. ३ ' मोहत : ' ४' समं,' 'स्फुटं,' 'घनं' ५ इत आरभ्य १५९ लोकपर्यन्तो ग्रन्थस्तावन्नोपलभ्यते आदर्शपुस्तके । अत्रैव मुद्रिते एकस्मिन् पुस्तके उपलब्धः स तथैवास्माभिः संगृहीतः । For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १३ ] पदार्थचन्द्रिकाटीकासहिता । गोदावरी विमलतीर्थकृतावगाहा लिङ्गेषु सैकतमयेषु शिवं विभाव्य ॥ भक्त्या तिलाक्षतसुमैरपि बिल्वपत्रै र मिहावनिसुराः परिकुर्वतेऽमी ॥ १५८ ॥ सभक्त्युद्रेकम्नमामि गिरिनन्दिनीरमणपादपूजाहृता मिताघनिकरान् कराञ्चितवराक्षमालान् सदा ।। अमूनमलचेतसश्शम-दमादियोगावहान् श्रुतेर्गुणनिकानिकामपरिपूतवक्त्राम्बुजान् ॥ १५९ ।। अहो कृष्णागोदावरीमध्यमध्यासीनानाममीषां वैदिकानामभिनन्दनीयोऽयमनपायः संप्रदायः ॥ ५८ ॥ निगमपाठनिराकृतदुष्कृता नयविदो बहवोऽत्र धरासुराः । गोदावरीति । इह गोदावरीतीरे अमी अवनीसुराः ब्राह्मणाः, गोदावर्या नाम नद्याः विमले तीर्थे जले कृतावगाहाः कृतस्नानाः सन्तः सैकतमयेषु वालुकानिर्मितेषु लिङ्गेषु । “सिकताः स्युर्वालुकापि" इत्यमरः। शिवं भक्तकल्याणदायिनं श्रीशंकर विभाव्य ध्यात्वा, भक्योपलक्षिताः तिलमिधः अक्षतैः सुमैः पुष्पैः, बिल्वपत्रैरपि करणैः । अर्ची पूजां परितः कुर्वते । तिलादिभिः शिवपूजनं अत्यन्तश्रेयःसंपादकम् । तदुत्तम्- "बिल्वपत्रैः प्रशस्तैर्वा पुष्पैर्वा तुलसीदलैः । तिलाक्षतैर्यजेदेवं जीवन्मुक्तो न संशयः ॥” इति ॥ १५८ ॥ __ नमामीति । गिरिनन्दिनीरमणस्य पार्वतीपतेः पादयोः पूजया हृतः अमितानां अपरिमितानां अघानां पापानां दुःखानां वा निकरः राशिः येषां तान् । सदा करे अञ्चिता संगता वरा च अक्षमाला अकारादिहकारान्तवर्णप्रतिनिधिर्माला रुद्राक्षस्फटिकादिनिर्मिता येषां तान् । श्रुतेर्वेदस्य गुणनिकया अध्ययनावृत्त्या निकामं अत्यन्तं परिपूतं पवित्रितं वक्त्राम्बुजं मुखकमलं येषां तान् । अमलचेतसः अत एव शमः अन्तरिन्द्रियनिग्रहः,दमःबाह्येन्द्रियनिग्रहः तावादिर्येषां तादृशान् , योगान्, मुक्त्युपायान् आवहन्ति सम्पादयन्तीति तथोक्तानमून् गोदावरीतीरवासिनः, नमामि ॥ १५९ ॥ अहो इति । अहो इत्याश्चर्ये । कृष्णा च गोदावरी च तयोर्मध्यं मध्यभागमध्यासीनानां अधिष्ठितानां अमीषां वैदिकानां वेदविदां, अनपायः अपायरहितः सततप्र. चलित इत्यर्थः।अयं संप्रदाय आचारः अभिनन्दनीयः प्रशंसाहः।अस्तीति शेषः ॥५८॥ निगमेति । निगमानां वेदानां पाठेन निराकृतं दूरीकृतं दुष्कृतं पापं यैस्तथाभूताः। नयविदः शास्त्रज्ञाः अत एव मुकुन्दः श्रीविष्णुरेव परं मुख्यं अयनं प्राप्यस्थानं For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [आन्ध्रदेश प्रतिवसन्तमुपात्तमखाः सुखम् प्रतिवसन्ति मुकुन्दपरायणाः ॥ १६० ॥ अत्रत्यानामधिकारव्यापारनिरतानामप्ययं खल्वकलको नियमः ॥ ५९॥ आश्रयितव्यो नरपतिराजयितव्यानि भूरिवित्तानि ॥ आरब्धव्यं वितरणमानेतव्यं यशो देशखपि दिशासु ॥ १६१ ॥ कृ०-समन्तादवलोक्यहन्त संततमत्यन्तदुरितनिरता यवना एव तावदमीषु विषयेषु प्राचुर्यतः पर्यटन्ति । पश्य सखे ॥ ६० ॥ अवनावतीतपवनाश्वशोभिनो भवनागशायिभवनावमर्दिनः ।। सवनादिधर्मलवनाय दीक्षिता यवनाश्वरन्ति भुवनातिभीषणाः॥१६२॥ वि०-सत्यमेवमथाप्येतेषु तुरुष्कयवनेष्वनन्यसाधारणविक्रमं गुणममुं गृहाण ॥ ६१ ॥ येषां ते तादृशाः, बहवः धरासुराः ब्राह्मणाः, अत्र गोदावरीतीरे वसन्ते वसन्त ऋतौ प्रतिवसन्तं, उपात्तमखाः कृतयज्ञाः सन्तः, सुखं यथा तथा प्रतिवसन्ति । "वसन्ते. वसन्ते ज्योतिषा यजेत" इत्यादिश्रुत्या वसन्तादिऋतुभेदेन यज्ञकर्म विहितम् ॥१६॥ किंच अत्रत्यानामिति । अत्रत्यानामधिकारव्यापारनिरतानां राजकीयकार्यतत्पराणामपि, अयं दृश्यमान: खलु अकलको निर्मल: नियमः व्रतनिष्ठा ॥ ५९ ॥ आश्रयितव्य इति । नरपतिः राजा आश्रयितव्यः, भूरीणि बहूनि “प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु । पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च" इत्यमरः । वित्तानि धनानि आर्जयितव्यानि, वितरणं दानं आरब्धव्यं कर्तव्यं यशः दशदिशासु आनेतव्यं प्रापयितव्यं च । इति नियम इति संबन्धः ॥ १६१ ॥ हन्तेति । हन्तेति खेदे । संततं निरन्तरं अत्यन्ते दुरिते देव-ब्राह्मणद्रोहरूपे महापापकर्मणि निरता आसक्ताः यवना म्लेच्छ जातीया एव तावदमीषु विषयेषु आन्ध्रदेशेषु, प्राचुर्यतः बाहुल्येन पर्यटन्ति परिभ्रमन्ति ॥ ६ ॥ अवनाविति । अतीतः वेगेन निर्जितः पवनः वायुः यैस्तरैश्वैः शोभन्त इति शोभिनः । भवस्य शिवस्य, नागशायिनः विष्णोश्च, भवनानां आलयानां अवमर्दिनः पातयितारः । सवनादीनां यज्ञप्रमुखानां धर्माणां वर्णाश्रमधर्माणां, लवनाय नाशाय दीक्षिताः कृतनिश्चयाः, अत एव भुवनस्य लोकस्य अतिभीषणाः यवनाः म्लेच्छाः, अवनौ आन्ध्रदेशभूमौ सर्वत्र चरन्ति ॥ १६२ ॥ सत्यमिति । सत्यमेव 'भव-नागशायि.' इत्यादिना प्रतिपादितं दूषणं अस्त्येव, १ धर्मनिरतानाम्'. २ 'भूपति'. ३ 'दशापि दिशः'. For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १३ ] पदार्थचन्द्रिकाटीकासहितां । ९९ युद्धाय प्रमिलन्तु हन्त पटवो योधाः सहस्राधिका यद्यकोऽपि बलात्तुरुष्क-यवनेष्वारूढघोटो भटः ॥ निस्त्रिंशं परिकम्पयन् वकटकान्निष्कामति क्रोधतः सर्वे ते कृपणास्तृणान्यशरणा खादन्ति सीदन्ति च ॥१६३॥ किंच पिबन्तु मदिराममी परितुदन्तु देशानहो __ हरन्तु परसुन्दरीरपलपन्तु वेदानपि ॥ तथापि च मृधाङ्गणे तृणवदेव मुक्त्वा तनुम् हठाद्विदधते मरुत्पुरकपाटिकोद्धाटनम् ॥ १६४ ॥ अथापि एतेषु तुरुष्कयवनेषु तुरुष्कदेशीययवनजनेषु, अन्यसाधारणः इतरजनसदृशः न भवतीत्यनन्यसाधारणः स चासौ विक्रमः पराक्रमस्तद्रूपं अमुं गुणं गृहाण ॥६१॥ युद्धायेति । पटवः रणे समर्थाः सहस्रादधिकाः असंख्याताः योधाः तुरुष्क. यवनभिन्नजातीयाः योद्धारः, युद्धाय युद्धं कर्तुम् “ क्रियार्थोपपद-" इत्यादिना चतुर्थी । प्रमिलन्तु संगच्छन्ताम् । अतिसर्गे लोट् । हन्तेयाश्चर्ये तदा तुरुष्केषु यवनेषु मध्ये, निर्धारणे सप्तमी । एकोऽपि किमुत द्वित्रादयः । भटः योद्धा आरूढः घोटः अश्वः येन स तथोक्तः सन् , निस्त्रिंशं खङ्गं “तूण्यां खङ्गे तु निस्त्रिंश-चन्द्रहासासिरिष्टयः" इत्यमरः । परिकम्पयंश्च सन् स्वकटकात् स्वसैन्यात् , बलात् वेगात्, क्रोधतः क्रोधेन च निष्कामति निर्गच्छति यदि । तदा ते पूर्वोक्ताः सर्वे भटाः अशरणाः रक्षकरहिताः अत एव कृपणाः दीनाश्च सन्तः, तृणानि खादन्ति भक्षयन्ति, सीदन्ति विषण्णा भवन्ति च । तृणभक्षकान् वल्मीकारूढांश्च वीरास्त्यजन्तीति प्रसिद्धेरिति भावः ॥ १६३ ॥ पिबन्त्विति । यद्यपि अमी तुरुष्का यवनाश्च मदिरा मद्यं पिबन्तु, देशान् परितुदन्तु त्रासयन्तु, परेषां सुन्दरीः स्त्रियः हरन्तु, वेदान् तदुक्तकर्माणि अपलपन्तु दूषयन्तु ।अपिः समुच्चये । सर्वत्र अतिसर्गे लोट् । अतिसर्गः कामचारानुज्ञा । तथापि मृधाङ्गणे युद्धदेशे तनुं शरीरम् । चस्त्वर्थः । तृणमिव तृणवत् मुक्त्वा त्यक्त्वा, हठात् बलात् मरुतां देवानां पुरं खर्गस्तस्य कपाटिकायाः कपाटस्य उद्घाटनं विदधते कुर्वन्त्येव । भगवता श्रीकृष्णेनाप्येतदेवोक्तमर्जुनं प्रति-"हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम्” इति ॥ १६४ ॥ १ 'बहवो'. २ 'रणाङ्गणे'. For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० विश्वगुणादर्शचम्पू:- [कर्णाटदेशअथ कर्णाटदेशवर्णनम् १४. इति व्योमयानमन्यतः स्पन्दयन्नग्रतो दृष्ट्वा सप्रत्यभिज्ञम्कर्णाटदेशो यः पूर्व कर्णदेशमभूषयत् ॥ स एष साम्प्रतं पश्य चक्षुषोभूषणायते ॥१६५ ॥ लोचनासेचनकं किल देशस्यास्य रामणीयकम् ॥ ६२ ॥ युग्मकम्प्रतिनगरमिहारामाः प्रत्यारामं पचेलिमाः क्रमुकाः ॥ प्रसवाः प्रतिक्रमुकमप्युत्सर्पति मधुततिः प्रतिप्रसवम् ॥ १६६॥ प्रतिमधुबिन्दु मिलिन्दाः प्रेडन्ति प्रतिमिलिन्दमारावाः ॥ प्रत्यारावं सुदृशां मदा उदाराः प्रतिमदं मदनः ॥ १६७ ॥ अथ कर्णाटदेशवर्णनप्रस्तावार्थमाह-इतीति । व्योमयानं विमानं अत्यन्तः स्पन्द. यन् गमयन् , अग्रतः अग्रभागे दृष्ट्वा, प्रत्यभिज्ञा पुरोवर्तिनि पूर्वज्ञानविषयाभेदावगाहि ज्ञानं तत्सहितं यथा तथा । प्राहेतिशेषः। कर्णाटेति । यः कर्णाटो नाम देशः पूर्व कर्णदेशं धोत्रभागं, अभूषत् अलंकृ. तवान् श्रुत इत्यर्थः । स एषः कर्णाटदेशः चक्षुषोभूषणायते अलंकारवदाचरति दृश्यत इति भावः । सांप्रतं इदानीं "एतर्हि संप्रतीदानीमधुना सांप्रतं तथा" इत्यमरः पश्य । तमिति शेषः ॥ १६५ ॥ - लोचनेति । अस्य कर्णाटनाम्नो देशस्य रामणीयकम् रमणीयत्वम् लोचनयोः नेत्रयोः आसेचनकं चिरं दर्शनेपि तृप्त्याजनकं । “तदासेनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्" इत्यमरः । किल निश्चयेन ॥ ६२ ॥ रामणीयकमेव युग्मकेनोपपादयति-प्रतिनगरमिति । इह कर्णाटदेशे नगरे नगरे इति प्रतिनगरम् । वीप्सायामव्ययीभावः । एवमग्रेऽपि । आरामाः उपवनानि । “ आरामः स्यादुपवनं " इत्यमरः । प्रत्यारामं प्रत्युपवनं च, वाक्यत्रयेऽपि विलसन्तीति योज्यम् । पचेलिमाः पाकाभिमुखाः, क्रमुकाः पूगवृक्षाः प्रतिक्रमुकं च प्रसवाः पुष्पाणि, “स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने" इत्यमरः । प्रति. प्रसवं च मधुनः मकरन्दस्य ततिः बिन्दुसमूहः, प्रतिमधुबिन्दु च मिलिन्दाः भ्रमराः प्रेडन्ति भ्रमन्ति । प्रतिमिलिन्दं प्रतिभ्रमरं च आरावा गुजरवाः भवन्तीति शेषः । प्रत्यारावं प्रतिगुञ्जारवं च सुदृशां स्त्रोणां उदाराः महान्तः, मदाः विलासाः प्रतिमदं च मदनः कामः, उद्भवतीत्यर्थः ॥ १६६ ॥ १६७ ॥ १ "द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः शोकैर्विशेषकम् । कालापकं चतुर्भिः स्यात् तदूर्व कुलकं स्मृतम् ।”. २ उत्सर्जति'. For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १४] पदार्थचन्द्रिकाटीकासहिता । कृशानु:-हन्त कथमभिनन्दयसि निन्दनीयममुं देशम् ॥ ६३ ॥ तथाहि वेद-वैदिक-विद्वेषदूषिता भस्मरूषिताः ।। चण्डाः सन्त्यत्र पाखण्डा लिङ्गालिङ्गितवक्षसः ॥ १६८ ॥ आकर्णय तावदन्यदप्यमीषामपचरितम् ॥ ६४ ॥ . शिरः पुरारेर्द्विजराजपाददिव्यामृतैः सिक्तमितीर्ण्ययेव ॥ शूद्रा इमे लिङ्गधराः खयं तत्स्वपादतोयैः स्लपयन्ति कष्टम् ॥१६९॥ वि०-सखे मैवं संगदिष्ठाः । यदस्मिन्देशे यदुशैलप्रभृतीनि दिव्यक्षेत्राणि दृश्यन्ते ॥ ६५॥ हन्तेति । हन्त निन्दनीयं निन्दितुं योग्यं अमुं देशं, कथमभिनन्दयसि आनन्दयसि । एतद्दर्शनेन आनन्दं करोषीत्यर्थः ॥ ६३ ॥ वेदेति । वेदानां वैदिकानां च विद्वेषेण दूषिताः दोषयुक्ताः, भस्मना भूत्या "भूतिभसित-भस्मनि" इत्यमरः । रूषिताः विलिप्तशरीराः, अत एव चण्डाः भयंकराः कोपयुक्ता वा । पाखण्डाः वेदशास्त्रभ्रष्टाः, लिङ्गैः रूप्यमयैः आलिङ्गितानि वक्षांसि येषां तथाभूताः, अर्थात् ' लिङ्गाईत' इति महाराष्ट्रभाषाप्रसिद्धा लोकाः । एतेषां हि वक्षसि-लिङ्गधारणं कुलपरंपराप्राप्तम् । अत्र कर्णाटदेशे सन्ति ॥१६॥ आकर्णयेति । अपचरितम् दुराचारः । अन्यत्सुगमम् ॥ ६४ ॥ एते लोका हि खपादोदकेन शंकरमभिषिञ्चन्ति, अयमेव तेषां महाननाचारः इति सोत्प्रेक्षमाह-शिर इति । पुरारेः श्रीशंकरस्य शिरः द्विजराजस्य ब्राह्मणश्रेष्ठस्य पादयोः, द्विजराजश्चन्द्रः " द्विजराजः शशधरः" इत्यमरः । तस्य पादानां किरणानां च इति वा । किंवा द्विजस्य पक्षिण: अर्थात् गरुडस्य राजा अधिपतिर्विष्णुः तस्य पादसंबन्धीनि यानि दिव्यामृतानि गङ्गाजलानि तैः, पक्षे पीयूषैः,पक्षे शुद्धजलैरिति च । अत्र मुद्रितैकस्मिन्पुस्तके द्विजराजशब्दस्य ब्राह्मणश्रेष्ठ इत्यर्थान्तरं टीकाकारोक्तं टिप्पणीकारेण 'गङ्गायाः ब्राह्मणपादजलत्वेन कुत्रापि प्रसिद्ध्यभावात्' इति हेतु पुरस्कारेण खण्डितम् । परं च तेन टीका नैवसम्यगवलोकितेति प्रतिभाति । टीकायां 'द्विजराजपाददिव्यामृतैः' इत्येतद्धटकदिव्यामृतशब्दस्य दिव्यजलैरित्येवार्थः कृतः, नतु गङ्गाजलैरिति । किंच 'ईर्ष्णयेव' इत्युत्प्रेक्षाखारस्यार्थ तादृशार्थकरणमेव युक्ततरम् । न हि तावत् चन्द्रेण सह तेषामा संभवति । नापि विष्णुना सह । शैवमताभिमानिनस्ते श्रीविष्णुं मा भजन्तु, परंतु न तस्मै ईय॑न्ति । तादृशसामर्थ्याभावात् । इति ममाभिप्रेतम् । अत्रापि युक्तायुक्तविवेचनं विद्वदधीनम् । सिक्तं अभिषिकं इती. य॑यैव अक्षमयैवेत्युत्प्रेक्षा । “अक्षान्तिरीासूया तु" इत्यमरः । इमे शूद्राः अनेन तेषामनधिकारिवं द्योतितम् । स्वयं लिङ्गधराश्च सन्तः तत् शिवशिरः खपादतोयैः स्वकीयचरणोदकैः स्नपयन्ति अभिषिञ्चन्ति । कष्टम् अन्याय्यम् ॥ १६९॥ सख इस्यादि । मैवं संगदिष्ठाः मा वद । 'गदी देवशब्दे' इति चौरादेरुभय१ 'मैवं वादीः', 'मैवं सङ्गिरिष्ठाः'. For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [कर्णाटदेश'दुरितमवनतानां दुर्निरोधं निरुन्धन् सितमतिभिरतन्द्रैः सेव्यमानो मुनीन्द्रैः ।। यदुगिरिरयमिन्धे यत्र नारायणात्मा विलसति किल हर्ष नीलमेघः प्रवर्षन् ॥ १७० ॥ सभेत्त्युन्मेषम्.... यदुगिरितटागारा खाराजमौलिपरिस्फुर... मणिगणमहोधारानीराजिताभिसरोरुहा ॥ नवजलधराकारा नारायणाह्वयभूषिता निरवधिदयासारा सा राजते परदेवता ॥ १७१ ।। पदिनो धातोर्मायोगे लुङि आत्मनेपदे रूपम् ।“ अनित्यण्यन्ताक्षुरादयः " इति पक्षे णिजभावः । यत् यस्मात् अस्मिन् देशे यदुशैल: 'नारायणपुरम् ' इति भाषाप्रसिद्धः । प्रभृतिः प्रमुखो येषु तादृशानि दिव्यक्षेत्राणि दृश्यन्ते । अनेन दिव्यक्षेत्रस. त्वादेवायं देशो न दूषणीय इति सूचितम् ॥ ६५ ॥ दुरितमिति । अवनतानां भक्त्या नम्राणां दुनिरोधं नाशयितुमशक्यं, दुरितं पापं निरुन्धन् विनाशयन् , अतो हेतोरेव सितमतिभिः शुद्धबुद्धिभिः अतन्द्रः आलस्यरहितैश्च, मुनीन्द्रः सेव्यमानः सन् ,अयं यदुगिरिः यदुशैलः इन्द्धे प्रकाशते। यत्र यस्मिन् पर्वते नारायणात्मा भगवद्विष्णुरूपः नीलमेघः हर्षमानन्दं प्रवर्षन् सन्, वि. लसति किल शोभते । एतेन भगवतो मेघरूपवर्णनेन “मेघ-पर्वतयोरब्धि-चन्द्रयोदृष्टिरम्ययोः । शिखि-तोयदयोलॊके सिद्धा मैत्री खभावतः" इत्यौचिती प्रदर्शिता ॥ १७० ॥ यदुगिरीति । यदुगिरेस्तटं शिखरं अगारं निवासभवनं यस्याः सा "भवनागा. रमन्दिरम्" इत्यमरः खाराजस्य खर्गाधिपतेरिन्द्रस्य मौलौ मस्तके परिस्फुरन्तः प्रकाशमाना ये मणिगणा रत्नसमूहास्तेषां यानि महांसि तेजांसि तेषां धाराभिःपरंपराभिः नीराजिते प्रदीप्ते अभिसरोरुहे चरणकमले यस्याः सा । अर्थान्नमस्कारावसरे इति ज्ञेयम् । एतेनेन्द्रादयोऽप्येतद्दर्शनार्थमत्रागच्छन्तीत्यतोऽतिशयमाहात्म्यमस्य प. र्वतस्य सूचितम् । नवजलधरस्य नूतनमेघस्येवाकारो यस्याः सा, निरवधिनिःसीमा दयासारः कृपासामर्थ्य यस्याः सा, नारायण इत्याह्वयेन नाम्ना भूषिता एतादृशी सा परदेवता राजते शोभते ॥ १७१॥ १ 'दुर्निवारं'. २ 'अतन्त्रैः'. ३ निवसति'. ४ 'पुनःसविस्मयम्'. ५ 'मरकत'. ६ "निरुपम', 'निरुपधि'. For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् १४ ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - पदार्थचन्द्रिका टीका सहिता । पुनः सविस्मयम् — यः प्रभुर्यादवक्ष्माभृत्पुरस्कृत्या पुरा बभौ ॥ अधुना यादवक्ष्माभृदधेः कृत्या स भात्यहो ॥ १७२ ॥ सश्लाघम् भूभृत्यस्मिन् पक्षिराजेन पूर्व श्वेतद्वीपादाहृतां श्वेतमृत्स्नाम् ॥ धन्या नित्यं धारयन्तो ललाटे मालीमस्यं मानसं निर्मृजन्ति ॥ १७३ ॥ किंच १०३ विष्णुपद्याकलनया विश्रुतो विमलाशयः ॥ कासारोsa हरत्येनः कविः कंसारिभागिव ॥ १७४ ॥ इति विमानमितरत्र परिस्पन्दयन् सानन्दम्-रजतपीठपुरं ननु काञ्चनश्रियमिदं वहते महदद्भुतम् । इह वसन् शुभरीर्तिवहो बुधः परमयोगत एव विराजते ।। १७५ ।। किंच य इति । यः प्रभुः नारायणः पुरा कृष्णावतारे यादवानां क्ष्माभृद्राजा उग्रसेनः तस्य पुरस्कृत्या राज्यप्रदानरूपपूजया, यादवानां तु ययातिशापात् राज्यासनानर्हत्व - मिति भावः । ययातेः शापप्रकारस्तु श्रीमद्भागवतस्य नवमस्कन्धतो ज्ञातव्यः । कृष्णेनोग्रसेनाय राज्यं कथं समर्पितमित्यपि भागवतदशमस्कन्धपूर्वार्द्धतोऽवगन्तव्यम् । भौ शुशुभे । स एव नारायणः अधुना सांप्रतं यादवक्ष्माभृतो यदुशैलस्य, अधःकृत्या अधोभागकरणेन भाति । अहो आश्चर्यमिदम् । श्लेषेण विरोधालंकारः॥ १७२॥ भूभृतीति । अस्मिन् भूभृति पर्वते “ भूभृद्भूमिधरे नृ इत्यमरः । पूर्वं कृतयुगे श्वेतद्वीपात्, पक्षिराजेन गरुडेन आहृतामानीताम्, श्वेतमृत्स्नां श्वेतमृत्तिकाम् गोपीचन्दनरूपाम् । मृत्सा मृत्स्ना च मृत्तिका " इत्यमरः । नित्यं ललाटे मस्तके तिलकरूपेण धारयन्तः अत एव धन्याः पुण्यवन्तः सन्तः, मालीमस्यं मलीमसमेव मालीमस्यं खार्थे ष्यञ् । मलिनमित्यर्थः । मानसं मनः 'मानसात्' इति पाठे मालीमस्य मलिनत्वमित्यर्थः । निर्मृजन्ति शोधयन्ति १७३ ॥ "" ८८ विष्णुपद्येति । किंच विष्णुपद्याः गङ्गायाः " गङ्गा विष्णुपदी जह्वतनया" इत्यमरः । विष्णोः संबन्धिपद्यानां श्लोकानां आकलनया संगत्या रचनया च, विमल: निर्म-ल: आशयः अभिप्रायः स्थानं च यस्य सः, अत एव विश्रुतः प्रसिद्धः । कासारः सरोवरं, अत्र यदुशैले कंसारिं श्रीकृष्णं भजतीति कंसारिभाकू श्रीकृष्णभक्त इत्यर्थः । कविरिव एनः पापं हरति । उपमालंकारः ॥ १७४ ॥ इतीति । परिस्पन्दयन् गमयन् । सुगममन्यत् । रजतेति । रजतपीठं नाम पुरं नगरं ' सुवनूरु ' इति कर्णाटभाषानाम । इदं १ ' अधः कृत्वा'. २ 'मानसान्नि', 'मानसे' ३ ' विस्तुतो'. ४ ' शुभरीतिर हो'. For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [कर्णाटदेशपुनः सश्लाघम्अच्छैर्द्विजेन्द्ररमृताभिलाषादासेवितो भुव्यभिजातकीर्तिः ।। आनन्दतीर्थाह्वयमत्र कश्चिदन्वर्थयन्नाविरभून्मुनीन्द्रः ॥ १७६ ॥ कृ०-अस्तु तावदेवमथाप्यदसीयदर्शनानुवर्तिनामधुनातनानां द्विजानामपि बहव आकर्ण्यतामपचाराः ॥ ६६ ॥ सततमकृतसंध्योपास्तिरभ्यस्तशास्त्रः सवितरि गतबाल्ये काल्यसंध्यामुपास्ते ॥ तदपि भुवि न मान्यं मन्यते धन्यमन्यम् त्यजति विहितहानात्साध्वसं माध्वसंघः ॥ १७७ ।। काञ्चनस्य सुवर्णस्य श्रियं शोभा पक्षे कांचन अवर्णनीयां श्रियमिति च, वहते धारय. ति । एतन्महदद्भुतम् महदाश्चर्यम् । रजतस्य काञ्चनशोभाधारणत्वमत्यन्ताश्चर्यावहमिति भावः । कुतः इह रजतपीठपुरे वसन् वासं कुर्वन् , शुभां रीतिं आचारं आरकूटं च वहतीति तद्वहः " रीतिः स्त्रियामारकूटः" इत्यमरः । परमश्चासौ योगः समाधिः तेन, सार्वविभक्तिकस्तसिः। पक्षे परं अयसि लोहे गतः प्राप्त एवेति च । बुधः आनन्दतीर्थनामा ज्ञानी विराजते शोभते ॥ १७५ ॥ ___ अच्छैरिति । अच्छैः शुद्धान्तःकरणैः शुभैश्च द्विजेन्द्रैः ब्राह्मणश्रेष्ठैः पक्षिश्रेष्ठैः राजहंसादिभिश्च अमृतस्य मोक्षस्य जलस्य च अभिलाषात् इच्छायाः, हेतौ पञ्चमी। आसेवितः , भुवि अभिजाता कीर्तिर्यशः पङ्कश्च यस्य सः अत एव आनन्दतीर्थमिति आह्वयं नाम अन्वर्थयन् यथार्थ कुर्वन् , अत्र कश्चिन्मुनीन्द्रः आविरभूत् प्रकटो बभूव ॥ १७६ ॥ अस्त्विति । अस्तु तावदेवं त्वदुक्तप्रकार,अथापि अमुष्य आनन्दतीर्थस्य संबन्धि अदसीयं तच्च तद्दर्शनं शास्त्रं च तदनुवर्तिनां तदनुसारिणां अधुनातनानां, इदानींतनानां द्विजानां ब्राह्मणानामपि, आकर्ण्यतां बहवः न तु एकः, अपचाराः अनाचाराः ॥६६॥ सततमिति । मध्वस्य आनन्दतीर्थस्येमे माध्वाः तेषां संघः समुदायः, सततं निरन्तरं अकृता नाचरिता प्रातःकालविहितायाः संध्यायाः उपास्तिरनुष्ठानं येन तथाभूतः सन्नेव, अभ्यस्त शास्त्रः सन्नपि, न तु अज्ञः, सवितरि सूर्ये, गतं बाल्यं उदयावस्था यस्य तथाभूते सति, काले प्रातःकाले विहिता काल्या सा चासौ संध्या च तां उपास्ते । तथा च एतादृशसंध्यानुष्ठानं निष्फलमेव । “उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातःसंध्या त्रिधा स्मृता ॥” इति स्मृतेः । तदपि एवमनाचारं कुर्वन्नपि,भुवि अन्य मतान्तरस्थं मान्यं विद्वांसमपि, धन्य यथोक्तकर्मानुष्ठानादिना पुण्यवन्तं च न मन्यते । तस्य महत्त्वं नैव गणयतीत्यर्थः। अपि च १'उच्चै'. For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १४] पदार्थचन्द्रिकाटीकासहिता । किंचगायत्री सहसा जहद्भगवतीं यज्ञोपवीतं त्यजन् मुञ्चन् किंच शिखां विरक्त इव यः संप्राप्ततुर्याश्रमः ॥ आरूढश्चतुरन्तयानमभयो हा हन्त देशान्तरे वर्थानामुपसंग्रहाय विचरत्येषोऽप्यमीषां गुरुः ॥ १७८ ॥ अहो महानेष व्यामोहो विदुषामपि कलिमाहात्म्यात् ॥ ६७ ॥ पश्ययस्य कापि विलोकने सवसनं स्नानं बुधैः स्मर्यते यस्यान्नग्रहणे च निष्कृतितया चान्द्रायणं चोदितम् ॥ तस्य प्रत्युत वाहनस्थितयतेदृष्टिर्विमुक्तिप्रदा तस्यान्नं च समस्तपापहृदिति प्रत्येति विद्वानपि ॥ १७९ ॥ विहितस्य काले संध्याद्यनुष्ठानस्य हानात् त्यागात् , साध्वसं पारलौकिकभयं च त्यजति । अर्थात् शास्त्रादिकमभ्यस्यापि नास्तिक इवाचरतीति तात्पर्यम् ॥ १७७ ॥ गायत्रीमिति । किंच यः सहसा अविवेकेन भगवती ज्ञानसंपादयित्री गायत्री गायत्रीजपं जहत् त्यक्त्वा, यज्ञोपवीतं च यजन् त्रोटयित्वेत्यर्थः । किंच शिखामपि मुञ्चन् उत्पाट्य, संप्राप्तः खीकृतः तुर्याश्रमः चतुर्थाश्रमः संन्यासाश्रम इत्यर्थः । विरक्त इव वस्तुतस्तु अविरक्त एव, चतुरन्तयानं चतुर्भिर्वाह्यं आन्दोलिकारूपमित्यर्थः । आरूढः सन् , अभयः लोक-शास्त्रभयरहितः, देशान्तरेषु अर्थानां द्रव्याणां उपसंग्रहाय विचरति परिभ्रमति । एषः एतादृशाचारभ्रष्टोऽपि, अमीषां माध्वानां गुरुर्भवति हाहन्तेति खेदे । वस्तुतः संन्यासिना विरक्तेन भाव्यं, विरक्तं प्रत्येव तस्य विधानात् । अयं माध्वसंन्यासी तु दम्भार्थमेव संन्यासाश्रमं स्वीकृत्य शिबिकामारुह्य द्रव्यमर्जयति राजादिवत् । एतेनाचरणेन विरक्तिस्तु नैव, परं विषयासक्तिरधिकं वर्धते । तेन चान्ते नरकपात एव स्यादिति भावः ॥ १७८ ॥ अहो इति । एष वक्ष्यमाणरूपः विदुषामपि व्यामोहो भ्रमः ॥ ६७ ॥ यस्येति । यस्य वाहनस्थितयतेः क्वापि यत्रकुत्रापि नतु विवक्षितस्थलविशेष एव, विलोकने दर्शने सति, बुधैः पण्डितैः सवसनं सचैलं स्नानं स्मर्यते । तच्चेत्थम्" वाहनस्थं यतिं दृष्ट्वा सचैलं स्नानमाचरेत्" इति । यस्य वाहनस्थयतेरेव अन्नग्रहणे अन्नस्वीकारे च सति, निष्कृतितया प्रायश्चित्तरूपेण " ब्रह्मचारि-यतीनां तु भुक्त्वः चान्द्रायणं चरेत् " इत्यादिस्मृत्या चान्द्रायणं शुक्लपक्षे प्रतिपद्दिनमारभ्य एकैकान. ग्रासवृद्ध्या, कृष्णपक्षे चैकैकग्रासहान्या च भोजनरूपं, चोदितमुक्तम् । तस्य प्रत्युत विरुद्धाचरणशीलस्येत्यर्थः । वाहने स्थितस्य यतेः संन्यासिनः दृष्टिदर्शनं विमुक्तिं प्रददातीति तथाभूता, तस्यानं च समस्तानि निखिलानि पापानि हरतीति हृत् इति विद्वानपि, न तु अविद्वानेव । प्रत्येति जानाति निश्चिनोतीत्यर्थः ॥ १७९ ॥ For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ विश्वगुणादर्शचम्पू: [ कर्णाटदेश पश्य तावत्कलिकालनरपालस्य गृहस्थेषु प्रद्वेषं भिक्षुषु पक्षपातं च ॥ ६८ ॥ भिक्षां कष्टमन्ति कुक्षिभृतये पादौ गतैः क्लेशय न्त्याच्छन्नाः शिथिलैः पटैश्च गृहिणो जीर्णे गृहे शेरते ॥ राजत्सूक्ष्मपटाः प्रशस्तशिबिकारूढा गृहिभ्योऽन्नदा ग्रावव्यूहहढे मठे स्थितिजुषो धन्या हि संन्यासिनः ॥ १८० ॥ अन्यच्च -- अनभ्यस्य वेदानही शास्त्रवादान् पठन्तः स्फुटं ये बतैतन्मतस्थाः ॥ अधीशाननादृत्य तद्धत्यपूजा पराणां नराणां पदं ते भजन्ते ॥ १८९ ॥ पश्येति । तावत्कलिकालरूपस्य नरपालस्य राज्ञः गृहस्थेषु गृहस्थाश्रमिषु प्रद्वेषं, भिक्षुषु संन्यासिषु “भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी" इत्यमरः । पक्षपातं च पश्य ॥ ६८ ॥ >> भिक्षामिति । गृहिणी गृहस्थाश्रमिणः कुक्षिभृतये उदरपोषणार्थं भिक्षां भिक्षार्थं अटन्ति संचरन्ति । गतैः गमनैः पादौ क्लेशयन्ति च । शिथिलैर्जीर्णैः पटैर्वस्त्रश्चाच्छन्नाः सन्तः जीर्णे गृहे शेरते शयनं कुर्वन्ति निवसन्तीत्यर्थः । " शीङो स्ट्र इति झस्य रुडागमः । संन्यासिनो हि संन्यासिनस्तु गृहिभ्यो गृहस्थाश्रमिभ्योऽन्नदा अन्नप्रदातारः, भिक्षुभ्यो गृहस्थैरन्नं देयमिति हि वास्तवो धर्मः । राजन्तः शोभमानाः सूक्ष्माच पटा वस्त्राणि येषां ते तथाभूताः, बहिर्गमन वेलायामिति शेषः । प्रशस्तायां विस्तृतायां शिबिकायामान्दोलिकायां आरूढाश्च सन्तः, ग्राव्णां पाषाणानां पाषाण- प्रस्तरप्रावोपलाश्मानः शिला दृषत् " इत्यमरः । व्यूहैः समूहैः दृढे अभेमठे, स्थिति वासं जुषन्ति कुर्वन्तीति तथोक्ताः ते धन्याः । धन्यपदमेतन्निन्दायोतकम् ॥ १८० ॥ ८८ अनभ्यस्येति । ये लोकाः वेदान् अनभ्यस्य वेदाभ्यासमकृत्वेत्यर्थः । अहो केवलं शास्त्रवादानेव पठन्तः सन्तः, एतन्मतस्था: माध्वमताभिमानिनः, वेदाध्ययनाभावे केवलं शास्त्राध्ययने दोषमाहुर्मन्वादयः । यथा - " योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ " इति । ते लोका: अधीशाननादृत्य तिरस्कृत्य तद्भृत्यपूजापराणां तेषां अधीशानां भृत्यपूजायां सेवक पूजायां परा आसतास्तेषां नराणां पदं स्थानं, स्फुटं स्पष्टं यथा तथा लभन्ते । बतेति खेदे । यथा तावत्प्रभुसेवामुपेक्ष्य तद्भृत्यसेवका निन्द्याः दण्डार्हाश्च भवन्ति, तथा एते माध्वा अपि निखिलपुरुषार्थसाधकं वेदमनादृत्य केवलं शास्त्रपठनपरा इहलोके निन्द्याः, लोके च तीक्ष्णयमयातनाभुज एवेति भावः ॥ १८१ ॥ पर १ 'तक्तपूजापराणाम् . > For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १४] पदार्थचन्द्रिकाटीकासहिता । १०७ किंचएकादश्यां कालयो.महाना देषामग्मिलौकिकत्वं यदागात् ॥ तस्मादेषां व्यर्थहिंसानिवृत्त्यै स्यादुत्कृष्टः पिष्टपश्चादरोऽपि ॥ १८२ ।। वि०-किमरे केशवभक्तिप्रकर्षदीप्रानपि विप्रान् दूषयसि ? शुद्धौ किल मध्वसिद्धान्तनिष्ठानामियं हृदयं जैरीहरीति रीतिः॥६९ ।। आबालस्थविरं स्थिरं हरिदिने शुद्धोपवासव्रतम् ॥ निष्प्रत्यूहमहर्निशं विजयते नारायणाराधनम् ॥ श्लाघ्या भागवतेषु भक्तिरमिता श्रद्धा च येषां दृढा शास्त्रे खीयेगुरूदिते न चरितं साध्वेषु माध्वेषु किम्॥१८३।। एकादश्यामिति । किंच एकादश्यां एकादशीदिने कालयोः प्रातः सायमित्युभयोः, सप्तमीयम् । होमहानात्, यतस्तन्मते स्नान-संध्या-विष्ण्वर्चनत्रयातिरिक्तस्य कर्ममात्रस्यैकादश्यां त्यागावश्यकत्वम् । एषां माध्वानां यदा अग्निः गार्हपत्यादिः लौ. किकत्वं आगात् प्राप्तः एककालहोमाकरणे अग्नेलौकिकत्वं श्रुति-स्मृतिविहितम् । तस्मात्कारणादेषां व्यर्थहिंसायाः प्राकृतानौ कृतहविस्त्यागस्य व्यर्थत्वात् निष्फल. पशुहिंसायाः निवृत्त्यै निवारणार्थ पिष्टपशोः आदरोऽङ्गीकारोऽपि उत्कृष्टः स्यात् । एवं च एकादश्यां होमत्यागात् यज्ञसमये च कुत्रापि शास्त्रे अविहितस्य पिष्टपश्वालम्भनस्य च करणात् निन्द्या एवैते इति भावः ॥ १८२ ॥ किमिति । किमरे केशवभक्तर्विष्णुभक्तेः प्रकर्षणाधिक्येन दीप्रान् तेजोयुक्तानपि " नमि-कम्पि-" इत्यादिना रः । विप्रान् दूषयसि ? परंतु मध्वसिद्धान्ते मध्वाचार्यप्रोक्तशास्त्रे निष्टा आसक्तिर्येषां तेषां इयं वक्ष्यमाणा शुद्धा दूषणानहीं रीतिराचारः, हृदयं जरीहरीति वारंवारं भृशं वा हरति । अतिमनोहरेत्यर्थः । 'हृञ् हरणे' इत्यस्माद्यङ्लुकि लटि रूपम् । " यडो वा" इतीडागमः।" ऋतश्च " इत्यभ्यासस्य रीगागमश्च ॥ ६९॥ आबालेति । येषां माध्वानां आबालस्थविरं बालमारभ्य वृद्धपर्यन्तं 'आङ्मर्यादा-" इति समासः । हरिदिने एकादशीदिने स्थिरं शुद्धं उपवासस्य निराहारस्य व्रतं नियमः। विजयते सर्वत्रेदमेव क्रियापदमन्वेतव्यम् । अहर्निशं निष्प्रत्यूहं निर्विघ्नं यथा तथा नारायणस्य विष्णोः आराधनं सेवनं, भागवतेषु भगवद्भक्तेषु च श्लाघ्या स्तुत्या अमिता अतुला भक्तिः, स्वीयगुरुभिः उदिते कथिते शास्त्रे दृढा कदापि विना१ 'शुद्धा हि'. २ 'हृदयरञ्जनी रीतिः'. ३ 'अहर्दिवं'. ४ 'अधिका'. ५ 'सा च'. For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [कर्णाटदेश १०८ विश्वगुणादर्शचम्पू:- एतद्गुरूणां पुनर्यतीनामेषामाकलितदोषवैधुर्या एषा शुभचर्या ॥७॥ दनुजभिदभिषेकैः सत्पुराणावलोकैः ___ पुनरपहतमोहैः पुण्यतीर्थावगाहैः ॥ भवकथनविदूरैर्ब्रह्मविद्याविचारैः ।। क्षणमिव शुभचर्याः कालमेते नयन्ति ॥ १८४ ॥ यदपि तदुपरि त्वया दूषणमुपन्यस्तं तदपि मदपिहितहृदयेभ्यो भवाशेभ्य एव रोचते न तु गुणग्राहिभ्यः ॥ ७१ ॥ तत्तद्देशनिवासिशिष्यनिवहत्राणाय गुर्वाज्ञया संचाराक्षम एष विन्दति यतिश्चेद्वाहनं का क्षतिः ? ॥ शरहिता, श्रद्धा आस्तिक्यबुद्धिश्च विजयते सर्वोत्कर्षेण विद्यते। तस्मात् एषु माध्वेषु साधु शोभनं चरितं न किम् ! अपि तु अस्त्येवेत्यर्थः ॥ १८३ ॥ एतदिति । एतेषां माध्वानां गुरवस्तेषां पुनर्यतीनां संन्यासिनां एषां, आकलितं प्राप्तं दोषाणां पूर्वोक्तानां वैधुर्यमभावो यस्याः सा तथोक्ता एषा वक्ष्यमाणा शुभचर्या शुभाचरणम् ॥ ७० ॥ दनुजेति । दनुजान् दैत्यान् “ असुरा दैत्य-दैतेय-दनुजेन्द्रारि-दानवाः" इत्यमरः । भिनत्ति नाशयति तथोक्तो विष्णुस्तस्याभिषेकैः, भवस्य संसारस्य कथनेन वि. दूरैः रहितैः पुनश्च अपहतो नष्टो मोहोऽज्ञानं यैस्तथाभूतैः, यच्छ्रवणादिना सद्यो मोहनिराकरणं भवति तथोक्तैरित्यर्थः । सत्पुराणानां भगवचरितप्रतिपादकत्वेन प्रशस्तपुराणग्रन्थानां अवलोकैः विचारैः, ब्रह्मविद्याया वेदान्तशास्त्रस्य विचारैश्च । 'अपहतमोहै: ' ' भवकथन-' इत्यादिविशेषणद्वयमत्राप्यनुषजनीयम् । पुण्यतीर्थानां गङ्गादीनामवगाहैः स्नानैश्च शुभा निर्मला चर्या आचरणं येषां तथाभूता एते संन्यासिनः क्षणमिव कालं नयन्ति निर्यापयन्ति ॥ १८४ ॥ यदपीति । यदपि त्वया ' सततमकृतसंध्योपास्तिः' इत्यादिना तदुपरि माध्वसंन्यासिषु दूषणमुपन्यस्तमारोपितं, तदपि मदेनाज्ञानेन पिहितमाच्छादितं हृदयमन्तःकरणं येषां तेभ्यो भवादृशेभ्यस्त्वत्सदृशेभ्य एव "आ सर्वनाम्नः" इति भवच्छब्दस्याकारादेशः । रोचते । गुणग्राहिभ्यस्तु न, रोचते इत्यनुषजनीयम् ॥ ७१॥ अथ · भिक्षां कष्टमटन्ति-' इत्यादिनोक्तं दूषणं निराकरोति-तत्तद्देशेति । एष यतिः माध्वसंन्यासी गुरोः मध्वाचार्यस्य आज्ञया ' देशान्तरनिवासिनः शिष्यान् मन्त्रोपदेशेनानुगृहाण ' इत्यात्मिकया तत्तद्देशनिवासिनः निकटदेशवासिनः शिध्यनिवहस्य शिष्यसमूहस्य “ समूहे निवह-व्यूह-" इत्यमरः । त्राणाय मन्त्रोपदेशद्वारेण रक्षणाय संचारे केवलं पादमात्रेण गमने अक्षमः सन् वा १ 'तत्पुराणावलोकैः'. २ 'कदन'. ३ 'यतिवर्याः'. ४ 'मदविहित, मदनपिहिति'. For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १४] पदार्थचन्द्रिकाटीकासहिता । १०९ दत्तं वित्तमशेषमास्तिकजनैर्दैत्यारिनित्यार्चना सात्कृत्य स्वयमस्पृशन् वसति चेन्निन्दास्ति किं तावता॥१८५॥ किंचखामिनि विनियुक्तानां खत्वेनानध्यवस्यता यतिना ॥ कत्यं यत्यन्नत्वं प्रत्यवयन्त्यत्र तद्भुर्जश्च कुतः ? ॥ १८६ ॥ एतेन मतान्तरस्था अपि मठाधिपतयो यतयो व्याख्याताः । इदं चावधेयम् ॥ ७२ ॥ यदि कतिपये जात्वालस्याद्यथासमयं द्विजा बत न तनुयुः संध्योपास्ति भविष्यति किं ततः ॥ निगमचरितानङ्गीकारो हि दूषणमाङ्गिना मशकनवशादोषायैषां न जात्वननुष्ठितिः ॥ १८७ ॥ हनं शिबिकादिरूपं विन्दति चेत् का क्षतिः हानिः ? तथा अस्ति परलोक ईश्वरो वा इति बुद्धिर्येषां तैर्जनैः दत्तं समर्पितं अशेषं संपूर्णमपि वित्तं दैत्यारेः श्रीविष्णोः नित्यार्चनायाः नित्यपूजायाः सात्कृत्य अधीनं कृत्वा "तदधीनवचने" इति सातिः । स्वयं अस्पृशन् सन् वसति चेत् , तावता निन्दा अस्ति किम् ? नास्त्येवेत्यर्थः । गुर्वाज्ञया परोपकारार्थ वाहनेन देशान्तरसंचारादौ न कोऽपि दोष इति भावः ॥१८५॥ इदानीं 'यस्य क्वापि विलोकने' इत्यादिनोक्तं दूषणं परिहरन्नाह-स्वामिनीति । किंच खत्वेन स्वकीयत्वेन अनध्यवस्थता अनभिमन्यमानेन यतिना माध्वसंन्यासिना, खामिनि विष्णौ विनियुक्तानां समर्पितानां अन्नानां, यत्यन्नत्वं क्वयं कुतः प्राप्तम् ? तथा तत् ईश्वरसमर्पितमन्नं भुञ्जन्ति ते तद्भुजः तेऽपि, अत्र भक्षणे कृते सति कुतो हेतोः प्रत्यवयन्ति दोषयुक्ता भवन्ति ? अपि तु नैव भवन्तीत्यर्थः ॥ १८६ ॥ एतेनेति । एतेन खामिनीत्यादिवचनेन मतान्तरस्थाः शांकर-रामानुजीयादयः मठाधिपतयो यतयः संन्यासिनो व्याख्याताः दोषरहिताः कृताः । इदं वक्ष्यमाणं अवधेयं च ॥ ७२॥ अथ 'सततमकृतसंध्योपास्तिरभ्यस्तशास्त्रः-' इत्यादिश्लोकोक्तदूषणं निवारयन्नाह-यदीति । कतिपये कतिचन नतु सर्वे, द्विजाः मध्वमतस्था ब्राह्मणाः यदि जातु कदाचित् नतु सर्वकालं, आलस्यात् अलसस्य अशक्तेर्भावः आलस्यं तस्मात् , यथासमयं कालमनतिक्रम्य, संध्योपास्ति संध्यानुष्ठानं न तनुयुः बत न कुर्युः, तर्हि ततः किं भविष्यति ? न किमपीति भावः । ननु कालातिक्रमे दोष एव शास्त्रेण विहितः, एवं सति कथमिदमुच्यते इति चेत्तत्राह-निगमेति । हि यस्मात् कारणात् निगमचरितस्य श्रुति-स्मृति विहितकर्मणः अनङ्गीकारः नास्तिकत्वादखीकरणं, अङ्गिनां १ 'सत्त्वेनानध्यवस्यता'. २ 'तद्भुजस्तु'. ३ 'जातालस्याः'. १० For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० विश्वगुणादर्शचम्पू:- [कर्णाटदेशकिंच 'पन्थानमनुरुन्धानः पित्रादेर्नैव दुष्यति' । इति स्मृतिमधीयानैरेषां दोषो हि दुर्वचः ॥ १८८ ॥ इति विमानं दूरतः समानयन् परितो दृष्ट्वाभाषा-वेषाचारैर्भूषाभिः पूरुषाश्च योषाश्च ॥ वीक्षख प्रतिदेशं विलक्षणा एव हन्त लक्ष्यन्ते ॥ १८९ ॥ कृ०—सखे वीक्षखेति मा वोचः । किंतु सत्वरमैतिक्राम कीशकल्पजनानिमान् जनपदान् ।। ७३ ॥ चन्द्रालोकचयान्धकारभरयोश्चाम्पेय-किम्पाकयो राजत्कुण्डलिराज-राजिलकयो राजीव-धत्तूरयोः ॥ मनुष्याणां दूषणं भवति । किंतु अशकनवशात् अशक्तिपारतन्त्र्यात् अननुष्ठितिः कालातिक्रमणरूपा, जातु कदाचिदपि एषां माध्वानां दोषाय न भवति ॥१८॥ अथ 'एकादश्यां कालयो.महानात्' इत्यादि दूषणं परिहरति-पन्थानमिति । 'पित्रादेः पितृ-पितामह-प्रपितामहादिगुरुजनस्य पन्थानं आचरणमार्ग. मनुरुन्धानः अनुसरन् , नैव दुष्यति' इत्यर्थिकां स्मृति अधीयानैः, अभ्यसमानैः ज्ञानिभिः, एषां माध्वानां दोषः एकादशीदिने होमाकरणादिरूपः, दुर्वचः वक्तुमशक्यः । हिरवधारणे । त्वादृशैः पुरोभागिभिस्तु सुशक इति भावः ॥ १८८॥ इतीति । इत्युक्त्वा विमानं दूरतः दूरे । सार्वविभक्तिकस्तसिः । समानयन् परितः आसमन्तात् दृष्ट्रा आहेति शेषः। भाषेति । भाषाश्च वेषाश्च आचाराश्च तैः, भूषाभिः कटक-कुण्डल-हाराद्यलंकारैः करणैः, विलक्षणाः भिन्नभिन्नप्रकाराः पूरुषाः “पुरुषाः पूरुषा नराः" इत्यमरात् दीर्घादिरपि । योषाः स्त्रियश्च "स्त्रीयोषिदबला योषा" इत्यमरः । प्रतिदेशं देशे देशे । हन्तेत्यानन्दे । लक्ष्यन्ते दृश्यन्ते वीक्षख । अवलोकय ॥ १८९॥ एवमुक्ते अतीव निर्वेदयुक्तः कृशानुराह-सखे इति । हे सखे, 'वीक्षख' इति मा वोचः मा वद । 'वच परिभाषणे' इत्यस्माल्लुङि “अस्यति-वक्ति-" इत्यादिना अङि “वच उम्" इति उम् । माड्योगादडागमाभावः । किंतु सत्वरं कीशकल्पाः वानरसदृशाः “ईषदसमाप्तौ कल्पप्-" इत्यादिना कल्पप्प्रत्ययः । जनाः येषु तान् जनपदान् देशान् अतिकाम अतिक्रम्य गच्छ । क्रमेलॊण्मध्यमपुरुषैकवचनम् । “वा भ्राश-भ्लाश-" इत्यादिना श्यन्विकल्पात् पक्षे शप् ॥ ७३ ॥ सत्वरमतिक्रमणे को हेतुरित्याह--चन्द्रालोकेति । चन्द्रालोकचयः चन्द्रप्र. काशसमूहश्च अन्धकारभरः अन्धकारातिशयश्च तयोः, चाम्पेय-किम्पाकयोः केसर १ 'दृश्यन्ते'. २ 'वयस्य'. ३ 'अतिक्रमावः'. For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १५] पदार्थचन्द्रिकाटीकासहिता । खेलत्कोकिललोक-काककुलयोः क्षीरार्णवान्ध्वोरिव व्यक्तं पण्डित-मूर्खयोः समदृशो व्रात्या इहत्या अमी ॥ १९० ॥ अथ वेङ्कटगिरिवर्णनम् १५. विश्वावसुः-ओमित्यग्रे विमानमुपानयन् सानन्दं साञ्जलिबन्धं चसुरभितमतमालस्तोमपुष्यद्रसाल प्रकरतिलकसालप्रेष्ठसुठुद्रुजालः ॥ श्रितसमवनशीलः श्रीशलीलानुकूलः शिथिलितभवमूलः सेव्यतां शेषशैलः ॥ १९१ ॥ विषवृक्षयोः, सर्वत्र द्वन्द्वः । “चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः”। महा. काललतायां च किम्पाकः" इत्यमर-रत्नमालयोः । राजत्कुण्डलिराज-राजिलकयोः सुशोभितसर्पराज-डुण्डुभयोः । डुण्डुभो नाम द्विमुखो निर्विषश्च हीनसर्पः । “कुण्डली गूढपाचक्षुःश्रवाः काकोदरः फणी" । "अलगर्दो जलव्याल: समौ राजिल-डुण्डुभौ" इत्युभयत्राप्यमरः । राजीव-धत्तूरयोः कमलोन्मत्तपुष्पयोः । “उन्मत्तः कितवो धूर्तो धत्तूरः कनकायः” इत्यमरः । खेलन् मधुरविरावादिलीलां कुर्वन् यः कोकिलानां लोकः समूहः काकानां कुलं च तयोः, क्षीरार्णवान्भ्वोः क्षीरसमुद्र-कूपयोश्चेव । अयं व्यवहितोऽपि इवशब्दः उपरि सर्वत्र योज्यः । इहत्याः कर्णाटदेशीयाः अमी व्रात्याः जनाः विधिवदध्ययनादिसंस्कारहीनाः, "व्रात्यः संस्कारहीनः स्यात्" इत्यमरः । व्यक्तं स्फुटं यथा तथा पण्डित-मूर्खयोः, समं न्यूनाधिकभावरहितं यथा स्यात्तथा पश्यन्तीति ते तथोक्ताः सन्तीति शेषः । तस्मादचिरादेवेतः स्थानादतिकमणं श्रेय इति भावः ॥ १९० ॥ साम्प्रतं वेङ्कटाचलवर्णनार्थ विश्वावसोः कृशानुवचनाङ्गीकारपूर्विकामुक्तिमाह-ओमिति । ओमित्यङ्गीकारे । तद्भाषणमङ्गीकृत्येत्यर्थः । अग्रे इत्यादि स्पष्टम् । सुरभीति। सुरभितमाः अतिसुगन्धयुक्ताश्च ते तमालास्तापिच्छवृक्षास्तेषां स्तोमः समूहः । “कालस्कन्धस्तमाल: स्यात्तापिच्छः” इत्यमरः । पुष्यन् प्रतिदिनं वृद्धिं प्राप्नुवन् रसालानां आम्रवृक्षाणां प्रकरः समुदायः। "आम्रचूतो रसालोऽसौ सहकारोतिसौरभः" इत्यमरः । तिलकाः क्षुरकवृक्षाः "तिलकः क्षुरकः श्रीमान्" इत्यमरः । सालाः सर्जसंज्ञका वृक्षाश्च ते प्रेष्ठाः मुख्याः येषु तानि सुष्ठद्रूणां शोभनवृक्षाणां जालानि वृन्दानि यस्मिन् सः । प्रेष्ठ इत्ययं शब्दः प्रियशब्दात् इष्टनि सिध्यति । ततश्च प्रेष्ठ इत्यस्य प्रियतम इत्येवार्थो न्याय्यः, अथाप्यत्र पूर्वापरसंबन्धात् मुख्य इत्यर्थकरणं यु १ 'प्रष्ठ'. For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ विश्वगुणादर्शचम्पू:- [वेङ्कटगिरिपुनः सहर्षम्-- पन्नगेषु च नगेषु खगेषु द्वीपिराजसु पृषत्सु दृषत्सु ॥ वल्लरीषु च दरीषु झरीषु प्रार्थयन्ति जनिमत्र मुनीन्द्राः ॥ १९२ ॥ विविधनिगमसारे विश्वरक्षकधीरे वृषशिखरिविहारे वक्षसाऽऽश्लिष्टदारे ॥ भगवति यदुवीरे भक्तबुद्धेरदूरे भवतु चिरमुदारे भावना निर्विकारे ॥ १९३ ॥ अहो महोन्नता खल्वस्य शैलस्य धन्यता ॥ ७४ ॥ क्तम् । कस्मिंश्चित् पुस्तके 'प्रष्ठ' इति पाठान्तरं दृश्यते, तदा तु सुतरां मुख्या इत्यर्थलाभः।श्रितानां आश्रितानां भक्तानामिति यावत् । समवनं सम्यप्रक्षणं तदनुरूपं शीलं खभावो यस्य सः। तथा श्रीशस्य श्रीनिवासाभिधविष्णुमूर्तेः लीलानां क्रीडानां अनु. कूलः, तथा शिथिलितं भवस्य संसारस्य मूलं मायामोहरूपं येन सः अयं शेषशैलः वेङ्कटाचलः सेव्यतां आश्रीयताम् । त्वयेति परिशेषात् ॥ १९१॥ पन्नगेष्विति । अत्र शेषशैले पन्नगेषु सर्पेषु, नगेषु वृक्षेषु, खगेषु पक्षिषु, द्वी. पिराजसु व्याघ्रराजसु, महाव्या वित्यर्थः । “शार्दूल-द्वीपिनौ व्याघे” इत्यमरः । धृषत्सु मृगेषु “पृषन्मृगे पुमान् विन्दौ न द्वयोः पृषतोऽपि ना" इति कोशः । दृषत्सु, पाषाणेषु, “पाषाण-प्रस्तर-प्रावोपलाश्मानः शिला दृषत्" इत्यमरः । वल्लरीषु वल्लीषु, दरीषु गुहासु वा, झरीषु जलप्रवाहेषु,मुनीन्द्राः स्थानान्तरनिवासिनः ऋषयः, जनिं जन्म “जनुर्जनन-जन्मानि जनिरुत्पत्तिरुद्भवः” इत्यमरः । प्रार्थयन्ति । सर्पवृक्षादिरूपेणाप्यत्रास्माकं जन्म भवतु इति वाञ्छन्तीत्यर्थः । एतेन तत्स्थानस्यातीव श्रेयःसंपादकत्वं सूचितम् ॥ १९२ ॥ विविधेति । विविधनिगमानां कर्म-ज्ञानोपासनारूपविविधमार्गप्रतिपादकानां वेदशास्त्राणां साररूपःप्रतिपाद्यस्तस्मिन् , विश्वस्य जगतो रक्षायां एक एव धीरः समर्थ. स्तस्मिन् , वृषशिखरिः शेषशैलः तस्मिन् विहारः क्रीडा यस्य तस्मिन् , वक्षसा हृदयेन आश्लिष्टा दाराः भगवती लक्ष्मीपत्नी येन सः तस्मिन् , भक्तानां बुद्धेः अदूरे समीपस्थिते भक्तानामपरोक्षज्ञान विषय इत्यर्थः । उदारे महति, निर्विकारे जन्ममरणादिविकाररहिते, भगवति यदुवीरे श्रीकृष्णे भावना ध्यानरूपाऽऽसक्तिः चिरं चिरकालं निरन्तरमित्यर्थः । भवतु ॥ १९३ ॥ अहो इति । अहो इत्याश्चर्ये । अस्य शैलस्य शेषाचलस्य धन्यता महोनताअतीव श्रेष्ठा किल अस्ति ॥ ७४ ॥ - १ 'दीपिराजिषु'. For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १५] पदार्थचन्द्रिकाटीकासहिता । ११३ यतः वैकुण्ठेऽपि निरुत्कण्ठमकुण्ठविभवं महः ॥ तदत्र चित्रचारित्रं रमते रमया समम् ॥ १९४ ॥ इति सानन्दं ध्यायति । कृ०–हन्त व्यपेतविषयान्तरव्यासङ्गं त्वदन्तरङ्गं देव एवास्मिन्ननुभवति दृढसङ्गम् ॥ ७५ ॥ वि०-सखे सत्यमेवोदितं भवता ॥ ७६ ॥ दधती चिराय सुदतीमुरःस्थले तदतीतसीम ददती सुखं सताम् ॥ रसिकस्य चित्तमिह कस्य देवता प्रतिपन्नपन्नगनगा न गाहते।।१९५॥ कृ०–किमरे केवलमर्थपरममुं देवमनुसंधत्से ॥ ७७ ॥ कुत एतदित्यत आह-वैकुण्ठे इति । यत् अकुण्ठः लोकत्रयेपि प्रतिबन्धरहितः विभवः नित्यानन्दादिरूपं ऐश्वर्य, दुष्टनिराकरण-सज्जनपालनादिरूपसामर्थ्य वा यस्य, तत् महः वैष्णवं तेजः, वैकुण्ठेऽपि निरुत्कण्ठं आसक्तिरहितं सत् , अत्र शेषशैले चित्रं चारित्रं यस्य तथाभूतं च सत् , रमया लक्ष्म्या समं सहितं रमते क्रीडति ॥ १९४॥ हन्तेति । हन्तेल्याश्चर्ये । व्यपेतः निर्गतः विषयान्तरस्य एतद्देवताध्यानादन्यविषयस्य व्यासङ्गः विशिष्टग्रहो यस्य तत् त्वदन्तरङ्गं तव चित्तं, अस्मिन् देवे श्रीनिवासे एव दृढसङ्गं अत्यन्तासक्ति अनुभवति ॥ ७५ ॥ अतीवानन्देनाह विश्वावसुः-सखे इति । हे सखे, भवता सत्यमेव उदितं कथितम् ॥ ७६ ॥ कुत इति चेत्तदाह-दधतीति । चिराय चिरकालं उरःस्थले वक्षस्थले सुष्ठ शोभनाः दन्ताः यस्याः सा तां लक्ष्मीमित्यर्थः । “संख्या-सुपूर्वस्य" इत्यनुवर्तमाने "वयसि दन्तस्य दत" इति दत्रादेशः । "उगितश्च" इति डीप । दधती धारयित्री, तथा सतां साधूनां तत् प्रसिद्ध अतीता निर्गता सीमा मर्यादा यस्मात् तत् निरवधीत्यर्थः । सुखं ददती अर्पयित्री । अभ्यस्तत्वानुमभावः । सतामित्यत्र षष्ठी प्रामादिकी । संप्रदानत्वाच्चतुर्थ्या विधानात् । प्रतिपन्नः स्वीकृतः पन्नगनगः शेषशैलः यया सा देवता श्रीनिवासरूपा, इह कस्य रसिकस्य ब्रह्मरसविदः । “रसो वै सः" इति श्रुतेर्ब्रह्मरसस्यैव मुख्यरसत्वम् । चित्तमन्तः करणं न गाहते न प्रविशति ? अपि तु सर्वस्यापि प्रविशतीत्यर्थः ॥ १९५ ॥ इदानीं कैश्चित् प्रतिश्रुताप्रदाने सा देवता कुप्यतीति प्रसिद्धिपुरस्कारेणाह१ 'सह'. २ 'सत्यमेव विदितम्'. For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ विश्वगुणादर्शचम्पू:- [वेङ्कटगिरिइष्टप्राप्तिमनिष्टभङ्गमपि वा संप्रार्थ्य भक्त्या जनै र्यातव्यमिति प्रतिश्रुतमभूद्रव्यं तदाप्ते फले ॥ ते दास्यन्ति न चेत्स्वयं भयमसावुत्पाद्य तेषां पुनः __कृत्स्नं सार्थहिरण्यहृत्पद इदं गृह्णाति वृद्ध्या समम् ॥ १९६ ॥ किंचतातेत्यामन्त्र्य कंचिद्वनभुवि तृषितस्तोयबिन्दून्ययाचे कस्याप्युच्चैस्तटाकं खनत इह गिरौ हन्त मृद्भारमूहे ॥ दत्तां केनापि सूनावलिमधिमुकुटं मृन्मयीमेव दधे सोऽयं भूयः श्रुतिज्ञैर्भुवनपतिरिति स्तूयते ध्यायते च ॥१९७॥ किमरे इति । अरे विश्वावसो ! केवलमर्थपरं द्रव्यासक्तममुं देवं, एवं, पूर्वोतप्रकारेण, किं कुतो हेतोरनुसंधत्से ध्यायसि ? ॥ ७७ ॥ अर्थपरत्वमेवाह-इष्टप्राप्तिमिति। जनैः सेवकलोकैः इष्टप्राप्ति अनिष्टभङ्गं संकटनाशं, वा समुच्चयार्थकः । तदुभयमपि संप्रार्थ्य, भक्त्या यत् द्रव्यं दातव्यं देयमिति प्रतिश्रुतं प्रतिज्ञातं अभूत् , अथ फले प्रार्थितप्राप्तिरूपे आप्ते प्राप्ते सति, तत् पूर्वप्रतिज्ञातं ते जनाः स्वयं न दास्यन्ति नार्पयिष्यन्ति चेत् , असौ देवः तेषां जनानां भयं व्याध्यादिरूपं उत्पाद्य, तेभ्यः पुनः सार्थे यथार्थ हिरण्यं धनं, अथवा हिरण्यकशि, नामैकदेशे नामग्रहणात् । हरति गृह्णातीति तथाभूतं पदं वाचकः शब्दः यस्य तथाभूतः । पुनः इदं द्रव्यं वृद्ध्या अधमर्णदेयमूलाधिकद्रव्येण समं कृत्स्नं संपूर्णमपि गृह्णाति । दीनदयालोर्भगवत एतदनुचितमित्यर्थः ॥ १९६ ॥ किंच यद्ययं सर्वशक्तिमान् स्यात्तदेदमत्यन्तानुचितमित्याह-तातेतीति । योऽयं वनभुवि अरण्यभूमौ तृषितः सन् कंचिदपि पुरुषं 'हे तात!' इति सकरुणमामन्त्र्य संबोध्य, तोयबिन्दून उदककणान् ययाचे याचितवान्। तथा इह गिरौ शेषाचले कस्यापि पुरुषस्य तटाकं खनतः सतः, उच्चैरतिमहान्तं, हन्तेति विषादे । मृद्भारं मृत्तिकासमूह ऊहे धृतवान् । तथा केनाप्यज्ञातकुलगोत्रेण दत्तां समर्पितां मृन्मयीमेव मृत्तिकाप्रचुरामेव । प्राचुर्ये मयद । सूनावनिं पुष्पमालां अधिमुकुटं मुकुटे इत्यर्थः । दधे धृतवान् । सः अयं भूयः वारंवारं श्रुतिज्ञैः वेदविद्भिः भुवनपतिरित्युक्त्वा स्तूयते, ध्यायते चेत्यपि । एतस्मात्तु दरिद्रसादृश्यं प्रतीयते इति भावः । एतत्कथात्रितयमपि श्रीवेङ्कटाचलमाहात्म्यतोऽवगन्तव्यम् । अत्र वाच्यया निन्दया परमकारुणिकत्व-भक्तवात्सल्यादिरूपस्तुतिप्रतीतेाजस्तुतिरलंकारः ॥ १९७ ॥ For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १५] पदार्थचन्द्रिकाटीकासहिता। ११५ वि०-किमरे करुणानिधये वेङ्कटाचलपतयेऽप्यसूयसि ? शृणु तावत् ॥ ७८ ॥ नियन्ता जन्तूनां निखिलजंगदुत्पादविभव__ प्रतिक्षेपैः क्रीडन् परमपुरुषः पन्नगनगे ॥ परत्वे सौलभ्यप्रकटनकृते वेङ्कटपतिः ___ कृपासिन्धुः कां का नेनु मनुजलीलां न तनुते ॥ १९८ ॥ किंचकिमप्युपादाय दिशन्नभीष्टं कृत्स्नं जनेभ्यः पतिरञ्जनाद्रेः ॥ कृष्णावतारीयकुचैलसंपत्प्रदानरीतिं विवरीवरीति ॥ १९९ ।। किमिति । अरे, करुणानिधये दयासागराय वेङ्कटाचलपतये श्रीशेषशैलाधिपतये श्रीनिवासायापि, असूयसि गुणेषु दोषानाविष्करोषि ?। "क्रुध दुहेा-' इत्यादिना चतुर्थी । शृणु तावत् वक्ष्यमाणमित्यर्थः ॥ ७८ ॥ नियन्तेति। जन्तूनां प्राणिनां नियन्ता अन्तर्यामित्वेन प्रेरयिता, निखिलस्य संपूर्णस्य जगतः उत्पादः उत्पत्तिः विभवः पालनं प्रतिक्षेपो लयस्तैः क्रीडन , अत एव परमपुरुषः कृपासिन्धुः वेङ्कटपतिः श्रीनिवासः, खस्य परत्वे सर्वोत्कृष्टत्वे मनोवाचामगोचरत्वे वा सत्यपि, सौलभ्यस्य भक्त्या सुलभत्वस्य प्रकटनकृते प्रकटनाथ, पन्नगनगे शेषशैले, कां कां मनुजलीलां मनुष्यचेष्टां न तनुते ननु न करोति ? अपि तु सर्वामपि करोत्येवेत्यर्थः ॥ १९८ ॥ 'इष्टप्राप्तिमनिष्टभङ्गमपि-'इत्यादिनोक्तं दूषणं परिहरनाह-किमपीति । अयमञ्जनाद्रेः शेषशैलस्य पतिः जनेभ्यः भक्तलोकेभ्यः सकाशात्,किमपि स्वल्पं यत्किचिदपि वस्तु उपादाय गृहीत्वा, तेभ्यः कृत्स्नं यावत्तैःप्रार्थितं तावत्सर्वं अभीष्टं इच्छितं दिशन् अर्पयन् , कृष्णावतारे भवा कृष्णावतारीया सा चासौ कुचैलसंपत्प्रदानरीतिश्च तां, कुचैलः सुदामा नाम ब्राह्मणः कृष्णस्य सखा आसीत्। तस्मै संपदर्पणस्य पद्धतिमित्यर्थः। तद्वृत्तं हि श्रीमद्भागवते उत्तरार्द्ध अशीत्येकाशीतितमाध्याययोः । तदित्थम्-कुचैलस्त्वतिदारिययुक्तो भार्यया प्रार्थितश्च सन् मुष्टिमात्रपृथुकान् गृहीत्वा कृष्णसंदर्शनार्थ द्वारकां गतः, तत्र च कृष्णेनातीव सत्कृतः तस्माच पृथुकमुष्टिं गृहीत्वा महेन्द्रतुल्यमैश्वर्य तस्मै समर्पितवान् इति । विस्तरस्तु भागवतादेवावगन्तव्यः । विवरीवरीति अत्यन्तं प्रकटयतीत्यर्थः । विपूर्वात् 'वृञ् वरणे इत्यस्मात् यङ्लुकि लटि रूपम् ॥१९९॥ १ 'दुत्पत्ति'. २ 'इह'. For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [वेङ्कटगिरिप्रियसहचरी लक्ष्मीः स्थानं सहस्रवसुः स्वयम् कुवलयपतिः श्यालो रत्नाकरः श्वशुरो हरेः । तदपि हरति द्रव्यं पूर्णो जगत्पतिरेष यत् तदिह भजतां कर्तुं नृणामुदग्रमनुग्रहम् ॥ २० ॥ अखिलहेयप्रत्यनीकानन्तकल्याणगुणैकतानस्य विश्वनाथस्य श्रीनिवासाभिधानस्य परब्रह्मणो गुणार्णवामृतकणानां गर्णनायामनिपुणधिषणा धिषणादयोऽपि ॥ ७९ ॥ गाम्भीर्यैकावलम्बे गरिमनिवसतौ कान्तिकुल्यातटाके ___कल्याणाम्भोजकल्ये निरवधिकरुणासारकल्लोलराशौ ।। 'तातेल्यामच्य-' इत्यादि दूषणं निराकरोति-प्रियेत्यादि । यस्य हरेः श्रीवेङ्कटाधिपतेः श्रीनिवासस्य प्रिया चासौ सहचरी च सा प्रियपत्नीत्यर्थः । स्वयं साक्षात् लक्ष्मीः, स्थानं निवासस्थलं च सहस्राणि वसवः धनानि किरणाश्च यस्य सः भगवान् सूर्यनारायण इत्यर्थः । "देवभेदेऽनले रश्मौ वसू रत्ने धने वसु" इत्यमरः । कुवलयानां कमलानां पतिश्चन्द्रश्च कु-वलयस्य भूमण्डलस्य पतिः सार्वभौम इति वा। श्यालः पत्नीभ्राता, रत्नाकरः समुद्रः श्वशुरः भार्यापिता । अस्तीति सर्वत्र योज्यम् । एवं पूर्णः सन्नपि अत एव जगतः पतिश्चायं अस्ति, तथापि एषः द्रव्यं भक्तप्रार्थितं हरतीति यत् , तत् इह लोके भजतां, नृणां मनुष्याणां उदग्रं महान्तमनुग्रहं कर्तुमेव। तदुक्तं श्रीमद्भागवते दशमस्कन्धपूर्वार्द्ध सप्तविंशेऽध्याये भगवता श्रीकृष्णेनेन्द्रं प्रति"मामैश्वर्य-श्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि संपन्यो यस्य चेच्छाम्यनुग्रहम्" इति ॥२०॥ अखिलेति । अखिलाः संपूर्णा ये हेयप्रत्यनीका दोषनाशका अनन्तकल्याणगुणास्तेषां एकतानस्य मुख्याधिष्ठानस्य, विश्वनाथस्य जगदधिपतेः श्रनिवासाभिधानस्य श्रीनिवासनाम्नः परब्रह्मणः गुणार्णवस्य गुणसमुद्रस्य अमृतकणानां सुधाबिन्दूनां गणनायां संख्याने विषये, धिषणो बृहस्पतिरादिर्येषां ते देवा ऋषयश्च । “बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः” इत्यमरः । अनिपुणधिषणाः अकुशलबुद्धयः बुद्धिसामर्थ्यहीना इत्यर्थः । भवन्तीति शेषः ॥ ७९ ॥ किंच-गाम्भीर्यति । गम्भीरस्य भावो गाम्भीर्य प्रापञ्चिकसुखदुःखविकारराहित्यं तस्य एकावलम्बो मुख्याश्रयस्तस्मिन् , गरिम्णः गौरवस्य निवसतौ निवासस्थाने । कान्तिरूपा या कुल्या अल्पा नदी "कुल्याल्पा कृत्रिमा सरित्" इत्यमरः । तस्यास्तटाके सरोवरे आश्रये इति यावत् । भगवति हि सकलते. जसामाश्रयत्वं । “यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ १ 'विश्वनिदानस्य'. २ 'वर्णने'. For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १५] पदार्थचन्द्रिकाटीकासहिता । चातुर्योदार्यलक्ष्मीविहरणशरणे सद्गुणौघान् बभूवे देवे श्रीवेङ्कटेशे न जिगणयिषता केन वा ग्लानवाचा ॥२०१॥ किंच समग्रा हि हरेर्वेदैः समग्राहि गुणावलिः ॥ प्रत्यक्षेऽपि परत्वेऽस्य प्रत्यक्षेपि च संशयः ॥ २०२ ॥ अहो महोन्नतस्याप्यस्य सौलभ्यं कनककुसुमस्य सौरभ्यमिव रसिकेभ्य एव खदते ॥ ८० ॥ तत्तेजो विद्धि मामकम् ॥' इति गीतावचनात् प्रसिद्धम् । कल्याणानि निःश्रेयसान्येव अम्भोजानि कमलानि तेषां कल्ये प्रातःकाले “प्रत्यूषोऽहर्मुखं कल्य उषःप्रत्युषसी अपि" इत्यमरः । निरवधिनिःसीमो यः करुणासारः दयासारस्तस्य कल्लोलराशौ महोमिनिधौ समुद्रे इत्यर्थः । "अथोर्मिषु । महत्सूलोल-कल्लोलौ” इत्यमरः । चातुर्य कर्मसु कौशलं च औदार्य दातृत्वं च उदारस्य भावः औदार्यमिति विग्रहः । "उदारो दातृ-महतोः" इत्यमरः । तयोर्लक्ष्म्याः समृद्धेः विहरणशरणं क्रीडागृहं तस्मिन् , देवे खप्रकाशे श्रीवेङ्कटेशे विषये, सतां प्रशस्तानां गुणानां ओघान् समूहान् । "सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यहिते च सत् ।" इत्यमरः । जिगणयिषता गणनां कर्तुमिच्छता । गणयतेः खार्थिकण्यन्ताचौरादिकात्सनि शतृप्रत्ययः । केन पुरुषेण ग्लानवाचा श्रान्तवचनेन न बभूवे। को वा पुरुषः श्रान्तवान बभूवेत्यर्थः । भवतेर्भावे लिट् । अत्र सर्वत्र ‘गाम्भीर्येकावलम्बे' इत्यादौ तादात्म्येन वर्णनाद्रूपकालंकारः । " तद्रूपकमभेदो यः” इत्यादितल्लक्षणात् ॥ २०१॥ समग्रेति । हरेः समग्रा हि सकलैव गुणानां आवलिः पतिः वेदैः समग्राहि सम्यग्गृहीता । तथा अस्य प्रत्यक्षे दर्शने सति, परत्वे अप्रत्यक्षे विषये संशयोऽपि प्रत्यक्षेपि प्रतिक्षिप्तः । निराकृत इति यावत् । अत्र पूर्वार्धे ग्रहेः उत्तरत्र च क्षिपेः कर्मणि लुङि " चिण भाव-कर्मणोः" इति चिण् ॥ २०२ ॥ अहो इति । अहो इत्याश्चर्ये । महोन्नतस्य अतीवोच्चस्याप्यस्य वेङ्कटेश्वरस्य सौ. लभ्यं सुलभत्वं सुखेन प्राप्यत्वं, कनकवर्णस्य कुसुमस्य पुष्पस्य कनकमयपुष्पस्येति वा । सुरभेः सुगन्धेः भावः सौरभ्यं सुगन्धित्वं सुन्दरत्वं वा “सुरभिर्हेनि चम्पके। जातीफले मातृभेदे रम्ये चैत्र-वसन्तयोः । सुगन्धौ” इति हैमः । रसिकेभ्य एव खदते रोचते ॥ ८०॥ १ 'दधाने', अयं पाठः अस्मत्संपादितादर्शपुस्तके उपलभ्यते, परं तस्मिन् अध्याहारकरणत्रासात् स नादृतः । २ 'मौनभाजा'. For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [वेङ्कटगिरि पश्यप्रचण्ड विश्वकण्टकप्रखण्डनैकपण्डितः पतङ्गमण्डले वसन् य एष पाण्डवप्रियः ॥ अकुण्ठरीतिकः प्रसन्नपुण्डरीकलोचनः __स कुण्डलीन्द्रभूधरप्रकाण्डमण्डनायते ॥ २०३ ॥ अवलोकय तावदुरगवरधरणीधरशिरोमणेश्चक्रपाणेरैतितरसुकरवरनिकरवितरणकौशलमतिपेशलम् ॥ ८१ ॥ मूकारब्धं कमपि बधिराः श्लोकमाकर्णयन्ति श्रद्धालुस्तं विलिखति कुणिः श्लाघया वीक्षतेऽन्धः ॥ अध्यारोहत्यहह सहसा पङ्गुरप्यद्रिशृङ्गम् सान्द्रालेस्याः शिशुभरणतो मन्दमन्दन्ति वन्ध्याः ॥ २०४ ।। प्रचण्डेति । प्रकर्षेण चण्डा भयंकरा ये विश्वकण्टकाः कण्टक इव जगत्रासोत्पादकाः कंसादयस्तेषां प्रकर्षेण समूलं खण्डने एको मुख्यः पण्डितः कुशलबुद्धियुकः, अपि च पाण्डवप्रियः । एतद्विशेषणद्वयेन “ परित्राणाय साधूनां-" इत्यादि भगवद्गीतोक्तं प्रतिज्ञावचनं स्मारितम् । यः एषः श्रीनारायणः पतङ्गमण्डले सूर्यबिम्बे " पतङ्गौ पक्षि-सूर्यौ च " इति, " बिम्बोऽस्त्री मण्डलं त्रिषु " इति चामरः।वसन् निवसतीत्यर्थः । अकुण्ठा निरन्तरं वर्तमाना रीतिः सत्परिपालनासद्दलनादिरूपा यस्य सः । प्रसन्ने विकसिते पुण्डरीके कमले इव लोचने नयने यस्य सः स एव पूर्वोक्तः कुण्डलीन्द्रभूधरप्रकाण्डस्य प्रशस्तशेषशैलस्य " प्रशंसावचनैश्च" इति समासः। 'कुण्डलीन्द्र ' इत्यादिपदस्योपसर्जनत्वात्पूर्वनिपातः । “मतल्लिका मचर्चिका प्रकाण्डमुद्ध-तल्लजौ । प्रशस्तवाचकानि ” इत्यमरः । मण्डनायते भूषणवदाचरति । तत्र नित्यं निवसतीत्यर्थः । पञ्चचामरं वृत्तम् । "लघुर्गुरुर्निरन्तरं भजेत पञ्चचामरम्" इत्यादितल्लक्षणात् ॥ २०३ ॥ अवलोकयेति । उरगवरधरणीधरस्य श्रीशेषाचलस्य शिरोमणे: भूषणभूतस्य चक्रपाणे: श्रीविष्णोः, अतिपेशलं सुन्दरं अतितरसुकरं अतिशयसुलभं वरनिकराणां वरसमुदायानां वितरणस्य अर्पणस्य कौशलं चातुर्य तावदवलोकय पश्य ॥ ८१॥ वरार्पणकौशलमेवोपपादयति-मूकारब्धमिति । बधिराः कर्णरहिताः मूकैः अवाग्भिः वक्तत्वशक्तिरहितैरिति यावत् । “ अवाचि मूकः" इत्यमरः । आरब्धं पठितं कमपि ईश्वरगुणवर्णनपरं श्लोकं पद्यं " पद्ये यशसि च श्लोकः " इत्यमरः । आकर्णयन्ति शृण्वन्ति । तं च श्लोकं कुणि: छिन्नहस्तः श्रद्धालुः श्रद्धायुक्तः सन् " स्मृहि-गृहि-पति-दयि-निद्रा-तन्द्रा-" इत्यादिना आलुच् प्रत्ययः । विलिखति । अ. १ रनितर', २ 'सान्द्रालस्याः शिशुभरणतो मन्दमायाति वन्ध्या'. For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १५] पदार्थचन्द्रिकाटीकासहिता । सर्वतः पर्वतमालोक्य सश्लाधम् - सर्वोत्तुङ्गः श्रितशुभगुहः साध्वभिख्यातशीलो भावद्वेशोपेचयजनकः सानुजस्फूर्तिकोऽयम् ॥ ऐनं नूनं क्षितिभृतमियं जानती जानकीशम् की श्रेणी कलय शरणीकुर्वती वर्वरीति ॥ २०५ ॥ पुनः सानन्दम् - प्रकाशबहुपादवत्यपि फणिक्षमाभृत्यदः प्रकाममवलोक्यते परममन्यदत्यद्भुतम् ॥ ११९ न्धो नेत्ररहितश्च श्वाघया प्रशंसया युक्तः, वीक्षते अवलोकयति । अहह इत्याचार्ये । पतुः पादरहितोऽपि सहसा त्वरया अद्रिशृङ्गं पर्वतशिखरं अध्यारोहति । तथा वन्ध्याः स्त्रियस्तु शिशुभरणतः बालधारणतः पोषणतो वा, सान्द्रालस्याः अतिशयालस्ययुक्ताः सत्यः, मन्दमन्दन्ति अतिमन्दा भवन्ति । " सर्वप्रातिपदिकेभ्यः किब्वा वक्तव्यः इति मन्दमन्दशब्दात् क्विपि रूपम् । मूकादयस्त्वीप्सितफलं संप्राप्यैवं कुर्वन्तीत्यर्थः । एतच्चरित्राणि श्रीवेङ्कटेश्वरमाहात्म्यादिपुराणतोऽवगन्तव्यानि ॥ २०४॥ सर्वत इत्यादि सुलभम् — " सर्वोत्तुङ्ग इति । अयं शेषाचलः सर्वेभ्यः शैलेभ्यः पक्षे जनेभ्यः उत्तुङ्गः उन्नतः श्रेष्ठश्व, श्रिताः स्थिताः शुभा गुहाः कन्दराः, पक्षे श्रितः आश्रितः शुभगुहः एतन्नामा कश्चिनिषादश्च येन सः, साधुषु मध्ये अभिख्यातं प्रसिद्धं शीलं सद्वृत्तं यस्य तथाभूतः, भाखन्तः प्रकाशमानाः ये वंशाः वेणवस्तेषां उपचयजनकः वृद्धयुत्पादकः, पक्षे भाखतः सूर्यस्य वंशोपचयजनकः कुलविस्तारकरः, सानुभ्यः पर्वतशिखरेभ्यो जाता प्रथमोत्पन्ना स्फूर्तिः प्रकाशो यस्य, पक्षे अनुजानां लक्ष्मण भरतादीनां स्फूर्त्या कान्त्या सहितः सानुजस्फूर्तिकः । अस्तीति शेषः । अत एव एनं क्षितिभृतं पर्वतं राजानं च नूनं निश्चयेन, जानकीशं सीतापतिं श्रीरामचद्रमेव जानती अवगच्छन्ती इयं कीशानां वानराणां श्रेणी पङ्क्तिः, शरणीकुर्वती रक्षकं गृहं वा कुर्वती सती, वर्वरीति भृशं पुनः पुनर्वा वृणोति वेष्टयतीति यावत् । ' वृञ् आवरणे ' इत्यस्माद्यङ्लुकि रूपम् | कलय अवलोकय । अत्र 'सर्वोत्तुङ्ग' इत्यादिश्लिष्ट सहेतुकविशेषणैः शैले श्रीरामसंभावनात् श्लेषविशिष्टोत्प्रेक्षालंकारः ॥ २०५ ॥ प्रकाशेति । प्रकाशाः दृश्याः बहवः पादाः प्रत्यन्तपर्वताः, समन्तात् स्थिताः १ 'सर्वोत्तङ्गश्रितशुभगुहं साध्वभिख्यातशीतं भास्वद्वंशोपचयजनकं सानुजस्फूर्तिकायम् ॥ एवं नूनं क्षितिभृतममुं', 'साध्वभिख्यातशीतो'. २ ' वंशोच्चयन' ३ ' एवं '. ४ ' भृत्यतः '. For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० विश्वगुणादर्शचम्पूः [वन निजोरसि पयोधरश्चिरमचञ्चलां विद्युतम् पयोधरमरस्यसावपि बिभर्ति नित्यं निजे ॥ २०६ ॥ अथ वनवर्णनम् १६. इति विमानं दक्षिणतः समानयन् सानन्दम्विलोकय सखे विपिनानाममीषां परमं रामणीयकम् ॥ ८२ ॥ पुरः पुरो धनं वनं वने वने महागिरि महागिरौ महागिरौ विराजते गुहागृहम् ॥ गुहागृहे गुहागृहे विहारतत्परो हरि हेरौ हरौ निरङ्कुशः कृतेभसाध्वसो ध्वनिः ॥ २०७ ॥ खल्पपर्वता इत्यर्थः । “ पादाः प्रत्यन्तपर्वताः " इत्यमरः । पक्षे चरणाश्च विद्यन्ते अस्येति तथाभूते, फणिक्षमाभृति शेषशैले सर्पराजे च, अदः इदं वक्ष्यमाणं, अन्यत् वस्तुतो गुप्तचरणस्य सर्पराजस्य प्रकाशबहुपादवत्त्वादितरत् , परमं महत् अद्भुतं आ. श्चर्य, प्रकामं यथेच्छ अवलोक्यते दृश्यते । अस्माभिरिति शेषः । तत्किमित्यपेक्षायामाह-पयोधरो मेघः निजोरसि खकीयवक्षःस्थले, चिरं अचञ्चलां स्थिरां विद्युतं बिभर्ति । मेघसदृशः श्यामवर्णों भगवान् वक्षसि नित्यं लक्ष्मी बिभ्रदत्र निवसतीति वास्तवोऽर्थः । असावपि विद्युदपि निजे उरसि पयोधर मेघं वस्तुतः स्तनयुग्मं नित्यं बिभर्ति । इदमेवाश्चर्यमिति भावः । श्लेषमूलकविरोधाभासालंकारः । वास्तवार्थेन च तत्परिहारः ॥ २०६ ॥ - अथ विचित्रवनवर्णनप्रस्तावार्थमाह-इतीत्यादि। विलोकयेति । हे सखे अमीषां पुरोदृश्यमानानां विपिनानामरण्यानां "अटव्यरण्यं विपिनं " इत्यमरः । परमं रामणीयकं रमणीयत्वं मनोहरत्वमिति यावत् । मनोज्ञादित्वादुम् । अवलोकय पश्य ॥ ८२ ॥ रामणीयकमेवाह-पुर इति । पुरः पुरः अग्रे अग्रे घनं निबिडं वनं विराजते शोभते । इदमेव क्रियापदं सर्वत्रान्वेतव्यम् । वने वने प्रतिवनं महागिरिः । वीप्सायां द्वित्वम् । एवमेव सर्वत्रोह्यम् । गुहा गृहमिवेत्युपमितसमासः । विहारे क्रीडायां तत्परः आसक्तः हरिः सिंहः । “विष्णु-सिंहांशु-वाजिषु । शुकाहि-कपि-भेकेषु हरि। कपिले त्रिषु । " इत्यमरः । निरङ्कुशः प्रतिबन्धरहितः, कृतमुत्पादितं इभानां गजानां साध्वसं भयं येन, तादृशः ध्वनिः गर्जनम् ॥ २०७ ॥ १ पयोधरे', 'पयोधरम्'. - - - - For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १६] पदार्थचन्द्रिकाटीकासहिता । कृ०-किमरे वर्णयस्यचक्षुष्याणि मनुष्याणकवलनचपलचण्डपुण्डरीकाननानि काननानि ? ॥ ८३ ॥ इतस्तावावव्यतिकर इतः सन्त्यजगरा __ इतो लुण्टाकानां समुदय इतः कण्टकचयः ॥ इतो व्याघ्रा उग्रा ज्वलनजनका वेणव इतो ____वनं संलक्ष्यैतन्मन इदमहो मोहमयते ॥ २०८ ॥ वि०-सखे निपुणनिरूपणत एतेषां गुणानपि गृहाण ॥ ८४ ॥ अनायासग्राह्याण्यवनिपतिभोग्यान्यपि फला___ न्ययत्नेन प्राप्या नृपसुदृगपेक्ष्याः सुमनसः ॥ असूर्यपश्यान्यप्यहह सुलभान्यश्मभवना न्यरण्यानीभाजामतिपतति भाग्यं किल गिरः ॥ २०९ ॥ किमिति । अरे भो विश्वावसो, मनुष्याणां अङ्गानां अवयवानां कवलने ग्रसने चपलानि लोलुपानि अत एव चण्डानि भयंकराणि पुण्डरीकाणां व्याघ्राणां "व्यानेऽपि पुण्डरीको ना" इत्यमरः । आननानि मुखानि येषु तानि । अत एवाचक्षुष्याणि अदर्शनीयानि, काननानि वनानि किं वर्णयसि ? ॥ ८३ ॥ अदर्शनीयत्वमेवाह-इत इति । इतः एकस्मिन्स्थले, तावत्साकल्येन सर्वत्रेत्यर्थः । ग्राव्णां पाषाणानां व्यतिकरः समूहः, इतः अन्यत्र अजगराः सन्ति, इतः तदि. तरत्र लुण्टाकानां चोराणां समुदयः, इतः कण्टकानां चयः समुदायः, इतः त. द्भिन्नस्थले, उग्रा भयंकरा व्याघ्राः, इतोऽन्यत्र ज्वलनजनकाः परस्परसंघर्षणेनाम्युत्पादकाः वेणवः कीचकाः, सन्तीत्यर्थः । एतदेव वचन विपरिणामेन यथायोग्यं सर्वत्र संयोजनीयम् । एवमेतद्वनं संलक्ष्य दृष्ट्वा, इदं मे मनः मोहं भयजन्यं भ्रमं, अयते प्राप्नोति ॥ २०८ ॥ सख इति । सखे हे मित्र, निपुणनिरूपणतः विचारयुक्तावलोकनं कृत्वेत्यर्थः । पञ्चम्यर्थे तसिल । सा च ल्यब्लोपे। एतेषां वनानां गुणानपि गृहाण, नतु केवलान् दोषानेव ॥ ८४ ॥ तान् गुणानेवाह-अनायासेति । अवनिपतिभी राजभिर्भोक्तुं योग्यानि नतु साधारणैर्जनैः अपि, फलानि आम्र-दाडिमादीनि,अत्र वने अनायासेन अयत्नेन ग्राह्याणि भवन्ति । तथा नृपसुदृग्भिः राजपत्नीभिरपि अपेक्ष्याः ईप्सितव्याः, किमुतान्याभिः, सुमनसः मालती-मल्लिकादीनां पुष्पाणि स्त्रियः सुमनसः पुष्पं" इत्यमरः। अयत्नेन प्राप्या लब्धुं शक्याः । तथा असूर्यपश्यानि सूर्य न पश्यन्तीति विग्रहः ।असमर्थसमासोऽयम्। "असूर्य-ललाटयोः-' इत्यादिना खश् । “अरुर्द्विषद-" इत्यादिना च मुमागमः । १ 'प्राप्यास्त्वपि सुदृगपेक्ष्याः'. ११ For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२, विश्वगुणादर्शचम्पू:- [घटिकाचलअपि चगहनगुहाविहारिहरिपाणिरुहाभिहत द्विरदशिरस्तटोद्गलितमौक्तिकसंहतिभिः । अहह विभूषितैरिव चिरं विहरन्ति सुखं सममबलाजनैरतिविलासपराः शबराः ॥ २१० ॥ अथ घटिकाचलवर्णनम् १७. इति व्योमयानं दक्षिणतः प्रापयन् पुरतो निर्दिश्य कण्ठोपरि कण्ठीरवशुचिदंष्ट्रारुचिविचित्रचन्द्रिकया ॥ स्फटिकाचल इव नयने घटिकाचल एष संप्रति धिनोति॥२११॥ अश्मनां पाषाणानां भवनानि गृहाणि सुलभानि यत्नं विनैव लभ्यानि सन्ति । अहहेत्यानन्दे । एवं सति अरण्यानीभाजां महारण्यसेविनां "इन्द्र-वरुण-भव-" इत्यादिसत्रेणानुगागमः ङीप् च विधीयते । सच "हिमारण्ययोर्महत्त्वे"इति वार्तिकेन महत्त्वविवक्षायामेव । “महारण्यमरण्यानी" इत्यमरश्च । भाग्यं दैवं गिरः वाणीः अतिपतति अतिक्रामति । वाण्या वर्णयितुमशक्यमिति भावः । किल निश्चयेन ॥ २०९ ॥ गहनेति । इह शेषाचले, गहनगुहासु वनस्थगुहासु, गहनेषु अरण्येषु गुहासु चेति वा । विहाँ क्रीडितुं शीलं येषां ते विहारिणः तादृशानां हरीणां सिंहानां पाणिरुहैः नखैः अभिहतानां विदारितानां द्विरदानां हस्तिनां शिरस्तटात् गण्डस्थलात् उद्गलि. तानि भूमौ निपतितानि यानि मौक्तिकानि तेषां संहतिभिः समूहैः, हारैरिति यावत् । विभूषितैरलंकृतैः अबलाजनैः स्त्रीजनैः समं सह, अतिविलासपराः भृशं क्रीडासक्ताः सन्तः, शबराः म्लेच्छविशेषाः सुखं यथा तथा, चिरं बहुकालं विहरन्ति क्रीडन्ति । अहहेत्यानन्दे । नर्दटकं वृत्तम् । “यदि भवतो नजौ भजजला गुरु नर्दटकम्" इति तल्लक्षणात् ॥ २१० ॥ अथ घटिकाचलवर्णनं प्रस्तौति-इतीति । निर्दिश्य अवलोक्य, सुगममन्यत् । कण्ठोपरीति । कण्ठस्य उपरि ऊर्ध्वभागे, कण्ठीरवस्य सिंहस्य “सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः । कण्ठीरवः" इत्यमरः । अर्थात् कण्ठपर्यन्तं मनुष्याकारस्य तदुपरि च सिंहाकारस्येति ज्ञेयम् । शुचीनां शुभ्राणां दंष्ट्राणां स्थूलदन्तानां या रुचिः कान्तिः सैव विचित्रा आश्चर्यावहा चन्द्रिका ज्योत्स्ना तया स्फटिकाचल इव स्फटिकमणिमयपर्वत इव, एष दृश्यमानो घटिकाचलः नृसिंह निवासः पर्वतः, संप्रति नयने नेत्रे, धिनोति प्रीणयति ॥ २११ ॥ १ गिरौ. For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १७ ] सभक्तिप्रकर्षमञ्जलिं बद्धावरकेतुस्थतार्थ्याय स्मरकेलिपुषे श्रियः ॥ नरकेक्षणविघ्नाय नरकेसरिणे नमः ॥ २१२ ॥ किंच पदार्थचन्द्रिकाटीकासहिता । स्थिरशङ्खादिचिह्नाय सुरसंघार्चिताये ॥ परसंहारदक्षाय नरसिंहाय मङ्गलम् ॥ २९३ ॥ जम्भदम्भहरक्षेमारम्भलम्भनमूर्तये ॥ १२३ शंभुसंभावनीयाय स्तम्भडिम्भाय मङ्गलम् || २१४ ॥ कु० - किमरे क्रोधमयेऽपि नरमृगेन्द्रे स्तववचनं विरचयसि ॥८५ प्रह्लादमाह्वादयितुं तमेकं सर्वस्य कुर्वन् भुवनस्य भीतिम् ॥ सैंहं दैधे संहननं पुरा यस्तव स्तवस्तत्र कथं प्रवृत्तः ॥ २१५ ॥ । वरेति । वरे श्रेष्ठे तो ध्वजे तिष्ठतीति वरकेतुस्थः ताः गरुडः यस्य तस्मै, श्रियः लक्ष्म्याः स्मरकेलिपुषे मदनक्रीडावर्धनाय संभोगेच्छोत्पादकायेति यावत् । नरकस्य ईक्षणे अवलोकनेऽपि किमुत गमने, विघ्नाय प्रतिबन्धरूपाय । तद्भक्तानां नरकदर्शनमपि नैव भवतीति भावः । नरकेसरिणे श्रीनृसिंहाय नमः अस्तु ॥ २१२ ॥ , स्थिरेति । स्थिराणि सर्वदा सन्ति शङ्खादिचिह्नानि शङ्ख-चक्राद्यायुधानि यस्मिन् तस्मै, सुराणां देवानां संधैः समुदायैः अर्चितौ पूजितौ अङ्गी चरणौ यस्य तस्मै, परेषां शत्रूणां संहारे विनाशे दक्षश्चतुरः समर्थो वा तस्मै, नरसिंहाय मङ्गलम् । अस्त्विति शेषः ॥ २१३ ॥ जम्भेति । जम्भस्य एतन्नाम्नो दैत्यस्य दम्भं गर्वे हरतीति तद्धरः, अर्थाज्जम्भदैत्यविनाशकः इन्द्रः, तस्य क्षेमस्य, दैत्य हृत स्वर्गस्थानस्य पुनः प्रापणरूपस्य कल्याणस्य आरम्भाणां उद्योगानां लम्भनं संपादनं यस्यास्तादृशी मूर्तिर्यस्य तथाभूताय । हिरण्यकशिपुविनाशेन तद्धृतं स्वर्गसाम्राज्यं पुनरिन्द्राय समर्पितमिति भावः । शंभो: शिवस्यापि संभावनीयाय मान्याय, स्तम्भस्य डिम्भाय बालकाय, स्तम्भादुत्पन्नायेत्यर्थः । मङ्गलम् ॥ २१४॥ किमिति । अरे हे विश्वावसो, क्रोधमये कोपप्रचुरेऽपि, प्राचुर्ये मयट् । नरमृगेन्द्रे नृसिंहे विषये, स्तववचनं स्तोत्र भाषणं, किं कुतो हेतोर्विरचयसि करोषि ? ॥ ८५ ॥ प्रह्लादमिति । यः नृसिंहः तं प्रसिद्धभक्तं, एकमेव प्रह्लादं हिरण्यकशिपुपुत्रं आह्लादयितुं संतोषयितुं सर्वस्य भुवनस्य लोकस्य भीतिं कुर्वन्नुत्पादयन् सन्, सैंहं सिंहसंबन्धि, संहननं शरीरं " गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ।" इत्यमरः । १ 'नरसिंहाय मङ्गलम्' २ 'लम्भक' ३ 'व्यधात्'. For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ विश्वगुणादर्शचम्पू:- [घटिकाचलवि०-वयस्य मैवं वादीः ।। ८६ ॥ यतःअपुण्यधौरेयहिरण्यदूनत्रिलोकशोकक्षपणाय शौरिः ।। कायाधवायासनिरासदम्भः स्तम्भादिहोजृम्भत संभ्रमेण ॥ २१६ ।। इदं चावधार्यताम् मनुष्यतिर्यक्त्वमुपेत्य नित्यो देवः स्वयं स्थावरतोऽभ्युदञ्चन् । विचित्रशक्त्यन्वयमत्र वेदैः प्रत्याय्यमानं प्रकटीकरोति ॥ २१७ ॥ पुनः सविश्रम्भम्घटिकाचलं वपुरवेक्ष्य तत्त्वतो घटिकाचलं समधिरुह्य भक्तितः ॥ नरकेसरीन्द्रचरणौ विलोकयन् नरके सरिष्यति न जातु मानवः॥२१८॥ पुरा कृतयुगे दधे धृतवान् । तत्र तस्मिन्विषये, तव त्वत्कृत इत्यर्थः । स्तवः स्तुतिः, कथं प्रवृत्तः ? ॥ २१५॥ .. वयस्येत्यादि सुलभम् ॥ ८६ ॥ अपुण्येति । न विद्यते पुण्यं सुकृतं येषु तेषां पापिनां धौरेयोऽग्रेसरः यः हिरण्यः हिरण्यकशिपुस्तेन दूनानां पीडितानां 'दु गतौ' इत्यस्मात् क्तप्रत्यये "दुग्वो. र्दीर्घश्च" इति वार्तिकेन निष्ठातकारस्य नो दीर्घश्च । त्रिलोकानां शोकस्य क्षपणाय विनाशं कर्तुम् । “तुमर्थाच्च भाववचनात्" इति चतुर्थी । शौरिः विष्णुः, कयाधोः हिरण्यकशिपुपत्न्याः अपत्यं कायाधवः प्रह्लादः तस्य आयासस्य पितृकृतनासस्य निरासो विनाश एव दम्भो निमित्तं यस्य तथाभूतः सन् , इह लोके स्तम्भात् संभ्रमेण त्वरया अजृम्भत प्रकटीबभूव । एतेन 'सर्वस्य भुवनस्य भीतिं कुर्वन्' इत्यादिदूषणं परास्तमिति ज्ञेयम् ॥ २१६ ॥ मनुष्यति । यः नित्यः सर्वदैकरूपः सन्नपि, देवः भक्तपालनार्थ विविधक्रीडाकारकः, मनुष्यश्चासौ तिर्यङ्च मनुष्यतिर्यङ् तस्य भावः नरसिंहरूपत्वमित्यर्थः । उपेत्य खीकृत्य, स्थावरतः स्तम्भात् न वितरवन्मातृतः । अभ्युदञ्चन् प्रकटीभवन् सन् , वेदैः प्रत्याय्यमानं वर्ण्यमान, विचित्रायाः इतरसुरदुष्करत्वेन अघटित घटनाकारित्वेन च आश्चर्योत्पादिकायाः शक्ते: सामर्थ्यस्य अन्वयं संबन्धं अत्र भूलोके प्रकटीकरोति आविष्करोति । वेदवर्णितं विविधं चरित्रं प्रत्यक्षतया प्रदर्शयतीत्यर्थः॥२१७॥ अत एवास्य स्थानस्यातिशयपुण्यसंपादकत्वमस्तीति द्योतयन्नाह-घटिकाचलमिति । घटिकाचलं घटिकाकालमात्रमप्यस्थिरं, विनश्वरमित्यर्थः । वपुः शरीरं, तत्त्वतः स्वभावादेवावेक्ष्य दृष्ट्वा ज्ञात्वेत्यर्थः । दृशिरत्र ज्ञानार्थकः । भक्तितः १ दम्भात् स्तम्भादिहाजृम्भत'. २ 'सद्यो'. ३ 'रवेत्य'. For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५ -वर्णनम् १८] पदार्थचन्द्रिकाटीकासहिता। ___अथ वीक्षारण्यवर्णनम् १८. इति विमानमन्यतः संचोदयन् सहर्षम् वीक्षारण्यमिदं वदन्ति सरसी हृत्तापनाशिन्यसा__वस्या रोधसि वीरराघव इति प्रख्यातनामा हरिः ॥ व्यक्तं राजति वीतिहोत्र इव यो विस्तीर्णहेतिद्युतिः क्षेत्रं प्राप्तकुशस्थलं प्रभजति श्रीशालिहोत्राञ्चितम् ॥२१९॥ आकलयतु भवानोमं चमत्कारम् ॥ ८७ ।। द्विरेफवर्णा सुमनोरमां तनुं बिभर्ति संज्ञामिव वीरराघवः ॥ सुपर्वराजेन यदीयमर्चितं मुखं पदद्वन्द्वमिवोपशोभते ॥ २२० ॥ घटिकाचलं पर्वतं अधिरुह्याऽऽरुह्य, नरकेसरीन्द्रचरणौ नरसिंहचरणौ, विलोकयन् अवलोकयन् 'लक्षणहेत्वोः-' इति हेतावत्र शता । मानवः जातु कदाचिदपि, नरके निरये न सरिष्यति नैव पतिष्यति । ' स गतौ ' इत्यस्माद् ॥ २१८ ॥ अथ वीक्षारण्यप्रस्तावमाह-इतीति । संचोदयन् गमयन्-.. वीक्षारण्यमिति । इदं पुरोदृश्यमानं वीक्षारण्यमेतनामकं वनं, वदन्ति कथयन्ति । जना इति शेषः । तथा असौ सरसी सरोवरं एतद्वनमध्ये वर्तमानेत्यर्थः । हृत्तापनाशिनी हृदयसंतापहारिणी विद्यते । अस्याः सरस्याः रोधसि तीरे, " कूलं रोधश्च तीरं च " इत्यमरः । वीरराघवः इति प्रख्यातं अतिपावनत्वेन प्रसिद्ध नाम यस्य तथाभूतः, व्यक्तं प्रत्यक्षं यथा तथा यः, विस्तीर्णा आसमन्तात् प्रसृता हेतीनां शङ्ख-चक्राद्यायुधानां शिखानां च युतिः कान्तिर्यस्य तथाभूतः, " रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः" इत्यमरः । वीतिहोत्र इव अग्निरिव “ अग्निवैश्वानरो वहिवातिहोत्रो धनंजयः । ” इत्यमरः । राजति शोभते । पुनश्च यो वीरराघवः, प्राप्तं कुशानां स्थलं स्थानं येन तत् , अत एव श्रीशालिहोत्रमुनिना अञ्चितमाश्रितं क्षेत्रं स्थानं प्रभजति सेवते । तत्र तिष्ठतीत्यर्थः ॥ २१९ ॥ ___ आकलयत्विति । अत्र वीक्षारण्ये, इमं पुरोदृश्यमानं चमत्कारं भवान् आकलयतु अवलोकयतु ॥ ८७ ॥ द्विरेफेति । वीरराघवो भगवान् , द्विरेफस्य भ्रमरस्येव वर्णो यस्याः सा तां श्यामवर्णामित्यर्थः । पक्षे द्वौ रेफवौँ रकाराक्षरे यस्यां तां, "द्विरेफ-पुष्पलिड्-भृङ्ग-षट्पद-भ्रमरालयः” इति “रवणे पुंसि रेफः स्यात्" इति चोभयत्राप्यमरः । सुमनस्सु सदाचरणेन शुद्धचित्तेषु, सुमनस्सु पुष्पेषु च रमते क्रीडति तां सुमनोरमां, "स्त्रियः सुमनसः पुष्पं" इत्यमरः । अत एव संज्ञा 'वीरराघव' इति नामेव "संज्ञा१ 'कुशस्थली'. २ 'मचित'. For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ विश्वगुणादर्शचम्पू:- [वीक्षारण्यकृ०-वयस्य किं सन्नह्यसि वीरैराघवस्तवने ? यदस्मिन्नपि पन्नगनगनाथ इव परधनग्रह्णपरत्वादयः प्रादुःप्यन्ति दोषाः ॥ ८८ ॥ वि०-तत्रामदुक्तेनैव तत्समाधानेन पुनरत्रापि संतोष्टव्यमायुष्मता भवता । पामरमते रमते न कस्य मनो वीरराघवे देवे ? ॥ ८९ ॥ खेक्षोसाध्यजगज्जनिः सुतनुपल्लाक्षाङ्कितोरःस्थलः ___ साक्षादेष परः पुनान् कृतनुतिर्दाक्षायणीशादिभिः ।। वीक्षारण्यपतिर्विराजति गतिर्द्राक्षासदृक्साहिती धी-क्षान्त्यायुररोगता-धन-यशो-मोक्षाद्यपेक्षावताम् ॥ २२१ ॥ स्याचेतना नाम" इत्यमरः । तनुं शरीरं विभर्ति । किंच यदीयं मुखं यदीयं पदद्वन्द्वमिव सुपर्वराजेन सुष्टु पर्वणि पूर्णिमायां राजते तेन चन्द्रेण, सुपर्वणां देवानां राज्ञा इन्द्रेण चेति क्रमेणोभयत्र योज्यम् । अचितं पूजितं । एकपदोपात्ततयाऽभेदाध्यवसायेन सुपर्वराजार्चितत्वस्य साधारणधर्मता बोध्या । उपशोभते ॥ २२० ॥ वयस्येति । हे वयस्य मित्र, वीरराघवस्तवने विषये, किं कुतो हेतो: संनह्यसि उद्युक्तो भवसि ? यत् यतः अस्मिन् वीरराघवेऽपि, पनगजगस्य शेषशैलस्य नाथः श्रीनिवासः तस्मिन्निव परधनग्रहणे परत्वं आसक्तत्वं तदादयः दोषाः प्रादुःप्यन्ति उद्भविष्यन्ति ॥ ८८ ॥ __ तत्रेति । तत्र दोषप्रादुर्भावे, अस्मदुक्तेनैव पूर्व मया कथितेनैव तत्समाधानेन शेषाचलाधिपतिसमाधानेन, पुनरत्रापि संतोष्टव्यमायुष्मता भवता । पामरमते हे क्षुद्रबुद्धे, वीरराघवे देवे, कस्य पुरुषस्य मनः न रमते आसक्तं न भवति ? अपि तु सर्वस्यापि रमते इत्यर्थः ॥ ८९ ॥ स्वक्षेति । स्वस्य ईक्षया पर्यालोचनेन साध्या कर्तुं शक्या जगतो जनिः सृष्टिर्यस्य सः । एतेन “ स ऐक्षत लोकानु मृजा इति " इलायैतरेयोपनिषच्छुतिः स्मारिता । अत्र ' जगज्जनिः' इत्युक्तिरुपलक्षणपरा । तेन स्थिति-संहारावपि शेयौ । सुतनोः लक्ष्म्याः पल्लाक्षया पदसंबन्धिलाक्षारसेन अङ्कितं चिह्नित उरःस्थलं वक्षःस्थलं यस्य सः । सर्वदा लक्ष्म्यास्तत्र विद्यमानत्वादित्यर्थः। किंच साक्षात् परः शरीर-वाङ्-मनो-बुद्धधहंकारादिसंघातेभ्यः परः पुमान् ,अत एव दाक्षायणीशः पार्वतीपतिः शिवः आदिः प्रमुखो येषु तैर्ब्रह्मेन्द्रादिभिः कृता नुतिः स्तुतिर्यस्य तथाभूतः। धीः बुद्धिश्च क्षान्तिः क्षमा च आयुर्जीवनकालश्च अरोगता आरोग्यं च धनं च यशश्च मोक्षश्च ते आदयो येषु तेषु अपेक्षावतामिच्छावतां द्राक्षया सदृशी सुखसेव्य. तयेति भावः । साहिती साहित्यमाराधनमिति यावत् । यस्याः तादृशी गतिरुपायः । अल्पमाराधितोऽपि सकलाभीष्टपूरक त्यइर्थः । वीक्षारण्यपतिवीरराघवाख्यः, विराजति शोभते ॥ २२१॥ १ 'वीरराघवे देवे स्तवनं विरचयितुं'. २ 'स्वेच्छा'. ३ 'देव'. For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वणनम् १९] पदार्थचन्द्रिकाटीकासहिता । १२७ किंचउपेत्य वीक्षावनमुन्नतः सदा सुवर्णवल्लया सुमनःपुषाश्रितः ।। अहीनसेव्यो हरिचन्दनस्तनोत्युपाश्रितानामुचितां सुवासनाम् ॥ २२२ ॥ अथ श्रीरामानुजवर्णनम् १९. इत्यन्यतो विमानं प्रेवयन्नग्रतो वीक्ष्य सप्रत्यभिज्ञम्एषा भूतपुरी निरीक्षितचरी दोषापहन्त्री मया श्रीमानत्र गुणाब्धिराविरभवद्रामानुजार्यो मुनिः ॥ त्रय्यन्तामृतसिन्धुमन्थनभवद्धय्यंगवीनात्मकम् । विज्ञानं यदुपज्ञमेव विदुषामद्यापि विद्योतते ॥ २२३ ॥ उपेत्येति । सुष्ठ मनांसि येषां ते सुमनसः पण्डितास्तान , सुमनसः पुष्पाणि च पुष्णातीति तथा तया, अत एव सुष्ठ वर्णो यस्यास्तया वल्ल्या मल्लिकादिपुष्पवल्लयेति यावत् । पक्षे सुवर्णस्य वल्लीव वल्ली तया लक्ष्म्या आश्रितः सदा आलिङ्गितः, अहीनां सपीणां इनाः श्रेष्ठा महासर्पा इत्यर्थः । अहीनः सर्पस्वामी शेषश्च तेन, न हीना अहीनाः श्रेष्ठजनास्तैश्च सेव्यः सेवितुं योग्यः, हरिः, श्रीविष्णुरेव चन्दनः, हरिचन्दनो वृक्षश्च वीक्षावनं उपेत्य संप्राप्य, उन्नतः उच्चः श्रेष्ठश्च सन् , उपाश्रितानां भक्तानां उचितां योग्यां, सुवासनां मनोऽभिलषितं तनोति विस्तारयति ॥ २२२ ॥ इतीति । अन्यतो विमानं प्रेङयन् गमयन् , सप्रत्यभिज्ञं सानुस्मरणम् एषेति । एषा पुरोदृश्यमाना, दोषाणां अपहन्त्री विनाशयित्री भूतपुरी 'श्रीपेरूम्बुरू' इति प्रसिद्धा, मया निरीक्षितचरी पूर्व अवलोकिता । “भूतपूर्वे चरट्" इति चरट् प्रत्ययः । टित्त्वान्डीयू । अत्र भूतपुर्या, गुणानां अब्धिः सागरः श्रीमान् रामानुजार्यो मुनिः, आविरभवत् प्रकटीवभूव । कीदृशः स रामानुजार्यः । त्रय्यन्ता उपनिषद्विद्या एव अमृतसिन्धुः क्षीरसागरः तस्य मन्थनेन विलोडनेन भवदुत्पद्यमानं यत् हय्यंगवीनं नवनीतं आत्मा स्वरूपं यस्य तत्तदात्मकम् । सर्वोपनिषदां सारभूतमिति तात्पर्यम् । विज्ञानं विशिष्टाद्वैतप्रतिपादकं शारीरकभाष्यं, यस्य रामानुजार्यस्य उपज्ञा आद्यज्ञान विषयः यदुपज्ञं 'उपज्ञोपक्रमं तदाद्याचिख्यासायाम्' इति नपुंसकत्वम् । रामानुजार्येणैव प्रथमं निर्मितमित्यर्थः । “उपज्ञा ज्ञानमाद्यं स्यात्" इत्यमरः । विदुषां पण्डितानां मध्ये अद्यापि विद्योतते प्रकाशते ॥ २२३ ॥ १ 'नृणां'. २ 'रामानुजाख्यो'. For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ विश्वगुणादर्शचम्पू:- [श्रीरामानुजकिंच कामादिवैरिगणभीमानवद्यनिजनामाभिलाषगरिमा ... वैमानिकार्यसमभूमा मैतौ वचनसीमातिलविमहिमा ॥ श्रीमाननूनकलसोमाननो विमलधामावमानितरविः क्षेमाणि जम्भयतु भूमावमुत्र च रामानुजो यतिपतिः ॥२२॥ अपि चस जयति रामानुजयतिरजयति परवादिनं यदीयोक्तिः संजयति बोधमनघं रञ्जयति बुधान् व्यथां च भञ्जयति ॥ २२५ ॥ अन्यच्च ते मीमांसाशास्त्रप्रमथनपरिकलितबुधजनानन्दाः ॥ - लक्ष्मणमुनेः प्रबन्धा लक्ष्मणपूर्वजशरा इव जयन्ति ॥ २२६ ॥ कामादीति । कामः आदिः प्रथमो येषु क्रोध-लोभादिषु तेषां वैरिणां अन्त:शत्रूणां गणस्य समुदायस्य भीमः भयंकरः अनवद्यः निर्दोषः निजस्य स्खकीयस्य नाम्नः अभिलाषगरिमा इच्छाप्रभावः यस्य सः । यस्य नामग्रहणस्येच्छामात्रेणापि कामादीनां विनाशो भवति, किमुत प्रत्यक्षनामग्रहणे कृते इति तात्पर्यम् । तथा मतौ बुद्धौ विषये वैमानिकानां देवानामार्यः गुरुः बृहस्पतिः तेन समस्तुल्यः भूमा माहात्म्यं यस्य सः, अनूनाः संपूर्णाः कला यस्य तस्य सोमस्य चन्द्रस्येवाननं मुखं यस्य सः, किंच विमलधाम्ना स्वकीयनिर्मलप्रकाशेन अवमानितस्तिरस्कृतः रविः सूर्यो येन तथाभूतः, अत एव वचनानां सीमा मर्यादा तस्याः अतिलची उल्लङ्घनशील: महिमा माहात्म्यं यस्य सः श्रीमान् रामानुजो यतिपतिः, भूमौ भूलोके, अमुत्र परलोके च क्षेमाणि कल्याणानि जम्भयतु वर्धयतु । सर्वजनानामिति शेषः । अश्वधाटी वृत्तम् । अस लक्षणं वृत्तरत्नाकरे नैवोपलभ्यते । चित्रवृत्तेष्वस्यान्तर्भावः ॥२२४ ॥ स इति । स रामानुजयति यति सर्वोत्कर्षेण वर्तते । कथंभूतः सः । यदीया यस्य संबन्धिनी उक्तिः भाष्यरूपा, परवादिनं मतान्तरस्थवादिनं अजयति क्षेपयति तिरस्करोतीति यावत् । ' अज गति-क्षेपणयोः' इत्यस्य ण्यन्तस्य रूपम् । अथवा अजमिव छागमिव तुच्छीकरोति । एतत्पक्षे अजशब्दात् 'तत्करोति' इति णिच् । न केवलं तिरस्करोत्येव, किंतु अनघं निर्मलं बोधं ज्ञानं च संजयति उत्पादयति । बुधान् पण्डितांश्च रञ्जयति रमयति । तेषां व्यथां दुःखं च भञ्जयति विनाशयति ॥ २२५॥ .. ते इति । मीमांसाशास्त्रस्य प्रमथनेन आलोडनेन सर्वशास्त्रपर्यालोचनेनेति यावत् । पक्षे ते अमी मांसाशानां राक्षासानां अस्त्राणां शस्त्राणां प्रमथनेन विनाशनेन च परिकलितः उत्पादितः बुधजनानां पण्डितजनानां देवसमूहानां च आनन्दो यैस्ते, १ 'अभिलापगरिमा'. २ 'अवनौ'. For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १४ ] पदार्थचन्द्रिकाटीकासहिता। १२९ ___ अत्र कश्चिदपश्चिमो विपश्चितामित्थमेनमनुदिनं प्रणमति ॥ ९० ॥ 'रामानुजाय गुरवे नरवेषभाजे शेषाय धूतकलये कलये प्रणामान् ॥ यो मादृशानपि कृशान् परिपातुकामो भूमाववातरदुदश्चितबोधभूमा'२२७ इति । एतच्चाकर्ण्यताम् रामानुजौ यामुनतीर्थसेवापरावुदीतौ नरकं निरोद्धम् । तयोः पुराणः प्रणिनाय गीतां तस्या नवीनस्तु ततान टीकाम् २२८ कृशानु:--सत्यमेवं तथापि तत्पथानुविधायिनां मेधाविनामपि परावमन्तृत्वादयो दोषाः प्रसिद्धाः ॥ ९१ ॥ तथाहि-- लक्ष्मणमुनेः रामानुजयतेः प्रबन्धाः ग्रन्थाः, लक्ष्मणस्य पूर्वजो रामस्तस्य शराः बाणाः इव, जयन्ति ॥ २२६ ॥ अत्रेति । अत्रास्मिन् देशे कश्चित् विपश्चिता विदुषां मध्ये, अपश्चिमः अत्युत्तमः एनं श्रीरामानुचाजाय, अनुदिनं प्रतिदिनं इत्थं वक्ष्यमाणप्रकारेण, प्रणमति नमः स्करोति ॥ ९० ॥ रामानुजायेति । नरवेषं मनुष्यस्वरूपं भजति आश्रयतीति नरवेषभाक् तस्मै, शेषाय सर्पराजाय, रामानुजाय, धूतः निरस्तः कलिः पापं येन तस्मै, पापरहितायेत्यर्थः । अत एव गुरवे आचार्याय प्रणामान् नमस्कारान् कलये करोमि । यः मादृशान् कृशान् अतिदीनानपि परिपातुकामः रक्षितुमिच्छुः सन् , उदञ्चितः खभावत एवोत्पन्नः बोधभूमा ज्ञानातिरेको यस्य सः, भूमौ अवातरत् प्रकटीबभूव ॥ २२७ ॥ रामेति । यमुनैव यामुनं, स्वार्थेऽण् । यामुनं च तत्तीर्थं च तस्य, पक्षे यामुनतीर्थस्य गुरोश्च सेवापरौ सेवासक्तौ, नरकं एतनामकमसुरं दुर्गतिं च निरोद्धं निवारयितुं, रामस्य बलरामस्य अनुजः कृष्णः, रामानुजाचार्यश्च, रामानुजश्च, रामानुजश्च ती इत्येकशेषसमासः । उदीतौ उत्पन्नौ । दीर्घत्वं छन्दोऽनुरोधात् । तयोः द्वयो रामानुजयोर्मध्ये पुराणः प्रथमः कृष्णः गीतां भगवद्गीतां प्रणिनाय विरचितवान् । नवीनो रामानुजाचार्यस्तु, तस्या गीतायाः टीकां व्याख्यां ततान चकार॥२२८॥ सत्यमिति । सत्यमेवं तथापि तस्य रामानुजाचार्यस्य पन्थानं प्रवृत्ति अनुविदधति अनुसरन्तीत्यनुविधायिनः तेषां बुद्धिमतामपि, परेषां भिन्नमतानुयायिनां अवमन्तृत्वं अपमानः आदिर्येषां मात्सर्यादीनां ते दोषाः प्रसिद्धाः । सन्तीति शेषः ॥ ९१॥ - - १ 'पथानुधाविनाम् For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० विश्वगुणादर्शचम्पू: श्रीरामानुजदर्शनैकरसिकः शिष्टः प्रकृष्टैर्गुणैः पूर्णानां विदुषां मतान्तरजुषां पङ्क्तौ न भुङ्क्ते क्वचित् ॥ हान्तौदनमन्ततः शुचितमं तद्दृष्टमाशु त्यज त्यास्तां तत्स्वमतस्थितैरपि समं प्रायेण नाश्नात्यसौ ॥ २२९ ॥ किंच— नैषां न्याय्य इह द्विजान्वयजुषां भाषाप्रबन्धे श्रमो वेदे विश्वमर्थसाधनविधौ बद्धोदरे जाग्रति ॥ तीरं क्षीरपयोनिधेरुपगतो दैत्यारिदध्यावृतम् को वा धावति दुग्धलब्धिचपलो गोपालकस्यालयम् ॥ २३०॥ किंचएतन्मतानुवर्तिनां केषांचिदेषां चेष्टा नेष्टा वैदिकानाम् । पश्य ॥ ९२ ॥ , तानेव दोषान् दर्शयति - श्रीरामानुजेति । श्रीरामानुजस्य दर्शने एव एकं मुख्यं यथा तथा रसिकः रसज्ञः प्रकृष्टैः विद्वत्त्वाचारसंपन्नत्वादिभिरुत्तमैर्गुणैः शिष्टः श्रेष्ठश्च सन्, मतान्तरजुषां शांकराद्यन्यमतानुयायिनां पूर्णानां विद्याचरणादिभिः परिपूर्णानामपि किमुतापूर्णानाम् । पङ्क्तौ भोजनपङ्कौ कचित् कदाचिदपि न भुङ्क्ते भोजनं नैव करोति । किंच नैतावदेव अन्यदपि मात्सर्य कथयति । अन्ततो वस्तुतः शुचितममतिपवित्रमपि ओदनमन्नं तैर्दृष्टं मतान्तरस्थैरवलोकितं सत्, आशु शीघ्रमेव त्यजति । तत्तु आस्तां नाम, किंतु स्वमतस्थितैरपि समं सह असौ रामानुजीयः प्रायेण न अश्नाति नैव भुङ्क्ते । कदाचित्तु भुङ्क्ते ॥ २२९ ॥ 1 [ श्रीरामानुज नैषामिति । एषां रामानुजीयानां द्विजान्वयं ब्राह्मणवशं जुषन्ति आश्रयन्ति तेषां ब्राह्मणकुलोत्पन्नानामिति यावत् । विश्वेषां सकलानां पुमर्थानां धर्मादिपुरुपार्थानां साधनविधौ संपादनकर्मणि, बद्धादरे स्वीकृतादरे वेदे जाग्रति सति, भाषाप्रबन्धे द्राविडभाषानिर्मिते पन्थे श्रमः अभ्यासः इह न न्याय्यः नैव युक्तः । तत्र दृष्टान्तमाह - तीरमिति । दैत्यारेः श्रीविष्णोः दीप्त्या कान्त्या आवृतं वेष्टितं क्षीरपयोनिधेः क्षीरसमुद्रस्य तीरं उपगतः प्राप्तः सन् को वा पुरुषः दुग्धस्य लब्धौ प्राप्तौ चपलः आसक्तः गोपालकस्य नीचगोपालस्य, अल्पार्थे कन् । आलयं गृहं धावति शीघ्रं गच्छति ? अपि तु कोपि नैव गच्छतीत्यर्थः ॥ २३० ॥ 2 एतदिति । एतन्मतानुवर्तिनां रामानुजमतानुसारिणां केषांचिदेषां पुरुषाणां, अविदुषामित्यर्थः । चेष्टा आचरणं वैदिकानां वेदानुयायिनां नेष्टा न प्रिया ॥ ९२ ॥ ? ' प्रबन्धश्रमो'. २ ' बद्धाइरो'. For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९ ] पदार्थचन्द्रिकाटीकासहिता । मुञ्चन्तः पञ्चयज्ञान् द्रविडभणितिभिर्मोहयन्तोऽनभिज्ञान् निन्दन्तो हन्त यज्ञानसकृदपि हरेर्वन्दनं वारयन्तः ॥ लुम्पन्तः श्राद्धचर्या यतिमपि गृहिणां वन्दनं कारयन्तः सद्वेषं धारयन्तः कतिचिदविहितैरेव कालं क्षिपन्ति ॥ २३१ ॥ किंच- घण्टाघोषं त्यजन्तो हरिपरिचरणे सर्वलोकाविगीतम् ख्यातं त्रैलोक्यमातुः श्रुतिभिरभिहितं वैभवं खण्डयन्तः ॥ संकेतश्रद्धयैव खचरणसलिलं खीयगोष्ठयां पिबन्तः केचिद्विप्लावयन्ते जगदभिदधतः केशवं दोषभोग्यम् ॥ २३२ ॥ १३१ मुञ्चन्त इति । पञ्चयज्ञान् ब्रह्मयज्ञ-देवयज्ञ भूतयज्ञ-पितृयज्ञ-मनुष्ययज्ञाख्यान् मुञ्चन्तस्त्यजन्तः, त्यजन्तीत्यर्थः । एवमेव सर्वत्र शत्रन्तस्यार्थो ज्ञेयः । द्रविडभणितिभिः द्रविडभाषावाक्यैः अनभिज्ञान् वेद-शास्त्रादिज्ञानरहितान् मोहयन्तः स्वमतग्रहणे भ्रामयन्तः, हन्तेति खेदे । यज्ञान् अग्निष्टोमादीन् निन्दन्तः काम्या इति मत्वा निन्दां कुर्वन्तः, हरेः श्रीविष्णोरपि वन्दनं असकृत् वारं वारं वारयन्तः निषेधयन्तः, श्राद्धचर्या श्राद्धानुष्ठानं लुम्पन्तः अकुर्वन्तः, यति खसंन्यासिनमपि किमुत इतरं, गृहिणां गृहस्थाश्रमिणां वन्दनं कारयन्तः, सत्सु सत्पुरुषेषु द्वेषं अप्रीतिं धारयन्तः । एवं कतिचित् रामानुजीयाः अविहितैः वेद-शास्त्रनिषिद्धैः कर्मभिरेव कालं क्षिपन्ति नयन्ति ॥ २३१ ॥ , For Private And Personal Use Only किंच पूजादिष्वपि विधिवदनुष्ठानं नैव भवतीयाह - घण्टा घोषमिति । सर्वेषु लोकेषु अविगीतमनिन्दितं प्रशस्तमित्यर्थः । हरिपरिचरणे श्रीविष्णुपूजने घण्टाघोषं देवताह्वानार्थं विहितं घण्टानादं त्यजन्तः, त्रैलोक्यमातुः श्रीलक्ष्म्याः श्रुतिभिः “सा हि श्रीरमृता सताम् ” इत्याद्यनेकाभिः अभिहितमुक्तं ख्यातं प्रसिद्धं वैभवं स्वातन्त्र्यरूपं खण्डयन्तः, लक्ष्मीस्तावद्भगवतो मायेत्युक्त्वा दूषयन्तः, किंच स्वीयानां रामानुजीयानां गोष्ठयां सभायां, संकेते स्वकल्पितविधौ या श्रद्धा विश्वासस्तयैव स्ववरणसलिलं स्वपादोदकं सर्वेषामप्येकीकृत्य पिबन्तः, प्राशयन्तः । एतदेव तेषां मतस्य सर्वस्वम् । केचित् केशवं श्रीविष्णुं दोषभोग्यं नियामकतया कृतानां दोषाणां भोतारं अभिदधतः कथयन्तः सन्तः, जगत् विप्लावयन्ते अधर्मप्रचारेण विनाशप्रवणं कुर्वन्तीत्यर्थः ॥ २३२ ॥ १ 'तैः संक्षिपन्त्येव कालम् . Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ विश्वगुणादर्शचम्पू:- [श्रीरामानुजअपि चयज्ञाः पञ्च महत्पदेन सहिता ये चापरे विश्रुता यत्कर्म ग्रहसंक्रमादिसमये सर्वे बुधाः कुर्वते ॥ तत्सर्व विसृजन्ति काम्यमिति ये त्रय्यन्तविध्वंसका स्तैर्द्व नित्यतयाऽऽश्रिते यदशनं या च व्यवायक्रिया ॥२३३।। अन्यच्चविदुषामपि मोहमावहन्तो वितथैतिह्यसहस्रवर्णनेन ॥ विनयाभिनयात्खलाः किलाऽमी विजयन्ते कपटालया जगन्ति २३४ किंचयस्यां नास्ति पुरस्कृतिर्नयविदां यज्वा तु हासास्पदम् पूज्यन्ते च निरक्षराः पुनरमी सांकेतिकाचार्यकाः ।। यशा इति । ये पञ्च यज्ञाः ब्रह्मयज्ञादयः महत् इति पदेन सहिताः महायज्ञा इत्यर्थः । ये लपरे यज्ञाः ज्योतिष्टोमादयः विश्रुताः प्रसिद्धाः, इदं पूर्वत्रापि योज्यम् । चस्त्वर्थः । सर्वे बुधाः श्रुति-स्मृतिज्ञाः, ग्रहः चन्द्र-सूर्योपरागः, "उपरागो ग्रहो राहुग्रस्ते विन्दौ च पूष्णि च" इत्यमरः। संक्रमः रवेर्मेषादिषु प्रवेशः तदादौ समये यत्कर्म देव-पित्राथुद्देशेन कुर्वते तत्सर्वे नित्यं नैमित्तिकं च कर्म काम्यं, कामहेतुकमिति अपलप्येति शेषः। ये य्यन्तस्य वेदान्तमार्गस्यापि वि वंसकाः सन्तः, अमी विसृजन्ति मुञ्चन्ति । तैदूषकैः, अशनं भोजनं यत् , या च व्यवायक्रिया मैथुनं ते द्वे कर्मणी नित्यतया नित्यकर्तृत्वेन आश्रिते अङ्गीकृते । शिश्नोदरमात्रपरायणा एत इत्यर्थः ॥ २३३ ॥ विदुषामिति । वितथानामसत्यानां ऐतिह्यानां कल्पितपूर्वतनमिथ्यावादानां 'एतन्मतं स्वीकृत्य ते कृतार्थाः' 'एते च कृतार्थाः अभवन्' इत्यादिरूपाणां सहस्रस्य वर्णनेन कथनेन विदुषामपि, किमुत अज्ञानां, मोहं स्वमताभिनिवेशं आवहन्तः कुर्वन्तः । वस्तुतः खलाः पापाः कपटस्य आलयाः गृहरूपाः दाम्भिका इत्यर्थः । अत एव अमी रामानुजीयाः विनयस्य आरोपितस्य अभिनयात् प्रकटनाद्धेतोः जगन्ति विजयन्ते किल ॥ २३४ ॥ यस्यामिति । यस्यां गोष्टयाम् । इदं सर्वत्र योज्यम् । नयविदां शास्त्रज्ञानां पुरस्कृतिः पूजा नास्ति । यज्वा विधिवद्यज्ञाद्यनुष्ठानकर्ता तु “यज्वा तु विधिनेष्टवान्" इत्यमरः । हासास्पदम् , निरक्षराः वेद-शास्त्रग्रन्थाक्षरस्यापि ज्ञानरहिताः अमी सांकेतिका संकेत सिद्धा आचार्य इति संज्ञा येषां ते आचार्यकाः संज्ञायां कन् । आचार्यपुरुषाश्च पुनः पूज्यन्ते । वेदानामवहेलनं काम्यकर्मानुष्ठापका इत्यवमाननं १ 'त्रय्यध्व'. २ 'जगत्सु'. For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९] पदार्थचन्द्रिकाटीकासहिता । १३३ वेदानामवहेलनं व्यतिहता वर्णाश्रमप्रक्रिया गोष्ठ्यै दुष्कलिपुष्कलीकृतपुषे कस्यैचिदस्यै नमः ॥ २३५॥ किं बहुना प्रायो येषां सकृदकरणे प्रत्यवायोऽस्ति भूयान् __यज्ञादीस्तानिह विजहति स्पष्टवेदोपदिष्टान् ॥ कर्मैवामी विदधति जडाः किंतु संकेतसिद्धं __ कष्टं कष्टं बत हतकलेः कश्चिदुन्मेष एषः ॥ २३६ ॥ किं चन गाहन्ते गङ्गामपि नैटजटासार इति ये न मज्जन्त्यम्भोधौ लवणरसवेशन्तक इति ॥ न पञ्चैवं गव्यानपि पशुशकृत्सार इति हा पिबन्त्येषां दोषान्क इह निपुणः स्याद्गणयितुम् ॥ २३७ ॥ - विश्वावसुः-किमरे कलङ्कलेशरहितेषु श्रीमद्रामानुजदर्शनैकनिष्ठेषु भवति । वर्णानामाश्रमाणां च प्रक्रिया आचारः व्यतिहता ध्वस्ता। दुष्टस्य कले: पापस्य पुष्कलीकृतं वर्धनं पुष्णातीति तत्पुषे कस्यैचिदस्यै गोष्ठयै तेङ्गलीयायै नमः । सर्वथा त्याज्या गोष्टीयमित्यर्थः ॥ २३५॥ प्राय इति । येषां यज्ञादीनां सकृत् एकदाप्यकरणे अननुष्ठाने सति, भूयान् प्रत्यवायः पापं अस्ति भवति, तान् स्पष्टं वेदैरुपदिष्टान् चोदितान् यज्ञादीन् ब्रह्मयज्ञादिपञ्चसंख्याकान् इह लोके अमी रामानुजीयाः विजहति त्यजन्ति। किंतु अत एव जडाः मूर्खाः संकेतसिद्धमेव कर्म । एवकारेण श्रौत-स्मार्तव्यवच्छेदः। विदधति कुर्वन्ति । कष्टं कष्टम् अन्याय्यमन्याय्यम् । बतेति खेदे । एषः विहितत्याग: अविहितानुष्टानं च हतकलेः सम्बन्धी कश्चिदनिर्वाच्यः उन्मेषः प्रभाव एव ॥ २३६ ॥ नेति । ये तेङ्गलाख्याः गङ्गामपि लोकपावनी नटस्य नर्तकस्य शिवस्य जटानां आसारः वर्षमिति विगयेति शेषः । न गाहन्ते न स्नान्ति । अम्भोधौ समुद्रे, लवणरसः क्षाररसस्तस्य वेशन्तकः पल्वलमिति "वेशन्तः पल्वलं चाल्पसरः” इत्यमरः। न मज्जन्ति न स्नान्ति । एवं पञ्चगव्यान्यपि पशोः शकृत्सारः पूरीषभाग इति न पिबन्ति । एवं सति एषां दोषान् गणयितुं संख्यातुं इह कः निपुणः स्यात् ? न कोऽपीत्यर्थः, हेति खेदे ॥ २३७ ॥ किमिति । कलङ्कस्य दोषस्य लेशेन यत्किंचिदंशेनापि रहितेषु श्रीमतो रामानु १ 'वेदानामपि हेलनं.' २ 'कृतिपुषे.' ३ हर.' १२ For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ विश्वगुणादर्शचम्पू:- श्रीरामानुजगरिष्ठेष्वपि सन्नह्यसि ? अथवा भवादृशानां कृशविवेकानां का नाम मर्यादा? ॥ ९३ ॥ उक्तं हि'अनल्पकं धरायां हि सर्वज्ञस्यापि दारुणाः ॥ आरोपयन्ति मालिन्यं काकोला इव ते खलाः ॥२३८॥ इति । पश्य तावदेतेषां पवित्रतमं चरित्रम् ॥ ९४ ॥ उच्छिष्टान्यतिदूरतः परिहरन्त्युज्झन्त्यसत्सङ्गतिं प्राणापत्स्वपि बान्धवेतरगृहे प्राश्नन्ति नापोऽप्यमी ॥ काम्यं निर्मिमते न कर्म भगवत्कैंकर्य एव स्थिताः ___ सत्त्वस्थैः स्पृहणीय एष जयति श्रीवैष्णवानां क्रमः॥२३९॥ किं च-- भाले शुद्धमृदूर्ध्वपुण्डूतिलकः पद्माक्षमाला गले दिव्यं शङ्खरथाङ्गचिह्नमनिशं दीप्तं भुजामूलयोः ॥ वक्त्रे शौरिगुणैकवर्णनपरा वाचस्तदेनोमुचा मेतेषां हरिभक्तितुन्दिलहृदां वीक्षापि मोक्षावहा ॥ २४० ॥ जाचार्यस्य दर्शने शास्त्रे एका अनन्या निष्ठा श्रद्धा येषां तेषु अत एव गरिष्टेषु श्रेष्ठेषु संनह्यसि दोषारोपणे प्रवर्तसे ? अथवा भवादृशानां त्वादृशानां कृशविवेकानां अल्पविचाराणां का नाम मर्यादा स्थितिः ? कापि नैवेत्यर्थः ॥ ९३ ॥ अनल्पकमिति । धरायां भूमौ ते खलाः काकोला द्रोणकाका इव 'द्रोणकाकस्तु काकोलः” इत्यमरः । सर्वज्ञस्यापि अनल्पकं मालिन्यं दोषमशुद्धिं च आरोपयन्ति प्रापयन्ति हि । पक्षे सर्वज्ञस्य शिवस्यापि अनल्पायां कन्धरायां ग्रीवायां मालिन्यं नैल्यं काकोलाः कालकूटा इव ॥ २३८ ॥ पश्यति । पवित्रतममतिपवित्रम् ॥ ९४ ॥ तत्राद्यं शिष्टपसावभुक्तिरूपं दोषं निवारयति-उच्छिष्टानीति । अमी रामानुजीयाः उच्छिष्टान्यन्नानि अतिदूरतः परिहरन्ति, असद्भिः संगतिं सहभोजनादिरूपां उज्झन्ति त्यजन्ति, प्राणापत्सु सतीष्वपि बान्धवेतरगृहे अपोऽपि उदकान्यपि न प्राश्नन्ति, काम्यं स्वर्गादिहेतुकं कर्म न निर्मिमते न कुर्वन्ति । किंतु भगवतः कैंकर्ये पूजादिरूपसेवायामेव स्थिताः । अत एव एषः उक्त विधः श्रीवैष्णवानां क्रमः रीतिः सत्त्वस्थैः सात्त्विकैः स्पृहणीयः कामनीयः सन् जयति ॥ २३९ ॥ भाल इति । यस्मादेतेषां भाले शुद्धमृदा श्वेतमृत्तिकया गोपीचन्दनरूपया ऊर्ध्वपु. ण्ड्रात्मकस्तिलकः, गले पद्मबीजमयी अक्षमाला, भुजामूलयोर्बाह्वग्रयोः अनिशं दिव्यं १ 'अविवेकानां.' २ 'अतिमात्रं'. ३ 'उच्छिष्टानपि'. ४ निर्ममते'. ५ 'जगति'. For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९ ] प५. यंचन्द्रिकाटीकासहिता । दोषारोपणं चैतेषु त्वदीयमपहास्यम् ॥ ९५ ॥ तथाहिइष्टात्खबान्धवजनादितरैरदृष्टम् यद्भुञ्जतेऽन्नमिह लक्ष्मणपक्षनिष्ठाः ॥ दोषः किमेष दुरितापहरो गुणो वे त्येवं विविच्य परिपृच्छ गुणागुणज्ञान् ॥ २४१ ॥ किंच दृष्टं बन्ध्वतरैः सतामनदतां दोषो य एषोऽपरैः शिष्टैः स्पृष्टमनश्नतामिह महाराष्ट्रादिकानां समः ॥ एषां दूषयिता न कोऽपि नियताहारः परंतु द्विजः सर्वाशी नतु दूषणं हितभुजां तेषामिदं भूषणम् ॥ २४२ ॥ यश्च शठारिप्रभृतिसत्त्वस्थमुनिविनिर्मितदिव्यप्रबन्धाध्ययने दोष उद्घाटितः सोऽयमितिहास-पुराणादिभिर्वेदमुपबृंहयद्भ्यः सङ्ख्यो न रोचते । श्रृणु तावत् ॥ ९६ ॥ दीप्तं शङ्खस्य रथाङ्गस्य चक्रस्य च चिह्नम्, वक्त्रे शौरिगुणैकवर्णनपराः श्रीकृष्णगुणवर्णनासक्ताः वाचः । सर्वत्र यथायोग्य मस्तीत्यादिवचनानुसारेण क्रियापदं योज्यम् । तत्तस्मात् हरिभक्तितुन्दिलहृदां श्रीकृष्णभक्त्या पूर्णमानसानां अत एव एनोमुचां निष्पापानामेतेषां वीक्षा दर्शनमपि मोक्षावहा भवति ॥ २४० ॥ १३५ दोषेति । अपहसितुं योग्यं अपहास्यम् । परिहासास्पदमित्यर्थः ॥ ९५ ॥ इष्टादिति । इह लक्ष्मणपक्षे रामानुजमते निष्ठाः स्थिताः इष्टात् स्वमतस्थात् स्वबान्धवजनात्, इतरैः मतान्तरस्यैः अबान्धवैरदृष्टमन्नं भुञ्जत इति यत्, एष उक्तविधान्नभोजनरूपः, दोष: ? किं वा दुरितं पापं अपहरति विनाशयतीति दुरितापहरो गुणः ? इति उक्तप्रकारं विविच्य आलोक्य गुणानगुणान् दोषांश्च जानन्तीति तज्ज्ञान् परिपृच्छ विचारय ॥ २४१ ॥ १ 'मितभुजां . ' अथ 'विदुषां मतान्तरजुषां पङ्कौ न भुङ्क्ते' - इत्यादि दूषणमुद्धारयन्नाह - दृष्टमिति । बन्ध्वितरैर्दृष्टं अन्नं अनदतां अभक्षयतां सतां य एष दोषः कथितः, स एष दोषः अपरैः शिष्टैः स्पृष्टं अनश्नतां अभक्षयतां महाराष्ट्रादिकानां महाराष्ट्रादीतर देशवासिनामपि समः तुल्यः । नियताहारः मितभोजनः कोऽपि द्विजः एषां रामानुजीयानां दूषयिता दूषकः न भवति । परंतु किंतु सर्वत्राश्नातीति सर्वाशी द्विजः दूषयिता स्यात् । इदं अनियमभोजनकृतदूषणं तु हितभुजां शरीरसुखकर भोजिनां तेषां भूषणमेव न तु दूषणमिति योज्यम् ॥ २४२ ॥ भाषाप्रबन्धाध्ययनरूपं दोषं निराकर्तुमाह-यश्चेति २ ' प्रमुखसत्त्वस्थमुनि ' ३ 'उद्भावित : '. For Private And Personal Use Only शठारिः एतन्नामा ४ 'विद्वद्भयः'. Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [श्रीरामानुजबकुलविभूषणेन गुरुणा करुणानिधिना श्रुतिमुकुटाभिसन्धिमवधार्य परं गहनम् ॥ रचितमिह प्रबन्धमनुसंदधतां कथितम् सममपि दूषणं स्मृति-पुराणमधीतवताम् ॥ २४३ ॥ किंचउपादेयं प्राज्ञैरुचितविषयं द्राविडवचो ऽप्ययुक्तार्थ हेयं भवति वचनं संस्कृतमपि ॥ हरिं बिभ्रच्चेतस्यनतिसुभगोऽपि स्तुतिपदम् न सद्रूपोऽप्यन्तःकरणधृतनारीस्तनभरः ॥ २४४ ॥ वस्तुतस्त्वगस्त्यव्याकरणानुशिष्टानामनवद्यशिष्टपरिग्रह विशेषप्रकृष्टानां द्राविडशब्दानां को नाम संस्कृतादपकर्षः ॥ ९७ ॥ पश्यकश्चिन्मुनिः सः प्रभृतिर्मुख्यो येषु तैः सत्त्वस्थमुनिभिः सत्त्वगुणयुक्तऋषिभिः, एतेन तेषां शम-दमादिसाधनसंपत्तिमत्त्वं, काम-क्रोधादिराहियं च सूचितम् । निमितदिव्यप्रबन्धानां अज्ञजनज्ञानार्थे विरचितदिव्यभाषाग्रन्थानां अध्ययने यश्च दोषः उद्घाटितः प्रकटीकृतः सोयं इतिहास-पुराणादिभिर्वेदमुपबृंहयद्भयो वर्धयझ्यः सद्भयः, व्यास-वसिष्ठसदृशसज्जनेभ्यो न रोचते । अनेन इतिहास-पुराणानि यथा वेदोपबृंहणानि, तथैवैतेषां भाषाप्रबन्धा अपीति सूचितम् ॥ ९६ ॥ __ एतदेव सविस्तरमुपपादयति-बकुलेति । करुणानिधिना अत एव बकुलविभूषणेन शठकोपेन गुरुणा, श्रुतिमुकुटानां उपनिषदां अभिसन्धि तात्पर्य परमुत्कृष्टं गहनं दुईयं अवधार्य निश्चित्य रचितम् । द्राविडभाषयेति शेषः । प्रबन्धं अनुसंदधतां पठतां यत् दूषणं कथितं, तत् दूषणं स्मृतिः मानवादिः पुराणानि वैष्णव-भागवतादीनि च । “नपुंसकमनपुंसकेन” इत्यादिना एकवद्भावः । अधीतवतां तत्पठनं कुर्वतामपि समं, वेदार्थोपबृंहकत्वाविशेषादिति भावः ॥ २४३ ॥ : ननु तथात्वेऽपि प्रबन्धस्य द्रविडदेशभाषामयत्वेन “देशभाषामयं काव्यं श्रोतव्यं जातु न द्विजैः।" इति स्मरणादनुचितमेव तत्पठनमित्याशङ्कयाह-उपादेय. मिति । उचितः योग्यः विषयः प्रतिपाद्यं यस्य तत् द्राविडवचः प्रबन्धरूपमपि, प्राझैमनीषिभिः उपादेयं स्वीकार्य भवति । अयुक्तार्थ अनुचितविषयं संस्कृतमपि वचनं भाण-प्रहसनादिरूपं हेयं त्याज्यं च भवति । उक्तेऽर्थे दृष्टान्तमाह-न अतिसुभगः सुन्दरः अनतिसुभगः कुरूपोऽपि, हरिं चेतसि अन्तःकरणे बिभ्रत् धारयन् जनः स्तुतेः पदं स्थानं भवति । सद्रूपोऽपि सुरूपसंपन्नोऽपि अन्तःकरणे चेतसि धृतः नारीस्तनभरः स्त्रीस्तनसौन्दर्य येन तादृशः जनः स्तुतिपदं न भवति । दृष्टान्तालंकारः ॥ २४४ ॥ वस्तुतस्त्विति । अगस्त्यव्याकरणं 'इलकणं' इति भाषानामप्रसिद्धं For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९] पदार्थचन्द्रिकाटीकासहिता । १३७ स यासां व्याकर्ता चुलुकितसमुद्रो मुनिवरः __प्रबन्धारः प्रौढाः शठमथनमुख्याः शमधनाः ॥ प्रवक्तारः शुद्धाः प्रथितयशसः पूर्वगुरवो गिरांपारे तासां जयति गरिमा द्राविडगिराम् ॥ २४५ ॥ यश्चैकदेशविषयदूषणोपन्यासस्तत्राप्याकर्ण्यताम् ॥ ९८ ॥ तेनानुशिष्टानां व्युत्पन्नानां, अनवद्याः स्तुत्याः ये शिष्टाः तेषां परिग्रहविशेषेण आदरातिशयेन प्रकृष्टानामुत्तमानां द्राविडशब्दानां, प्रबन्धगतानामिति शेषः । को नाम संस्कृतादपकर्षः निकृष्टत्वम् ? ॥ ९७ ॥ स इति । यासां द्राविडवाणीनामिति वाक्यत्रयेऽपि योज्यम् । व्याकर्ता व्याकरणेन संस्कारकर्ता तु, चुलुकितः आचमनमात्रेणैव प्राशितः समुद्रो येन तथाभूतः, सः प्रसिद्धः मुनिवरोऽगस्त्यः, प्रबन्धारः भाषाग्रन्थकारश्च प्रौढाः प्रगल्भाः शठमथनमुख्याः शठकोपादयः, शमो बाह्येन्द्रियनिग्रहस्तद्रूपमेव धनं येषां तथाभूता मुनयः, किंच प्रवक्तारः अध्यापकाश्च, शुद्धाः अन्तर्बाह्येन्द्रियदमनेन शुद्धान्तःकरणाः, प्रथितयशसश्च, पूर्वे गुरवः रामानुजादयः । सर्वत्र भवतीत्यादि यथायोग्यं वचनविपरिणामेनानुसंधेयम् । तासां द्राविडगिरां गरिमा महत्त्वं, गिरांपारे जयति । वाचामविषय इत्यर्थः ॥ २४५ ॥ इदानीं 'घण्टाघोषं' त्यजन्तः-' इत्यादिश्लोकैरुपन्यस्तदूषणमुद्धारयन्नाहय इति । एकदेशः पूजायां घण्टानादाकरण-यज्ञादिकर्मत्यागादिरूपः विषयः येषां तेषां दूषणानामुपन्यासः कथनम् ॥ ९८ ॥ इतः परं दश पद्यानि सप्त गद्यानि चात्र मुद्रितपुस्तके अधिकान्युपलभ्यन्ते, प्राचीनपुस्तकेषु, अस्मत्संपादितादर्शपुस्तके च तानि नोपलभ्यन्त एव । तस्मात्तानि केनचित्प्रक्षिप्तानीति भाति । एतद्विषये च मुद्रितपुस्तके टीकाकारः, 'ग्रन्थका वेङ्कटाध्वरिणा 'तेङ्गले' इत्याख्यानां दोषानुद्वाट्य तन्निवारणं सम्यक्तया न कृतमिति मत्वाऽन्येन केनचित्तेङ्गलसंप्रदायिना खसंप्रदायोपर्यारोपितदोषनिरसनार्थमयमंशः प्रक्षिप्तः' इति वदति च । अतस्तेषां मूले निवेशोऽयुक्त इति अत्रैव वाचकानां परिज्ञानार्थ निवेश्यन्ते । तेषां टीका च टिप्पणीस्थले यथावलोकनं निवेशिता । मूलबहिर्भूतत्वान मया पृथक् टीकाकरणे यतितम् । यथाकिंचयज्ञान पञ्च च संचितात्मधिषणा मान्यानथान्याध्वरान तत्तद्देवशरीरमाधवमुखोल्लासावहानप्यमी॥ यशानिति। संचिता आत्मधिषणा आत्मज्ञानसाक्षात्कारः यैस्ते। ज्ञानिन इत्यर्थः। अमी रामानुजीयाः । “पञ्च वा महायज्ञा ब्रह्मयज्ञो देवयज्ञो भूतयज्ञः पितृयज्ञो मनु For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ विश्वगुणादर्शचम्पू:- [श्रीरामानुज संत्यज्याप्यवधानतः प्रभुतमं स्वाराधनस्तोषय न्त्येषां सच्चरितं यशांसि भजतां सूते पुनीते जगत् ॥ १ ॥ सर्वाभ्यर्हितवैष्णवाङिपयसां पानेन पूतात्मभि बह्वायासनिषेव्यपावनजटा गङ्गापि नाङ्गीकृता ॥ सामीप्येऽपि पयोनिधिः परिहृतः पश्वादिकाम्याद्विधेः सारासारविवेचने समुचिता संदृश्यते चातुरी ॥२॥ हन्त एतेष्वेव सांसिद्धिकामच्युतभक्तिमपेक्ष्य विजयते तद्भक्तभक्तिरनितरसाधारणी ॥ १ ॥ दृष्टे झटित्यखिललोकनिदानभक्ते साष्टाङ्गमत्रपमपाकृतसर्वगर्वम् ॥ अस्पृष्टदेशसमयं प्रणमन्ति तेषां धन्यात्मनां वद किमन्यदुपास्यमस्ति॥३॥ यच्च यतिवन्दनविषयेऽप्यवहितोऽसि तत्राप्याकर्ण्यताम् ॥ २ ॥ ध्ययज्ञ इति" इत्यादिश्रुत्युक्ताः तान् । अथ मान्यान् अन्यानध्वरान् ज्योतिष्टोमादीन् , तत्तद्यज्ञस्थदेवतारूपत्वेन माधवस्य विष्णोः मुखं अग्निः “अग्निमुखा वै देवाः" इति श्रुतेः । तस्य उल्लासः तृप्तिः तामावहन्तीति तानपि एतादृशान् यज्ञान् , संत्यज्य विहाय, अमी अवधानतः सावधानतया प्रभुतमं सर्वेश्वरं विष्णुं खाराधनैः पूजन-भजनादिभिः तोषयन्ति । एतादृशानामेषां हरिं भजतां सत् साधु चरितं आचरितं यशांसि सूते, जगत् पुनीते पवित्रयति च ॥१॥ सर्वेति । सर्वेभ्य इतरेभ्यो जलेभ्यः अभ्यर्हितानां सन्निधानां सुखलभ्यानां पूज्यानां वा वैष्णवाभिपयसां वैष्णवपादोदकानां पानेन पूतः आत्मा शरीरं येषां तैः एभिः, बह्वायासेन निषेव्या पावना जटा मूलं उगमश्च यस्याः । “मूले लग्नकचे जटा" इत्यमरः । तुषारपिहितात्युचहिमाचलनिर्गतत्वात् अतिदूरत्वाद्वा बह्वायासनिषेव्यत्वम् । गङ्गापि नाङ्गीकृता पावित्र्याथै न स्वीकृता । अनायासलभ्यवैष्णव. पादतीर्थेनैव पावित्र्यलाभात् । तीरोपान्तनिवासित्वात् सामीप्येऽपि पयोनिधिः समुद्रः स्नानादिषु परिहृतः । पशुबन्धादिकाम्यकर्मविधेः सारासारविवेचने कर्तव्याकर्तव्यविवेके समुचिता चातुरी नैपुण्यं दृश्यते । एषामिति शेषः ॥ २॥ हन्तेति । सांसिद्धिको जन्मान्तरसुकृतलब्धां अच्युतस्य भगवतो भक्तिमपेक्ष्य, तद्भक्तानां वैष्णवानां भक्तिः, अनितरसाधारणी असदृशी विजयते सर्वोत्कर्षण वर्तते । भगवतोऽप्यधिकं तद्भक्कानेवामी भजन्तीति भावः । हन्तेति हर्षे ॥ १॥ कथमित्याकाङ्क्षायामाह-दृष्टे इति । अखिललोकस्य विश्वस्य निदानं आदिका. रणं "निदानं त्वादिकारणम्" इत्यमरः । भगवान् विष्णुः तस्य भक्त दृष्टे सति, साष्टाङ्गं "उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते ॥" इत्युक्तलक्षणं अत्रपं लज्जारहितं अपाकृतः दूरीकृतः सर्वोऽपि गर्वः यस्मिन्नेतादृशं च यथा स्यात्तथा प्रणमन्ति नमस्कुर्वन्ति । एतादृशानां तेषां भगवद्भक्तादन्यत् किं उपास्यमस्ति ? न किमपीत्यर्थः ॥ ३ ॥ यञ्चेति । अवहितोऽसि बद्धकटाक्षोऽसि ॥ २॥ For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९] पदार्थचन्द्रिकाटीकासहिता । १३९ उत्कर्षे चरमाश्रमी जडमतिः स्वेनैव जानाति चेत् नेदिष्टेष्वपि सर्वलोकगमितुर्भक्तेषु भित्तीयते ॥ अन्येऽमी यतयः प्रबोधमतयः सर्वस्य चोत्कर्षदा ___ भक्तिर्भागवतीति सस्पृहममूनर्चन्ति नृत्यन्ति च ॥ ४ ॥ इदं चावधेयम्.. चतुर्वेदाध्यायी सकलविहिताचारनिपुणो निषिद्धाचारानप्यथ परिहरन्छास्त्रपदवीम् ॥ यतिर्वाप्यन्यो वा हरिचरणभक्तान्यदि जना नुपेक्षेत क्षान्तैर्न भवति पदं विश्वगमितुः ॥ ५ ॥ तदनतिक्रान्तलोकमर्यादमाश्रमत्रयस्यैव न केवलं, निखिलाश्रमिणामपि परस्परभक्तिप्रकर्षप्रकटितदास्यमुक्तिप्रत्युद्गमाभिवादनादिकमवश्यानुष्ठेयमेवेति साधु जानीहि ॥३॥ यदपि प्रपन्नजनजीवनप्रधाननिदानपावनपादावनेजनावलम्बिदूषणं तदपि तन्महिमाऽपरिज्ञानविजृम्भितं बुद्धेः पिशुनयति दौर्भाग्यम् ॥ ४ ॥ तथाहि उत्कर्षमिति । जडा मतिर्यस्य सः अपण्डितः चरमाश्रमी सन्यासिकः खेनैव अर्थात् स्वस्य उत्तमाश्रमेणैव उत्कर्ष इतरेभ्यः श्रेष्ठत्वं जानाति चेत् तर्हि, सर्वेषां लोकानां गमितुः सर्वलोकव्यापिनः भगवतः भक्तेषु भित्तीयते भित्तिवदाचरति । इतराश्रमिषु भगवद्भक्तेषु नमत्खपि जडमतिरयं वात्मानमेव पूज्यतमं मन्वानो यतिः भित्तिवत् स्थाणुरिव भवति, प्रतिवन्दनादिकं किमपि न करोतीत्यर्थः।ये त्वन्ये अमी यतयः प्रबोधमतयः प्राज्ञाः, ते तु सर्वस्यापि प्राणिनः उत्कर्षदा महत्त्वप्रदा भागवती भगवत्सम्बन्धिनी भक्तिरेव भगवद्भक्त्यैव पूज्यत्वं महत्त्वं च नान्यैः आश्रमादिभिलिङ्गैरिति मत्वा, सस्पृहं अमूनन्यान् वैष्णवान् वानप्रस्थ-गृहस्थ-ब्रह्मचारि स्त्री-शूद्रानपि अर्चन्ति पूजयन्ति तदानन्देन नृत्यन्ति च ॥ ४ ॥ चतुर्वेदेति । चतुर्णा ऋग्यजु:सामाथाख्यानां वेदानां अध्यायी अध्ययनकर्ता सकले समग्रे विहिताचारे शास्त्रचोदितानुष्ठाने निपुणः कुशलोऽपि, निषिद्धान् वर्णाश्रमाद्यधिकृत्य शास्त्रेषु वर्जितान् आचारान् लशुन-गृञ्जनभक्षणादिरूपान् परिहरन् वर्जयनपि, शास्त्रपदवीं शास्त्रोदितमार्ग, चरनिति शेषः । यतिः अन्यः गृहस्थोऽपि वा हरिचरणभक्तान् वैष्णवान् यदि उपेक्षेत अवज्ञायेत चेत्, तस्य तत् कर्म विश्वगमितुः विश्वपतेर्भगवतः क्षान्यै क्षमायै पदं आस्पदं न भवति । विद्यादिसकलगुणविशिष्टोऽपि पुमान् वैष्णवापमानकृदपराधी भवतीत्यर्थः ॥ ५॥ । तदिति । तत् तस्मात् हेतोः अनतिकान्तलोकमर्यादं लोकमर्यादां अनतिक्रम्य यथा स्यात्तथा ब्रह्मचारि-गृहस्थ-वानप्रस्थरूपस्य आश्रमत्रयस्यैवायं परस्परवन्दनादिरूपो धर्म इति न, तर्हि निखिलाश्रमिणां संन्याससहितानां चतुर्णामपि आश्रमाणां परस्परस्य भक्तिप्रकर्षण प्रकटितं दास्यं प्रश्रयोक्तिः प्रत्युद्गमनाभिवादनादिकं च सर्वैरनुष्ठेयमेवेति साधु सम्यक् जानीहि बुध्यस्ख ॥ ३॥ एवं यतिवन्दनदूषणं परिहृत्य वैष्णवपादोदकसेवनदूषणं परिहरति-यदपीति। यदपि प्रपन्नानां प्रपत्तिधर्मेण भगवते शरणागतानां जीवनस्य प्रधानं मुख्यं निदानं For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: [श्रीरामानुज स्वातत्र्यं परिवर्जयनिजगुरोरङ्गिद्वयांशीभवन् प्रीत्यै स्वामिजनस्य निःस्पृहतया तन्वीत तीर्थान्वयम् ॥ गोष्टीभूय समार्जितं निपुणधीः श्रीपादतीर्थ स्वयम् . स्वीकुर्याद्यदि पाञ्चरात्रपदवीभाजां न तद्दूषणम् ॥ ६ ॥ वद रहसि पदाम्बु स्वीयमापीयते वा विगतनिजपदाम्भो नार्थ्यते वाऽद्धितीर्थम् ॥ अपितु तदभिलाषा स्वामिनां स्वाङ्गिसङ्गेऽप्यधिकतरपवित्रं सेव्यते पादतीर्थम्॥७॥ तदवधेहि उपेक्षणीयनिजपदपयःसङ्गेऽप्यङ्गीकरणमधिकतरपवित्रबहुलतरहरिचरणसन्ततान्तरङ्गजनचरणावनेजनस्य समुचितमेवेति ॥ ५॥ यत् पावनं पवित्रं पादावनेजनं पादोदकं तत् अवलम्बते इति तदवलब्बि त. त्सम्बन्धि । पादोदकवन्दनरूपं यदूषणं, त्वयोपन्यस्तमिति शेषः । तदपि तस्य पादतीर्थस्य महिमा महत्त्वं तस्य अपरिज्ञानेन अज्ञानेन विजृम्भितं सत् , वुद्धेः धियः दौर्भाग्यं दुर्बलत्वं आकुञ्चितत्वमित्यर्थः । पिशुनयति प्रकटयति ॥ ४ ॥ तदेवोपपादयति-स्वातन्यमिति । स्वातन्त्र्यं खच्छन्दतां कामचारित्वमिति यावत् । परिवर्जयन् दूरतस्त्यजन्, निजगुरोः भगवतः अद्वियस्य अंशीभवन खात्मानं भगवञ्चरणांशभूतमिति मन्वानः सन्, स्वामिजनस्य संन्यासिजनस्य प्रीत्यै तदुक्तकरणेन तत्संतोषजननार्थं निःस्पृहतया फलाभिसन्धिराहित्येन तीर्थान्वयं तीर्थयात्रां तन्वीत आचरेत् वा आचरणं कुर्यादित्यर्थः । गोष्ठीभूय वैष्णवसमाजरूपेण स्थित्वा, गृह एवेति शेषः । समार्जितं संपादितं श्रीपादतीर्थ प्रपनजनपादोदकं निपुणधीः कुशलबुद्धिः खयं खीकुर्यात् यदि स्वीकरोति चेत् , तर्हि तत् पादतीर्थग्रहणं मतान्तरस्थायिनां दूषणं भविष्यति चेत् भवतु नाम । परं पाश्चरात्रपदवीभाजां पञ्चरात्रागमं प्रमाणीकुर्वतां रामानुजीयानां तदूषणं नभवति, अपि तु भूषणमेवेति फलितोऽर्थः ॥ ६ ॥ ___ अन्यदप्याह-वदेति । रहसि वैष्णवगोष्ठ्याम्, स्वीयं स्वकीयं पदाम्बु पाद. तीर्थमेव आपीयते प्राश्यते वेति वद । विगतनिजपदाम्भः विगतं निजं पदं स्थानं यस्य तादृशं अम्भः खस्थानभ्रष्टमुदकं अद्वितीर्थ चरणतीर्थ च नार्थ्यते न याच्यते वा अपि तु याच्यत एवेत्यर्थः। तस्य चरणतीर्थस्य अभिलाषां खामिनां प्रभूणां विष्णोरित्यर्थः । बहुवचनं पूजायाम् । अस्त्येव । यतः खाझिसङ्गेऽपि अधिकतरपवित्रं खचरणादपि तदुद्भवं गाङ्गमुदकं भगवतापि सेव्यते । अतस्तद्भक्तानां वैष्णवपादोदकसेवने न कोऽपि दोषः । भगवदनुष्ठितत्वादस्य मार्गस्येति भावः ॥ ७ ॥ तदिति । उपेक्षणीयस्य निजपदपयसः खीयपादोदकस्य सङ्गेऽपि तस्य अङ्गीकरणं गोष्ठ्यां हि सर्वेषां तत्रत्यानां पादोदकग्रहणे खस्यापि पादावनेजनादेकं तत्र वर्तत एव । तथापि तस्य अङ्गीकरणं प्राशनं वन्दनं वा खस्मादपि अधिकतरपवित्राणां विशेषतया पावनानां बहुलानां हरिचरणयोः भगवत्पादयोः सततं आसक्तं अन्तःकरणं येषां तेषां वैष्णवानां जनः समूहः तस्य चरणावनेजनस्य पादप्रक्षालनस्य यदुदकं तस्य सेवनं समुचितमेव युक्तमेव । खाधिकभगवद्भक्तपादतीर्थमि. For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९] पदार्थचन्द्रिकाटीकासहिता। १४१ मजन जनः स्वचरणद्वयसङ्गभाजि गङ्गाझरे निजकलङ्कनिरासहेतोः ॥ पूर्णोपमानमवधेहि निजाझिसङ्गिभक्ताग्रगण्यपदपद्मपयःपिपासोः ॥ ८ ॥ आस्तामिदं वाचनिके वितण्डायमानाः संध्यासु विहितमात्मप्रदक्षिणमप्यधि. क्षिपन्तु । हन्तैतेषामनपायसत्संप्रदायप्रवर्तकः सकलगुरुतिलकलोकगुरुहृदयानुसारी स एष विजयते सौम्योपयातानां देशिकसार्वभौमः ॥ ६ ॥ पुण्यश्लोकः परमभिमतः स्वःस्थलेष्वास्थयासौ यस्य श्लोकप्रथमपठनश्लाघनाकम्पमानैः ॥ चूडासूनैः पयति मधुस्यन्दिभिश्चञ्चरीकै दत्तस्वस्तिप्रवचनमुरो नित्यभूषां स्वयोषाम् ॥९॥ खलकृतपरिभाषाकर्णनोद्यजिगीषाविततनिजमनीषा विस्तृतब्रह्मयोषा ॥ जयति दलितदोषा दत्ततत्त्वाभिलाषा वरवरमुनिवेषा कापि वैकुण्ठभूषा ॥१०॥ आकर्णय तावदेतदीयानां पवित्रतमं चारित्रम् ॥ ७ ॥ श्रत्वात् खपादतीर्थबुद्धया तस्याग्रहणाच खपादोदकस्पर्शनेऽपि न कोऽपि दोष इति भावः ॥ ५॥ मजनिति।खस्य चरणद्वयस्य सङ्गभाजि स्वचरणद्वयसङ्गते गङ्गाझरे भागीरथीप्रवाहे निजकलङ्कस्य स्खीयपापस्य निरासहेतोः दूरीकरणाथै मज्जन स्नानं कुर्वन् जनः, भगवद्भक्तेषु अग्रगण्यानां मान्यानां यत् पदपद्मं पादकमलं तत्सम्बन्धि पयः उदकं तस्य पिपासुः पातुमिच्छुः तस्य प्रपन्नपादतीर्थसेविनः रामानुजीयस्य गङ्गानानकृदयं जनः पूर्णे उपमानं अवधेहि । पूर्णोपमेति तत्समानमिति जानीहि ॥ ८॥ आस्तामिति । वाचनिके शब्दकोट्यां वितण्डायमानाः सम्प्रदायान्तरास्थायिन इति शेषः खपादतीर्थसेवनमधिक्षिपन्ति, तर्हि ते संध्यासु संध्यावन्दनसमयेषु विहितमात्मप्रदक्षिणमपि अधिक्षिपन्तु, तत्तु नाधिक्षिपन्ति । प्रत्युत अहरहराचरन्त्येव । अत उभयत्र साम्यात् स्वपादतीर्थसेवने तदधिक्षेप न कापि हानिरिति भावः । हे सौम्य साधो, उपयातानां शरणागतानां, अनपायः अपायरहितः निर्विघ्न इत्यर्थः । तादृशस्य सतः संप्रदायस्य सन्मार्गस्य प्रवर्तकः प्रवृत्तिकर्ता सकलानां गुरूणां आचार्याणां तिलकः श्रेष्ठः । लोकगुरोः भगवतः श्रीविष्णोः हृदयं अभिप्रायः तं अनुसरति भगवदभिप्रायानुसारिमार्गस्थापका इत्यर्थः। स एष प्रसिद्धः रामानुजः विजयते सर्वोत्कर्षेण वर्तत इति भावः । देशिकानां उपदेशकर्तृणां आचार्याणां सार्वभौमः श्रेष्ठः ॥ ६॥ । तमेव रामानुजं वर्णयति-पुण्येति । पुण्यकारकं श्लोकः यशः यस्य स पुण्यश्लोकः इति परं अत्यर्थ अभिमतः खस्थलेषु वर्गलोकप्रदेशेषु यस्य श्लोकस्य यशसः यत्कृतपद्यस्य च प्रथमपाठने या श्लाघना स्तुतिः तया कम्पमानैः चञ्चलैः मधुस्यन्दिभिः मकरन्दभिः चूडासूनैः वेणीकुसुमैः चञ्चरीकैः भ्रमरैः दत्तखस्तिप्रवचनं दत्तवस्त्युत्तरं दत्तशान्तिकमिति यावत् । नित्यभूषां अयातयामकुसुमधारिणी स्वयोषां स्नपयति ॥९॥ खलेति । खलैः दुर्जनैः कृतायाः परिभाषायाः निन्दायाः आकर्णनेन उद्यन्ती जिगीषा जेतुमिच्छा तया वितता विस्तृता निजमनीषा खेच्छा तया विस्तृता प्रप For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ विश्वगुणादर्शचम्पू:- [श्रीरामानुजकतिचिदलसाः कर्मायासासहा यदि निश्चला स्तदपि भगवद्भक्तिस्तेषां धुनोति भवव्यथाम् ॥ श्रमसहजनैकाहैर्नृणां विनैव हि लङ्घनै वरनिरसनायालं वीर्योत्तरं परमौषधम् ॥ २४६ ॥ किंचरहस्यव्याख्यानै रघुवरचरित्रानुकथनै स्त्रयीसध्रीचीनां बकुलधरवाचां प्रवचनैः ॥ अमी भाष्याख्यानैर्हरिचरणकैंकर्यविधिभिः प्राणामैश्चार्याणां क्षणमिव नयन्त्यत्र दिवसान् ॥ २४७ ॥ कतिचिदिति । एषां रामानुजीयानां मध्ये इति शेषः । कतिचित् जनाः अलसाः कर्माणि कर्तुमशक्ताः सन्तः, कर्मणां संध्यादीनां आयासं श्रमं न सहन्ते ते तथाभूताः अपि, यदि भगवद्भक्तौ निश्चलाः स्थिरचित्ताः भवन्ति, तदपि तावन्मात्रेणापि भगवद्भक्तिः तेषां रामानुजीयानां भवस्य संसारस्य व्यथां धुनोति विनाशयति । अत्र दृष्टान्तं प्रमाणयति-श्रमं क्षुत्तृड्जन्यं सहन्ते इति तत्सहास्तथाभूतानां जनानां एकं मुख्यं यथा तथा अ&ोग्यैः लङ्घनैः भोजननिवृत्तिभिः विनैव हि, नृणां रोगिजनानां वीर्योत्तरं बलवत्तरं परममुत्तमं च तत् औषधं च तत्, ज्वरस्य निरसनाय विनाशाय अलं समर्थ भवति ।वैद्यशास्त्रे हि रुग्णजनानां रोगशान्त्यै लङ्घन प्रधानत्वेनोक्तं, परं यदि लङ्घने अशक्ताः केचिजना भवेयुस्तहि केवलमौषधेनैव तेषां रोगशान्तिर्भवतीति भावः । तथैवैतेषां भक्तिसामर्थ्यम् ॥ २४६ ॥ रहस्येति । किंच अमी रामानुजीयाः, रहस्यानां ईश्वरस्वरूपप्रतिपादकानां व्याख्यानैः अर्थप्रकाशपरैः, रघुवरस्य श्रीरामचन्द्रस्य चरित्रानुकथनैः चरित्रवाचनैः त्रयीसध्रीचीनां वेदानुसारिणीनां बकुलधरवाचां श्रीरामानुजवचनानां प्रवचनैः कथनैः, भाष्यस्य श्रीरामानुजप्रणीतस्य आख्यानैः, हरेः श्रीविष्णोः चरणयोः कैंकर्यविधिभिः दास्यकरणैः, आर्याणां तन्मतस्थश्रेष्ठजनानां प्रणामैर्वन्दनैश्च, अत्र क्षणमिव दिवसान् नयन्ति निर्यापयन्ति ॥ २४७ ॥ ञ्चिता ब्रह्मणः योषा वाणी यस्याः सा, दलिताः खण्डिताः दोषाः यया, दत्तः तत्त्वे परतत्त्वे अभिलाषः यया, वरः श्रेष्ठो यो मुनिः तस्य वरः वेषो यस्याः रामानुजरूपेत्यर्थः । वैकुण्ठलोकस्य भूषा भूषणं विष्णुः कापि जयति सर्वोत्कर्षेण वर्तते ॥ १०॥ १ 'कर्मायासाद्विहाय विनिश्चला:'. For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९] पदार्थचन्द्रिकाटीकासहिता । पुनः क्षणमनुध्याय सश्लाघम् अन्यदास्तां नाम तामेव काममन्योन्यं कलहायमानानां नानाविधानां श्रुतीनामविरोधसाधनेन साधुभावं प्रकटयन्तीं अखिलगुणाभिरामां रामानुजसरस्वतीमभिनन्दामि । प्रसिद्धं हि "सन्धिमिच्छन्ति साधवः" इति ॥ ९९ ॥ पश्य नित्यं हेयगुणावधूननपरा नैर्गुण्यवादाः श्रुतौ __ मुख्यार्थाः सगुणोक्तयः शुभगुणप्रख्यापनाद्ब्रह्मणः ॥ अद्वैतश्रुतयो विशिष्टविषया निष्कृष्टरूपाश्रया भेदोक्तिस्तदिहाखिलश्रुतिहितं रामानुजीयं मतम् ॥ २४८ ॥ अन्यदिति । अन्यत् दूषणनिराकरणं, आस्तां नाम, किंतु नानाविधानां ईश्वरस्य साकारत्व-निराकारत्व-जीवात्मनोरैक्य-भिन्नत्वप्रतिपादकत्वेनानेकप्रकाराणां श्रुतीनां अन्योन्यं कलहायमानानां कलहं कुर्वन्तीनामिव स्थितानां अविरोधसाधनेन विरोधं परिहत्येत्यर्थः । साधुभावं सर्वासां सत्यतात्पर्य प्रकटयन्तीं, अत एवाखिलैगुणैरभिरामां मनोरमां, तां प्रसिद्धां रामानुजस्य सरस्वती वाणीमेवाभिनन्दामि । अत्रार्थे सहजं साधूनां चेष्टितमाह-प्रसिद्ध हीति ॥ ९९ ॥ यदुक्तं 'श्रुतीनामविरोधेन सधुभावं प्रकटयन्तीम्' इति तदेव प्रतिपादयतिनित्यमिति । ये श्रुतौ निर्गुणस्य भावो नैर्गुण्यं तस्य वादाः, ईश्वरस्य निर्गुणत्वबोधकानि वाक्यानीत्यर्थः । तानि च "अनादिमध्यान्तविहीनमेकम्” “न रूपमस्येह तथोपलभ्यते” इत्यादीनि । ते नित्यं निरन्तरं हेयगुणानां त्याज्यगुणानां दोषाणामिति यावत् । अवधूननपराः विनाशप्रतिपादकाः, सन्तीति सर्वत्रानुसंधेयम् । तथा सगुणोक्तयः “सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्" "सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्" इत्यादयः सन्ति ताश्च ब्रह्मणः आत्मनः शुभगुणानां लोकविलक्षणसृष्टि-स्थिति-लयकर्तृत्वादीनां प्रख्यापनात् प्रसिद्धिकरणात् मुख्यार्थाः शक्यार्थप्रतिबोधिकाः, तथा अद्वैतश्रुतयः “तत्त्वमसि" "अयमात्मा ब्रह्म” “अहं ब्रह्मास्मि" इत्यादयः जीवात्मपरमात्मनोरभेदप्रतिपादनपराः तास्तु, विशिष्टः सच्चिदानन्दात्मकस्य परमात्मनः असज्जड-सुख-दुःखात्मकस्य जीवस्य च अभेदप्रतिपादनरूपः विषयः यासां तथाभूताः, तथा भेदोक्तिः जीवेश्वरयोः परस्परं भेदवचनं तु निष्कृष्टं पूर्वप्रतिपादितविशेषणरहितं रूपं ययोर्जीवात्मनोस्तौ आश्रयौ प्रतिपाद्यौ यस्यास्तादृशी विद्यते । तत्तस्मात् इह लोके रामानुजस्येदं रामानुजीयं मतम् अखिलानां सकलानां श्रुतीनां हितम् । सर्वभेदनिराकरणेनैकवाक्यताकरणादिति भावः । एतत्प्रतिपादनेन रामानुजीये मते ग्रन्थकर्तुः पक्षपातः प्रकटीभवति । नहि तावत्तत्त्वतः सर्वत्रेदृश्येव विवेचनरीतिदृश्यते । १ अविरोधेन साधुभावम्'. For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [श्रीरामानुजकृशानु:-अवितथमेतदथापि य इमे संचरन्त्याचार्यपुरुषसमाख्याता एतन्मताभिनिविष्टाः शिष्टास्तेषामेषा रीतिर्न रोचते विवेकेभ्यः । पश्य तावत् ॥ १० ॥ हत्वा मार्गे द्विजादीनखिलमपि धनं हन्त हृत्वाऽतिदृप्ता दुर्वृत्तास्तस्करा ये वन-गिरिनिलया ये च नीचा इहान्ये ॥ कृत्वा चक्राङ्कमेषां झटिति विदधतः किंच मन्त्रोपदेशं - तहत्तैरेव वित्तैर्दधति तनुममी वंशपारंपरीभिः ॥ २४९ ॥ किंचजारान् चोरान् किरातान् जनपदमनान् राजपाशान्महीशॉन् शिष्यान्कृत्वातिदृप्ताः श्रुतिपथविधुराः श्रोत्रियैर्ब्रह्मनिष्ठैः ॥ अन्यथा पूर्वत्र माध्ववर्णनेऽपि तथैव कुर्यात् । तत्र तु 'चन्द्रालोकचयान्धकार-' इत्यादिकृशानुप्रतिपादितदोषारोपणेनैव तद्वर्णनं समापितम् । एतच्च यथार्थगुणदोषप्रतिपादनपरे ग्रन्थे अयुक्तमिति प्रतिभाति ॥ २४८ ॥ अथ कृशानुरर्धाङ्गीकारपूर्वकमाह-अवितथमिति । एतत्पूर्वोत्तमवितथं सत्यं, अथापि य इमे आचार्य पुरुषसमाख्याताः आचार्यनाम्ना प्रसिद्धाः एतन्मते श्रीरामानुजमते अभिनिविष्टाः अत्यन्तासक्ताःशिष्टाः सन्तश्च संचरन्ति, तेषामेषा वक्ष्यमाणा रीतिराचारः विवेचकेभ्यो विचारशीलेभ्यो न रोचते । का सा रीतिरित्याशङ्कायामाह-पश्येत्यादि ॥ १००॥ हत्वेति । ये लोकाः वनानि च गिरयः पर्वताश्च निलयः वसतिस्थानं येषां ते तथोक्ताः तस्कराः चोराः अर्थात् किरातादयो लोकाः, मार्गे वनपथे द्विजादीन् ब्राह्मणादिश्रेष्ठजातीयान् जनान् हत्वा, एतेन ब्रह्महत्याकरणं सूचितम्। तेषां अखिलं संपूर्णमपि धनं हृत्वा परिहत्य, हन्तेति खेदे । अतिदृप्ताः अतिशयगर्वयुक्ताः, अनेन वर्णस्तेयरूपं द्वितीयं महापातकं सूचितम् । अत एव दुवृत्ताः दुराचाराः; ये च इह अन्ये उक्तेभ्य इतरे नीचाः सद्गुण-सत्कुलोत्पत्त्यादिहीनाः सन्ति तेषामेषां ब्रह्महत्यादिमहापातकयुक्तानामपि, झटिति तेषां कुलशीलादिकमविचार्यैवेत्यर्थः । अङ्गमिति शेषः । चकाङ्कं मुद्रादानेन चिह्नितं कृत्वा, नैतावदेव, किंच मन्त्रस्य रामायणाटाक्षरस्य उपदेशं विदधतः कुर्वन्तः सन्तः, तहत्तैः तैः किरातादिदुर्जनैः समर्पितैरेव वित्तैः द्रव्यैः, तनुं शरीरं अमी रामानुजीयाः वंशपारंपरीभिः कुलपरंपराभिः दधति धारयन्ति एतदतीव निन्द्यमिति भावः ॥ २४९ ॥ जारानिति । किंच अमी रामानुजीयाः जारान् परस्त्रीसक्तपुरुषान् , चोरान्, १ विवेकिभ्यः' २ 'मत्ताः' ३ 'वंशपारम्परीतः.' ४ 'मथनाम्.' ५ 'महाशाः.' ६ 'नयविधुराः. For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९] पदार्थचन्द्रिकाटीकासहिता । १४५ साकं नो भुञ्जतेऽमी सकृदपि विनतिं कुर्वतेऽग्रे न तेषाम् __ संकेतेनैव सिद्धं तदिदमविदुषां श्लाध्यमाचार्यपुंस्त्वम् ॥ २५० ।। अहो महानयमभिजन-विद्या-वृत्तसंपन्नानामन्येषामप्यनिवृत्तो व्यामोहः ॥ १०१ ॥ आचारस्य दवीयसां धनतृषामज्ञातवेदाध्वनाम् कामातङ्ककलङ्कपङ्किलहृदां केषांचिदेषाममी ।। शुद्धाचारजुषो जितेन्द्रियतया श्रेष्ठाः स्वयं सूरयः शिष्यत्वं यदुशन्ति तत्किल कलेः साम्राज्यमंत्रोर्जितम् ॥२५१॥ किरातान् म्लेच्छजातिविशेषान् , जनपददमनान् दुस्तरकरभारग्रहणादिना देशविध्वंसकान्, अत एव राजपाशान् कुत्सितराजन्यान् । कुत्सितेऽर्थे पाशप् । महीशान् राज्ञश्च शिष्यान् कृत्वा, श्रुतिपथविधुराः वेदविहितमार्गत्यागिनः, अत एवातिदृप्ता गर्विताश्च सन्तः, ब्रह्मनिष्टैः आत्मनिष्ठैः श्रोत्रियैः विधिवदग्निहोत्रानुटानयुक्तैश्च जनैः साकं सह, सकृदेकवारमपि नो भुञ्जते भोजनं नैव कुर्वन्ति । एतावदेव न, किंतु तेषां श्रोत्रियादीनाम नतिं नमस्कारमपि न कुर्वते । अपि च संकेतेनैव सिद्धं निष्पन्न, अविदुषामज्ञानां मूर्खाणामिति यावत् । आचार्यपुंस्त्वं आचार्यपुरुषत्वं तदिदं श्लाघ्यं किमिति काकुः । अपि तु अतीव गर्हणीयमेवेति भावः ॥ २५०॥ एतत्तु अविदुषामाचरणं, विदुषामपि निन्द्यमिति वक्तुमवतारयति-अहोइति । अभिजनः सत्कुलं च विद्या वेद-शास्त्रादिज्ञानं च वृत्तं वर्तनं च तैः संपनानां युक्तानामन्येषां पूर्वेभ्य इतरेषां, एषां लोकानामपि अयं वक्ष्यमाणः महान् व्यामोहो विवेकराहित्यं, अनिवृत्तः नैव गतः ॥ १०१॥ व्यामोहानिवृत्तत्वमेव प्रतिपादयति-आचारस्येति । अमी शुद्धं वेद-शास्त्रायुक्तमाचारं जुषन्ति सेवन्ते इति तथोक्ताः, जितेन्द्रियतया बाह्यान्तरिन्द्रियमदनेन श्रेष्ठाश्च, खयं सूरयः पण्डिताः अपि “पण्डितः कविः । धीमान् सूरिः" इत्यमरः । आचारस्य यथोक्ताचरणस्य दवीयसां दूरतराणां, दूरशब्दात् अतिशयार्थे ईयसुनि "स्थूल-दूर-युव-हख-" इत्यादिना रकारलोपे पूर्वस्य गुणः । अत एव अज्ञात- . वेदाध्वनां अज्ञातवेदमार्गाणां, धनतृषां द्रव्याशापराणां, कामातङ्कः कामविकार एव कलङ्कः मलिनत्वं तेन पङ्किलं दूषितं हृदन्तःकरणं येषां तेषां, केषांचित् एषां आचार्याणां शिष्यत्वं यत् उशन्ति इच्छन्ति, तत् अत्र लोके कले: साम्राज्यं अप्रतिहतं स्वातन्त्र्यं ऊर्जितं प्रवृद्धम् । किल निश्चयेन ॥ २५१॥ १ मिनिवयों. २ 'मत्यूजितं.' For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ विश्वगुणादर्शचम्पू: [ श्रीरामानुजअपि चखयं तरितुमक्षमः किमपरानसौ तारये दिति खयमचिन्तयन्नगणयन् धनानां व्ययम् ॥ जडं गुरुरिति भ्रमन् श्रयति पुस्तकाडम्बरै__ बहूपकरणान्वितैर्बहुलदेवताविग्रहैः ॥ २५२ ॥ अपि च---- अमलपतिषु लोके जागरूकेष्वनेके प्वपि निजगुरुवशोत्पत्तिमेवावलोक्य । विगतशुभचरित्रं वेद-शास्त्रानभिज्ञम् कमपि गुरुरितीमे कष्टमाराधयन्ति ॥ २५३ ॥ अपरमपि कलेराकर्णय चमत्कारम् ।। १०२ ॥ सम्यक् शिष्यजनं परीक्ष्य बहुभिः संवत्सरैरुत्सुकं शुश्रूषाभिरुपादिशन् प्रमुदिताः पूर्वे भुवीति श्रुतम् ॥ आराध्येष्टसमर्पणैरविनतानाचार्य एवादरा दैब्दै रितमैः प्रसह्य लभते शिष्यान् श्रमेणाऽधुना ॥ २५४ ॥ स्वयमिति । वयं तरितुं पारं गन्तुं अक्षमः असमर्थः असौ आचार्यः, अपरानन्यान् किं कथं तारयेत् ? भवसागरमिति शेषः । इति स्वयं विद्वानपि अचिन्तयन् अविचारयन् , धनानां व्ययं च अगणयन् सन् , पुस्तकानामाडम्बरैः बहुपुस्तकभारैरित्यर्थः, तथा बहुभिरुपकरणैरलंकारादिभिः अन्वितैयुक्तैः, बहुलदेवताविग्रहः पुष्कलदेवमूर्तिभिश्च भ्रमन् , मोहं प्राप्नुवन् । पुस्तकभारं देवतार्चनाडम्बरं च दृष्वाऽयं मां भवसागरमुत्तारयेदिति भ्रान्तः सनित्यर्थः । जडं विद्यादिरहितं, गुरुरिति मत्वा श्रयति आश्रयति ॥ २५२ ॥ ___ अमलेति । किंच लोके अमला वेदोक्तकर्मानुष्ठानतया परिशुद्धा मतिर्बुद्धिर्येषां ते तथाभूतेषु अनेकेषु बहुषु लोकेषु जागरूकेषु वर्तमानेषु सत्खपि, निजगुरोः पितृ-पितामहादिपरंपरया आचार्यस्य वंशे उत्पत्ति केवलं जन्मैव, न तु विद्यादिसंपनत्वं, अवलोक्य, वेद-शास्त्रयोः अनभिज्ञं अनिपुणं, वेदादिज्ञानशून्यमित्यर्थः । तत एव च विगतं नष्टं शुभचरित्रं इह-परलोकयोः श्रेयःसंपादकं चेष्टितं यस्य तथोक्तं कमपि पुरुषं गुरुः आचार्य इति मत्वा, इमे जनाः आराधयन्ति सेवन्ते। कष्टं अन्याय्यमेतत् ॥ २५३ ॥ अपरमिति । अपरमन्यं कलेश्चमत्कारं आश्चर्यावहं प्रभावं, आकर्णय शृणु १०२ सम्यगिति । पूर्वे युगान्तरस्थाः वसिष्ठ-वामदेव-पिप्पलादादयः गुरुवः, भुवि १ 'त्यश्रुमः.' २ 'आराध्यैव समर्पणै.' ३ 'अर्थे.' ४ 'प्रशस्य.' ५ 'क्रमेणा.' For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् १९ ] पदार्थचन्द्रिकाटीकासहिता । वि० - मन्दमनीष मेहतः पुरुषानेवं मा दूदुषः ॥ १०३॥ भवजलधिनिमज्जत्सज्जनोज्जीवनार्थम् जगति महति वंशे जातवन्तो महान्तः ॥ प्रपदनधनतुष्टाः पञ्चसंस्कारदानात् कति न कृतिन एते ज्ञानहीनान् पुनन्ति ।। २५५ ॥ किं चआचार्याः पुरुषा महत्तरकुलेप्वब्जाक्षदास्योज्ज्वला नाव: संसृतिवारिधेः परममी नावातरिष्यन्यदि || १४७ पृथिव्यां उत्सुकं विद्याग्रहणे उत्कण्ठितं, बहुभिः संवत्सरैः वर्षैः न तु द्वित्र-दिवसैः, शुश्रूषाभि: सेवाभिः शिष्यजनं सम्यक् परीक्ष्य "नापरिज्ञातकुल- शीलरूपाय नासंवत्सररात्रोषिताय -" इत्यादिश्रुत्युक्त नियम मनुसृत्य शिष्यस्य परीक्षां कृत्वेत्यर्थः । तथाच प्रश्नोपनिषदि पिप्पलादस्य सुकेशादीन् ब्रह्मविद्यार्थमागतान् षट् शिष्यान् प्रति वाक्यम् - " भूय एव तपसा ब्रह्मचर्येण सवत्सरं संवत्स्यथ यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्व ह वो वक्ष्यामः" इति । छान्दोग्ये च गौतम हारिद्रुमतस्य ऋषेः सत्यभामं प्रति - "किंगोत्रो नु सोम्यासि" इत्यादि । ततः प्रमुदिताः सन्तः उपादिशन् विद्यामध्यापयामासुः इति श्रुतम् । उपनिषदादिषु पुराणेषु चेति शेषः। अधुना सांप्रतं तु एष रामानुजीयाचार्यः अविनतान् उन्मत्तान् इष्टसमर्पणैः तेषामिच्छितवस्त्रादिप्रदानैः भूरितमैः अति बहुभिः अब्दैः, आदरात् आराध्यैव प्रसह्य बलात्कारेण, शिष्यान् श्रमेण बहुप्रयत्नेन लभते संपादयतीत्यर्थः ॥ २५४ ॥ भवेति । भवजलधौ संसारसमुद्रे निमज्जतां सज्जनानां उज्जीवनार्थमुद्धारणार्थ, जगति महति वंशे कुले जातवन्तः उत्पन्नाः, अत एव महान्तः कृतिनः पुण्यवन्तश्च एते आचार्य पुरुषाः, प्रपदनं शरणगमनमेव धनं तेन तुष्टाः सन्तः, ज्ञानहीनान् वेद-शास्त्रज्ञानशून्यान् आत्मानात्मविवेक र हितान् वा, पञ्चसंस्काराणां दानात् अर्पणात्, पञ्चसंस्काराश्च - " तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः” इति प्रसिद्धाः । कति कियन्तो वा न पुनन्ति पवित्रयन्ति ? । अत्र 'सज्जनोज्जीवनार्थ' इत्युक्त्या, चोराणां मध्ये च प्रायशः सज्जनानां दौर्लभ्याच 'हत्वा मार्गे -' इत्यादेः सम्यक्तया नैव दूषणोद्धारः । अत एव ग्रन्थकर्तुः पक्षपातित्वं रामानुजीये मते इत्युक्तं प्रागस्माभिः ॥ २५५ ॥ आचार्या इति । अमी रामानुजमतानुसारिणः संसृतिवारिधेः संसारसमुद्रस्य नावः तारकत्वान्नौरूपाः, अब्जाक्षस्य श्रीविष्णोः दास्येन दास्यरूपभक्त्येत्यर्थः । उज्ज्वलास्तेजखिनः आचार्याः आचार्य संज्ञकाः पुरुषाः, महत्तरेषु तत्संप्रदायप्रवर्तकोच्चत १ ' मन्दमते.' २ 'महापुरुषानू'; 'महतः पुंस एवं.' ३ 'कृष्टाः ' For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४८ विश्वगुणादर्शचम्पू:- [श्रीरामानुजअप्राप्ताच्युतदास्यवृत्तय इहाऽविज्ञातमन्त्रोत्तमाः । सर्वे तर्हि कलावंतप्ततनवो हन्तापतिष्यन्नधः ॥ २५६ ॥ तापादिभिः सपापां जनतां पुनतां महात्मनामेषाम् ॥ दोषश्चेदेष समो दुष्टान् पुनतोऽपि गाङ्गपूरस्य ॥ २५७ ॥ इदं चावबोद्धव्यम्सद्वंशप्रभवश्चरित्ररहितोऽप्यादृत्य एवोत्तमैः साध्वाचारयुतोऽपि दुष्कुलभवः सभ्येषु नाभ्यर्हितः ॥ शालग्राममकृत्रिमं प?मतिः सल्लक्षणायुक्तम___प्यादत्ते न तु लक्षणाढ्यमपि तं चक्रोज्ज्वलं कृत्रिमम् ॥२५८॥ मकुलेषु यदि न अवातरिष्यन् न प्रादुरभिष्यन् , तर्हि सर्वे जनाः इह लोके कलौ युगे च अप्राप्ता अलब्धा अच्युतस्य विष्णोदास्यवृत्तियैस्ते तथाभूताः अत एव अज्ञाताः मन्त्रोत्तमाः विष्णोः प्राप्तिकरत्वादुत्तमा मन्त्रा यैस्ते तथोक्ताः, तत एव च अतप्ता चक्र-शङ्खादिमुद्राभिः, विष्णोः पूजन-स्तवन-कथाश्रवणादिराहित्येन च अपरिशुद्धा तनुर्येषां ते तथाभूताश्च अधः अपतिष्यन् नरके पतिष्यन्तीत्यर्थः । अत्र तरति-पत. त्योः “लिङ्किमित्ते-" इत्यादिना क्रियाया अनिष्पत्तिरूपेऽर्थे लङ् ॥ २५६ ॥ यच्च 'आराध्येष्टसमर्पणैः-' इत्यादिना नीचोद्धतजनप्रपत्तिरूपं दूषणमुक्तं तन्निराकर्तुमाह-तापादिभिरित्यादि । सपापां पापयुक्तां जनतां जनसमूह, तापादिभिः तप्तमुद्रादिसंस्कारैः, आदिशब्देन मन्त्रोपदेशादेग्रहणम् । पुनतां पवित्रीकुर्वतां अत एव महात्मनामुदारचित्तानां, एषां आचार्यपुरुषाणां दोषः अनधिकारिशिष्यखीकाररूपः अस्ति चेत् , तर्हि दुष्टान् जनान् पुनतः पवित्रीकुर्वतः गाङ्गपूरस्य गङ्गाप्रवाहस्यापि एष दोषः, समस्तुल्य एव । गङ्गाप्रवाहस्य यथा यस्यकस्यापि पवित्रीकरणं नाधिकारिविशेषावलम्ब, तथैवैतेषामिति भावः । इदमेव च महतां महत्त्वभूषणं, यत् सूर्य इव आनीचजनमहाजनपर्यन्तं सर्वत्र पक्षपातं विना समबुद्धित्वमित्यप्यवधेयम् ॥ २५७ ॥ सदिति । किंच सदंशे उत्तमवंशे प्रभव उत्पत्तिर्यस्य सः उत्तमकुलप्रसूत इत्यर्थः । चरित्ररहितोऽपि सदाचरणशून्योऽपि, उत्तमैः श्रेष्ठजनैरादृत्य एव स्वीकार्य एव । अपि च साध्वाचारयुतः सदाचारसंपन्नोऽपि सः दुष्कुलभवः नीचकुलोत्पन्नश्चेत् , सभ्येषु मध्ये नाभ्यर्हितः न पूज्यः । भवतीति शेषः । अत्र दृष्टान्तः-पट्टी कार्याकार्यकुशला मतिर्बुद्धिर्यस्य तथाभूतः पुरुषः, सद्भिः शङ्ख-चक्राद्युत्तमैर्लक्षणैश्चिकैः अयुक्तमपि, अकृत्रिमं सहजोत्पन्नं शालग्रामं आदत्ते स्वीकरोति । किंतु तं कृत्रिमं केनापि पुरुषेण निर्मितं शालग्रामं चक्रोज्ज्वलं चक्रादिचिह्नः सुशोभितमपि, अत एव लक्षणाढ्यं १ 'बवाप्ततनवो.' २ 'नाभ्यर्चितः. ३ 'पटुतमं.' For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २०] पदार्थचन्द्रिकाटीकासहिता। सविनयमञ्जलिं बद्धाशिष्यार्पितेन शुचिना द्रविणेन तुष्टाः शिष्टा मुकुन्दशरणागतिधर्मनिष्ठाः ॥ सत्संप्रदायनियमप्रयताः सदा ये तेभ्यो नमांसि करवै वरवैष्णवेभ्यः ॥ २५९ ॥ अथ चन्नपट्टण(मद्रास)वर्णनम् २०. इति विमानमन्यतः प्रस्थापयन्नग्रतो दृष्ट्वा-- एषा कैरविणी विशल्यकरणी दोषाशुगार्तात्मना मेतद्रोधसि पार्थसारथिरिति ख्यातः समिन्धे हरिः ॥ यत्पादाम्बुजचुम्बिनां सुरपतेः कोटीरगारुत्मत स्तोमानां तुलसीदलप्रकरतो नो वेद भेदं जनः ॥ २६० ॥ अन्यैः सर्वसल्लक्षणैः संपन्नमपि न खीकरोति । एतत् 'अमलमतिषु लोके जागरूकेषु-' इत्यायुक्तदूषणोद्धारमात्रपरमिति ज्ञेयम् ॥ २५८ ॥ एवं सर्वाणि दूषणानि परिहृत्य सर्वथा एते वन्द्या एवेति सूचयन्नाह-शिष्यार्पितेनेति । ये शिष्यैः अर्पितेन दत्तेन शुचिना न्यायसंपादितेन स्वल्पेनापीति शेषः । द्रविणेन धनेन तुष्टाः, मुकुन्दस्य विष्णोः शरणागतिः शरणप्रपत्तिरेव धर्मस्वस्मिन्निष्ठा आसक्तिर्येषां ते तथाभूताः, सदा निरन्तरं सतां संप्रदाये ये नियमाः संध्या-पूजादयः तैः प्रयताः पवित्राः “पवित्रः प्रयतः पूतः” इत्यमरः । अत एव शिष्टाः, तेभ्यः वरवैष्णवेभ्यः श्रेष्ठवैष्णवेभ्यः नमांसि नमस्कारान् करवै कुर्याम् । 'नमस्' इति सान्तोऽयं शब्दः ॥ २५९ ॥ अथ चन्नपट्टणवर्णनं सूचयन्नाह कविः-इतीत्यादि। एषेति । एषा कैरविणी सरसी, अत्र विराजते इति शेषः । कथंभूता सा । दोषाः पापान्येव आशुगा बाणास्तैः आर्तः आत्मा अन्तःकरणं येषां तेषां, संसारदोषखिन्नचित्तानामिति यावत् । विशल्यकरणी शरीरनिर्विष्टबाणाग्रनिस्सारिणी । एतद्रोधसि अस्याः कैरविण्यास्तीरे, पार्थसारथिः इति नाम्ना ख्यातः प्रसिद्धः हरिः विष्णुः समिन्धे सम्यक् प्रकाशते । कीदृशः सः । यस्य पार्थसारथेः पादाम्बुजं चरणकमलं चुम्बन्ति स्पृशन्ति ते तथाभूतास्तेषां सुरपतेरिन्द्रस्य कोटीरगारुत्मतस्तोमानां किरीटस्थमरकतमणिसमूहानां तुलसीदलानां तुलसीपत्राणां प्रकरः समूहः तस्मात् भेदं भिन्नत्वं जनः नो वेद नैव जानाति । वर्णसाम्यात् मरकतमणीनपि तुलसीपत्राण्यवगच्छतीत्यर्थः ॥ २६० ॥ For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० विश्वगुणादर्शचम्पू: [ चन्नपट्टण अत्र वसन्तः सन्तश्चिरंतनोक्त्यन्तचिन्तनाश्रान्ताः ॥ आतन्वन्तं सुचरितमातन्वन्तो विभान्ति मानधनाः ॥ २६१ ॥ कृशानुः - अस्तु तथापि परिकेलित गुणप्रहाणहूप्पप्रायहेयजननिबिडनगर विशेषसन्निकर्ष एवात्र महान् दोषः । दुर्लभाः खलु हूणेभ्यः कुत्सिततमा लोके ॥ १०४ ॥ हूणाः करुणाहीनास्तृणवद्ब्राह्मणगणं न गणयन्ति ॥ तेषां दोषाः पारे वाचां ये नाचरन्ति शौचमपि ॥ २६२ ॥ पुनः सनिर्वेदं विर्धिमुद्दिश्यशौचत्यागिषु हूणकादिषु धनं शिष्टेषु च क्लिष्टताम् दुर्मेधस्सु धराधिपत्यमतुलं दक्षेषु भिक्षाटनम् || लावण्यं ललनासु दुष्कुलभवाखग्र्यासु नीरूपताम् कष्टं सृष्टवता त्वया हतविधे किं नाम लब्धं फलम् ॥ २६३ ॥ अत्रेति । किंच अत्र कैरविणीतीरे वसन्तो वासं कुर्वन्तः सन्तः सज्जनाः, चिरंतनस्य ब्रह्मण उक्तयो वेदास्तेषामन्ता उपनिषदस्तेषां चिन्तनेन विचारेण अश्रान्ताः विश्रामरहिताः सततमुपनिषद्विचारासक्ता इत्यर्थः । अत एव आतन्वन्तं शरीरावसानपर्यन्तं सुचरितं सत्कर्म आतन्वन्तो विस्तारयन्तः कुर्वन्त इति यावत् । मानधनाः सन्तः विभान्ति प्रकाशन्ते ॥ २६१ ॥ अथ कृशानुहीनजनसांनिध्यादिरूपं दोषमुद्घाटयन्नाह - अस्त्विति । पूर्वोक्तप्रकारं सर्वे अस्तु नाम, तथापि परिकलितं स्वीकृतं गुणानां दया- दाक्षिण्यादीनां प्रहाणं त्यागो यैस्तथाभूता हूणाः श्वेतवर्णाः म्लेच्छादिहीनकुलोद्भवा नराः प्रायाः बहवो येषु तादृशैः अत एव हेयैस्त्याज्यैः जनैः निबिडस्य परिपूर्णस्य नगरविशेषस्य चन्नपट्टणस्य सन्निकर्षः सान्निध्यमेव अत्र क्षेत्रे, महान् दोषः । यतः हूणेभ्यः कुत्सि ततमाः अतिनिन्दनीयाः लोके जनाः दुर्लभाः खलु ॥ १०४ ॥ कुत्सिततमत्वमेव स्पष्टयति-हूणा इति । करुणया दयया हीना: हूणाः ब्राह्मणगणं ब्राह्मणसमुदायं तृणवत् तृणमिव न गणयन्ति । तुच्छीकुर्वन्तीत्यर्थः । किंच ये हूणाः शौचं पुरीषोत्सर्गानन्तरं गुदप्रक्षालनादिरूपमपि न आचरन्ति, किमुत मृज्जलादिना स्नानादिरूपं, अत एव तेषां दोषाः पापानि पारे वाचां, वाचा वक्तुमशक्या इत्यर्थः । सन्तीति शेषः ॥ २६२ ॥ पुनरिति । सनिर्वेदं सखेदं विधिं ब्रह्माणमुद्दिश्य - शौचेति । हे हतविधे मन्द प्रजापते, शौचं त्यक्तुं शीलं येषां तेषु हूणकादिषु हूण - म्लेच्छादिषु धनं द्रव्यं, शिष्टेषु सदाचरणसंपन्नेषु जनेषु च क्लिष्टतां दारिद्र्यं १ 'शान्तिधनाः ' २ ' परिकल्पित. ' २ ' विगणयन्ति' ४ 'दैव. ' For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २१] पदार्थचन्द्रिकाटीकासहिता । विश्वावसुः-पश्यं त्वमेतेष्वपि गुणग्राहित्वम् ॥ १०५॥ प्रसह्य न हरन्त्यमी परधनौघमन्यायतो वदन्ति न मृषावचो विरचयन्ति वस्त्वद्भुतम् ॥ यथाविधि कृतागसां विदधति खयं दण्डनम् गुणानवगुणाकरेष्वपि गृहाण हूणेष्वमून् ॥ २६४ ॥ अथ काञ्चीवर्णनम् २१. -ocomइति विमानमितः प्रतीच्यां दिशि योजनपञ्चकमतिकामयन् पुरतो दृष्ट्वा सामोदम् दुष्टा मेधा बुद्धिर्येषां तेषु "नञ्-दुस्-सुभ्यः” इत्यनुवर्तमाने "नित्यमसिच् प्रजा-मेधयोः" इत्य सिच् समासान्तः । धरायाः पृथ्व्याः अतुलं अनन्यसदृशं आधिपत्यं खामित्वं, दक्षेषु बुद्धिमत्सु च भिक्षाटनं भिक्षार्थ संचारम् , तथा दुष्कुलभवासु यवनस्लेच्छादिहीनकुलोत्पन्नासु ललनासु स्त्रीषु लावण्यं सौन्दर्य अग्र्यासु श्रेष्ठब्राह्मणादिकुलोत्पन्नासु स्त्रीषु च नीरूपतां कुरूपत्वं, एतादृशं परस्परविरुद्धं सृष्टवता उत्पादयता खया किं नाम फलं लब्धं प्राप्तम् ? कष्टं अन्याय्यम् ॥ २६३ ॥ अथ तेष्वपि विचित्रवस्तुरचनादिरूपान् गुणान् प्रदर्शयन्नाह विश्वावसुःपश्यति । त्वं एतेष्वपि पूर्वोक्तनिन्द्याचारयुक्तेष्वपि, गुणग्राहित्वं पश्य ॥ १०५ ॥ गुणग्राहित्वमेवोपपादयति-प्रसह्येति । अमी हूणाः परेषां लोकानां धनौघं द्रव्यसमूह, अन्यायतः प्रसह्य बलात्कारेण न हरन्ति । किंतु विचित्रवस्तुप्रदर्शनादिना मोहयित्वा, करग्रहणादिना च प्रतिवर्ष स्वल्पं स्वल्पमिति बहुना कालेन बढेव हरन्तीति ध्वनिः । एवमुत्तरत्रापि यथायथमूह्यम्। तथा मृषावचः अनृतभाषणं न वदन्ति, अद्भुतं आश्चर्यकरं वस्तु विरचयन्ति उत्पादयन्ति, तथा कृतागसां कृतापराधानां यथाविधि राजनियममनुसृत्य खयं दण्डनं शिक्षा विदधति कुर्वन्ति । तस्मात् अवगुणानां 'शौचत्यागिषु-'इत्यादिश्लोकप्रतिपादितानां दोषाणां आकरेषु उत्पत्तिस्थानेष्वपि सत्सु हूणेषु, अमूनधुना मया प्रतिपादितान् गुणान् गृहाण । नैते सर्वथा दोषार्हा इति भावः ॥ २६४ ॥ इदानीं काञ्चीनगरवर्णनमाक्षिपन्नाह कवि:-इतीति । इतः चन्नपट्टणदेशातू, प्रतीच्या पश्चिमायां दिशि, योजनपञ्चकं विंशतिक्रोशपर्यन्तं अतिक्रामयन् गमयन्, सामोदं सानन्दम् । १ 'अवेहि', 'एहि. For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ विश्वगुणादर्शचम्पू: इयं काची काञ्ची करिशिखरिणः कापि नगरी गरीयस्यां यस्यां विहरणजुषां पक्ष्मलदृशाम् ॥ मुखं ददर्श रजनिकरमादर्शमैमलम् स्वरूपं के पङ्केरुहमपि न निन्दन्ति रसिकाः ॥ २६५ ॥ किं च सुमनोजनतास्थानं स्थाने सद्रूपशोभनी सेयम् ॥ सुरताभ्युदयविधात्री शुभकाची साधु रञ्जयति चेतः ॥ २६६॥ नगरीमेनां दक्षिणेन करुणाझरीव भगवती वेगवती नाम प्रवहति पावनी शैवलिनी ॥ १०६ ॥ [ काञ्ची इयमिति । इयं करिशिखरिणः हस्तिशैलस्य काञ्ची रशना, “स्त्रीकट्यां मेखलाकाञ्ची सप्तकी रशना तथा " इत्यमरः । तमभिवेष्टय स्थितेत्यर्थः । काञ्ची नाम कापि अनिर्वाच्या नगरी वर्तते । गरीयस्यां अतिमहत्यां, गुरुशब्दात् ईयसुनि “प्रिय-स्थिर-स्फिर—” इत्यादिना गरादेशः । यस्यां नगर्यो विहरणजुषां क्रीडां कुर्वतीनां पक्ष्मलदृशां स्त्रीणां मुखं दर्श दर्श पुनः पुनरवलोक्य, के रसिकाः पुरुषाः अमलस्वरूपं स्वच्छस्वरूपं, एतत् रजनिकरादर्श - पङ्केरुहेष्वपि संबन्धनीयम् । रजनिकरं चन्द्रं, आदर्श दर्पणं, पङ्केरुहं कमलमपि च न निन्दन्ति ? अपि तु सर्व एव एतान् सर्वानपि निन्दन्तीत्यर्थः ॥ २६५ ॥ सुमन इति । सुष्ठु मनो येषां ते सुमनसः पण्डितास्ते च ते जनाश्च तेषां समूहस्तत्ता तस्याः स्थानं, यथाविधिस्वकर्मानुष्ठानेन शुद्धमानसानां पण्डितानां वसतिस्थानमित्यर्थः । पक्षे सुष्टु मनोज: कामस्तेन नतानां, नम्राणां, अत्यन्तकामासक्तानामित्यर्थः । आस्थानम् । सद्भिरुत्तमैः स्वादु- सुगन्धिफल- पुष्पसंपन्नैरिति यावत् । द्रुभिः वृक्षैः आम्र-पनस - दाडिम- नारी केलादिभिः उपशोभनी पक्षे सता उत्तमेन रूपेण शोभनी च, सुराणां समूहः सुरता तस्याः, पक्षे सुरतस्य कामसौख्यस्य च अभ्युदयं वृद्धिं विधत्ते इति तथाभूता सा इयं शुभा काञ्ची नगरी रशना च, अस्मिस्थाने चेतः अन्तःकरणं साधु यथा स्यात्तथा रञ्जयति रमयति ॥ २६६ ॥ अन्यदप्याश्चर्यमाह - नगरीमिति । एनां काञ्चीं नगरीं दक्षिणेन अस्या दक्षिगत इत्यर्थः । " एनबन्यतरस्याम्- १ इति एनप्प्रत्ययः । " एनपा द्वितीया" इति तद्योगे द्वितीया च । करुणायाः झरीव भगवती वेगवती नाम पावनी पवित्रा शैवलिनी नदी प्रवहति ॥ १०६ ॥ १ 'मतुलम् . ' २ 'सुमनोजनवादरणस्थानं. ' ४ 'भगवतो. ' ३ स्थाने सद्रूपसेवनी सेयम्. ' For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वर्णनम् २१ ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिकाटीका सहिता । माधुर्याध्ययनोपैसन्नमधुनिष्यन्दानि मन्दानिलव्यालोलत्तटचारुभूरुह शिखानिष्पातिपुष्पाधिकैः ॥ डिण्डीरैः स्मितवन्ति पान्ति दुरिताद्वेगापगायाः स्फुरद्वेगोद्वेजितवाजिमेधमखकृद्वेधांसि पाथांसि नः ॥ २६७ ॥ इतश्च सखे चक्षुर्निक्षिप्यताम् ॥ १०७ ॥ य एष राजत्कटकः सदालिभिः समाश्रितः शोभनदानसंपदा || स नित्यशुद्धं वरदं - तमुद्वहन्यथार्थनामा गजभूभृदीक्ष्यते ॥ २६८ ॥ सभक्तिप्रकर्षमञ्जलिं बद्धा द्विपाचलमुपाश्रितं त्रिदशपादपवर्गवी त्रपाकरमुपास्महे दिगधिपावनं पावनम् ॥ १५३ तामेव वर्णयति - माधुर्येति । माधुर्यस्य मधुरतायाः अध्ययनार्थे शिक्षणार्थं उपसन्नाः संमिलिताः मधुनः तीरस्थवृक्षरसस्य निष्यन्दा बिन्दवो येषु तानि, पुनश्च मन्दानिलेन मन्दवायुना व्यालोलन्ति चञ्चलानि तटयोस्तीरयोः चारुभूरुहाणां सुन्दरवृक्षाणां शिखाभ्यः अग्रेभ्यः निष्पातीनि पतनशीलानि यानि पुष्पाणि तैः अधिकैः प्रवृद्धैरित्यर्थः । डिण्डीरैः फेनै: “डिण्डीरोऽब्धिकफः फेनः" इत्यमरः । स्मितवन्ति मन्दहास्ययुक्तानीव स्थितानि अपि च स्फुरता वेगेन जवेन उद्वेजितः यज्ञभङ्गभिया दुःखितः, वाजिमेधं अश्वमेधं नाम मखं यज्ञं करोतीति तत्कृत् वेधाः ब्रह्मा येषां तानि वेगापगायाः वेगवत्या नाम नद्याः पाथांसि उदकानि, नः अस्मान् दुरितात् पापात् पान्ति रक्षन्ति । पाठान्तरे, नः पान्तु रक्षन्तु इत्यर्थः । पुरा किल ब्रह्मदेवे काञ्चयामश्वमेधं कुर्वति सति तद्विनाशार्थं सरस्वत्येव वेगवतीरूपेण यज्ञवेदिमावृणोत् इति पौराणिकी कथात्रानुसंधेया ॥ २६७ ॥ इत इति । हे सखे, इतः अस्मिन्प्रदेशे चक्षुः दृष्टिः निक्षिप्यतां दीयताम् ॥ १०७॥ 1 > य इति । य एष पुरो दृश्यमानः पर्वतः राजन् शोभमानः कटक: नितम्बभागः यस्य सः, राजन्तौ शोभमानौ कटौ गण्डस्थले यस्य स राजत्कटक इति च । "कटकोsस्त्री नितम्बोsद्रेः " " गण्डः कटो मदो दानं" इत्युभयत्राप्यमरः । अत एव सतां साधूनामालिभिः पतिभिः सदा अलिभिर्भ्रमरैश्च शोभनानां शुभफलप्रदानां दानानां शोभनस्य दानस्य मदोदकस्य च संपदा समृद्ध्या च समाश्रितः नित्यं सततं शुद्धं निर्मलं श्वेतवर्णे च तं भक्तेष्टफलदातृत्वेन प्रसिद्धं वरदं एतन्नामकं भगवन्तं वरं सुन्दरं दन्तं रदनं च, उद्वहन् धारयन् अत एव यथार्थनामा अन्वर्थनामा सः गजभूभृत् हस्तिशैलः, गजानां भूभृत् राजा च ईक्ष्यते अवलोक्यते ॥ २६८ ॥ अतीव भक्तिप्रवणान्तःकरण आह - द्विपाचलमिति । द्विपाचलं हस्तिशैलं १ 'पपन्न.' २ 'पान्तु.' ३ 'मधु' ४ 'निरूप्यताम् . ' For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ . विश्वगुणादर्शचम्पू: [काञ्ची कृपाशिशिरलोचनं कृतभवव्यथामोचनम् वपासुरभिलाधरं वरदनाम धाम स्थिरम् ॥ २६९ ॥ कृशानुमामन्त्र्य वरदं भो भज सततं शरदम्भोरुह विलोचनं देवम् ॥ परदम्भोपहतिकरं हर-दम्भोलिधर-मुखमखाशनुतम् ॥ २७० ॥ पुनः सानुस्मरणरोमाञ्चम् तापत्रयप्रशमनादमृतं ग्रहीतुम् तामेव वैधहयमेधवपामुपासे ॥ अम्भोधिजाधरसुधारसवासितेन या चुम्बिता वरदराजमुखाम्बुजेन ॥ २७१ ॥ उपाश्रितं, त्रिदशपादपः कल्पवृक्षः स्वर्गवी कामधेनुश्च तयोः त्रपाकरं लज्जोत्पादकं, भक्केष्टप्रदानेनेति भावः । दिशां अधिपाः इन्द्रादयो लोकपालास्तान् अवति दैत्यादिदुष्टजनविनाशनेन रक्षतीति तथाभूतं, स्वतः पावनं पवित्ररूपं, कृपया दयया शिशिरे शीते लोचने यस्य तथाभूतं, कृतं भवव्यथायाः संसारपीडायाः मोचनं मुक्तिर्येन तं, वपया ब्रह्मकृताश्वमेधीयया सुरभिल: सुगन्धयुक्तः अधरः अधरोष्टो यस्य सः तं, सुरभिलेति प्रामादिकोऽयं प्रयोगः । इलच्प्रत्ययविधायके तुन्दादिगणे सुरभिशब्दस्य पाठाभावात् । नाप्ययमाकृतिगणः । तस्मात् 'वपासुरभिताननं' इति पाठान्तरं पुस्तकान्तरे दृश्यते, तदेव युक्ततरमिति ज्ञेयम् । तत्र तारकादित्वादितच्प्रत्यये सुरभितेति प्रयोगस्य सुसाध्यत्वात् । तत् वरदनाम स्थिरं धाम वैष्णवं तेजः वयं उपास्महे भजामहे ॥ २६९ ॥ कृशानुं संबोध्याह-वरदमिति । भो कृशानो, शरदि शरहतौ ये अम्भोरुहे कमले ते इव विलोचने नेत्रे यस्य तं परेषां शत्रणां दम्भस्य गर्वस्य उपहतिकरं नाशकरं, हरः शिवश्च दम्भोलिधरः वज्रधर इन्द्रश्च तौ मुखे अग्रे येषां तैर्मखाशैर्यइमुग्भिः देवैः नुतं स्तुतं, देवं वरदं सततं निरन्तरं भज उपास्ख । मैनं दोषदृष्ट्या द्राक्षीरिति भावः ॥ २७० ॥ तापत्रयेति । तापानां आध्यात्मिकाधिभौतिकाधिदैविकात्मकानां त्रयस्य प्रशमनात् नाशं प्राप्येत्यर्थः । ल्यब्लोपे पञ्चमी । अमृतं जन्म-मरणराहित्यं मोक्षमिति यावत् । ग्रहीतुं स्वीकb, तां प्रसिद्धां विधेब्रह्मणोऽयं वैधः स चासौ हयमेधोऽश्वमेधयज्ञः तत्संबन्धिनी वपामेव उपासे सेवे। तस्याः सेवनार्हत्वमुपपादयति-अम्भोधिजेति । या वपा अम्भोधिजाया लक्ष्म्याः अधर एव सुधारसोऽमृतरसस्तेन वासितेन सुगन्धयुक्तेन वरदराजस्य भगवतो मुखाम्बुजेन मुखकमलेन चुम्बिता आस्वादिता। अतस्तामेवोपासे इति ॥ २७१॥ १वपासुरभिताननं.' For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २१ ] पदार्थचन्द्रिकाटीकासहिता । १५५ पुनः सानन्दम्भुवनवहनशीला सिन्धुरागं भजन्ती जयति वरदमूर्तिः साधु वेगापगा च ॥ दमयितुमवतीर्णा धातृयज्ञं द्वितीया सफलयितुमिहाद्या सादरा प्रादुरासीत् ॥ २७२ ॥ कृ०-वयस्य तवेयं जयानभिज्ञे तस्मिन् जयतीत्युक्तिरयुक्ता । सवनसफलीकरणभणितिरपि तत्प्रौतिकूल्यभाजि नोचिता ॥ १०८ ॥ तथाहि अजयज्ञोद्भवे तस्मिन्कथं नाम जयज्ञता ? ॥ सवनाशानुकूले का सवसाफल्यकारिता ? ॥ २७३ ॥ भुवनेति । भुवनानां स्वर्गादिलोकानां जलानां च वहनं धारणं प्रवहणं च शीलं स्वभावो यस्याः सा, सिन्धुरः गजः तन्नामा यः अग: पर्वतस्तं हस्तिशैलमिति यावत् । पक्षे सिन्धौ समुद्रे यो रागः प्रेमा तं च भजन्ती सेवमाना सा वरदमूर्तिः वरदाभिधाना भगवतो मूर्तिः, वेगापगा वेगवतीनाम नदी च साधु यथा तथा जयति । तत्र द्वितीया वेगापगा धातुर्ब्रह्मणः यज्ञं दमयितुं विनाशयितुमवतीर्णा आविर्भूता । आद्या वरदराजमूर्तिस्तु इह काच्यां नगर्यो, धातृयज्ञ सफलयितुं सफलं कर्तु, सादरा आदरसहिता सती प्रादुरासीत् प्रकटीबभूव ॥ २७२ ॥ वयस्येति । हे वयस्य मित्र, जये अनभिज्ञः अनिपुणः जयानह इत्यर्थः । तस्मिन् करदराजे इयं तव 'जयति' इत्युक्तिः अयुक्ता अयोग्या । तथा सवनस्य यज्ञस्य सफलीकरणभणितिः सफलीकरणोक्तिरपि, तस्य यज्ञस्य प्रातिकूल्यं विरुद्धत्वं भजतीति तद्भाक् तस्मिन् नोचिता न योग्या ॥ १०८॥ उक्तार्थमेव प्रपञ्चयति-अजेति । जयं सर्वोत्कर्ष न जानातीयजयज्ञः, अजन्च ब्रह्मदेवस्य यज्ञोऽश्वमेधश्च तस्मात् उद्भवे उत्पन्ने तस्मिन् वरदे जयज्ञता जयज्ञानत्वं कथं नाम ? अपि तु नास्त्येवेत्यर्थः । तथा सवस्य यज्ञस्य नाशे विनाशे अनुकूलः, सवनाशानां यज्ञभुजां देवानां अनुकूले च तस्मिन् , सवस्य यज्ञस्य साफल्यकारिता सफलीकरणत्वं का नाम ? नास्त्येवेत्यर्थः । अत्र मुद्रितपुस्तकटीकायां अन्यदप्यर्थान्तरं दृश्यते । यथा-'पूर्वार्द्ध कथं नामेत्यत्र 'कथं न अम' इति छित्त्वा, हे अम भाग्यरहित कृशानो, तस्मिन् वरदे जयज्ञता कथं नास्तीति काकुः । अस्त्येवेत्यर्थ इति । उत्तरार्द्धं च ‘कासव-' इत्यत्र अकारं प्रश्लिष्य असवसाफल्यकारिता केति काकुः । नास्त्येव ? अपि तु सवसाफल्यकारितैवास्तीत्यर्थान्तरं चातुर्यात्कल्पयन्ति' इति । श्लेषालंकारः ॥ २७३ ॥ 2 'सिन्धुराज.' २ ‘सादरं.' ३ 'तत्प्रातिकूल्यभाजिनि नोचिता' For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ विश्वगुणादर्शचम्पू:- [काञ्चीविश्वावसुः-सखे श्लेषभङ्गयैव दोषमुद्भावयता भवता तस्मिन्नखिलहेयप्रत्यनीकतैवाविष्कृता । युक्तं चैतत् ॥ १०९॥ पद्मोल्लासविधायिनि सत्पथदीप्तिकृति चक्रभव्यकरे ॥ भाखति वरदे भविता न जातु दोषानुषङ्गवार्तापि ॥ २७४ ॥ समन्तादवलोकयन्नञ्जलिं बद्धासेवेऽनन्तसरः श्रये करिगिरि श्रीपुण्यकोट्या सैमम् ध्यायाम्युत्तरवेदिमत्र महितं देवाधिराज भजे ॥ कल्याणी कलयामि कंजनिलयां कल्याणकोटिस्थिता मीडे राघव-यादवादिमकिटीन्वन्दे मुकुन्दाश्रितान् ॥ २७५ ।। इति प्रतीच्यां दिशि किंचिदन्तरमतिक्रम्य सविस्मयानन्दम---- अथ विश्वावसुः कृशानोः श्लिष्टार्थमभिनन्दयन्नाइ-सख इति । हे सखे, श्लिष्यति एकीभवति अर्थबाहुल्यं यत्र स श्लेषः तस्य भङ्गया रीत्या दोषमुद्भावयता आरोपयता भवता, तस्मिन् वरदे अखिलानां हेयानां दोषाणां प्रत्यनीकता विरोधितैवाविष्कृता प्रकटीकृता । अत एव एतत् युक्तम् ॥ १०९ ॥ युक्तत्वमेव प्रतिपादयति-पति । पद्मानां कमलानां पद्माया लक्ष्म्याश्च उल्लासं विकासं विधत्ते तच्छीलः उल्लासविधायी तस्मिन् , सत्पथस्य आकाशस्य सन्मार्गस्य च दीप्ति प्रकाशं करोतीति दीप्तिकृत् तस्मिंश्च, चक्राणां चक्रवाकानां भव्यकरे संभोगरूपकुशलसाधके "भावुकं भविकं भव्यं कुशलं" इत्यमरः । चक्रेण सुदर्शनेन च भव्यः शोभनः करो हस्तो यस्य तथाभूते च, वरान् इष्टार्थान ददाति तस्मिन् भास्वति सूर्ये, तेजखिनि भगवति वरदे देवे च, दोषानुषङ्गस्य रात्रिसंबन्धस्य, दोषाणां दुरितानां अनुषङ्गस्य संबन्धस्य च वार्ता कथा जातु कदाचिदपि न भविता नैव भविष्यति ॥ २७४ ॥ सेवे इति । अहं अनन्तसरो नामात्रयं तीर्थ सेवे, करिगिरि हस्तिशैलं श्रये आश्रये, श्रीपुण्यकोट्या विमानेन समं सह उत्तरवेदि ब्रह्मकृताश्वमेधीयां ध्यायामि । अत्र उत्तरवेद्यां महितं पूजितं देवाधिराज श्रीवरदं भजे, तथा कल्याणानां कोटौ प्रकर्षे "कोटिः स्त्री धनुषोऽग्रेऽश्री संख्याभेद-प्रकर्षयोः" इति मेदिनी । अर्थात् श्रीविष्णौ विमाने वा (2) स्थितां, तत्र विष्णौ प्रेमाश्रयेण, विमाने चोपवेशनेन च स्थितिरिति बोध्यम् । कल्याणी स्वयं कल्याणरूपिणीं कंजनिलयां पद्मालयां लक्ष्मी, कलयामि शरणं व्रजामि । राघवो रामचन्द्रश्च यादवः श्रीकृष्णश्व आदिमकिटिः आदिवराहश्च तान् । “वराहः सूकरो घृष्टिः कोल: पोत्री किरिः किटिः" इत्यमरः । ईडे स्तौमि, तथा मुकुन्दाश्रितान् श्रीकृष्णभक्तांश्च वन्दे नमस्करोमि ॥ २७५ ॥ १ 'सकलहेयप्रत्यनीकतैवास्मिन्नाविष्कृता.' २ 'श्रीपुण्यकोट्याश्रयम्.' For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २२ ] पदार्थचन्द्रिकाटीकासहिता । वेदान्तार्यगिरः प्रसूनमृदवो मोदं दधानाः सताम् प्रौढग्रावकठोर काण्यपि परं भिन्दन्ति हृन्दि द्विषाम् ॥ नन्दाद्यार्यजनाभिनन्दितमृदुस्पर्शोऽपि पादो हरे दुर्भेदे शकटासुरे तु शतकोट्याकारमागान्न किम् ? ॥ २९९॥ पुनः सप्रार्थनमञ्जलिं बद्धादर्पाविष्टकुदृष्टिदुष्टसमयोत्सादाय बोधाङ्कुरो - -- दाय प्रबले कलावपि जयोत्पादाय वेदाध्वनः ॥ १६९ श्रीमल्लक्ष्मणपक्षरक्षकबुधामोदाय पापाटवी - च्छेदायार्थिमरुत्तरुर्विर्जयतां वेदान्तविद्यागुरुः ॥ ३०० ॥ अथ समाधातुमुपक्रमते विश्वावसुः - वेदान्तेत्यादिना । प्रसूनमृदवः पुष्पवत् सुकुमाराः अत एव सतां तन्मतस्थसाधूनां मोदं आनन्दं दधाना उत्पादयन्तः वेदान्तार्यस्य गिरः व्याख्यानरूपा वाण्यः, द्विषां मतान्तरस्थवादिनां हन्दि हृदयानि “पद्दन्नोमास्–” इत्यादिना हृदयशब्दस्य हृदादेशः । प्रौढाः कठोराः ग्रावाणः पाषाणा इव कठोरकाणि कठिनान्यपि, परमत्यन्तं भिन्दन्ति विदारयन्त्येव । अत्र दृष्टान्तमाह - नन्दो गोकुलाधिपः श्रीहरेः पिता आदिः प्रमुखो येषां सुनन्दादीनां ते ये आर्यजनाः श्रीकृष्णभक्तत्वात् श्रेष्ठजनास्तैरभिनन्दितः मृदुस्पर्शः कोमलस्पर्शो यस्य तादृशोऽपि हरेः श्रीकृष्णस्य पादः दुर्भेदे इतरैर्भेत्तुमशक्ये शकटासुरे, शतकोटेर्वज्रस्य “शतकोटिः खरुः शम्बो दम्भोलिरशनिर्द्वयोः" इत्यमरः । आकारं न अगात् न प्राप किम् ? तद्वदेवेदमिति भावः ॥ २९९ ॥ 1 इदानीमेतत्प्रकरणमुपसंहन् प्रार्थयते -दर्पाविष्टेति । दर्पाविष्टानां गर्विष्ठानां अत एव कुदृष्टीनां कुत्सितज्ञानानां अत्र दृशिर्ज्ञाने । दुष्टो यः समयः सिद्धान्तः “समयाः शपथाचार - कालसिद्धान्त - संविदः ।" इत्यमरः । तस्य उत्सादाय तं विनाशयितुमित्यर्थः । “तुमर्थात् - इत्यादिना चतुर्थी । अग्रेऽप्येवमेव ज्ञेयम् । बोधाङ्कुरस्य उद्भेदाय उत्पादनाय, प्रबलेऽपि कलौ युगे वेदाध्वनः कर्म- ज्ञानरूपवेदमार्गस्य जयोत्पादाय सर्वोत्कर्षमुत्पादयितुमित्यर्थः । श्रीमतो लक्ष्मणस्य रामानुजाचार्यस्य यः पक्षः विशिष्टाद्वैतरूपः तद्रक्षकास्तत्पालका ये बुधाः पण्डितास्तेषां मोदाय आनन्दमुत्पादयितुमित्यर्थः । पापान्येवाटवी अरण्यं तस्याश्छेदाय, तां छेत्तुं चेत्यर्थः । अर्थिनां विशिष्टाद्वैतज्ञानाभिलाषिणां मरुत्तरुः कल्पवृक्षः वेदान्तविद्यागुरुः, विजयतां सर्वोत्कर्षेण वर्तताम् ॥ ३०० ॥ १ 'कोपाविष्ट '. २ 'भेदाङ्कुरोद्बोधाय' ३ 'महा'. ४ 'विजयते'. • १५ For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [कान०नृसिंह'अथ कामासिकानगरवासिनृसिंहवर्णनम् २३. इत्यन्यतो दृष्टिं विन्यस्य प्राञ्जलिः सन् श्रीमान्गभीरतरवेगवतीप्रतीर___ भूमावघद्रुहि सुरद्रुरिवावतीर्णः ॥ कामादिवैरिगणमुल्बणमस्मदीयं कामासिकानरहरिः कवलीकरोतु ॥ ३०१ ॥ इत्यन्यतश्चक्षुर्निक्षिप्य प्राञ्जलिः सन् - भयार्तजीवातुदयामहिम्ने वैकुण्ठधाम्ने तनवै नमासि आम्नाय उक्तः परमेशितेति नाम्नाय उक्तः परमत्र चित्रम् ॥३०२॥ युक्तं चैतत् । यतो 'विष्णुः परमः' इति श्रुता श्रुतिः ॥ ११९ ।। अथ कामासिकावासिनृसिंहवर्णनं सूचयन्नाह कविः-इतीत्यादि । अन्यतः अन्यस्मिन्स्थले दृष्टिं विन्यस्य दत्त्वा श्रीमानिति । अपेभ्यः पापेभ्यः द्रुह्यति जिघांसतीति अघभुक् तस्यां गभीरतरायाः अतिनिम्नायाः वेगवत्या नाम नद्याः प्रतीरभूमौ तटभुवि सुरद्रुः कल्पतरुरिव अवतीर्णः आविर्भूतः, श्रीमान् लक्ष्मीवान् लक्ष्म्या सहित इत्यर्थः । कामासिकानरहरिः कामासिकानगरनिवासी श्रीनरसिंहः, उल्बणं प्रवृद्ध अस्मदीयं अस्मत्संबन्धिनं कामः आदिः प्रमुखो येषु ते ये वैरिणः क्रोध-लोभादयः शत्रवः तेषां गणं समुदायं कवलीकरोतु ॥ ३०१॥ भयार्तेति । भयेन संसार-भीत्या आर्तानां पीडितानां जीवातुर्जीवनौषधरूपः दयाया महिमा यस्य तस्मै, वैकुण्ठधाम्ने वैकुण्ठनिवासिने इत्यर्थः । नमांसि नमस्कारान् तनवै करोमि । तनोतेरुभयपदिनः आत्मनेपदे लोडुत्तमैकवचनम् । आम्नाये वेदे यः परमेशिता परमेश्वर इति उक्तः, परं च आम्नाये न उक्तः, इत्यत्रार्थे विरोधाभासरूपे इत्यर्थः । परमत्यन्तं चित्रमाश्चर्यम् । वस्तुतस्तु य आनाये परमेशितेति नाम्ना उक्तः कथितस्तस्मै वैकुण्ठधाम्ने इत्यन्वयेन च तत्परिहारः ॥ ३०२॥ युक्तमिति । एतत् परमेश्वर इति श्रुतिकथनरूपं युक्तं योग्यमेव । यतो यस्मात् 'विष्णुः परमः' इति श्रुतिः श्रुता प्रत्यक्षं आकर्णिता । अस्माभिरिति शेषः ॥ ११९॥ १ 'भूमावथ द्रुहि'. २ 'नामासिना नरहरिः', 'कामालिकानरहरिः कबरीकरोतु.' ३ 'ततो'. ४ 'नाम्ने'. ५ 'आम्नाययुक्तः' ६ 'इति श्रुतेः, इति विश्रुतैव तव श्रुतिः'. For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् २३ ] पदार्थचन्द्रिकाटीकासहिता । अनपायरमो विष्णुः कस्मादपरमो भवेत् ॥ युक्तं रमापतेरन्ये देवास्त्वपरमा इति ॥ ३०३ ॥ किंच—— www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनः सचमत्कारम् - जाग्रत्येव शिरांसि नित्यवचसां सर्वोन्नतौ शार्ङ्गिणस्तत्र व्यास - पराशरादिकृतयो दत्तादरा वस्तुतः ॥ यः पादाम्बु ददाति यस्तदुपसंगृह्णाति धत्तेऽथेवा यश्चैतच्छिरसैव तेषु परमं जानाति को नात्मवान् ॥ ३०४॥ pa १७१ दुर्वादिनो विष्णुपदारविन्दं दोषापहं नानुसरन्ति मोहात् ॥ तेषां मतं तु स्वयमत्र विष्णुपदारविन्दानुसृतिं विधत्ते ॥ ३०५ ॥ एतदेव सोपपत्तिकमाह - अनपायेति । यतः न विद्यते अपायो वियोगो यस्यास्तथाभूता सततमाश्लिष्टेत्यर्थः । रमा लक्ष्मीर्यस्य सः विष्णुः, अपगता वियुक्ता रमा यस्मात् तथाभूतः अपकृष्टरूपश्च कस्माद्धेतोर्भवेत् ? लक्ष्म्याः अनपायित्वं "राघवत्वेऽभवत्सीता विष्णोरेषानपायिनी ।" इत्यादिपुराणग्रन्थैः प्रतिपादितम् । तस्मात् रमापतेर्विष्णोरन्ये देवास्तु अपरमा लक्ष्मीरहिता: अपकृष्टाश्च इति युक्तं योयमेव ॥ ३०३ ॥ अधुनान्यरीत्या सर्वोत्तमत्वं प्रपञ्चयति - जाग्रतीति । नित्यवचसां अविनाशिवचनानां, वेदानामित्यर्थः । शिरांसि उपनिषदः शार्ङ्गिणः विष्णोः सर्वोन्नतौ सर्वोतमत्वे विषये जाग्रति सततं विभान्त्येव । तत्र उपनिषत्प्रतिपादित एवार्थे व्यासपराशरादीनां ऋषीणां, आदिशब्देन वाल्मीकि - वसिष्ठ - मार्कण्डेयादीनां ग्रहणम् । कृतयः पुराणस्मृत्यादिरूपाः, दत्तादराः उपनिषत्प्रतिपादितं तात्पर्यमेव विस्तरेण वर्णयन्त्य इत्यर्थः । नन्वेतद्यद्यपि वेदादिभिः प्रतिपादितं तथाप्यनुभवमन्तरेण अविश्वसनीयमेवेति चेदाह – वस्तुतः तत्त्वतः अत्रार्थे केवलं वेद-शास्त्रादिरूपमेव न प्रमाणं, किंतु प्रत्यक्षमप्यस्तीत्यर्थः । तदेव दर्शयति-य: विष्णुः पादाम्बु पादोत्पन्नं गङ्गाजलमित्यर्थः । ददाति यश्च ब्रह्मा तत् उपसंगृह्णाति स्वीकरोति, कमण्डलुनेत्यर्थः । अथवाऽथ च यश्च श्रीशंकरः तत् पादाम्बु, शिरसा मस्तकेनैव धत्ते धारयति ? तेषु ब्रह्म-विष्णु-शिवेषु मध्ये, परमं श्रेष्ठं आत्मवान् परमात्मज्ञानी को न जानाति ? अपि तु सर्व एव जानातीत्यर्थः ॥ ३०४ ॥ , दुर्वादिनइति । दुर्वादिना केवलं शिवमेव श्रेष्ठं मन्वानाः दोषापहं पापहरं विष्णोः पदारविन्दं चरणकमलं मोहात् वस्तुतस्त्रयाणामप्येकरूपत्वसत्त्वे स्वमताभि १ 'मुनयो', 'गुरवो' २ 'गृह्णाति वा' ३ 'नानुसरन्तु'. For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ विश्वगुणादर्शचम्पू:- [श्रीत्रिविक्रमअथ श्रीत्रिविक्रमवर्णनम् २४. इत्यन्यतो दृष्टिं निक्षिप्यसमन्तरूढद्रुमपुष्पनिष्पतन्मरन्दसंतत्यभिषिक्तमुत्तमम् ॥ रविक्रमाशुत्वनिरोधिगोपुरं त्रिविक्रमस्यायतनं निशाम्यताम् ॥३०६॥ सविस्मयमभिध्यायन्अव्यादाश्रयतामनश्वरपेदप्रासादनिःश्रेणिका हर्षादूर्ध्वमुदञ्चितः स चरणस्त्रैविक्रमो नः क्लमात् ॥ त्रैलोक्यार्पणतः सितं शुभयशश्छत्रं यदासीले घिष्ठो हरिनीलदण्ड इव यस्तद्धारणायोद्धृतः ।। ३०७॥ मानान्धाः सन्तः "शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः ।" इत्यादितत्त्वाज्ञानाद्धेतोः नानुसरन्ति न भजन्ति । तस्मात्तेषां मतं खयं खत एव अत्र उक्तेर्थे तु विष्णुपदे आकाशे यत् अरविन्दं कमलं कदाप्यसंभवि, तस्यानुसृतिमनुसरणं विधत्ते करोति । यथा तावदाकाशपुष्पं कदाप्यसंभवि तथैतेषां मतं तुच्छमेव भवतीत्यर्थः । अत्राप्याकाशे अरविन्दस्य गङ्गाजलरुहस्य आगोपालाङ्गनमाच पण्डितं सर्वसंप्रतिपनत्वाद्विष्णोः पदं व्यवसितं निश्चितमिति यावत् । अर्यते गम्यतेऽनेनेत्यरो मार्ग: विष्णुनिश्चितसिद्धान्तः तं विन्दन्तीति तद्विन्दाः तेषामनुसृति अनुसरणं प्रचारमिति यावत् । इत्यर्थं वदन्ति शैवाः' इति भावदर्पणकृत् ॥ ३०५ ॥ समन्तेति । समन्ते आसमन्तभागे रूढाः वृद्धाः ये दुमा वृक्षास्तेषां पुष्पेभ्यः निष्पतन् निर्गलन् यो मरन्दो मकरन्दः तस्य संततिभिः धाराभिः अभिषिक्तम् , अत एव उत्तम, रवेः सूर्यस्य क्रमे गमने यदाशुत्वं शीघ्रत्वं तस्य निरोधि प्रतिबन्धि गोपुरं पुरद्वारं यस्य तत् “पुरद्वारं तु गोपुरम्" इत्यमरः । एतादृशं त्रिविक्रमस्य एतदाख्यविष्णोः आयतनं स्थानं निशाम्यतामवलोक्यताम् । हे कृशानो, त्वयेति शेषः ॥ ३०६ ॥ । तमेव प्रार्थयते--अव्यादिति । आश्रयतां सेवमानानां जनानां नश्यतीति नश्वरं विनाशि न नश्वरमनश्वरं कालत्रयेऽप्यविनाशीत्यर्थः । नशेः “इण्-नशजि-सर्तिभ्यः-" इति करप् प्रत्ययः । यत् पदं वैकुण्ठस्थानं तदेव प्रासादः तस्य निःश्रेणिका आरोहणसाधनं, तत्प्रापिकेति यावत् । हर्षात् ऊर्ध्व उदञ्चितः उन्नमितः बलिसत्रे इत्यर्थः । यः त्रयो भू-वर्ग-बलिशिरोव्यापनरूपाः विक्रमाः पादक्षेपा यस्य सः त्रिविक्रमः तस्यायं त्रैविक्रमः स चरणः नोऽस्मान् क्लमात् संसारश्रमात् अव्यात् रक्षतु। यस्त्रिविक्रमस्य चरण: यज्ञसमये इति शेषः । त्रैलोक्यस्य अर्पणतः दानाद्धेतोः १ 'सम्पतन्'. २ 'महा'. For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २४ ] पदार्थचन्द्रिकाटीकासहिता। १७३ कृशानुः-किमरे मायाविनमेनमक्रमं त्रिविक्रममभिनन्दसि ॥१२० पश्य श्रीमानपि स्वयं दैत्यात्कुर्वाणः कुप्रतिग्रहम् ।। विन्दन् स महतीं वृद्धिमिष्टां गोत्रभिदे ददौ ॥ ३०८ ॥ विशिष्यायमकपटानां कवीनां न श्लाघनीयः ॥ १२१ ॥ यतः--- नित्यानपायिप्रमदोऽपि नाथो बटूभवन्वञ्चितदातृकोऽसौ ॥ कविव्यथाकृत्खलु भूसुरोऽपि भूदानवत्त्वं क्षममेव भेजे ॥३०९॥ बलेविरोचनसुतस्य दैत्यस्य शुभं कल्याणावहं यशः कीर्तिरेव छत्रं आतपत्रं यत् आसीत् उत्पन्नमभूत् , तस्य छत्रस्य धारणाय उद्धृतः ऊर्ध्वं धृतः द्राषिष्ठः दीर्घतरः दीर्घशब्दादिष्ठन्प्रत्यये द्राघादेशः । हरिनीलो इन्द्रनीलमणिस्तन्मयो दण्डः छत्रमध्यवर्तियष्टिरिव स्थितः, स चरण इति संबन्धः ॥ ३०७॥ __ अथ कृशानुः कपटाचरणरूपं दोषमुद्घाटयन्नाह-किमिति । मायाविनं कपटयुक्तं, मायाशब्दात् “अस्-माया-मेधा-” इत्यादिना विनिप्रत्ययः। त्रिपदभूमियाचनव्याजेन सर्वखापहारात् । अत एवाक्रमं अनुचितकृत्यकारिणं, एनं त्रिविक्रम वामनं किं कुतो हेतोरभिनन्दसि ? ॥ १२०॥ ___ मायावित्वमेव प्रपञ्चयति-श्रीमानपीति । यः स्वयं श्रीमान् संपत्तिमान् ल. क्ष्मीवानपि सन् , दैत्यात् दितिवंशजात् , बले: सकाशात् , नतु सजातीयाद्देवादेः सकाशात्, कुप्रतिग्रहं कुत्सितं याचितसुवर्णादिग्रहणं, कोः पृथिव्याः प्रतिग्रहं खीकारं च "गोत्रा कुः पृथिवी पृथ्वी" इत्यमरः । कुर्वाणः सन् , ततः इष्टां ईप्सितां महती विपुलां वृद्धिं समृद्धिं विन्दन् प्राप्नुवन् सन्नपि, स त्रिविक्रमः गोत्रभिदे इन्द्राय कुलोच्छेदकाय च ददौ समर्पितवान् । नतु तां स्वयमुपबुभुजे । हीनोऽपि जनः खसंपादितमर्थ न परस्मै अर्पयतीत्यतोऽयमतीवानुचितकारीति भावः । अत्र निन्दायाः स्तुतौ पर्यवसानाद्वयाजस्तुतिरलंकारः ॥ ३०८ ॥ विशिष्यति । अयं त्रिविक्रमः विशिष्य विशेषतः कृत्वा, अकपटानां निर्व्याजानां शुद्धमानसानामिति यावत् । कवीनां कविभिरित्यर्थः । न श्लाघनीयः ॥ १२१ ॥ तदेवोपपादयति-नित्येति । नित्यं सततं अनपायिनी अवियुक्ता प्रमदा लक्ष्मीः पनी यस्य सः तथाभूतोऽपि सन् , बटूभवन् अबटुर्बटुरिव भवन् छद्मना ब्रह्मचारिवेषधारीत्यर्थः । “कृभ्वस्तियोगे"-इत्यादिना अभूततद्भावे विप्रत्ययः । “च्चो च" इति दीर्घः । स्त्रीपरिग्रहेऽपि ब्रह्मचारिवेषधारणं एक दूषणं, अपरं कथयतिवञ्चितः दाता दानशीलो बलिर्येन तथाभूतः, तृतीयं दोषमाह-कवीनां पण्डितानां कवेः शुक्राचार्यस्य च "संख्यावान् पण्डितः कविः”, “शुक्रो दैत्यगुरुः काव्य १ 'पृथ्वीमिष्टां. २ 'लेभे'. For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ विश्वगुणादर्शचम्पू:- [श्रीत्रिविक्रमविश्वा०-अभ्युपगच्छाम एव भवतः प्रौढगुणदोषीकरणपाण्डित्यम् । आस्तामेष श्लेषचमत्कारः, आकर्णय तावदेतत् यदाश्रितरक्षणाय पभेक्षणः स्वमहत्त्वाननुरूपमपि रूपमापेदे ॥ १२२ ॥ नित्योन्नतोऽपि निरपायरमाश्रयोऽपि __ दातापि हन्त बहुशो महतां पदानाम् ॥ खीकृत्य वामनवपुः श्रितमिन्द्रमीशः ___ पातुं पदत्रितयमत्र बलिं बिभिक्षे ॥ ३१० ॥ पुनः सभक्तिप्रकर्षम् । अत्रै हित्रैविक्रमस्त्रिपथगाजनकः स पादः पायात्पुरस्य मरुतां मरुतां निहन्ता ॥ उशना भार्गवः कविः" इत्युभयत्राप्यमरः । अपरं च असौ नाथः वामनः भूसुरो ब्राह्मणोऽपि सन् , भुवि भूमौ दानवत्वं दैत्यत्वं भुवः पृथिव्या दानं बलिकृतमस्यास्ति तस्य भावः तद्वत्त्वं च भेजे से वितवान् , इति क्षममेव युक्तमेवेति काकुः । एवं च चत्वारि दूषणानि तस्मिन् सन्तीति न स सत्प्रशंसाह इति भावः । अत्रापि निन्दायाः स्तुतावेव पर्यवसानमिति ज्ञेयम् ॥ ३०९ ॥ __ अभ्युपगच्छाम इति । भवतः त्वत्कृतमित्यर्थः। प्रौढानांप्रगल्भानामपि गुणानां दोषीकरणे वस्तुतो दोषत्वाभावेऽपि तदारोपे, एतदपि च्चिप्रत्ययान्तम् । पाण्डित्यं चातुर्य अभ्युपगच्छामःजानीम एव । अयं श्लेषचमत्कारः वस्तुतस्तु नैतदूषणमित्यर्थः । आस्ताम् । तत्त्वतस्तु पभेक्षणः कमललोचनः अयं आश्रितानां भक्तानां रक्षणाय रक्षणार्थ स्वमहत्त्वस्य अननुरूपं अयोग्यमपि रूपं बटुवामनाकारं आपेदे स्वीकृतवानिति यत् , तदेतदाकर्णय ॥ १२२ ॥ 'नित्यानपायिप्रमदः-' इत्यादिनोक्तस्यार्थस्यैव वास्तवत्वं प्रतिपादयतिनित्योन्नतोऽपीति । योऽयं त्रिविक्रमः नित्योन्नतः नित्यं महानपि, निरपायः विश्लेषरहितः रमाश्रयः लक्ष्म्याश्रयो यस्य सः तथाभूतोऽपि, महतां बहुशः बहूनां न तु द्वि-त्राणां "बह्वल्पार्थात्-" इत्यादिना विभक्त्यर्थे शस् प्रत्ययः । पदानां वैकुण्ठादिस्थानानां दातापि, अनेकपदमितभूभागानामित्यर्थोऽप्यनुसंधेयः । हन्तेति हर्षे । ईशः ईश्वरोऽपि श्रितं अङ्गीकृतं इन्द्रं पातुं रक्षितुं, वामनवपुः बटुशरीरं स्वीकृत्य गृहीत्वा, बलिं दैत्यं अत्र भूलोके बलियज्ञे वा, पदानां त्रितयं त्रिपदपरिमितां भूमिमित्यर्थः । बिभिक्षे ययाचे। भिक्षतेर्द्विकर्मकत्वात् बलिशब्दादपि कर्मणि द्वितीया॥३१०॥ विक्रमेति । त्रिपथगायाः गङ्गायाः जनकः उत्पादकः, अत एव मरुतां देवानां पुरस्य वर्गस्य मरुतां निर्जलदेशत्वं निहन्ता निवारकः, गङ्गोत्पत्तेः पूर्वं तत्र जला. १ एतन्न दृश्यते आदर्शपुस्तके'. For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २५] पदार्थचन्द्रिकाटीकासहिता। शम्भोः स्फुरन्मुकुटभूषणदानचुन्नुमम्भोनिधेः श्वशुरमाप्तगिरो यमाहुः ॥ ३११ ॥ अथ श्रीकामाक्षीदेवीवर्णनम् २५. इति किंचिदन्तरमतिक्रम्य । अत्र हि काञ्चीनगरविभूषा कामाक्षी कल्पमञ्जरी भजताम् ॥ रक्षा सुरसेनानां राजति शर्वस्य सर्वखम् ॥ ३१२ ॥ निरूप्य सविस्मयानन्दं कामाक्षीमामन्त्र्यदन्तश्रीस्तव दृश्यते यदि ततः कुन्दं न निन्दन्ति के वक्रं यद्यभिलक्ष्यते बुधजनश्चन्द्रं न संद्रक्ष्यते ॥ दृष्टे दृष्टियुगे पुनर्न विनुयाहालोऽपि नीलोत्पलम् सूक्तिश्चेदनुभूयते मधुरता कामाक्षि का माक्षिके ॥३१३ ॥ भावादिति भावः । त्रैविक्रमः स पादः चरण: पायात् नः सर्वान् रक्षतु । कथंभूतः सः। यं त्रैविक्रमपादं, आप्तगिरो वेदवाण्यः शंभोः स्फुरत् प्रकाशमानं यन्मुकुटभूषणं तस्य दानेन प्रसिद्धम् । शिवस्य गङ्गाशिरस्त्वादिति भावः । "तेन वित्तश्चुचुप्-चणपौ” इति प्रसिद्धार्थे चुचुप् प्रत्ययः । तथा अम्भोनिधेः समुद्रस्य श्वशुरं च, तस्य गङ्गाजानित्वात् । आहुः कथयन्ति । स इति संबन्धः ॥ ३११॥ काञ्चीति । काञ्चीनामकनगरस्य विभूषा अलंकाररूपा, भजतां सेवमानानांजनानां कल्पमञ्जरी कल्पवृक्षस्य वल्लरिः, सुरसेनानां देवसैन्यानां रक्षा रक्षणकर्तीत्यर्थः । शर्वस्य शिवस्य सर्वखं सर्वद्रव्यं, एतादृशी कामाक्षी एतन्नामिका देवी राजति शोभते ॥ ३१२ ॥ दन्तश्रीरिति । हे कामाक्षि देवि, तव दन्तानां श्रीः शोभा यदि दृश्यते ततः तद्दर्शनात् कुन्दं माध्यकलिकां, के जनाः न निन्दन्ति ? अपि तु सर्व एव निन्दन्तीत्यर्थः । एवमुत्तरत्राप्यूयम् । तथा तव व मुखं यदि अभिलक्ष्यते दृश्यते, तदा बुधजनः ज्ञानी नरः चन्द्रं न संद्रश्यते नैव पश्यति । तथा तव दृष्टियुगे लोचनयुग्मे दृष्टे सति । पुनः बालोऽपि किमुत प्राज्ञः नीलोत्पलं नीलकमलं न विनुयात् न स्तुयात् । तथा सुष्टु मधुरा उक्तिः वाणी अनुभूयते श्रूयते चेत् , तदा माक्षिके मधुनि मधुरता का ? अपि तु नास्त्येवेत्यर्थः । एवं तव सौन्दर्यस्याने सर्वमपि वस्तुजातं तुच्छमिति भावः । अत्र दन्तश्रीरित्यायुपमेयैः प्रसिद्धकुन्दाद्युपमानानां तिरस्कारप्रती १ 'शर्वस्य शर्वरी सुखदा', 'सर्वस्य सर्वस्वं'. २ 'दृष्टं दृष्टियुग'. ३ 'नीलोत्पले'. For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ विश्वगुणादर्शचम्पू:- [ श्रीकामाक्षीदेवीकृ०-यद्यपि विद्यते कामाक्ष्याः सर्वाभिनन्दनीयं सौन्दर्य तथापि मुधा तदिति प्रतिभाति ॥ १२३ ॥ तथाहिकान्तो विरूपाक्ष इति प्रतीतः कामस्य हन्ता गिरिराजपुत्र्याः ।। स्तम्बेरमास्यस्तनयोऽपि तस्या लम्बोदरः किंफलमाभिरूप्यम्॥३१४॥ अनयोः खल्वम्बिका-त्र्यबकयोर्दाम्पत्यमननुरूपमिति व्यक्तमेतत् ॥ १२४ ॥ इयं हि सर्वमङ्गला स तु श्मशानमन्दिरो विभाति हैमवत्यसौ स याति दिक्षु भिक्षुकः ।। तेः प्रतीपालंकारः । “आक्षेप उपमानस्य प्रतीपमुपमेयता । तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धना" इति तल्लक्षणात् ॥ ३१३ ॥ यद्यपीति । यद्यपि कामाक्ष्याः सर्वं त्वया वर्णितं अभिनन्दनीयं प्रशंसनीयं सौन्दर्य सुन्दरत्वं विद्यते, तथापि तन्मुधा व्यर्थ "व्यर्थके तु वृथा मुधा" इत्यमरः । इति प्रतिभाति ॥ १२३ ॥ मुधात्वमेवाह-कान्त इति । गिरिराजस्य हिमालयस्य पुत्र्याः पार्वत्याः कामाक्ष्या इति यावत् । कान्तः पतिः शिवः, विरूपे कुरूपे अक्षिणी, वस्तुतः विरूपाणि विषमाणि त्रीणीति यावत् । अक्षीणि लोचनानि यस्य सः तथाभूतः, कामस्य धर्मादिक्रमेण तृतीयपुरुषार्थस्य, मदनस्य चेति वस्तुतः हन्ता विनाशकः इति प्रतीतः प्रसिद्धः । तथा तनयः पुत्रोऽपि स्तम्बेरमास्यः गजाननः, स्तम्बेरमेत्यत्र "स्तम्बकर्णयो रमि-जपोः” इत्यच्प्रत्ययः "तत्पुरुषे कृति-" इति सप्तम्या अलुक् । "इभः स्तम्बेरमः पद्मी" इत्यमरश्च । लम्बोदरः बृहदुदरश्चेति प्रतीतः । तस्याः कामाक्ष्याः अभिरूपस्य योग्यमाभिरूप्यं सौन्दर्योचितमित्यर्थः । किंफलम् ? किमपि नास्तीति । अथवा तस्याः आभिरूप्यं किंफलं कुत्सितफलमित्यर्थः । विरुद्धसामग्रीप्रतीतेरिति भावः । वस्तुतस्तु शिवपत्नीत्वात् सकलविघ्नविनाशकगणाधिपमातृत्वाच्च तस्याः सौन्दर्य किं किमप्यनिर्वाच्यं फलं सिद्धिर्यस्य तत्तथाभूतमित्यर्थः । व्याजस्तुतिरलंकारः ॥ ३१४ ॥ __ अनयोरिति । अम्बिका कामाक्षी देवी च त्र्यम्बकः शंकरश्च तयोः दंपत्योर्जायापत्योः भावः दांपत्यं, पति-पत्नीमिथुनमिति भावः । अननुरूपमयोग्य, अस्तीति शेषः । इत्येतत् व्यक्तं स्पष्टमेव खलु ॥ १२४ ॥ तदेवाह-इयं हीति । इयं अम्बिका कामाक्षी देवी हि, सर्वाणि मङ्गलानि शुभानि यस्याः सा तथाभूता, अस्तीति शेषः । स त्र्यम्बकस्तु श्मशानं पितृवनं, शून्य -- १ 'इह'. For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २५] पदार्थचन्द्रिकाटीकासहिता । १७७ इयं तु कुङ्कुमाकिता स भस्मराशिरूषित स्त्वरालकुन्तला च सा जटाभिरेष भीषणः ॥ ३१५ ॥ वि०-वयस्य मैवं वादीः । न खल्वप्रशस्तैरप्यावास-वासःप्रभृतिभिः सांसिद्धिकमभिरूपाणामाभिरूप्येमपहीयते ॥ १२५ ॥ निवस्तां वा कृत्तिं निवसतु चिरं वा पितृवने शिवस्तावद्धत्तामहिगणमथाप्येष सुभगः ॥ परीतं शैवालैरुषितमपि पङ्केषु मलिना मलीनां बिभ्राणं किमिह कमनीयं न कमलम् ॥ ३१६ ॥ त्वात् श्मशानतुल्यं दहराकाशं च मन्दिरं, उपलब्धिस्थानं च यस्य सः तथोक्तः, असौ कामाक्षी तु हेम्नां सुवर्णालंकाराणां समूहः हैम, हेमपदं सुवर्णालंकारार्थे लाक्षणिक, समूहार्थेऽण् । तदस्यास्तीति तद्वती 'हिमवतोऽपत्यं हैमवतीति च । तादृशी विभाति विराजते । स शिवस्तु दिक्षु भिक्षति याचतीति निजभक्तकल्याणमभिवा छतीति च भिक्षुः स एव भिक्षुकः “सनाशंस-" इत्यादिना उप्रत्यये खार्थे कैः । तादृशः सन् याति परिभ्रमति । वस्तुतस्तु धनदादिसुहृत्त्वेऽपि नश्वरैश्वर्यवैतृष्ण्येनैव परमात्मलाभ इति द्योतनार्थ भिक्षुवृत्त्या परिभ्रमतीति । तथा इयं कामाक्षी तु कुङ्कुमेन केशर-कस्तूर्यादिसुगन्धद्रव्येण अङ्किता चिह्निता, सुगन्धिकुङ्कुमतिलकयुक्तेत्यर्थः । सः शिवः भस्मराशिना भस्मसमूहेन रूषितः विलिप्तः, तथा सा कामाक्षी अरालाः। कुटिलाः कुन्तलाः केशा यस्याः सा तथाभूता, सौभाग्यसूचककुटिलकेशयुक्तत्यर्थः । " अरालं वृजिनं जिह्म-" इति "चिकुरः कुन्तलो वाल: कचः केशः शिरोरुहः" इति चामरः । एष शिवश्च जटाभिः कदाप्यसंस्कृतत्वात् परस्परसंसक्तकेशैः, नियमाथे तैलादिसंस्काररहिततया केवलं जलप्रक्षालनमात्रसंस्कृतकेशैरिति तु परमार्थः । भीषणः भयंकरः । प्रापञ्चिकानां, न तु परमार्थविदामिति तत्त्वार्थः ॥ ३१५ ॥ अथ विश्वावसुः प्रकृतिसिद्धविभूतीनां महात्मनां न खलु वासोऽलंकारादि भूषणमिति द्योतयन्नाह-वयस्येति । भो वयस्य मैवं वादीः, कुतइति चेदाहअभिरूपाणां ज्ञानिनां आवासः वसतिस्थानं वासो वस्त्रं च तत्प्रभृतिभिः तत्प्रमुखैः सांसिद्धिक स्वभाव सिद्धं आभिरूप्यं सौन्दर्य न अपहीयते न विनश्यति । खलु निश्चयेन ॥ १२५॥ निवस्तामिति । शिवस्तावत् कृत्तिं गजचर्म "अजिनं चर्म कृतिः स्त्री" इत्यमरः। निवस्तां परिदधातु परिधानं करोत्वित्यर्थः । वाथवा चिरं बहुकालं पितृवने श्मशाने निवसतु वासं करोतु । वाथवा अहीनां सर्पाणां गणं समूहं कटककुण्डलादिरूपेण धत्तां धारयतु । अथापि तथापि एषः शिवः सुभगः शोभनैश्वर्यसंपन्न एव । १ 'अप्रशस्तैरपि वास-कृत्तिवासःप्रभृतिभिः'. २ 'अवहीयते'. ३ 'तदपि'. For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८ विश्वगुणादर्शचम्पू:- [श्रीकामाक्षीदेवीकिंच रमणीयः स हि पुरुषो रमणी यत्रैव रज्यति विदग्धा ॥ श्लोकः स एव सुभगश्चित्तं सक्तं हि यत्र रसिकस्य ॥ ३१७ ॥ अवधार्यतामत्रैतदतिमात्रं चित्रम् ॥ १२६ ॥ शिवाक्ष्यालोकितः कामो जित इत्येव शुश्रुम ।। व्यत्यासोऽत्रजितो यस्मात् कामाक्ष्यालोकतः शिवः ॥ ३१८ ॥ पुष्कलं किल पुत्रभाग्यमपि पर्वतराजकन्यायाः ॥ १२७ ॥ अत्र दृष्टान्तमाह-कमलं शैवालैः परीतं वेष्टितं, पङ्केषु कर्दमेषु उषितं स्थितमपि, मलिनां कृष्णवर्णत्वेन मलयुक्तानां अलीनां भ्रमराणां बिभ्राणं धारकमपि, अलीनामित्यत्र कर्मणः शेषत्वविवक्षायां षष्ठी। “ कर्तृ कर्मणो:-" इति प्राप्तायाः षष्ठ्याः "न लोक-" इत्यादिना निषेधात् । तत् इहलोके कमनीयं सुन्दरं न किम् ? किंतु 'किमिव हि मधुराणां मण्डनं नाकृतीनाम्' इति कालिदासोक्तन्यायेन तदतीव सुन्दरमिति भावः ॥ ३१६ ॥ किंच शिवे पार्वत्याः प्रेमातिशयदर्शनादेव तत्सौन्दर्यमवगन्तव्यमिति कथयतिरमणीय इति । स हि स एव पुरुषः रमणीयः सुन्दरः । स कः । यत्रैव यस्मिन् पुरुषे एव विदग्धा चतुरा रमणी स्त्री रज्यति रमते, स इति सम्बन्धः । अत्र दृष्टान्तः-यत्र श्लोके रसिकस्य अलंकारादिसाहित्यसंपन्नस्य, चित्तं सक्तं संलग्नं, स एव श्लोकः पद्मं सुभगः मनोहरः इति ज्ञेयम् ॥ ३१७ ॥ __ अवधार्यतामिति । अत्र शिवाम्बिकाविषये एतदतिमात्रं अतिशयितं चित्रमाश्चर्य अवधार्यताम् निश्चीयताम् ॥ १२६ ॥ शिवेति । शिवस्य अक्ष्णा ललाटस्थतृतीयनेत्रेणेत्यर्थः । आलोकितः दृष्टमात्र एव कामो मदनः जितः इत्येव शुश्रुम पुरा शृणुमः । अत्र तु व्यत्ययः वैपरोत्यं वर्तते । यस्मात् कामस्य मदनस्य अक्ष्णः आलोकतः शिवः जितः । वस्तुतः कामाक्ष्या देव्याः आलोकतः जितः इत्यर्थः । इदमेव श्लेषार्थजन्यं चित्रमिति भावः ॥ ३१८ ॥ एतावता ' कान्तो विरूपाक्ष-' इत्याद्यर्थदूषणं परिहृतं, इदानीं 'स्तम्बेरमास्यस्तनयः-' इत्यादिनोक्तस्य दृषणस्य परिहारार्थमुत्तरमाह-पुष्कलमिति । पर्वतराजस्य हिमालयस्य कन्यायाः भगवत्याः अम्बिकायाः पुत्रभाग्यमपि पुष्कलं बहुलं, अस्तीति शेषः ॥ १२७ ॥ १ 'लोकतः'. २ 'जितः काञ्चयां'. For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता.। १७९ यतः-- कुशलीभनाथवत्रः पुत्रः प्रथमो हिमाद्रितनयायाः ।। पञ्चास्यापितुरधिकः षडाननो नन्दनो द्वितीयोऽस्याः ॥३१९ ॥ अथ श्रीमदेकानेश्वरवर्णनम् २६. इत्यन्यतः किंचित्परिक्रामन् सामोदम्शशाङ्कमौलिः सहकारमूले कैलासवासी स इहाविरासीत् ।। यस्याग्निभूर्दृक् च तनूभवश्च योषाऽपिभूषाऽपि च नागराजी॥३२०॥ कु०--वयस्य किं वर्णयसि विश्वविलक्षणचारित्रं रुद्रम् ? लोके हि लोचनशैत्यसंपिपादयिषया यतमानान् जनानेव पश्यामः । अयं तु पशुपतिः स्थाणुरिति वाहृयमन्वर्थयन्निवें आशुशुक्षणिमक्ष्णि निक्षिप्तवान् ॥ १२८ ॥ कुशलीति । हिमाद्रितनयायाः भगवत्याः पार्वत्याः, भानां नक्षत्राणां नाथश्चन्द्रः सइव वक्रं मुखं यस्य, इभनाथस्य गजेन्द्रस्य च मुखं यस्य स इति च, कुशली प्रशस्तकल्याणयुक्तः प्रथमः पुत्रः अस्ति । अस्याः द्वितीयो नन्दनस्तु पश्चास्यात् पञ्चमुखयुक्तात् पितुः शिवादपि अधिकः एकाननमात्रेणेवेत्यर्थः । षडाननः स्कन्दः अस्ति ॥ ३१९ ॥ अथ तस्मिन्नेव देशे स्थलान्तरवर्णनार्थमुपक्रमते कविः-इतीत्यादि । परिक्रामन् गच्छन् । सामोदं सानन्दम् शशाङ्कमौलिरिति । कैलासवासी कैलासपर्वताधिष्ठाता सः प्रसिद्धः शशाङ्कश्चन्द्रः मौलौ मस्तके यस्य तथाभूतः शिवः, इह काञ्चीनगर्यो सहकारस्य आम्रवृक्षस्य मूले आविरासीत् प्रकटीबभूव । स कीदृशः । यस्य शिवस्य अग्निर्भवत्युत्पद्यते यस्याः सा तथाभूता दृक् दृष्टिः तृतीयनेत्रमित्यर्थः । अग्नेर्भवतीत्यग्निभूश्च तनूभवश्व पुत्रोऽपि वर्तते । स षडानन इस्यर्थः । “पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः" इत्यमरः । तथा भूषा भूषणं चापि, नागानां सर्पाणां राजी पङ्क्तिः, योषा पत्नी चापि नगराजस्य पर्वतराजस्य हिमालयस्य अपत्यं स्त्री कन्या नागराजी, पार्वतीत्यर्थः । वर्तते । स तादृश इति संबन्धः ॥ ३२० ॥ वयस्येति । हे वयस्य, विश्वविलक्षणं लोकविरुद्धं नश्वरजडप्रपञ्चासतजनविलक्षणमित्यर्थः । चारित्रं आचरणं यस्य सः सततमात्मलीनत्वात् । तं रुद्रं किं वर्ण १ 'आविरास्ते'. २'च आह्वय'. ३ 'अन्वर्थयनिह'. For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८० विश्वगुणादर्शचम्पू:- [श्रीमदेकानेश्वर वि०-अवधेहि तावदभिधास्यामि रहस्यम् ॥ १२९ ॥ अङ्गानुषङ्गोदितशीतबाधामिन्दोर्बुसिन्धोश्च समन्वयेन ॥ हर्तु वहत्यग्निमयीं तृतीयां हरो हसन्तीमिव हन्त दृष्टिम् ॥ ३२१॥ कृ०-हन्त तर्हि तुहिनकिरणशकलसुरसरिझरीशिशिरशिरसस्त्रिपुरहरस्य कथमभिषेकप्रियता ? ॥ १३०॥ ततश्चगङ्गातरङ्गावलिभिः सुधांशोः सुधाझरैश्चानिशमामूर्ध्नः ॥ वृऑभिषेकं कलयन्ति शम्भोस्तृप्ताय तोयस्यै ददत्यपः के ॥३२२ ॥ यसि ? हि यतः लोके लोचनयोः शैत्यसंपिपादयिषया शीतत्वसंपादनेच्छया यतमानान् यत्नं कुर्वाणान् जनान् पश्यामः अवलोकयाम एव । अयं रुद्रस्तु पशूनां गवादीनां "अहमेव पशूनामधिपतिः” “सर्वे देवास्तु पशवो ब्रह्म-विष्ण्विन्द्रपूर्वकाः । प्रोक्तस्तेषां पतिर्यस्मादतः पशुपतिः स्मृतः ।" इति श्रुति-स्मृत्यादिपर्यालोचनया पशूनां देवानां पतिः खामीति च, स्थाणुः शुष्कवृक्षः, “सर्ववैकारिकलये स्थाणुस्तिष्टति येन सः" इति स्मृतेः प्रलयोत्तरमपि स्थितिमान् इति च, इत्येतद्वयं खस्य आह्वयं नाम अन्वर्थयनिव यथार्थ कुर्वनिव आशुशुक्षणिं अग्निं "अग्मिः-" इत्यतः “शिखावानाशुशुक्षणिः” इत्यमरः । अक्षिण लोचने निक्षिप्तवान् ॥ १२८॥ __ अवधेहीति । तावत् साकल्येन रहस्यं गौप्यं अभिधास्यामि कथयामि अवधेहि ॥ १२९ ॥ __ अङ्गानुषङ्गेति । इन्दोश्चन्द्रस्य युसिन्धोः गङ्गायाश्च समन्वयेन संबन्धेन अङ्गेषु सर्वावयवेषु अनुषङ्गा प्रसरन्ती उदिता उत्पन्ना या शीतबाधा शीतपीडा तां हर्तु दूरीकर्तुं अयं शिवः अग्निमयीं अग्निप्रचुरां तृतीयां दृष्टिं हसन्ती अङ्गारधानीमिव "अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि" इत्यमरः । वहति धारयति । हन्तेत्यानन्दे ॥ ३२१॥ पुनरपि सपरिहासं दोषान्तरमाह-हन्तेति । हन्तेति खेदे । यद्येवं तर्हि तुहिनकिरणश्चन्द्रः तस्य शकलं कलात्मकं खण्डं, सुरसरितः गङ्गायाः झरी प्रवाहस्तेन शिशिरं शीतलं शिरः यस्य तस्य त्रिपुरहरस्य शिवस्य अभिषेकस्य प्रियता कथम् ? ।। १३०॥ उक्कामाशङ्कामेव द्रढयति-गङ्गेति । गङ्गायास्तरङ्गावलिभिः ऊर्मिपङ्क्तिभिः सु. धांशोश्चन्द्रस्य सुधाझरैः अमृतप्रवाहैश्च अनिशं सततं आर्द्रमूर्ध्नः क्लिनमस्तकस्य शंभोः' तद्भक्ता इति शेषः । अभिषेकं रुद्रसूक्तादिमन्त्रस्नानं वृथा कलयन्ति कुर्वन्ति । यतः तोयस्य जलपानेनेत्यर्थः । “कर्तृ-कर्मणोः कृति" इति षष्टी । तृप्ताय अप १ ‘अङ्गानुषङ्गामति', 'गङ्गानुषङ्गोदितशीतबाधाम्'. २ तदन्वयेन'. ३ 'सुरसरिद्वरशिशिरशिरस'. ४ 'मुधा'. ५ तोयेन'. For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता। १८१ वि०-अत्रापि युक्तमुत्तरं व्याहरामि ॥ १३१॥ ज्वलनाकलनाद्विषस्य पानाद्विषभाजां वहनाच्च तप्तमूर्तेः ।। अनिशं त्रिदशापगाधरस्याप्यभिषेकप्रियता शिवस्य जाता ॥ ३२३ ॥ कृ०-अस्त्विदमैथाप्यन्यदपि न युज्यते । किमसौ विहाय विहायसं संततं शङ्करशिरसि गङ्गातरङ्गान्तः प्रतिवसति मृगाङ्कः कृशाङ्गः ॥ १३२ ॥ वि०-शृणु सखे तत्र कारणम् ॥ १३३ ॥ शिवशिरसि शीतभानुः सागरसूनुत्वसूचनाय परम् ॥ अधिवसति तन्महिष्या गङ्गाया जठरमल्पतनुरेषः ।। ३२४ ।। कृ०-तथापि लुब्ध एष फलप्रेप्सुभिरनादृत्यः ॥ १३४ ॥ उदकानि पुनः पातुमित्यर्थः। के ददति प्रयच्छन्ति ? अपि तु केऽपि नैव ददतीत्यर्थः ॥ ३२२॥ अत्रापीति । अत्राभिषेकविषयेऽपि युक्तं समर्पकमेवोत्तरं व्याहरामि कथयामि ॥१३१॥ किं तदित्यपेक्षायामाह-ज्वलनेति । ज्वलनस्य ललाटस्थतृतीयनेत्रामेः आकलनात् स्वीकारात्, विषस्य कालकूटसंज्ञकस्य पानात् प्राशनात् , विषभाजां सर्पाणां । कटककुण्डलाद्यलंकारत्वेन वहनाद्धारणाच हेतोः तप्ता संतप्ता मूर्तिः शरीरं यस्य तस्य शिवस्य अनिशं संततं त्रिदशापगायाः गङ्गायाः धरस्य धारकस्यापि सतः, अभिषेकप्रियता जाता ॥ ३२३ ॥ अस्त्विति । इदं अभिषेकसंबन्धि कथनं अस्तु तिष्ठतु अथापि अन्यत् इदं वक्ष्यमाणमपि न युज्यते । तत्किम् ? असौ मृगाङ्कश्चन्द्रः कृशाङ्गः अल्पशरीरः सन् विहायसमाकाशं विहाय त्यक्त्वा, संततं शंकरशिरसि गङ्गायास्तरङ्गाणामन्तः मध्ये किं कुतो हेतोः प्रतिवसति ? ॥ १३२॥ शिवशिरसीति । एषः शीतभानुश्चन्द्रः सागरस्य समुद्रस्य सूनुत्वसूचनाय पुत्रत्वज्ञापनायेव, गम्योत्प्रेक्षेयम् । परमत्यन्तं अल्पतनुः कृशशरीरः सन् शिवशिरसि शंकरमस्तके तस्य समुद्रस्य महिष्याः स्त्रियाः गङ्गायाः जठरमुदरं अधिवसति अधितिष्ठति । “अधिशीङ्-स्थासाम्-" इत्याधारस्य कर्मसंज्ञा ॥ ३२४ ॥ अन्यदपि दूषणमुद्घाटयति-तथापीति । तथापि गङ्गा-चन्द्रादियुक्तत्वे सत्यपि एषः शिवः लुब्धः लोभयुक्तः आदिकिरातश्च, फलप्रेप्सुभिः फलं स्वर्गापवर्गादिरूपमिच्छुभिः अनादृत्यः न आदरणीयः ॥ १३४ ॥ १'हरस्य'. २ 'अस्त्वेवमथाप्यन्यदप्यनुयुज्यते'. For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ . विश्वगुणादर्शचम्पू:- [श्रीमदेकानेश्वरतथाहि[सौवर्णभूधरमपि खकरे निधाय भिक्षां कपालभृदिहाटति कृत्तिवासाः ॥ . आस्तामिदं वयमसौ परिगृह्य लुब्धो लक्ष्मीपतिं तमपि मार्गणयांचकार ॥ ३२५॥ सूक्ष्मसितांशुकलाभेऽप्यपटो हैमधरपदनिविष्टोऽपि ॥ लुब्धोऽयमयोहस्तस्तण्डुलसत्त्वेऽप्यटत्यहो भिक्षाम् ॥ ३२६ ॥] अत्यल्पमिदमुच्यते । यच्छङ्करसङ्गाद्गङ्गायामपि जीवनदायिन्यां संक्रान्ता तद्गता लुब्धता ॥ १३५॥ पश्यमुक्ताश्रिता विष्णुपदोदितापि गाङ्गेयमुत्पाद्य वसुप्रकृष्टम् ॥ प्राप्यापि रत्नाकरनित्यसङ्ग कपर्दिकाशां न जहाति गङ्गा ॥ ३२७ ॥ लुब्धत्वमेवोपपादयति-सौवर्णेति । असौ शिवः सौवर्णभूधर मेरुमपि खकरे निधाय खायत्तीकृत्वा । वस्तुतस्त्रिपुरासुरवधे धनूरूपेणोपादाय इह लोके कृत्तिवासाः च. मवसनः, कपालभृत् नरकपालधारकश्च सन् , भिक्षां भिक्षार्थमित्यर्थः । अटति परिभ्रमति । इदं वयं भिक्षापरिभ्रमणं आस्ताम्, परं च असौ लक्ष्मीपतिं श्रीविष्णुमपि खयं परिगृह्य वीकृत्य लुब्धः अधिकधनाभिलाषयुक्तः, तमपि विष्णुमपि मार्गणयांचकार मा. र्गणं याचकं वस्तुतःशरं कृतवान्।मार्गणशब्दात् “तत्करोति-" इति णिच् । प्रक्षिप्तमिदं पद्यमिति प्रतिभाति । बहुषु पुस्तकेष्वनुपलम्भात् ॥ ३२५ ॥ सूक्ष्मेति । अयं शिवः लुब्धः आदिकिरातश्च सन् , सूक्ष्मस्य सितस्य शुभ्रस्य च अंशुकस्य वस्त्रस्य लाभे सत्यपि, पक्षे सूक्ष्माः सिताः शुभ्राश्च अंशवः किरणा यस्य स सूक्ष्मसितांशुकश्चन्द्रः “शेषाद्विभाषा" इति कप्प्रत्ययः । तस्य लाभे सत्यपीति च। अपटः वस्त्ररहितः दिगम्बरश्च सन् , हैमधरे सौवर्णधारके पदे स्थाने पक्षे हिममेव हैमं तस्य धारके हिमालये च निविष्टः स्थितोऽपि सन् अयो लोहमयपात्रं शूलं च हस्ते यस्य सः तथाभूतः, तथा तण्डुलानां सत्त्वं अस्तित्वं, तण्डुर्नृत्याचार्यः लक्षणया तत्प्रोक्तं शास्त्रं नृत्यं वा तेन लसताति तस्य भावस्तत्त्वं च तस्मिन् सत्यपि अहो इत्याश्चर्ये । भिक्षां अटति भिक्षार्थे परिभ्रमति ॥ ३२६ ॥ अतीति । किंच इदं वक्ष्यमाणं अत्यल्पं अतिसूक्ष्मं गुह्यमित्यर्थः । उच्यते । यत् शंकरस्य सङ्गात् संबन्धात् जीवनं जलं प्राणनं च ददाति तच्छीलायां, नान्तत्वान्डीपू । सत्यामपि गङ्गायां तद्गता शिवगतालुब्धता संक्रान्ता मिलिता ॥ १३५॥ लुब्धतामेवोपपादयति-मुक्ताश्रितेति । इयं गङ्गा मुक्तेः अर्थात् संसारात्, मुक्ताभिमौक्तिकैश्च आश्रितापि, विष्णोर्भगवतः पदात् आकाशाच्च “वियद्विष्णुपदं वा १ इदं पधं नोपलभ्यते आदर्शपुस्तके, अन्येषु पुस्तकेषु च । केवलं मुद्रितैकस्मिन्नत्रत्यपुस्तके दृश्यते. २ 'लाभो'. ३ 'अन्यदल्प'. ४ पदादुदीता'. For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता । १८३ अन्यच्चसर्वतोमुखसमृद्धिजुषोद्यत्पौण्डरीकघनवासनयाऽपि ॥ यत्तयोप्यवधि जहुमखस्तत्सत्रघातिचिरसंगतिदोषात् ॥ ३२८ ।। पुनर्विमृश्यईशः करस्थीकृतकाञ्चनाद्रिः कुबेरमित्रं रजताचलस्थः ॥ तथापि भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः॥३२९॥ तु पुंस्थाकाश-विहायसी" इत्यमरः । उदिता उत्पन्नापि, प्रकृष्टं उत्तमं गाङ्गेयं वर्णप्रचुरं वसु धनं, पक्षे वसुषु अष्टवसुषु प्रकृष्टं श्रेष्ठं गाङ्गेयं भीष्मं च "देवभेदेऽनले रश्मौ वसू रत्ने धने वसु" इत्यमरः । “गाङ्गेयं भर्म कर्बुरम्" इति च सुवर्णनामसु । उत्पाद्य प्रसूय, रत्नानां मणीनां आकरेण खनिना समुद्रेण च सह, निसं सङ्गं प्राप्य लब्ध्वापि, कपर्दिकाशां वराटिकाशां, कपर्दिनः शंकरस्य के मानि च "क वारिणि च मूर्धनि" इत्यमरः । आशामभिलाषं न जहाति न त्यजति । अहो तस्या भक्तिरिति तत्त्वम् ॥ ३२७ ॥ सर्वत इति । सर्वतोमुखानां यज्ञविशेषाणां उदकानां च "पुष्करं सर्वतोमुखम्" इत्युदकनामखमरः । समृद्धिजुषा आधिक्ययुक्तयापि तथा उद्यतां प्रफुल्लानां उत्पन्नानां च, पुण्डरीकाणि कमलान्येव पौण्डरीकाणि तेषां पौण्डरीकाणां कमलसमूहानां वा । खार्थे समूहे वाण् । यज्ञविशेषाणां च धनवासनया अतिसुगन्धयुक्तया बहुसंस्कारवत्यापि च तया गङ्गयापि, जहोर्मुनेः मखः यनः अवधि विनाशितः। हन्तेर्धातोः कर्मणि लुङि वधादेशः चिण् च । इति यत् यज्ञविघातरूपं कर्म, स. घातिनः दक्षयज्ञविनाशकस्य शिवस्य चिरसंगतेः बहुकालसहवासस्यैव दोषात् । अन्यथा यज्ञवासनायुक्तायां तस्यां तदसंभवात् ॥ ३२८ ॥ __ अपि च ईश इति । यद्यपि ईशः शिवः करस्थीकृतः त्रिपुरविनाशसमये चापरूपेण हस्तस्थः कृतः, हस्ते धृत इत्यर्थः । काञ्चनाद्रिः मेरुपर्वतो येन सः, करखीकृत इत्यपि पाठान्तरम् । तथा कुबेरस्य मित्रं सुहृत्, रजताचले रौप्यमये कैलासपर्वते तिष्ठतीति तथाभूतः अस्ति । तथापि ईदृशसंपत्तिमत्त्वेऽपि अस्य शिवस्य भिक्षाटनं जातं प्राप्तम् । तस्मात् कुटिले वामे वक्रे च विधौ दैवे। भोगसूचकरेषायामिति यावत् । चन्द्रे च, “विधिविधाने दैवेऽपि", "विधुः सुधांशुः शुभ्रांशुः" इत्युभयत्राप्यमरः । शिरःस्थे सति, कुतः श्रीः संपत् ? अपि तु दुर्लभवेत्यर्थः । वस्तुतस्तु 'नहि खात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ३२९ ॥ १ 'वनवासनया'. २ 'व्यवधि'. ३ 'करस्वीकृत'. For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ विश्वगुणादर्शचम्पू:- [श्रीमदेकानेश्वर किं च___ एष विरुद्धधर्मा कृत्तिवासाः कुतः स्तोतव्यः ? ॥ १३६ ॥ शृणु तावत्धत्ते महो मूर्ध्नि तदौषधीशमौषर्बुध भालतलेऽङ्गकेषु ॥ . फणीन्द्रमौलिस्थमणि प्रसूतं हरोऽधकारित्वमथाप्युपैति ॥ ३३० ॥ अपि चतारकारि वहन्नके मस्तके तारकाधिपम् ॥ अङ्गीकुर्वन्सुदृशमप्यलीकाक्षो विभात्ययम् ॥ ३३१ ॥ विश्वावसुः-किमेभिः शब्दश्लेषैकशरणैर्दूषणैरस्य खलु मृत्युंजयस्य विश्वस्तुत्यमसदृशं वदान्यत्वम् ॥ १३७ ॥ नैतावदेव, किंतु परस्परविरुद्धधर्मवस्तुपरिग्रहत्वमपि तस्मिन्नाह-एष इति । एष शिवः विरुद्धधर्मा विरुद्धाचरणशीलः कृत्तिवासाः चर्मवस्त्रः कुतः स्तोतव्यः॥१३६॥ तदेवोपपादयति-धत्त इति । हरः मूर्ध्नि मस्तके तत् प्रसिद्धं ओषधीश चन्द्रसंबन्धि महस्तेजो धत्ते धारयति, भालतले कपालस्थलोचने इत्यर्थः । उषर्बुधस्य अग्नेः इदं औषर्बु, अग्निसंबन्धीत्यर्थः । “बर्हिः शुष्मा कृष्णवा शोचिष्केश उषर्बुधः।" इत्यग्निनामखमरः । तेजो धत्ते, शीतत्वप्राप्त्यर्थं चन्द्रधारणे कृते पुनरुष्णधर्माग्निधारणं विरुद्धमिति भावः । एवमग्रेऽपि यथायथमूह्यम् । तथा अङ्गान्येवाङ्गकानि तेषु सर्वावयवेष्वित्यर्थः । फणीन्द्रस्य शेषस्य मौलिस्थमणे: प्रसूतं उत्पन्न महः धत्ते । तथापि अन्धकारः ध्वान्तं अस्यास्तीत्यन्धकारी तस्य भावः अन्धकारित्वं, पक्षे अन्धको नाम दैत्यः तस्य अरित्वं शत्रुत्वं च उपैति प्राप्नोति ॥ ३३०॥ अन्यदपि तारकारिमिति । अङ्के उत्सङ्गे "उत्सङ्ग-चिह्नयोरङ्कः” इत्यमरः। तारकारिं तारकासुरस्य शत्रु स्कन्द, मस्तके च तारकस्य, तारकाणां नक्षत्राणां च अधिपं चन्द्रं च वहन्धारयन् , तथा सुदृशं शोभनां दृष्टिं, सुलु शोभने दृशौ लोचने यस्याः सा तां पार्वती च, अङ्गीकुर्वन् खीकुर्वन् वामभागेऽर्धाङ्गीकुर्वन्नित्यपि च, अलीके ललाटे अप्रियस्थले च "अलीकमप्रियेऽपि स्याद्गोध्यससे नपुंसकम् ।” इति मेदिनी । “ललाटमलिकं गोधिः" इत्यमरश्च । अक्षि नेत्रं यस्य सः अयं शिवः विभाति विरुद्ध प्रकाशते, विशेषेण दीप्यते इति चापि ॥ ३३१॥ ... पुनः समाधत्ते-किमिति । एभिः शब्दश्लेषैकशरणैः शब्दश्लेषकावलम्बैः दूषणैर्दोषैः किम् ? किंतु अस्य प्रसिद्धस्य मृत्युंजयस्य शिवस्य वदान्यत्वं दातृत्वं विश्वस्तुत्यं सर्वैरपि स्तोतुं योग्यं, अत एव असदृशं अन्यादृशं अनन्यसाधारणमिति यावत् । अस्तीति शेषः । खलु निश्चयेन ॥ १३७ ॥ १ 'जड'. २ 'दोषैरस्य'. ३ 'अन्यादृशं'. For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता । १८५ दीर्घायुर्मुनिसूनवे स्म ददते दिव्यं तथाऽभीष्टदम् .. . प्रख्याताय भगीरथाय भगवत्पादामृतं प्राददात् ॥ पापेभ्योऽपि च बाण-पतिवदनप्रैष्ठेभ्य इष्टं फलम् प्रादात्तस्य शिवस्य भाति जगदाह्रादाय वादान्यकम् ॥ ३३२ ॥ कृ०–तदेतद्व्याहतं भाषितम् । यन्महादेवस्य वादान्यकं जगैदाझादायेति ॥ १३८ ॥ यतःदत्त्वा वरं दानवराक्षसेभ्यो विश्वस्य च खस्य च यो विषादम् ॥ संपादयामास शशाङ्कमौलितृत्वमेतस्य तवैव हृद्यम् ॥ ३३३ ।। वि०-कुटिलधिषण, गुणमपि दोष इति घोषयति भवान् ॥१३९॥ तदेवोपपादयति-दीर्घायुरिति । यः शंकरः मुनेः मृकण्डोः सूनवे पुत्राय मार्कण्डेयाय दीर्घायुः चिरंजीवित्वं ददते स्म ददौ । 'दद दाने' इत्यस्माद्धातोर्लटि रूपम् । तथा प्रख्याताय खचारित्र्यप्रसिद्धाय भगीरथाय एतन्नाम्ने राज्ञे अभीष्टदं इच्छितफलप्रदं दिव्यं भगवतो विष्णोः पादसंबन्धि अमृतं जलं गङ्गारूपं प्रादात् दत्तवान् । तथा बाणः बलिपुत्रः पतिवदनः रावणश्च तो प्रष्ठौ मुख्यौ येषु तेभ्यः पापेभ्यः पापरूपेभ्यो दैत्येभ्योऽपि, इष्टमभीष्टं फलं प्राददात् समर्पितवान् । तस्य शिवस्य वादान्यकं दातृत्वं जगतः आह्लादाय आनन्दाय भाति विराजते ॥ ३३२ ॥ पुनरपि दोषमाह-तदेतदिति । तदेतत् त्वयोक्तं भाषितं व्याहतं व्याघातरूपदोषयुक्तं भवति । किं तत् । यत् महादेवस्य वादान्यकं जगतः आहादाय इत्युक्तं तत् ॥ १३८ ॥ कथं व्याहतं भवतीत्येतदेवोपपादयति-दत्त्वेति । यः शशाङ्कमौलिः शिवः दानवा दैत्याश्च राक्षसाश्च तेभ्यः वरं इच्छितफलप्राप्तिरूपं दत्त्वा, विश्वस्य खस्य च विषादं दुःखं संपादयामास । रावणादिसदृशेभ्यो वरदानात् जगतः, भस्मासुरादिसदृशेभ्यश्च खस्यापि दुःखोत्पादनात् । तस्मादेतस्य शिवस्य दातृत्वं तवैव हृद्यं मनोहरं, न तु सर्वस्येत्यर्थः ॥ ३३३ ॥ कुटिलेति । कुटिला वक्रा धिषणा बुद्धिर्यस्य तत्संबुद्धौ हे कुटिलधिषण, भवान् गुणमपि दोष इति घोषयति उच्चारयति ॥ १३९ ॥ १ 'पापिभ्यो'. २. प्रेष्ठेभ्यः'. ३ 'आहत'. ४ 'आह्वादयति'. ५ 'मौले. For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ विश्वगुणादर्शचम्पू:- श्रीमदेकानेश्वरतथाहिदैत्येभ्यो न वरान् स दास्यति यदि त्र्यक्षो मुहुस्तर्हि ते नाशक्ष्यन्भुवनानि पेष्टुमुदयं नाप्स्यद्दया शार्जिणः ॥ नोदायिष्यत मानुषादिषु हरि! सेतु-गीतादिकम् प्रारप्स्यद्भगवान् भवार्णवममी नालयिष्यन्नराः ॥ ३३४ ॥ किंच पम्पातरङ्गशिशिरानिलडिम्भजात__कम्पाम्रनिष्पतितपुष्परसाभिषिक्तः ॥ संपादयत्यतुलसंपदमर्थिनोऽनु कम्पासुधाम्बुधिरयं पतिरम्बिकायाः ॥ ३३५ ॥ पुनर्निरीक्ष्य सश्लाघम् अल्पोऽपि काच्यामावासादासादयति गौरवम् ॥ यत एतत्पुरःस्थाणुगिरीश इति गीयते ॥ ३३६ ॥ दैत्येभ्य इति । सः त्रीणि अक्षीणि नेत्राणि यस्य सः शिवः दैत्येभ्यः वरान् यदि न दास्यति, तर्हि ते दैत्याः मुहुर्वारंवारं भुवनानि त्रीन् लोकान् पेष्टुं चूर्णयितुं नाशक्ष्यन् समर्था नाभविष्यन्, ततश्च शाङ्गिणो विष्णोः दया उदयमुत्पत्तिं नाप्स्यत् न प्राप्स्यत् । ततोऽपि मानुषादिषु आदिशब्देन मत्स्य-वराहादीनां ग्रहणम् । हरिः श्रीविष्णुः नोदायिष्यत न प्रकटोऽभविष्यत्, ततः भगवान् सेतुः रामावतारे लङ्कागमनसमये समुद्रे रचितः, गीता कृष्णावतारे भक्तमर्जुनं प्रति कथिता भगवद्गीता च ते आदी यस्य तत् सेतुगीतादिकं, नो प्रारप्स्यत् नारचयिष्यत् । भवतु नाम तथा, का वा हानिरित्याशङ्कायामाह-अमी नरा मनुष्याः भवार्णवं संसारसमुद्रं नालयिष्यन् । अत्र “लिङिमित्ते लड्-" इत्यादिसूत्रेण शकआप्ल-उदाङ्पूर्वाय. प्राङ्पूर्वरभ-लघिधातुभ्यः क्रियातिपत्तौ लङ् । तत्रायतेरात्मनेपदम् । ददातेस्तु लडे. व । क्वचित् तत्र 'वरानदास्यत' इत्यपि पाठान्तरं दृश्यते ॥ ३३४ ॥ पम्पेति । पम्पा नाम श्रीमदेकानेश्वरसमीपस्थं सरः तस्य तर लहरीभिः शिशिराः शीतला ये अनिलस्य वायोः डिम्भाः शिशवः मन्दवायव इत्यर्थः । तैः जातः कम्पो येषां ते ये आम्रा रसालवृक्षाः तेभ्यः निष्पतितः निर्गलितो यः पुष्परसो मकरन्दः तेन अभिषिक्तः, अनुकम्पा दया एव सुधा अमृतं तस्याः अम्बुधिः समुद्रः अपरिमितदयावानित्यर्थः । अयमम्बिकायाः पतिः श्रीमदेकानेश्वरः अर्थिनः याचकजनसमूहस्य अतुलां संपदं संपादयति ॥ ३३५ ॥ अल्पोऽपीति । अल्पोऽपि पदार्थः काभ्यां नगर्यामावासाद्वसतेहेतोः गौरवं मह१ 'अदास्यत यदि'. २ 'भुवनस्य'. ३ 'प्रामन्स्यत्'. ४ 'कम्पा'. ५ पुरी'. For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता। १८७ कृशानु:-अन्योन्यविरुद्धस्वभावाभ्यां देवाभ्यामाकान्तामेनां नगरौं किं विनौषि? ॥ १४० ॥ देवौ द्वावधिकाञ्चि पश्य लसतः प्राची-प्रेतीच्याशयो___ स्तत्रैकः कुरुते विनायकमधश्चित्रं पुरश्चापरः ॥ एको नित्यमनष्टमूर्तिरितरः ख्यातोऽष्टमूर्तिर्जग त्येको वारितवान् गजातिमचिराईत्ते गजाति परः ॥३३७॥ त्वं आसादयति संपादयति । यतो यस्मात् कारणात् एतस्मिन् काञ्चीसंज्ञके पुरे नगरे तिष्ठतीति तत्स्थः स चासावणुश्च एतत्पुरस्थाणुः अणुमात्रः, एतस्मिन् पुरे स्थाणुः शिवः श्रीमदेकानेश्वरसंज्ञकश्च, गिरीशः पर्वताधिपः कैलासाधिपश्च इत्येवं. प्रकारेण गीयते स्तूयते ॥ ३३६ ॥ काच्यामपि दोषोद्धाटनार्थमुपकामति-अन्योन्येति । अन्योन्यविरुद्धः परस्परविरोधी स्वभावः ययोस्ताभ्यां देवाभ्यां विष्णु-शिवाभ्यामाकान्तामधिष्ठितामेनां काञ्ची नगरी किं कथं विनौषि ? 'णु स्तुतौ' इत्यादादिकस्य रूपम् । “उतोवृद्धिः-" इति वृद्धिः ॥ १४॥ अन्योन्यविरुद्धखभावत्वमेवोपपादयति-देवाविति । द्वौ देवौ वरदराजैकानेश्वरसंज्ञौ विष्णु-शंकरौ अधिकाञ्चि काश्च्यां नगर्यो, विभक्त्यर्थेऽव्ययीभावः । “अव्ययीभावश्च" इति नपुंसकत्वम् । प्राची पूर्वा च प्रतीची पश्चिमा च ते आशे दिशौ तयोः, प्राच्या प्रतीच्यां च दिशीत्यर्थः । लसतः शोभते । तत्र तयोर्द्वयोर्मध्ये एकः वरदराजः वीनां पक्षिणां नायको गरुडस्तं अधः अधोभागे कुरुते करोति, वाहनत्वे. नेलर्थः । अपरःश्रीमदेकानेश्वरस्तु विनायकं गणपतिं पुरः अग्रभागे कुरुते धत्ते, पुत्रत्वात् । एकः वरदराजः नित्यं अनष्टमूर्तिः अष्टमूर्तिन भवति । वस्तुतस्तु नष्टा नाशं प्राप्ता मूर्तिः खरूपं यस्य सः तथा न भवतीति, अविनाशिस्वरूप इत्यर्थः । इतरः एकामेश्वरश्च अष्टौ भूरादिपञ्चमहाभूतानि चन्द्र-सूर्य-यज्वानश्चेति त्रयः एवं मूर्तयः यस्य तथाभूतः जगति ख्यातः प्रसिद्धः । तथा एकः गजस्य सरःस्थगजेन्द्रस्य आति पीडां नक्रकृतां अचिरात् शीघ्रं वारितवान् । परः अन्यस्तु गजस्य गजासुरस्याति पीडां धत्ते करोति । अत्र भावदर्पणकृता 'गजस्य आति चर्म धत्ते धारयति' इति यदुकं तदविचाररमणीयमेव । यत आतिशब्दस्य चर्मवाचकत्वं क्वापि कोशादौ नोपलभ्यते। एतच्चित्रमाश्चर्य पश्य । कचित् 'रत्या' इति पाठान्तरं दृश्यते । तत्पक्षे अगजायाः हिमालयोत्पन्नायाः पार्वत्याः आति काममयीं पीडां रत्या सुरतेन वारितवान् इत्यर्थः । एतदेव पाठान्तरमादृत्य भावदर्पणकृता व्याख्यातम् । परं चैतस्मात् 'धत्ते' इत्येव पाठान्तरं युक्तमिति भाति 'वारितवान्' इत्येतदपेक्षया तस्यैव खारस्यादित्याकलयन्तु सुधियः ॥ ३३७ ॥ १ विरुद्धधर्मस्वभावाभ्यां'. २ 'विस्तौषि'. ३ 'प्राचीप्रतीच्यन्तयोः'. ४ 'रत्या'. For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ विश्वगुणादर्शचम्पू:- [श्रीमदेकानेश्वर यद्वा काञ्चीनाम्नि पुरे सुरेन्द्रमहिते प्राक्पश्चिमोद्देशयो. श्चित्रं दैवतयोश्चिरं निवसतो रीतिविरुद्धा मिथः ।। एको हि द्विजराजमप्यधरयत्यन्यस्तमुत्तंसय त्यनौ हन्त बिभर्ति कश्चिदपरः स्वे मूर्धनि वधुनीम्॥३३८॥ विरुद्धदेवाक्रान्तकाञ्चीनगरसमागमाद्वारणधराधरोऽप्येवम् ॥ १४१॥ तथाहि भेत्ता गोप्ता च हरिर्महासवजुषो हिरण्यगर्भस्य ॥ भयकृदिभस्याभयकृन्मूलाञ्चलयोश्चकास्ति हस्तिगिरेः ।। ३३९ ॥ अयं चापरो दोषःदरानुषङ्गं च गदान्वयं च त्यक्तुं जना ये निवसन्ति काञ्च्याम् ।। दन्तावलाद्रीश्वरमाश्रितास्ते देहक्षये तो नियतं भजन्ते ॥ ३४० ॥ पक्षान्तरेणापि तदेवोपपादयति-काञ्चीनानीति । सुरेन्द्रेणेन्द्रेण महिते पूजिते काञ्चीनाम्नि पुरे नगरे, प्राक्पश्चिमोद्देशयोः पूर्वपश्चिमदिशोरित्यर्थः । चिरं बहुकालं निवसतोः वासं कुर्वतोः दैवतयोः वरदराजैकानेश्वरयोः मिथः परस्परं विरुद्धा रीतिः आचारः। हि यस्मात् एकः वरदराजः द्विजराजं पक्षिराजं ब्राह्मणराजं चापि, अधरयति वाहनत्वेनाधरीकुरुते तिरस्करोति च । अन्यः एकामेश्वरस्तु तं द्विजराजं चन्द्रं उत्तंसयति पूजयति शिरोभूषणत्वेन खीकरोति च । हन्तेत्याश्चर्ये । कश्चिदेकः स्वधुनीं गङ्गां अङ्गौ चरणे बिभर्ति धारयति, अपरः खे मूर्धनि मस्तके च खर्धनी बिभर्ति । एतद्वा चित्रमाश्चर्य पश्यति पूर्वेणान्वयः ॥ ३३८॥ .. अपि च विरुद्धति । विरुद्धौ यौ देवौ वरदराजैकानेश्वरौ ताभ्यामाकान्तमधिष्ठितं यत्काञ्चीनगरं तस्य समागमात् संबन्धाद्धेतोः वारणधराधरः हस्तिशलोपि एवं विरुद्धाचार एव ।। १४१ ॥ भेत्तेति । अयं हरिः श्रीवरदराजरूपः महांश्वासौ आसवः मद्यं महांश्चासौ सवो यज्ञश्च तं जुषत इति तज्जुषः नित्यं मद्यपायिनोऽश्वमेधादिसदृशमहायज्ञकर्तुश्वेत्यर्थः । हिरण्यं चासौ गर्भश्च तस्य हिरण्यकशिपोरित्यर्थः । हिरण्यगर्भस्य ब्रह्मणश्व भेत्ता विनाशकर्ता गोप्ता रक्षिता च । तथा इभस्य हिरण्यकशिपुरूपस्य गजेन्द्रस्य च भयकृत् भीत्युत्पादकः, अभयकृञ्च भयविनाशयिता च हस्तिगिरेः मुलाञ्चलयोः मूले शिखरे चेत्यर्थः । चकास्ति प्रकाशते ॥ ३३९ ॥ अपरमपि दोषं कथयति-दरानुषङ्गमिति । ये जनाः दरस्य भयस्य अनुषङ्गं १ 'सुरेश'. २ 'यद्धि'. ३ 'भूधरो'. ४ 'छेत्ता गोप्ता च हरो हरिः सब, भत्तास्ति'. ५ 'दारानुषङ्ग'. For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता । १८९ वि०-सखे मैवं संभाषिष्ठाः, यत एकरूपदैवतमिदं नगरमिति समर्थ्यते । शृणु तावत् ॥ १४२ ॥ फणिपतिसरस्फुरन्तीभनायकधरोत्तमाङ्गशोभितनुः ।। भवहरिसंज्ञा काञ्योः पूर्वापरयोर्हि देवता जयति ॥ ३४१ ॥ अन्यच्चास्य नगरस्य भूषणमेव न तु दूषणम् ॥ १४३ ॥ इत्यन्यत्र दृष्टिमादाय सानन्दम्अहो खलु ममाद्य पचेलिमं भागधेयम् ॥ १४४ ॥ यतः... सुरयौवतोपगीतः प्रातः पद्माननो मुनिध्यातः ॥ व्यासकृतौ यः ख्यातः पाण्डवदूतः स दृक्पथं नीतः ॥३४२॥ संबन्धं, गदस्य रोगस्य अन्वयं स्पर्श च त्यक्तुं हातुं काञ्चयां नगर्या वसन्ति, ते जनाः दन्तावलाद्रीश्वरं हस्तिशैलाधिपतिं वरदराजमित्यर्थः । "दन्ती दन्तावलो हस्ती" इत्यमरः । आश्रिताः सन्तः, देहक्षये देहावसाने जाते सति तौ दरानुषङ्गगदान्वयौं भगवत्सारूप्यात् पाञ्चजन्याभिधशङ्खस्य कौमोदकीत्याख्यगदायाश्च संबन्धमित्यर्थः । नियतं नियमेन निश्चयेनेत्यर्थः । भजन्ते सेवन्ते ॥ ३४० ॥ अथ समाधत्ते-सख इति । हे सखे, मैवं संभाषिष्टाः पूर्वोक्तदोषयुक्तभाषणं मा कुरु। यतो यस्मात्कारणात् एकरूपे अभिनखरूपे दैवते वरदराज-एकानेश्वररूपे यस्मिन् तथाभूतमिदं काञ्चीसंज्ञकं नगरं इत्येवं समर्थ्यते साध्यते। मयेति शेषः ॥ १४२ ॥ तमेव प्रकारं दर्शयति-फणिपतीति । फणिपतिसरसि तन्निकटवर्तिनि अनन्तसरोवरे स्फुरन्ती प्रकाशमाना अर्थाद्वरदराजरूपा, फणिपतीनां साधिपानां सरैः हारैः स्फुरन्तीति च एकामेश्वरसंज्ञकशिवरूपेत्यर्थः । इभनायकधरस्य हस्तिशैलस्य उत्तमाङ्गे शिरसि शिखरे इत्यर्थः । भानां नक्षत्राणां नायकश्चन्द्रः तस्य धरेण धारकेणोत्तमाङ्गेन शिरसा च शोभिनी तनुः शरीरं यस्याः सा, भवः हरिश्च इति संज्ञे नामनी, भवं संसारं हरन्ति तथाभूताश्च संज्ञाः वरदराज-राम-कृष्णादिनामानि च यस्याः सा देवता पूर्वा चापरा च तयोः विष्णु-शिवसंज्ञयोरित्यर्थः । काभ्योः जयति हि जयत्येव । एवं चेदं नगरमेकरूपदैवतमेवेति भावः ॥ ३४१॥ __ अथ तत्रस्थपार्थसारथिभगवद्वर्णनं सूचयन्नाह–अन्यच्चेति । अस्य नगरस्य काञ्चीनगरस्य भूषणमेव ॥ १४३ ॥ __ अहो इति । आश्चर्ये । ममाद्य पचेलिमं फलाभिमुखं “तव्यत्तव्यानीयरः" इति सूत्रस्थेन “केलिमर उपसंख्यानम्" इति वार्तिकेन केलिमप्रत्ययः । भाग्यम् दैवम् ॥ १४४ ॥ सुरेति । सुरयौवतेन देवस्त्रीसमूहेन । समूहार्थेऽण् । “गणिकादेतु १ 'हर'. २ 'स्फुटतरपद्मासनामुनि'. For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [श्रीमदेकानेश्वरकृ०-अनुचितकर्मासौ किमर्थमनुवर्ण्यते ॥ १४५ ॥ सकलजगतामीशानोऽपि खयं विगतश्रिया मिदमनुचितं दूतो जातो यदेष पृथाभुवाम् ॥किमिह महतां हृद्या खद्योतपोतनिकेतने चिरमधिपतेर्भासां दासानुदासतया स्थितिः ॥ ३४३ ।। वि०-पुरोभागिन् , भगवद्गुणेषु दोषमनीषया भवानेव दुष्यति ॥ श्रूयतामेतत् ॥ १४६ ॥कवित्वस्य गाम्भीर्यमौदार्यमृद्धेः प्रभुत्वस्य शौर्य गुरुत्वस्य विद्याम् ॥ महावंश्यतायाःसदाचारपूर्ति महत्त्वस्य सौलभ्यमाकल्पमाहुः ॥३४४॥ गाणिक्यं गार्भिणं यौवतं गणे" इत्यमरः। सुरयुवतीनां समूह इति विग्रहः । उपगीतः प्रशंसितः, प्रातः प्रभातकाले मुनिभिः सनकादिभिः ध्यातः अनन्यमनसा चिन्तितः, यश्च व्यासस्य कृतौ महाभारते ख्यातः नायकत्वेन प्रसिद्धः सः पद्माननः कमलमुखः पाण्डवानां दूतः भगवान् श्रीकृष्णः, दृक्पथं दृष्टिपथं नीतः प्रापितः । मया दृष्टः इत्यर्थः ॥ ३४२॥ तं दूषयति-अनुचितेति । अनुचितानि अयोग्यानि कर्माणि यस्य सः असौ पाण्डवदूतः किमर्थमनुवर्ण्यते स्तूयते । त्वयेति शेषः ॥ १४५ ॥ अनुचितकर्मत्वमेव प्रतिपादयति-सकलजगतामिति । यत् यस्मात् कारणात् एष श्रीकृष्णः स्वयं सकलजगतां त्रयाणामपि लोकानामित्यर्थः । ईशानोऽधि. पतिरपि सन् , विगता कपटद्यूते विनष्टा श्रीः राज्याद्यैश्वर्य येषां तेषां पृथाभुवां कुन्तीपुत्राणां पाण्डवानां दूतः जातः इदमेव अनुचितमयोग्यम् । अत्र दृष्टान्तमाहभासां कान्तीनामधिपतेः सूर्यस्य खद्योतपोतानां ज्योतिरिङ्गणशिशूनां निकेतने गृहे। "यानपात्रे शिशौ पोतः” इत्यमरः । दासानां सेवकानां अनुदासः तस्य भावो दासानुदासता तया तद्रूपेणेत्यर्थः । स्थितिः सापि चिरं बहुकालपर्यन्तं, इह लोके महतां किं हृद्या मनोहरा भवति ? अपि तु नैवेत्यर्थः ॥ ३४३ ॥ पुरोभागिन्निति । हे पुरोभागिन् दोषैकदर्शिन् , भगवतो गुणेषु दोषमनीषया दोषबुद्ध्या भवानेव दुष्यति ॥ १४६ ॥ कवित्वस्येति । कवित्वस्य काव्यरचनस्य गाम्भीर्य अर्थबाहुल्यालंकारादिसं.. पन्नत्वेन गभीरत्वं आकल्पं भूषणमाहुः । ऋद्धेः संपत्तेः औदार्य दातृत्वं आकल्पं प्रभुत्वस्य आधिपत्यस्य शौर्य शूरत्वं, गुरुत्वस्य आचार्यत्वस्य विद्या, महावंश्यतायाः सद्वंशोत्पन्नत्वस्य सदाचारेण सत्कर्माचरणेन पूर्ति परिपूर्णतां, महत्त्वस्य सर्वजनश्रेष्ठत्वस्य सौलभ्यं सुलभत्वं सर्वेषामपि जनानां सहजदर्शनत्वमिति यावत् । सर्वत्र आकल्पमित्यनुसंधेयम् ॥ ३४४ ॥ For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता । इत्यपरत्र विमानमानयन् सानन्दम् । अत्र हिविकचरुचिरपुण्डरीकषण्डद्युतिमदमोचनलोचनप्रभावः ॥ जयति विजयराघवः स देवः शुचितरगृध्रसरोवरोपकण्ठे ३४५ किंच. सम्पातिसोदरसरस्तटसंप्ररूढो भात्यद्भुतो विजयराघवपारिजातः ॥ शाखाततेरुपरि सद्भिरुदीक्ष्यते यो __ यस्याध एव सकलः सुमनःप्रपञ्चः ॥ ३४६ ॥ पुनः सभक्तिप्रकर्ष जनानुद्दिश्यभो भो भुक्तिमुक्तिप्रेप्सवः, इदं शृण्वन्तु भवन्तः ॥ १४७ ॥ अथ विजयराघववर्णनमुपसूचयन्नाह-विकचेति । विकचं विकासितं अत एव रुचिरं सुन्दरं यत्पुण्डरीकषण्डं श्वेतकमलवृन्दं "पुण्डरीकं सिताम्भोजम्" इत्यमरः । तस्य द्युतिमदं कान्तिगर्व मोचयतीति तथाभूतः लोचनयोः प्रभावो यस्य सः, सः त्रिलोकी विश्रुतः विजयराघवो देवः शुचितरस्य अतीव पवित्रस्य गृध्रसरोवरस्य एतदाख्यतीर्थस्य उपकण्ठे अन्तिके "उपकण्ठान्तिकाभ्यर्णाभ्यग्ना अप्यभि. तोऽव्ययम्" इत्यमरः । जयति सर्वोत्कर्षण वर्तते ॥ ३४५ ॥ सम्पातीति । सम्पातेः सोदरस्य बन्धोर्जटायुषः संबन्धि सरः गृध्रतीर्थमित्यर्थः । तस्य तटे तीरे संप्ररूढः उत्पन्नः अद्भुतः आश्चर्योत्पादकः विजयराघवः एतत्संज्ञको भगवानेव पारिजातः वृक्षः भाति शोभते । अद्भुतत्वमेव प्रपञ्चयति-लोके हि वृक्षस्योपरितनभागे शाखाः संभवन्ति । यः अयं विजयराघवस्तु सद्भिः सज्जनैः शाखानां वृक्षस्कन्धानां वेदशाखानां आश्वलायनापस्तम्ब-बौधायनादीनां च ततः उपरि ऊर्ध्वभागे उपनिषत्सु च उदीक्ष्यते अवलोक्यते । तथा लोके वृक्षशाखाले पुष्पाण्युद्भवन्ति । यस्यास्य विजयराघवस्य तु, अध एवाधोभागे एव सकल: संपूर्णः सुमनसां पुष्पाणां प्रपञ्चः विस्तारः उदीक्ष्यते अवलोक्यते । एतेन “ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।" इति भगवद्गीतोक्तार्थः स्मारितः । तत्र अश्वत्थरूपकमत्र च पारिजातरूपकमियानेव भेदः ॥ ३४६ ॥ भो भो इति । भो भो इति संबोधने । भुक्तिश्च मुक्तिश्च ते प्रकर्षेण ईप्सन्ति इच्छन्ति ते तथाभूता हे जनाः, इदं वक्ष्यमाणं शृण्वन्तु भवन्तः ॥ १४७ ॥ १ 'एषः'. २ 'भक्ति'. For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ विश्वगुणादर्शचम्पू:- [श्रीमदेकानेश्वर- . विश्रुताश्रितवात्सल्यं वीरं विजयराघवम् ॥ नमस्कुरुत यो गृधं समस्कुरुत दाहतः ॥ ३४७ ॥ अत्र च गृध्रपतिक्षेत्रे विश्वप्रसिद्धा काचिद्वैचित्री ॥ १४८ ॥ तनयार्थनया समागताभिस्तरुणीभिः परिभर्जिताश्च मुद्गाः ॥ दृढमङ्कुरमत्र देवशक्त्या सममासां पुलकाङ्कुरैः फलन्ति ॥ ३४८ ॥ कृ०-निजरूपमहिमाननुरूपस्थितिरसौ विजयराघवःकिमीड्यते ? १४९ शुकस्तुतो हंसमयूरवाहमुखप्रगीतो गरुडासनोऽसौ ॥ क्षीराब्धितीरावसथोऽपि वासं करोत्यहो गृध्रसरोऽन्तिकेऽस्मिन् ॥३४९॥ किं तदित्यपेक्षायामाह-विश्रुतेति । यो विजयराघवः गृ– जटायुषं दाहतः दहनेन समस्कुरुत संचस्कार । तस्य दाहादिसंस्कारांश्चक्रे इत्यर्थः । "संपरिभ्यां करोतौ भूषणे" इति सुडागमः स च "अडभ्यासव्यवायेऽपि" इत्युक्तत्वात् तथ्यवधानेऽपि । अत एव विश्रुतं प्रसिद्धं आश्रितेषु भक्तेषु वात्सल्यं प्रेम यस्य सः तं वीरं शौर्यादिगुणयुक्तं विजयराघवं नमस्कुरुत । यूयं सर्वे इति शेषः ॥ ३४७ ॥ अत्र चेति । अत्र गृध्रपतिक्षेत्रे जटायुषस्तीर्थे इत्यर्थः । विश्वप्रसिद्धा काचित् चित्ताहादकीं वैचित्री आश्चर्यम् ॥ १४८ ॥ वैचित्रीमेवाह-तनयार्थनयेति । अत्र विजयराघवक्षेत्रे तनयानां पुत्राणां अर्थनया प्रार्थनया समागताभिः प्राप्ताभिः तरुणीभिः वन्ध्यस्त्रीभिः परिभर्जिताः भक्षणार्थ पाचिताः मुद्गाः देवस्य विजयराघवस्य शक्त्या सामर्थ्येन आसां स्त्रीणां पुलकाङ्कुरैः रोमाञ्चोद्गमैः समं सह, दृढमत्यर्थं यथा तथा अङ्करं फलन्ति उत्पादयन्ति । भर्जितधान्यस्य कुत्राप्यकुरासंभवात्तदेवात्राश्चर्यमिति भावः ॥ ३४८ ॥ निजेति । निजस्य आत्मनः रूपस्य यो महिमा माहात्म्यं तस्य अननुरूपा अयोग्या स्थितिः रीतिर्यस्य सः असौ विजयराघवः किं कुतो हेतोः ईज्यते स्तूयते ? । त्वयेति शेषः ॥ १४९ ॥ कथं वाननुरूपस्थितिरित्याकालायामाह-शुकस्तुत इति । यो विजयराघवः शुकेन कीरेण शुकाचार्येण योगिना च स्तुतः, हंसश्च मयूरश्च तौ वाही वाहने ययोस्तौ ब्रह्म-षडाननौ मुखं मुख्यौ येषां तैरिन्द्रादिदेवैः प्रगीतः प्रकर्षेण वर्णितः, पुनश्च गरुडासनः क्षीराब्धितीरे क्षीरसागरतीरे आवसथं स्थानं यस्य तथाभूतोपि सन् , असौ विजयराघवः अस्मिन् गृध्रसरसः गृध्रतीर्थस्य अन्तिके तीरे वासं करोति । अहो अतीवायुक्तमेतदित्यर्थः । श्लेषमूलकविरोधाभासोऽत्रालंकारः । भक्तत्वाद्धेऽपि वात्सल्यप्रतीतेश्चालंकारस्य ध्वनिमात्ररूपत्वम् ॥ ३४९ ॥ १ 'राघवः'. २ 'गृध्रसरस्तीरे'. For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २७ ] पदार्थचन्द्रिकाटीकासहिता । १९३ वि०-तदेतद्दयापयोनिधेरस्य भूषणमेव न तु दूषणम् ॥ १५० ॥ तत्ताडगुत्तमपदे तमसः परस्तादस्तामयैरतुलसूरिभिरर्चतोऽपि ॥ अत्राविरस्ति हरिरेष चिरंनराणांदृष्टिंकृतार्थयितुमेव दृढानुकम्पः३५० अथ क्षीरनदीवर्णनम् २७. इति दक्षिणतो विमानं प्रस्थापयन् सहर्षम्इयं हि गङ्गा-सिन्धु-सरखती-भवहरातुङ्गा-पतङ्गात्मजा__रङ्गाभ्याशतरङ्गिणीदधतत्यङ्गारभङ्गावहा ।। शुग्धाराशमनी मनीषिजनतारब्धावगाहा मुहु र्मुग्धानामपि शुद्धबुद्धिजननी दुग्धापगा दृश्यते ॥ ३५१ ।। तदेतदिति । तदेतत्त्वया वर्णितं दयापयोनिधेर्दयासागरस्यास्य विजयराघवस्य भूषणमेव न तु दूषणम् ॥ १५० ॥ तदिति । तमसः अज्ञानस्य परस्तात् परस्मिन् “दिक्छब्देभ्यः सप्तमी-पञ्चमी-प्रथमाभ्यः-" इत्यादिसूत्रेण सप्तम्यर्थेऽस्तातिप्रत्ययः । तत्तादशि तथाविधप्रसिद्धे उत्तमपदे वैकुण्ठे अस्तामयैर्दोषरहितैः अत एव अतुलसूरिभिः अनन्यसदृशैः विद्वद्भिः सनक-नारदप्रभृतिभिः अर्चितः पूजितोऽपि सन् , दृढानुकम्पः सततभक्तप्रेमवान् , एषः हरिविजयराघवरूपः, अत्र गृध्रसरसि चिरं बहुकालं आविरस्ति प्रकटो वर्तते इति यत् , तत् नराणां मनुष्याणां दृष्टिं नेत्रं, जातावेकवचनम् । सफलयितुं खदर्शनेन सफलीकर्तुमेव ॥ ३५० ॥ __ अथ क्षीरनदीवर्णनार्थमुपक्रमते-गङ्गेति । गङ्गासिन्धुर्गङ्गा नदी अथवा सिन्धुनानी अन्या नदी, सरस्वती, भवहरा संसारनाशिनी तुङ्गा, पतङ्गस्य सूर्यस्य । “पतौ पक्षि-सूर्यो च" इत्यमरः । आत्मजा यमुना "कालिन्दी सूर्यतनया यमुना” इति चामरः । रङ्गाभ्याशे रङ्गनाथक्षेत्रसमीपे या तरङ्गिणी नदी कावेरी च ता इव तद्वत् । अधानां पापानां ततिः परम्परैव अङ्गाराः दाहकत्वात् उल्मुकानि "अङ्गारोऽलातमुल्मुकम्” इत्यमरः । तेषां भङ्गावहा नाशसंपादयित्री, तथा शुचां दुःखानां धारायाः पतेः शमनी विनाशयित्री मुहुर्वारंवारं मनीषिजनतया विद्वत्समूहेन आरब्धाः उपक्रान्ताः अवगाहाः स्नानानि यस्यां सा तथाभूता, मुग्धानां मूर्खाणामपि “मुग्धः १ एतत् कचिन्नास्ति'. २ 'अस्तामयेऽप्य'. ३ 'आविरास'. ४ 'वदघहा गम्भीरभङ्गा'. ५ शुद्धि'.. १७ For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HClary विश्वगुणादर्शचम्पू:- [क्षीरनदी मम दुग्धनदी धनदीकृतमजन्मानवा नवाम्भोमिः ॥ बुधजातनुता तनुतां तनुतां तनुतापहद्धनाघानाम् ॥ ३५२ ॥ कृ०-भवत्वेवमथाप्यस्याः क्षीरतरङ्गिण्या विधिना कृता विरसता ॥ १५१ ॥ कालुष्यलेशविधुरा मधुराऽपि पयोनदी ॥ रोचते साधवे युक्ता नो चेल्लवणसिन्धुना ॥ ३५३ ॥ वि०-गुणमपि भणसि दोषतया ॥ १५२ ॥ यतःक्कचन समागतसिन्धुनि धुनीजले साधुनि स्नानम् ॥ पङ्कविलोपं कलयति संघटयति श्रियमिति स्मरन्ति बुधाः॥३५४॥ सुन्दर-मूढयोः” इति कोशः । शुद्धां निर्मलां बुद्धिं जनयति उत्पादयतीति तज्जननी दुग्धापगा क्षीरनदी दृश्यते ॥ ३५१ ॥ ममेति । नवानि च तानि अम्भांसि उदकानि च तैर्धनदीकृताः पूर्वं दरिद्राः सन्तः कुबेरवद्धनाढ्याः कृताः मजन्तः खस्यां अवगाहमानाः मानवा यया सा, बुधानां जातेन समूहेन नुता स्तुता, तनोः शरीरस्य तापहृत् संतापही, दुग्धनदी क्षीरनदी, मम सबन्धिनां घनाघानां महापापानां तनुतां क्षीणत्वं, तनुतां करोतु, पापानि विनाशयत्वित्यर्थः ॥ ३५२ ॥ भवत्विति । एवं त्वदुक्तप्रकारं भवतु अस्तु, अथापि अस्याः क्षीरतरङ्गिण्याः क्षीरनद्याः विधिना दैवेन विरसता रसरहितता अनास्खाद्यतेत्यर्थः । कृता ॥ १५१॥ कालुष्येति । कालुष्यस्य मालिन्यस्य लेशेन लवेनापि विधुरा रहिता सत्यपि, मधुराऽपि पयोनदी क्षीरनदी, लवणसिन्धुना क्षारसमुद्रेण युक्ता नो चेन भवेद्यदि तर्हि साधवे सज्जनाय रोचते लवणसंसृष्टक्षीरपानस्य धर्मशास्त्रनिषिद्धत्वादिति भावः॥३५३॥ वचनेति । समागतः संगतः सिन्धुः समुद्रः येन तस्मिन्, अत एव साधुनि पवित्रतया शोभने क्वचन कस्मिन्नपि धुनीजले नद्याः उदके स्नानं पङ्कस्य पापस्य कर्दमस्य च विलोपं नाशं कलयति संपादयति । श्रियं संपत्तिं च संघटयति उत्पादयति । इत्युक्तप्रकार, बुधाः स्मरन्ति जानन्ति । क्वचित् 'धियं' इति पाठान्तरं, तत्पक्षे उत्तमां बुद्धिमित्यर्थः । अत्र च "समुद्रगानदीनानं नराणां शुद्धबुद्धिदम्" इति स्मृतिरप्यनुकूला ॥ ३५४ ॥ १ "कृद्धनाघानां'. २ 'नीरसता'. ३ 'सिन्धुजले'. ४ 'थिय'. - - - - For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २८ ] पदार्थचन्द्रिकाटीकासहिता । अथ बाहानदीवर्णनम् २८. किंचिद्दक्षिणतोऽभिक्रम्यमोहादिदोषरहितां तटवासिदेहि व्यूहाय कामपि मतिं महती दिशन्ती ॥ खाहाकरोति दुरितानि शुभप्रवाहा बाहानदी बुधसमूहकृतावगाहा ॥ ३५५ ॥ अस्याश्चोत्तरतीरे श्रोत्रियोत्तंसनिवासयोग्यः समग्रगुणोऽसावग्रहारः संलक्ष्यते पश्य ॥ १५३ ॥ कर्णानन्दकरस्फुरन्मधुकरव्याहारबाहापगा रोषःशाखिमरन्दतुन्दिलपयःकल्याणकुल्यावृतः ॥ आत्रेयान्वयविद्वदध्वरहविर्गन्धानुबन्धार्पित क्षेमो भात्यरशाणिपाल इति हि ग्रामोऽभिरामो भुवि॥३५६॥ अथ बाहानदी वर्णयति-मोहेति । तटयोस्तीरयोर्वासिनां वसतिं कुर्वतां देहिनां प्राणिनां व्यूहाय समूहाय, मोहादिदोषरहितां, आदिशब्देन लोभादीनां ग्रहणम् । कामप्यनिर्वाच्यां, महतीं स्वर्गापवर्गादिमहाफलप्रदामित्यर्थः । मतिं ज्ञानं दिशन्ती ददती । बुधसमूहकृतावगाहा पण्डितजनवृन्दकृतनाना बाहानदी शुभप्रवाहा मङ्गलकरप्रवाहा, दुरितानि पापानि खाहाकरोति विनाशयतीत्यर्थः ॥ ३५५ ॥ ___ अस्या इति । अस्याः बाहानद्याः उत्तरे तीरे श्रोत्रियोत्तंसानां अमिहोत्रिश्रेष्ठानां निवासयोग्यः समग्राः संपूर्णा गुणाः कुशसमित्समृध्यादयो यस्मिन् असौ अग्रहारः ब्राह्मणखामिको ग्रामः । अस्तीति शेषः ॥ १५३ ॥ कर्णेति । कर्णानन्दकराः श्रोत्रयोरानन्दजनकाः स्फुरन्तश्च मधुकराणां व्याहाराः उक्तयो गुजार रूपा इत्यर्थः । येषु तेषां बाहापगायाः रोधसि तटे ये शाखिनो वृक्षास्तेषां संबन्धिभिः मरन्दैस्तुन्दिलस्य परिपूर्णस्य पयसः जलस्य कल्याणाभिः कुल्याभिः कृत्रिमसरिद्भिः 'कालवा' इति महाराष्ट्रभाषाप्रसिद्धरित्यर्थः । वृतः वेष्टितः। अत्रेच्नेरयं आत्रेयः स चासौ अन्वयः वंशः येषां तेषां विदुषां अध्वरेषु यज्ञेषु हविषां पुरोडाश-वपादीनां गन्धस्य अनुबन्धेन संबन्धेन अर्पितं दत्तं क्षेमं कुशलं यस्य सः । अभिरामः मनोहरः भुवि 'अरशाणिपाल' इति तन्नामकः ग्रामः भाति प्रकाशते । हि प्रसिद्धौ। अयं कवेरग्रहारः केनचिद्राज्ञा विद्याचरणादिसंतुष्टेन समर्पित इति बोध्यम् ॥ ३५६ ॥ १ 'शुभप्रवाहै'. For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [बाहानदीकिंच साध्वग्रे-सरयूपेतः साकेतनगरश्रियम् ॥ अग्रहारो विभात्येष रघुनाथाभिरक्षितः ॥ ३५७ ॥ किंचिद्विमानमुन्नमय्य नद्योः पार्श्वद्वयमवलोक्य सश्लाघम् चारुगुणैः सन्मणिभिर्जुष्टा बाहानदी-पयखिन्योः ॥ उपकूलमग्रहारा उदग्रहारा इवावनेर्भान्ति ॥ ३५८ ॥ कृ०-अमून् ग्रामान् कथंकारमग्रहारान् प्रचक्षते ॥ . सुवृत्तमुक्तारहिता यदेनानाश्रिता जनाः ॥ ३५९ ॥ विश्वावसुः-सखे भवता स्तुतिरेवैषां भङ्गयन्तरेण कृतेति मृप्यामि तुष्यामि च ॥ १५४ ॥ साध्विति । साधुषु मध्ये अग्रेसराणां श्रेष्ठानां आत्रेयगोत्राणां यूपैः यज्ञपशुबन्धनस्तम्भैः इतः प्राप्तः, पक्षे साधु अग्रे सरय्वा नाम नद्या उपेतः, रघुनाथेन श्रीरघुनाथदीक्षितेन कवेः पित्रा, श्रीरामेण च अभिरक्षितः एष अग्रहारः साकेतस्य अयो. ध्यायाः श्रियं शोभा वहति धारयति ॥ ३५७ ॥ किंचिदिति । उन्नमय्य ऊर्ध्वं नीत्वा, नद्योः बाहा-क्षीरनद्यो: चार्विति । चारवः गुणाः दया-दाक्षिण्यादयः सूत्राणि च येषां तैः सतां साधूनां मणिभिः श्रेष्ठैः, पक्षे सद्भिरुत्तमैः मणिभी रत्नैश्च जुष्टाः युक्ताः बाहानदी-पयखिन्योः बाहानदी-क्षीरनद्योः कूलानां तीराणां समीपे इत्युपकूलं, सामीप्येऽव्ययीभावः। "कूलं रोधश्च तीरं च" इत्यमरः । अग्रहाराः, अवनेर्भूमेः उदग्राः उन्नताः हारा इव "उच्च-प्राशूनतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने।” इत्यमरः। भान्ति प्रकाशन्ते॥३५८॥ अमूनिति । अमून् नदीद्वयतीरस्थान् प्रामान् कथंकारं कथमित्यर्थः । अग्रहारान् प्रचक्षते वदन्ति ? बुधा इति शेषः । यद्यस्मादेनान् ग्रामान् अता जनाः, सुवृत्ताभिः सुन्दरवर्तुलाकृतिभिः मुक्ताभिमौक्तिकैः रहिताः, सुवृत्तैः साध्वाचारैः मुक्तैर्विगतसंसारवन्धनैश्च जनैः अरहिताः संगताच, "वृत्तोऽधीतेऽप्यतीतेऽपि वर्तुले. ऽपि मृते वृते । वृतेऽन्यलिङ्गं वा क्लीबे छन्दश्चारित्रवृत्तिषु” इति मेदिनी । सन्तीति शेषः ॥ ३५९ ॥ सख इति । भवता भङ्गयन्तरेण अन्यथा रीत्या व्याजस्तुतिप्रकारेणेति यावत्। एषां जनानां स्तुतिः प्रशंसैव कृता, इति हेतोः मृष्यामि सहे, तुष्यामि संतुष्टश्च भवामि ॥ १५४ ॥ १'वहत्येष'. For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २९] पदार्थचन्द्रिकाटीकासहिता। १९७ अथ तुण्डीरमण्डलवर्णनम् २९. . . . अथ सर्वतस्तुण्डीरमण्डलमवलोकयन् सहर्षातिरेकम्-. . वयस्य स्फुटमस्य तुण्डीरमण्डलस्य पश्यतु भवान् पावनत्वं रमणीयत्वं च ॥ १५५ ॥ . तीरे तीरे स्फुरति सरितामग्रहारोऽत्र भूया नग्र्यो वर्गो धरणिमरुतामग्रहारेऽग्रहारे ॥ वर्गे वर्गे धरणिमरुतां वर्धते साधु यज्ञो यज्ञे यज्ञे श्रवणसुभगः स्तोत्रशस्त्रानुघोषः ॥ ३६० ॥ किंचतुण्डीरमण्डलनिवासिषु दुग्धसिन्धु डिण्डीरखण्डनिभकीर्तिषु पण्डितेषु ॥ आप्यायमानमखिलैरॅविगीतमेत द्रोचेत धूतदुरितं चरितं न कस्मै ॥ ३६१ ॥ अथेति । तुण्डीरमण्डलमिति देशविशेषनाम, भाषायां 'तोण्डमनाडु' इति टीकान्तरे दृश्यते वयस्येति । हे वयस्य, अस्य पुरोवर्तिनः 'तुण्डीरमण्डलस्य रमणीयत्वं सौन्दर्य पावनत्वं पवित्रत्वं च, स्फुटं स्पष्टं यथा तथा पश्यतु भवान् ॥ १५५ ॥ तीरे तीर इति । सरितां बाहानद्यादीनां अत्रास्मिन् तीरे तीरे प्रतितीरं भूयान् बहुशः अग्रहारः स्फुरति प्रकाशते । अग्रहारेऽग्रहारे प्रत्यग्रहारं च अय्यः पूज्यः धरणिमरुतां ब्राह्मणानां वर्ग: वृन्दं स्फुरति । वर्गे वर्गे च यज्ञः ज्योतिष्टोमादिः साधु यथा तथा वर्धते । यज्ञे यज्ञे च, सर्वत्र वीप्सायां द्विर्भावः। श्रवणयोः कर्णयोः सुभगः मनोज्ञः स्तोत्र-शस्त्राणां मन्त्रविशेषाणां अनुघोषः पाठशब्दश्च वर्धते ॥ ३६० ॥ तुण्डीरेति । तुण्डीरमण्डले निवसन्ति ते निवासिनस्तेषु दुग्धसिन्धोः क्षीरसमुद्रस्य डिण्डीरखण्डैः फेनखण्डैः निभा तुल्या, तद्वनिर्मलेति यावत् । कीर्तिर्येषां तेषु पण्डितेषु आप्यायमानं व्याप्नुवानं, तैः क्रियमाणमिति यावत् । अखिलैः वेद-शास्त्रपुराणादिग्रन्थैः अविगीतं अनिन्दितं अत एव धूतदुरितं प्रक्षालितदोष, एतच्चरितं सत्कर्म कसै न रोचेत ? सर्वस्मा अपि रोचेतैवेत्यर्थः । “रुच्यर्थानाम्-" इ. त्यादिना चतुर्थी ॥ ३६१॥ १ 'मण्डलस्य रामणीयकम्'. २ 'शस्त्रादिघोषः'. ३ 'अवगीत'. - - - - For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ विश्वगुणादर्शचम्पू: [ तुण्डीरमण्डल कृशानुः — हन्त एतस्मिन् अन्तिमयुगेऽपि अध्वरकर्माचरताममीषां चरितानि कथमिव रोचेरन् कोविदेभ्यः ? || १५६ ॥ न ऋत्विक्संपत्तिर्न च कुशलता यष्टुरनघा न च द्रव्यं शुद्धं न च हृदयशुद्धिः कलियुगे ॥ प्रसिद्धिं कान्तः परिमितधनं हन्त कृपणा काङ्क्षन्तः वृथा पश्वालम्भं विदधति तथापि क्षितिसुराः || ३६२ ॥ किंच शौचं नाचरितुं यथाविधि कलौ शक्ता द्विजाः किंच ते ये' खल्वाचमनाप्लवादिनियमास्तान् स्मर्तुमप्यक्षमाः । कामीषां पुनरग्निहोत्रनियमः केष्टेरनुष्ठानैधीः काग्निष्टोममुखा मखाः सपशुकाः कत्यग्निचित्या तु सा ॥ ३६३ ॥ १ 'परिमितधना'. ४ 'कत्याग्निचित्यादयः '. हन्तेति । अस्मिन् अन्तिमयुगे चरमयुगे कलियुगे इत्यर्थः । " अन्तो जघन्यं चरममन्त्य-पाश्चात्य-पश्चिमम् ।" इत्यमरः । अध्वरकर्म यज्ञकर्म आरभतां कुर्वाणानां अमीषां लोकानां चरितानि कोविदेभ्यः बुधेभ्यः कथमिव रोचेरन् ? कलौ यज्ञकर्मणां निषेधादिति भावः ॥ १५६ ॥ कलौ यज्ञकरणानर्हत्वमेवाह - नेति । कलियुगे ऋत्विजां मन्त्र- तद्विनियोगादिज्ञानिनां संपत्तिः सुलभत्वं न, तथा यष्टुर्यजमानस्य " यष्टा च यजमानश्च" इत्यमरः । अनघा निर्मला, एतत्पूर्वत्राप्यनुसंधेयम् । कुशलता निपुणता न च नास्त्येव, तथा धनं द्रव्यं शुद्धं अगर्हितोपायलब्धं न च किंच हृदयस्यान्तःकरणस्य शुद्धिः काम-क्रोधादिराहित्यं च न, तथापि कृपणाः द्रव्यव्ययकातराः क्षितिसुरा ब्राह्मणाः, प्रसिद्धि 'अयं यज्ञकर्ता, अयं दीक्षितः, अयं सोमयाजी' इत्यादिरूपां प्रख्यातिं काङ्क्षन्तः वाञ्छन्तः सन्तः परिमितं अल्पं धनं यस्मिन् अल्पद्रव्यव्ययसाध्यमित्यर्थः । वृथा सम्यगृत्विगादिसंपत्त्यभावाद्यर्थमेव पशोः यज्ञीयमेषादेः आलम्भं वधं विदधति कुर्वन्त्येव ॥ ३६२ ॥ अपि च शौचमिति । किंच कलौ युगे ये द्विजाः शौचं मृज्जलादिना शरीरशुद्धि 1 यथाविधि शास्त्रविधिमनतिक्रम्य आचरितुं न शक्ताः न समर्थाः, ते द्विजाः आचमनं आप्लवः स्नानं च तौ आदी येषां ते ये नियमाः खाध्यायादयः खलु प्रसिद्धाः सन्ति, तान् नियमान् स्मर्तुमपि किमुताचरितुं, अक्षमाः असमर्थाः । एतादृशाममीषां ब्राह्मणानां पुनः अग्निहोत्रनियमः क्व ? इष्टेः दर्श-पूर्णमासादियागरूपायाः अनुष्ठानधीः अनुष्ठानज्ञानं क ? तथा पशुभिः सहिताः सपशुकाः पशुवधयुक्ता इति भावः । अभि २ ' यः खल्वाचमनाप्लवादिनियमस्तं'. ३ 'अनुष्ठानगी:'. For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २९] पदार्थचन्द्रिकाटीकासहिता। १९९ विश्वावसुः-स्थूलमनीष मृषा किमिति भाषसे ? ॥ १५७ ॥ यत:शिष्टेभ्यः प्रतिगृह्य वित्तमुचितं संपाद्य विद्याः कलौ श्रद्धालून् श्रुति-कल्पसूत्रचतुरान् लब्ध्वा शुचीनृत्विजः ।। प्रीतिं भागवतीं प्रकाममभिसंधायाहरन्तः क्रतून् धीमन्तो युगमन्तिमं तु कृतयन्त्यन्तर्मुखाः संततम् ॥३६४॥ किंचअयज्ञाहद्रव्या वयमिति तु यज्ञाद्विरमताम् न कल्पेत खान्नैर्ननु भगवदाराधनमपि ॥ प्रयत्नेन द्रव्यं शुचि किमपि लब्ध्वा भगवतः कृतं चेत्कैकय किमिति न तदेवाध्वरमैयम् ॥ ३६५॥ टोमः मुखं आदिर्येषां ते मखाः यज्ञाः क्व ? तथैव सा प्रसिद्धा अग्नेश्चयनमग्निचित्या अग्निसंचयनादिक्रिया "चित्याग्निचित्ये च" इति निपातनात् चिनोतेः क्यप तुगागमश्च । क्वत्या कुतः प्राप्ता भवति ? अपि तु एतत्पूर्वोक्तं सर्वमपि दुर्लभमेवैतेषामिति भावः ॥ ३६३ ॥ स्थूलेति । हे स्थूलमनीष मन्दमते, किमिति पूर्वोक्तरूपं मृषा मिथ्या भाषसे ? ॥ १५७॥ मिथ्यात्वमेवाह-शिष्टेभ्य इति । धीमन्तः ईश्वरतोषककर्मबुद्धियुक्ताः अत एव संततं निरन्तरं अन्तः हृदयस्थपुण्डरीके मुखं मुखमिव चित्तं येषां ते तथाभूताः शिष्टेभ्यः जनेभ्यः उचितं यज्ञाद्यनुष्ठानपर्याप्तं वित्तं द्रव्यं प्रतिगृह्य स्वीकृत्य, कलौ अपि विद्याः वेदशास्त्रादीः संपाद्य, श्रुतयः वेदाः कल्पसूत्राणि आश्वलायनापस्तम्बीयादीनि च तेषु चतुरान् निपुणान् श्रुत्यादीनां यथार्थज्ञानयुक्तानित्यर्थः । किंच श्रद्धालून वेद-शास्त्रोक्तकर्मसु विश्वासयुक्तान् , अत एव शुचीन् पवित्रान् ऋत्विजः लब्ध्वा, भागवतीं परमेश्वरसंबन्धिनी प्रीति संतोषं अभिसंधाय निश्चित्य, न तु खार्थे पारलौकिकसुखं अभिसंधाय, प्रकामं यथेच्छं क्रतून आहरन्तः कुर्वन्तः सन्तः, अन्तिमं चरंमं युगं कलियुगं कृतयन्ति कृतयुगमिव संपादयन्ति ॥ ३६४ ॥ एतावता कलौ यज्ञकरणस्य युक्तत्वं प्रतिपादितम् , इदानीं अल्पधनत्वादिनोक्तं दूषणमुद्धारयन्नाह-अयज्ञाहेति । वयं यज्ञस्याह विहितव्यापारागतं कर्मपर्याप्तं च गव्यं येषां ते तथा न भवन्तीत्ययज्ञार्हद्रव्याः इति हेतोस्तु यज्ञात् यज्ञानुष्ठानात् विरमतां यज्ञानुष्ठानमकुर्वतामित्यर्थः। "जुगुप्सा-विराम-प्रमादार्थानाम्-" इत्यादिवार्तिकेनापादानसंज्ञा । 'विरमताम्' इत्यत्र च "व्यापरिभ्यो रमः" इति सूत्रेण विपूर्वकस्य रम १ 'लक्ष. २ परिगृह्य'. ३ 'समम्'. For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २०० www. kobatirth.org विश्वगुणादर्शचम्पू: च हिंसाकृत्प्रत्यवेयादिति कथयति यो वेद एवैष यागे पश्वालम्भं विधत्ते यदि क इह मखे वैदिकः संशयीत ? ॥ हिंसात्वाभावमेवाध्वरपशुनिहतेराह रामानुजार्य स्तत्पक्षस्थोऽपि यो न प्रसजति यजने कस्तदन्यो गुरुद्विट् ॥ ३६६ ॥ इदं चावधेयम् — हिंसान्तरेष्विव मखाश्रितहिंसनेऽपि जैनेतरो यदि जनो भजते जुगुप्साम् ॥ अपि Acharya Shri Kailassagarsuri Gyanmandir [ तुण्डीरमण्डल तेः परस्मैपदविधानात् शतृप्रत्ययः । ननु तर्हि स्खैः आत्मीयैः अन्नैः भगवतः आराधनं नैवेद्यार्पणरूपमपि न कल्पेत न क्रियेत । तस्याप्यत्पत्वादिना भगवदाराधनानर्हत्वादिति भावः । प्रयत्नेन अनिन्द्यप्रयासेन शुचि याजनाध्यापनादिव्यापारलब्धत्वात् पवित्रं किमपि यत्किचित्खल्पमपि द्रव्यं लब्ध्वा संपाद्य तेनेति शेषः । भगवतः ईश्वरस्य कैङ्कर्ये पूजननैवेद्यार्पणादिरूपं कृतं चेत् तदेव अध्वरमयं यज्ञप्रचुरं यज्ञरूपमि - त्यर्थः । किमिति न भवति ? अपि तु भवत्येवेति । एवं च यदि कलौ यज्ञकरणमयुक्तं स्यात्, तर्हि भगवत्पूजनादिकमपि त्वन्मते त्याज्यमेव स्यात् । उभयोरपि यज्ञत्वाविशेषाद्द्रव्यानर्हत्वस्य चापि समत्वादिति भावः ॥ ३६५ ॥ किंच हिंसादिति । 'हिंसाकृत् प्राणिप्राणवियोगानुकूलव्यापारकर्ता जन: प्रत्यवेयात् दोषीभवेत्' इवि यः वेदः "न हिंस्यात् सर्वाभूतानि" इत्यादिरूपः कथयति, एष एव वेदः यागे यज्ञे पशो: आलम्भं वधं “ अग्नीषोमीयं पशुमालभेत " इत्यादिनेति भावः । विधत्ते कथयति यदि, तर्हि इह मखे यज्ञविषये कः वेदमधीते वेद वा वैदिकः वेदवेत्ता पुरुष इत्यर्थः । संशयीत संदेही स्यात् ? अपि तु न कोऽपि संशयीतेति । उभयत्र ग्रामाण्ये संशयाभावादिति भावः । अपि च रामानुजार्यो रामानुजाचार्यस्तु, अध्वरे यागे या पशोर्निहतिर्वधः तस्याः हिंसात्वस्य अभावमेवाह । तथा च मनुरपि - " यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ।” इत्याह । तस्मात् तस्य रामानुजार्यस्य पक्षे मते तिष्ठतीति तन्मतस्थः, तन्मताभिमानीत्यर्थः । सोऽपि, अपिशब्दोऽस्य विधेः सार्वत्रिकत्वबोधनार्थः । सन् यो जनः यजने यज्ञकर्मणि न प्रसजति नोद्युक्तो भवति, 'षञ्ज सङ्गे' इत्यस्मात् प्रपूर्वकाद्धातोर्लट् । “दंश सञ्ज- खञ्जाम्-" इति नलोपः । तस्मात्पुरुषादन्यः कः पुरुषः गुरुं द्वेष्टीति तथोक्तः गुरोर्द्वष्टेत्यर्थः । भवति ? अपि तु स एव तथाविध इत्यर्थः ॥ ३६६ ॥ किंच हिंसान्तरेष्विति । यदि जैनात् महावीरजिन स्थापितमतानुयायिनः श्रावकादेः इतरः भिन्नः जनः हिंसान्तरेष्विव यज्ञकर्मबहिर्भूत केवलखशरीरपोषणार्थे कृतेषु पशुवधेष्विव, मखे यज्ञे आश्रितं श्रुति स्मृति विहितत्वादवश्यप्राप्तं तच्च तद्धिं For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २९] पदार्थचन्द्रिकाटीकासहिता । २०१ नार्यन्तरेष्विव न निन्दति नन्दनानाम् निष्पादनं किमनघेऽपि निजे कलत्रे ॥ ३६७ ॥ . . . इदमप्यवगन्तव्यम् ऋत्विग्विशुद्धिविरहादतिशङ्कया चेत् . केचित्कलौ जहति नित्यमपि क्रतुं ते ॥ - मुञ्चन्ति गुर्वशुचिताविशयेन किं न चक्राङ्कवैष्णवमनुग्रहणादि सर्वम् ॥ ३६८ ॥ किंच सर्वेदैः स्मृतिगणयुतैः सेतिहासैः पुराणैः शिष्टाचारैरपि नियमितानध्वरान्मध्वरातेः ॥ आज्ञासिद्धानहह जहतस्तद्विरुद्धानि कृत्यान्यातन्वन्तः कतिचिंदपरानप्यमी शिक्षयन्ति ॥ ३६९ ॥ सनं वधश्च तस्मिन्नपि जुगुप्सां निन्दा भजते चेत्, यज्ञीयपशुहिंसनमपि निन्धं मन्यते चेदित्यर्थः । तर्हि नार्यन्तरेष्विव परस्त्रीष्विव नन्दनानां पुत्राणां निष्पादनमु. त्पादनं, अनघे पातिव्रत्यादिनीधर्मसंपन्नत्वानिर्दोषे निजे खकीये कलत्रे भार्यायामपि पुत्रोत्पादनं किं कस्माद्धेतोन निन्दति ? ऋतुकाले स्वस्त्रीसङ्गस्य यज्ञकर्मणि पशुवधस्य चापि शास्त्रेणैव विहितत्वादुभयमपि तुल्यमिति भावः ॥ ३६७ ॥ अपि च ऋत्विगिति । ऋत्विजां विशेषेण या शुद्धिः यथार्थानुष्ठानरूपा तस्याः विरहादभावाद्धेतोः अत एव अतिशङ्कया 'सम्यक्तया अनुष्ठानं भवेद्वा न भवेत्' इति संशयेन केचिजनाः कलौ युगे नित्यमपि क्रतुं पञ्चमहायज्ञान्तर्भूतं वैश्वदेवादियज्ञमपि, दर्श-पूर्णमासादिरूपं वा जहति त्यजन्ति चेत्, तर्हि ते जनाः गुरोः आचार्यस्य अशुचितायाः अपवित्रतायाः विशयेन संशयेन चकाङ्कः चक्रचिह्न चक्र-शङ्खादिमुद्राधारणमिति यावत् । वैष्णवमनुः दीक्षाग्रहणकाले उपदेष्टव्यो नारायणाष्टाक्षरमन्त्रः तस्य ग्रहणं च ते आदी यस्य तत् सर्व पञ्चसंस्कारादिरूपं किं कुतः कारणात् न मुञ्चन्ति । पञ्चसंस्कारास्तु प्रागुक्ताः । एवं च यथा चक्राङ्कादिधारणं त्यक्तुं न युक्त तथैव वेदविहितयज्ञाद्यनुष्ठानमपि त्यक्तुं न युक्तमिति भावः ॥ ३६८ ॥ __ श्रुति-स्मृति-पुराणविहितयज्ञकर्माननुष्ठानमनुचितमिति सखेदमाह-सर्वर्वेदैरिति । सर्वैर्वेदैः, स्मृतिगणयुतैः मनु-याज्ञवल्क्य-पराशरप्रोक्तस्मृतिसमूहसहितैः, सेतिहासैः महाभारतादिपुरावृत्तस हितैः पुराणैः पाद्म-वैष्णवादिभिः, शिष्टाचारैश्चापि नियमितान अवश्यकर्तव्यत्वेन प्रतिपादितान् मध्वरातेः श्रीविष्णोः आज्ञासिद्धानपि १ 'विरहादिविशङ्कया'. २ 'ये'. ३ 'इतरान् '. For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २०२ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: [ तुण्डीरमण्डल कबहुना - यागं ये बत वैष्णवा विजहति छागच्छिदाभीतितः शिप्यक्लेशनसाध्वसाज्जहतु ते चत्राङ्कनप्रक्रियाम् || पूर्वस्मिन्बहुसंमतिर्भगवतः प्रीतिः फलं नो धना न्यल्पीयोऽभिमतिः परत्र फलमप्यर्थाप्तिरित्थं भिदा ॥ ३७० ॥ कु० - ( विहस्य ) तप्ताभ्यां शङ्खचक्राभ्यां तापनं प्राणिनामिदम् ॥ छागालम्भसमत्वेन साधो ! किमिति वर्ण्यते ॥ ३७१ ॥ वि० – गुणदोषतारतम्यानभिज्ञ, श्रृणु तावदिदम् ॥ १५८ ॥ छागालम्भसहस्रतः क्षितिसुरस्यैकस्य हिंसाधिका तस्माद् ब्राह्मणतापनं न किमिदं तुल्यं पशोसिया | अध्वरान् यज्ञान्, अहहेति खेदे । जहतः त्यजन्तः तेषां वेद-शाखादीनां विरुद्धानि स्वसंकल्पसिद्धानीत्यर्थः । कृत्यानि कर्माणि आतन्वन्तः आचरन्तः सन्तः, कतिचित् अमी जनाः अपरानप्यन्यानपि जनान् शिक्षयन्ति । एतदेवायुक्तमिति ज्ञेयम् ॥ ३६९ ॥ किं च यागमिति । ये वैष्णवाः छागस्य मेषस्य छिदायाः हिंसायाः भीतितः भयाद्धेतोः यागं यज्ञं विजहति त्यजन्ति । बतेति खेदे ते वैष्णवाः शिष्याणां क्लेशनं तापोत्पादनं तद्रूपं यत् साध्वसं भयं तस्माद्धेतोः चक्राङ्कनस्य तप्तचक्र- शङ्खादिमुद्रालक्षणस्य प्रक्रियां करणं जहतु त्यजन्तु । किंच यागाङ्कनयोर्मध्येऽङ्कनमेव त्याज्यं स्यादित्याह -- पूर्वस्मिन् यज्ञे विषये बहूनां मतान्तरस्थानामपि संमतिरनुमतिः, भगवतो विष्णोः प्रीतिः संतोषः फलं, धनानि विषयादिलालसा जनकानि तु नो न भवन्ति । परत्र चक्राङ्कने तु अल्पीयसी अत्यल्पा एकदेशीयमतस्थानां जना - नामित्यर्थः । अभिमतिः, संमतिः फलमपि अर्थानां द्रव्याणां आप्तिः प्राप्तिः, पूर्वप्रतिपादितजार - चोरादिनीचजनेभ्य इत्यर्थः । इत्थमेवंरूपा भिदा भेदः अस्तीत्यर्थः ॥ ३७० ॥ कृशानुः सोपहासमाह -- तप्ताभ्यामिति । हे साधो ! एतत् परिहासद्योतकं संबोधनम् । तप्ताभ्यां शङ्ख-चक्राभ्यां तन्मुद्राभ्यामित्यर्थः । प्राणिनां शिष्यजनानां तापनं संतापोत्पादनं, छागालम्भसमत्वेन पशुहिंसातुल्यत्वेन किमिति कुतो हेतोः वर्ण्यते ? प्राणवियोजनं, किंचित्कालपर्यन्तं शरीरस्यैकस्मिन् भागे तापनं च नैव तुल्यमिति भावः ॥ ३७१ ॥ गुणदोषेति । हे गुणदोषतारतम्यानभिज्ञ गुण-दोषयोर्न्यूनाधिकभावनिर्णायकविचारशक्तिशून्य, इदं वक्ष्यमाणं शृणु ॥ १५८ ॥ छागेति । छागस्य आलम्भः हिंसा तेषां सहस्रं तस्मादिति ततः सहस्रपशुहिं१ 'भाषसे'. For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३०] पदार्थचन्द्रिकाटीकासहिता । . २०३ शास्त्रात्तप्तरथाङ्गधारणमपि श्रेयस्करं चेत्तदा वेदैरेवं सवे पशोर्विशसनाद्धर्मोपि किं ? हीयते ॥ ३७२ ॥ इत्यवं श्रुत्ययुतविहितसंवनकरणावश्यकतासमर्थनेन करबदरास्तित्वसाधकप्रमाणान्तरपरिकल्पनकल्पेन ॥ १५९ ॥ अथ चञ्जीपुरी (तंजावूर ) वर्णनम् ३०. इति दक्षिणतो विमानमानयन् सशिरःकम्पम्खञ्जीकृताखिलहृदां रमणीमणीनाम् मञ्जीरम तरशिञ्जितरञ्जितेन ॥ चञ्जीपुरी युवगणेन चकास्ति पूर्णा संजीवितोग्रपरिवञ्चितपञ्चबाणा ॥ ३७३ ॥ सापेक्षयेत्यर्थः । एकस्य क्षितिसुरस्य ब्राह्मणस्य एका हिंसा अधिका । तस्मात् कारणात् ब्राह्मणतापनं तप्तमुद्रयेत्यर्थात् । इदं एकस्य पशोसिया तुल्यं समं न किम् ? अपि तु अस्त्येवेत्यर्थः । यतः मुद्राधारणकाले 'हा ! हा !' इत्यादिखेदप्रदर्शकशब्दाः श्रूयन्ते । तस्मात् यद्यपि तस्मिन् काले प्रत्यक्षप्राणहानिर्न भवति तथापि तत्तुल्यत्वादेकपशुहिंसातुल्यमेव तदिति भावः। शास्त्रप्राप्तत्वान्मुद्राधारणमावश्यकमिति चेत्तत्राह-तप्तरथाङ्गधारणं संतप्तचक्रादिमुद्राधारणमपि शास्त्रात् नारदपाश्चरात्राद्यागमात्, प्राप्तमिति शेषः । श्रेयस्करं कल्याणकरं अस्ति चेत्, तदा वेदैरेव वेदान्तर्गतविधिवाक्यैरेव सवे यज्ञे पशोर्मेषादेः विशसनात् मारणात् धर्मः हीयते अपि किम् ? अपि तु नैवेत्यर्थः ॥ ३७२ ॥ . इतीति । इत्येवं प्रकारेण श्रुतीनां अयुतेन अनन्तश्रुतिकदम्बकेनेतियावत् । विहितस्य प्रतिपादितस्य सवकरणस्य यज्ञकरणस्य आवश्यकतायाः अवश्यकर्तव्यत्वस्य समर्थनेन प्रतिपादनेन अलं पर्याप्तम् । कीदृशं तत्समर्थनं, करे हस्ते वर्तमानस्य बदरस्य बदरीफलस्य अस्तित्वसाधकस्य सत्ताप्रतिपादकस्य प्रमाणान्तरस्य प्रत्यक्षादन्यस्थानुमानादेः परिकल्पकल्पेन विरचनतुल्येनेति श्रुत्ययुतेत्यादेविशेषणं "ईषदसमाप्तौ-" इति कल्पप्प्रत्ययः ॥ १५९ ॥ __ अथ चञ्जीपुरीं वर्णयति-खजीकृतेति । खञ्जीकृतं निरभिमानीकृतं अखिलानां स्त्रीजनानां हृत् मनो याभिस्तासां रमणीमणीनां स्त्रीरत्नानां मजीराणां नूपुराणां मञ्जुतरं अतिमञ्जुलं यत् शिञ्जितं शब्दः तेन रञ्जितः अनुरक्तीकृतः तेन, यूनां तरुणानां गणेन समूहेन पूर्णा, अत एव संजीवितः उग्रेण शिवेन परिवञ्चितः भस्मीकृतः १ 'मिदं. २ 'वेदादेव मखे पशोर्विशसनं नैतेन किं मीयते,' धर्मो न किं हीयते'. ३ 'सदाचरणा,' 'सवनाकर्तव्यता'. ४ 'विमानमानीय'. For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - - (२०६ विश्वगुणादर्शचम्पू:- [चञ्जीपुरी केव ऋक्सामयोश्च यजुषां च निवासभूता __ पूता द्विजाः स्मृति-पुराण-कलाधुरीणाः ।। कुर्वन्ति वासमिह कर्कशतर्कशब्द तन्त्रत्रयीशिखरसिन्धुतलस्पृशोऽमी ॥ ३७४ ॥ कृ०—(सहासम्) नैतद्विभाति नगरं नगरम्यदुर्ग प्राकारसाधनदशासु विशां पतीनाम् ।। युद्धोन्नमद्भटशिरस्तटनिस्सृतास्क स्रोतःसहस्रभरविस्रपलोस्थिसान्द्रम् ॥ ३७५ ॥ पञ्चबाणो मदनो यया सा चजीपुरी 'तंजावूर' इति भाषाप्रसिद्धा नगरी चकास्ति शोभते ॥ ३७३ ॥ किंच वेद-शास्त्रनिपुणा विद्वांसोऽप्यत्र सन्तीत्याह-ऋक्सामयोश्चेति । ऋग् ऋग्वेदश्च साम सामवेदश्च तयोः "अचतुर-विचतुर-" इत्यादिनिपातनादच समासान्तः । यजुषां यजुर्वेदस्येत्यर्थः । इति त्रयाणामपि वेदानामित्यर्थः । निवासभूताः गृहरूपाः । संपूर्णवेदानामध्येतार इति यावत् । अत एव पूताः पवित्राः, न तु केवलं वैदिका एव, किंतु स्मृतयः मन्वादयश्च पुराणानि पाद्म-वैष्णवादीनि च कलाश्चतुःषष्टिसंख्याकाः प्रसिद्धाः ताश्च तासु धुरीणाः प्रवीणाः, अपि च कर्कशाः अर्थगाम्भीर्येण कठिनाः ये तर्काः न्यायशास्त्रं शब्दो व्याकरगं तत्रं मीमांसा त्रय्याः वेदत्रितयस्य शिखरं वेदान्तशास्त्रं च तान्येव सिन्धवः समुद्राः तेषां तलं स्पृशन्तीति तादृशाः, तेष्वप्यत्यन्तं निपुणा इत्यर्थः । अनेन सर्वज्ञत्वं तेषां सूचितम् । अमी द्विजा ब्राह्मणाः इह चजीपुर्या वासं कुर्वन्ति ॥ ३७४ ॥ अथ कृशानुः सत्यप्येवं बहुवारं युद्धादिप्रसङ्गात् नैतत्पुरं विभातीत्याह नैतद्विभातीति । विशां मनुजानां द्वौ विशौ वैश्य-मनुजौ' इत्यमरः । पतीनां राज्ञां नगवत्पर्वतवत् रम्यस्य रमणीयस्य पर्वत इवोन्नतस्येत्यर्थः । अत एव दुर्गस्य गन्तुमशक्यस्य प्राकारस्य सालस्य 'किल्ला' इति महाराष्ट्रभाषाप्रसिद्धस्य "प्राकारो वरणः सालः" इत्यमरः । साधनदशासु स्वीकारावसरेषु युद्धे समरे उन्नमन्तः जयावेशेन शत्रुघूत्पतन्तः ये भटाः योधास्तेषां शिरस्तटेभ्यः मस्तकप्रान्तेभ्यः निःसृतानि निर्गलितानि असृजां रक्तानां स्रोतःसहस्राणि प्रवाहसहस्राणि तेषां भरेण अतिशयेन विस्राणि आमगन्धीनि “वित्रं स्यादामगन्धि यत्" इत्यमरः । यानि पलानि मांसानि "पलमुन्मान-मांसयोः" इति रुद्रः । अस्थीनि च तैः सान्द्रं निविडं एतन्नगरं चजीपुरं न विभाति विशेषेण न शोभते । युद्धव्यग्रचित्तत्वादतिनिन्द्यत्वाच्च खास्थ्याभावादिति भावः ॥ ३७५ ॥ १ 'युद्धोन्नटत्'. २ 'निस्सृतालस्रोत'. ३ पलाब्धि'. For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३०] पदार्थचन्द्रिकाटीकासहिता। २०५ वि०-वयस्य गुणान्वयस्य पुनरस्य नगरस्य निन्दाच्छद्मना प्रशंसामेव भवान् कृतवान् ॥ १६० ॥ यतःपुरातनानां हि पुरान्तराणां प्रशासितारोऽपि दिशासु भूपाः ॥ पुरं तदेतद्वपुरन्तमाजौ हन्ताभ्युपेत्याप्यलमर्थयन्ति ॥ ३७६ ॥ कृशा-निरूपणमभिनीय साखरसम् हन्त चिरन्तनानामिदानींतनानां च वसुन्धराधुरंधराणामवारणीयोऽसावविवेकः ॥ १६१ ॥ पश्यप्राज्ये हन्त धने स्थितेऽपि नृवरो राज्येऽपि सत्यूर्जिते संभोगानुगुणा विलोचनगुणैरम्भोजदम्भद्रुहः ॥ कल्याणीस्तरुणीरूपेक्ष्य करुणाहीनः ससेनः स्वयम् हर्तुं शत्रुधरां चिरादभिलषन् मर्तुं रणे जृम्भते ॥ ३७७ ।। वयस्येति । हे वयस्य मित्र, गुणानां शम-दामादीनां पूर्वश्लोकप्रतिपादितानां शौर्य-तेजआदीनां च अन्वयः संबन्धो यस्मिन् तस्य पुनरस्य नगरस्य चञ्जीपुरस्य निन्दायाः छद्मना निमित्तेन, प्रशंसामेव स्तुतिमेव भवान् कृतवानकरोः ॥ १६० ॥ पुरातनामिति । हि यस्मात्, दिशासु दशदिक्षु, स्थितानामिति शेषः । पुरातनानां पुराणानां, पुराशब्दात् ट्युः तुडागमश्च "पुराणे प्रतन-प्रत्न-पुरातन-चिरतनाः ।" इत्यमरः । पुरान्तराणां अन्यनगराणां प्रशासितारोऽपि रक्षितारोऽपि सन्तः, सर्वे भूपा राजानः हन्तेत्यानन्दे । आजौ युद्धे वपुषः शरीरस्य अन्तं नाशं अभ्युपेत्य स्वीकृत्यापि, तत् प्रसिद्धमेतत्पुरं नगर अलं अत्यर्थं अर्थयन्ति इच्छन्ति । 'युद्धे मरणमपि भवतु, परं च बहुतरसंपद्युक्तेऽस्मिन्नेव पुरेऽस्माभिर्वर्तितव्यं' इति वाञ्छन्तीत्यर्थः ॥ ३७६ ॥ निरूपणमिति । साखरसं अस्वरसेन असंतोषेण सहितं यथा तथा-- हन्तेति । चिरंतनानां पुरातनानां इदानींतनानां च, अत्राप्युभयत्र “सायं-चिरे." इति सूत्रेण ट्युः तुद् च । वसुंधरायाः पृथ्व्याः धुरंधराणां भारभृतां राज्ञां, असौ वक्ष्यमाणः अवारणीयः निवारयितुमशक्यः अविवेकः अविचारः । अस्तीति शेषः १६१ अविवेकमेवोपपादयति-प्राज्य इति । हन्तेति खेदे। प्राज्ये बहुले “प्रभूतं प्रचुरं प्राज्यमददँ बहुलं बहु ।" इत्यमरः । धने स्थिते सत्यपि, तथा राज्ये ऊर्जिते घनादिसंपन्ने च सत्यपि, तथैव संभोगस्य सुरतस्य अनुगुणाः अनुरूपाः, सुरतयोग्या १ 'प्रशाधितारो हि'. २ 'अर्थयन्ते'. ३ 'साश्चरसं', 'ससाध्वसं'. ४ 'कल्याणी रुदती'. For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ विश्वगुणादर्शचम्पू:- [चञ्जीपुरीवि०-विरुद्धबुद्धे ! विवेकमेव तावदविवेकमाकलयसि ॥१६२।। तथाहिसंपद्वन्यसरिज्झरी सहचरी शम्पासमं प्राभवम् .. ___ नार्यः सूर्यकरावलीढरजनीच्छायासुहृद्यौवनाः ॥ देहः स्नेहविहीनदीपसख इत्यालोच्य पृथ्वीश्वराः प्राणान् जुह्वति नाकमाकलयितुं शुद्धा हि युद्धानले ॥ ३७८ ॥ इत्यर्थः । विलोचनयोनॆत्रयोर्गुणैः विशालत्व-सुभगत्वादिरूपैः, अम्भोजानां कमलानां दम्भद्रुहः गर्वविनाशयित्रीः, किंच कल्याणीः कल्याणगुणयुक्ताः राज्यसंपत्तिवर्धकसल्लक्षणैर्युक्ता इत्यर्थः । एतादृशोऽपि तरुणीः स्त्रीः उपेक्ष्य अनादृत्य, अत एव करुणया दयया हीनः रहितः नृवरः राजा, शत्रोः धरां पृथ्वी चिरात् चिरकालपर्यन्तं हतु अपहर्तुमभिलषन् काङ्क्षमाणः सन् , ससेनः सेनया सहितः खयं रणे युद्धे मर्तु प्राणांस्त्यक्तुं समुज्जृम्भते उद्युक्तो भवति । बहुलधन-दारादिसंपनं खराज्यमुपेक्ष्य परराज्याभिलाषकरणमविवेकमूलमिति भावः ॥ ३७७ ॥ विरुद्धेति । विरुद्धा युक्तायुक्तविवेकशून्या वस्तुस्थित्यननुरूपा वा बुद्धिर्यस्य तत्संबुद्धौ हे विरुद्धबुद्धे इति । विवेकमेव क्षत्रियं प्रति त्वदुक्तरीत्या एव विहितत्वादिति भावः । तावत्साकल्येन अविवेकभाकलयसि कथयसि । त्वमिति शेषः ॥ १६२ ॥ संपदिति । हि यस्मात् कारणात् शुद्धाः शास्त्रविहिताचरणेन निर्मलान्तःकरणाः पृथ्वीश्वरा राजानः, संपत् संपत्तिः वने भवा वन्या सा चासौ सरितो नद्याः झरी प्रवाहः वर्षाकालोत्पन्नवन्यक्षुद्रसरित्प्रवाह इत्यर्थः । तस्याः सहचरी सदृशी, तद्वचञ्चलेत्यर्थः । प्रभोः भावः प्राभवं प्रभुत्वं, शम्पया विद्युता "शम्पा शतहदा-हादिन्यैरावत्यः क्षणप्रभा । तडित् सौदामिनी विद्युत्" इत्यमरः । समं तुल्यं, तद्वत् क्षणिकमित्यर्थः । तथा नार्यः स्त्रियः, सूर्यस्य करैः किरणैः अवलीढायाः व्याप्तायाः तत्प्रसरपर्यन्तस्थायिन्या इत्यर्थः । रजन्याः रात्रेः छायायाः सुहृत् मित्रभूतं सदृशमिति यावत् । यौवनं तारुण्यं यासां तास्तथोक्ताः, सूर्योदयपर्यन्तस्थायिरजनीवत् खल्पकालपर्यन्तस्थायितारुण्यावस्था इत्यर्थः । अपि च देहः स्नेह विहीनः तैलरहितः यो दीपस्तस्य सखा, तद्वदकालनश्वर इत्यर्थः । एवं च धन-दारा-शरीरादिकं सर्वमप्यनित्यमित्यर्थः । इति एवंप्रकारेणालोच्य ज्ञात्वा, न विद्यते अकं दुःखं यस्मिन्निति नाकः स्वर्गः "नभ्राण्-नपान-नवेदा" इत्यादिसूत्रेण निपातनान्ननः प्रकृत्यावस्थानं । तं आकलयितुं संपादयितुं युद्धानले युद्धानौ प्राणान् जुह्वति त्यजन्ति। अयमेव राज्ञां मुख्यो धर्म इति ज्ञेयम् । तदुक्तम्--" द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । योगनिर्भिन्नमूर्धेकोऽपरावृत्तमृतः परः।" इति । भगवद्गीतायामपि" यदृच्छया चोपपन्नं खर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ।" इति । एवं च विवेक एवायमिति भावः ॥ ३७८ ॥ १ 'आकलयति भवान्'. २ 'जलद'. - - For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३१] पदार्थचन्द्रिकाटीकासहिता । २०७ __शृणु चेमं चमत्कारम् ॥ १६३ ॥ रक्ते भटे रणमुखे रुधिरेण तस्मिन् रक्ता भवत्यमरयोषिदनुव्रतेव ॥ शूरः स चेदतनुसायकखण्डिताङ्गः साऽप्युच्चकैरतनुसायकखण्डिते ३७९ किंचदीप्रोतिप्रेभमाश्रितक्षितितलं दिव्ये विमाने स्थितो गाढाश्लिष्टकृपाणपाणि च करग्रस्तामरस्त्रीस्तनः ।। तत्संदत्तनखक्षतो बहुतरप्रत्यर्थिबाणक्षतम् युद्धामौ हुँतजीवितं निजवपुर्वीरो मुदा वीक्षते ॥ ३८० ॥ अथ पिनाकिनीगरुडनदीश्रीदेवनायकवर्णनम् ३१. इत्यन्यत्र विमानं संचारयन् परितो दृष्ट्वापिनाकिनी पश्य धनाघनाशिनी जलाच्च लम्ची गरुडापगामपि ॥ अपि च रक्त इति । रणस्य युद्धस्य मुखे प्रारम्भे रुधिरेण रक्तेन "रुधिरेऽसू. ग्लोहितान-रक्त-क्षतज-शोणितम् ।" इत्यमरः । रक्ते रक्तवर्णे सति, तस्मिन् पुरुषे अमरयोषित् खर्गाङ्गना स्वर्वेश्येत्यर्थः । अनुव्रतेव पतिव्रतेव रक्ता रक्तवर्णा अनुरागयुक्ता च भवति । किं च सः शूरः पुरुषः अतनुभिर्बहुभिः सायकैः बाणैः खण्डितानि छिन्नान्यङ्गानि यस्य सः तथाभूतश्चेत् भवति, तर्हि सापि स्वर्गाङ्गनापि उच्चकैः अतिशयेन अतनुसायकैः बहुभिर्वाणैः, अतनोः मदनस्य च बाणैः खण्डितेव छिनेव भवति ॥ ३७९ ॥ किंच दीप्र इति । वीरः अत एव दीप्रः तेजस्वी, दिव्ये विमाने स्थितः कराभ्यां ग्रस्तौ धृतौ अमरस्त्रियाः देवाङ्गनायाः स्तनौ येन सः, तया अमरस्त्रिया दत्तानि नखानां क्षतानि व्रणानि यस्मै सः तथाभूतश्च सन्, पूर्व आश्रितं क्षितितलं पृथ्वीतलं येन तत्, गाढं यथा तथा आश्लिष्टः कृपाणः खड्गः येन तथाभूतः पाणिहस्तो यस्मिन् तत्, बहुतराणां अतिबहूनां प्रत्यर्थिनां शत्रूणां "दस्यु-शात्रव-शत्रवः । अभिघाति-पराराति-प्रत्यर्थि-परिपन्थिनः ।" इत्यमरः । बाणानां क्षतानि यस्मिन् तत्, तदेव युद्धाग्नौ हुतं जीवितं यस्य तत् अत एव अतिप्रभं अतिशयकान्तियुक्तं निजवपुः स्वकीयशरीरं मुदा आनन्देन वीक्षते अवलोकयति ॥ ३८० ॥ ___ इदानी पिनाकिनी-गरुडनद्योरधिपतिं देवनायकाभिधं भगवन्तं वर्णयति-पि १ 'खण्डिताङ्गा'. २ दीप्रो विप्रभमाश्रितक्षितितलं', 'दीप्तोपि प्रभ याश्रितक्षितितरूं', 'दीपोऽप्यप्रभमाश्रितं क्षितितलं'. ३ 'जीवितो', 'जीविते'. For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८ विश्वगुणादर्शचम्पू:- [यज्ञवराह इदंतटे राजति देवनाय कः परोऽत्र सर्गादिवे देवनायकः ॥३८१॥ अथ श्रीमुष्णक्षेत्रयज्ञवराहवर्णनम् ३२ - इतरत्र विमानं प्रस्पन्दयन् सानन्दम्अद्य प्रत्नं पक्रिमं सच्चरित्रं देवः प्रीतः सुप्रभाता निशा मे ॥ श्रीमुष्णं यन्मुष्णदहःसहस्रं क्षेत्रं प्राप्त नेत्रयोः पात्रंभावम् ॥३८२॥ अत्र हि वरा वराहरूपिणी चराचरान्तरस्थिता सुरासुरानुसेविता धरार्धरादिदेवता ॥ नाकिनीमिति । धनानि बहूनि च यानि अघानि पापानि तेषां नाशिनी जलात् लघ्वी अल्पां, खल्पजलामिति यावत् । पिनाकिनी एतन्नामिकां नदी पश्य अवलोकय । तथा गरुडापगां नाम नदीमपि पश्य । किं वा एतयोरेतावन्माहात्म्यं यद्रष्टव्यं इत्याकाङ्क्षायामाह-इदंतट इति । एतयोः पिनाकिनी-गरुडनद्योस्तटे तीरे, सर्गात् प्राकृतप्रपञ्चात् परत्र इव परत एव तस्मादलिप्त इत्यर्थः । अत्र इवेति निश्चये। तत्त्वत एव प्रपञ्चातू परत्र वर्तमाने भगवती उत्प्रेक्षादेरसंभवात् । देवनायकः एतनामा कः परमात्मा विष्णु: "को ब्रह्मणि समीरात्म-यम-दक्षेषु भास्करे। मयूरेऽनौच पुंसि" इति मेदिनी । देवनाय क्रीडाथै राजति शोभते । भगवन्निवासाद्दर्शनीयमिदं स्थलमिति भावः ॥ ३८१ ॥ अथ श्रीमुष्णक्षेत्रस्थयज्ञवराहवर्णनं प्रतिजानीते । इदं च रामानुजीयानां प्रसिद्धस्थानानामेकतमं प्रियं च दक्षिणतः ‘अर्काडु' इति तद्भाषाप्रसिद्ध प्रान्ते वर्तते इति पुस्तकान्तरादुपलभ्यते। अद्येति । अद्य मे मम, एतदग्रेऽपि योज्यम् । प्रनं पुरातनं प्राग्जन्मकृतमिति यावत् । सच्चरित्रं सत्कर्माचरणं पक्रिमं फलाभिमुखं जातम् । देवो भगवान् प्रीतः तुष्टः, तथा निशा रात्रिः सुप्रभाता शोभनफलप्रदप्रातःकाला, जातेति शेषः । यद्यस्मात् कारणात् अंहसां पापानां सहस्रं मुष्णत् नाशयित । "मुष स्तेये' इति स्यादेर्धातोः शत्रन्तस्य रूपमिदम् । श्रीमुष्णं नाम क्षेत्रं मे मम नेत्रयोः पात्रभावं दृष्टिगोचरत्वमित्यर्थः । प्राप्तम् । तस्मादिति संबन्धः ॥ ३८२ ॥ पूर्वत्र 'मुष्णदंहःसहस्रं' इत्युक्तमेव सहेतुकमुपपादयति-वरेति । वरा सकलदेवश्रेष्टा चराचरयोः स्थिर-चञ्चलयोः अन्तरे चित्ते स्थिता, अन्तर्यामिरूपेणेत्यर्थः । सुरा देवा असुरा दैत्याश्च तैरनुसेविता, धरां पृथ्वी धरति उद्धारयतीति १ परत्र'. २ दिवि'. ३ 'नश्चरित्रम्'. ४ 'समस्त'. ५ 'प्राप्तभावम्'. ६ 'धराधराधिदेवता'. For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३२] पदार्थचन्द्रिकाटीकासहिता । २०९ सदा सदावलिस्तुता मुदामुदारशेवधि हिता हि ता_केतना नती न तापतां नयेत् ॥ ३८३ ॥ श्रीमत्कवीन्द्रश्चात्र कश्चिदित्थमनुसन्धत्ते ॥ १६४ ॥ सदावदातनिम्नगातटीकुटीरवासिनी कैटिस्फुटीभवत्करा किटीश्वरी पटीयसी । रसारसादिहोदिता रसालसालसंवृते वनेऽवनेषु दीक्षिता मदीक्षिताधिदेवता ॥ ३८४ ॥ धराधरा, रसातलगतायाः पृथ्व्या दंष्ट्राग्रेणोद्धारयित्रीत्यर्थः । अत एव सदा सततं सतां साधूनां आवल्या पतया स्तुता प्रशंसिता, मुदां निरतिशयात्मानन्दानां उदारो महान् शेवधिः समुद्रः तद्रूपेत्यर्थः । हिता निखिलजगद्धितकी, तायकेतना गरुडध्वजा एतादृशी आदिदेवता वराहरूपिणी सूकररूपधारिणी, नता नमस्कृता सती, तापतां संसारसंबन्धितापत्रयरूपं न नयेत् न प्रापयेत् । हिरवधारणर्थकः ॥ ३८३॥ अत्रार्थे अन्यकवेरपि संमतिं द्योतयन्नाह-श्रीमदित्यादि। अनयोक्त्याऽग्रिमपयं न प्रस्तुतकवेरिति प्रतिभाति ॥ १६४ ॥ सदेति । रसायां भूमौ " भूर्भूमिरचलानन्ता रसा विश्वंभरा स्थिरा।" इत्यमरः। रसात् प्रीतेर्हेतोः “ रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे। बोले रागे गृहे धातौ तिक्तादौ पारदेऽपि च ।" इति हैमः । इह रसाला आम्रवृक्षाश्च सालाः सर्जवृक्षाश्च तैः “ आम्रचूतो रसालोऽसौ" " साले तु सर्ज-कार्याश्वकर्णकाः सस्यसंवरः।" इत्युभयत्राप्यमरः । संवृते वेष्टिते वनेऽरण्य उदिता उत्पन्ना सदा अवदाता गौरवर्णा शुद्धा वा “ अवदातः सितो गौरः” इत्यमरः। या निम्नगा नदी पिनाकिनी तस्यास्तटी तीरं "कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु" इत्यमरात् तटशब्दस्य त्रिलिङ्गत्वम् । तस्यां यत् कुटीरं अल्पगृहं गुहारूपमित्यर्थः । “कुटी-शमीशुण्डाभ्यो रः" इति सूत्रेणाल्पार्थे रप्रत्ययः । “वासः कुटी द्वयोः शाला सभासंजवनं त्विदम् ।" इत्यमरः । तस्मिन् वासिनी निवासिनी कट्यां स्फुटीभवन् प्रत्यक्षतया दृश्यमानः करो हस्तो यस्याः सा किटीनां वराहाणां ईश्वरी स्वामिनी आदिवराहरूपिणीत्यर्थः । “वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः।" इत्यमरः। पटीयसी अघटितघटनाचतुरा, पटुशब्दात् "द्विवचनविभज्य-" इत्यादिना ईयसुनि टिलोपः । अत एव अवनेषु पालनेषु दीक्षिता गृहीतव्रता एतादृशी आदिदेवता मदीक्षिता मया अवलोकिता ॥ ३८४ ॥ १'नतागति'. २ 'कटीतटीस्फुटीभवत्करा किटी पटीयसी'. ३ 'तादिदेवता'. For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० विश्वगुणादर्शचम्पू:- [यज्ञवराह कृ०-सोऽयं हेयप्रत्यनीकोऽपि शाङ्गीं कष्टं पृथ्वीकायाभूद्वराहः ।। इत्थं सिद्धे ब्रूहि भूलाभलोभात्कं के वेषं मानुषो नेहे धत्ते॥३८५॥ वि०-अनभिज्ञो भवान् भगवदवताररहस्यस्य ॥ १६५ ॥ शृणुपाठीनीयं कामठं कैटभारिः कैटं रूपं यातु काण्ठीरवं वा ॥ अन्यद्वा यत्सर्वमप्राकृतं तन्नासौ तेष्वप्युज्झति खखभावम् ॥३८६॥ किं च कोलं भुवि कोऽलं जगदालम्बमवैतुम् __ खामी शुभकामी किल भूमीमसुराँतोम् ॥ सोऽयमिति। सः अयं त्वया वर्णितः शाी श्रीविष्णुः, हेयानां राग-द्वेषादिप्राकृतदोषाणां प्रत्यनीको विरुद्धः तद्रहितोऽपीत्यर्थः । पृथ्व्याः काया वाञ्छया वराहः सूकरः अभूत्, इति कष्टं अन्याय्यम् । यतः इत्थं भगवतोपि पृथ्वीलाभहेतुना पशुरूपस्वीकारे सिद्धे सति, इह लोके भूलाभलोभात् पृथ्वीप्राप्तिकाङ्क्षायाः हेतोः, मानुषो मनुष्यः कं कं नीचतरं वेषं न धत्ते स्वीकरोति । को वा आयोपि सन् सेवकत्व-याचकत्वासत्याचरणानृतभाषणादि न करिष्यतीत्यर्थः । अपि तु भगवदुदाहरणात्सर्वमपि करिष्यत्येवेत्यर्थः । एतत् सत्यमसत्यं वेति ब्रूहि ॥ ३८५ ॥ अनभिज्ञ इति । भवान् भगवत ईश्वरस्यावताराणां रहसि भवं रहस्यं तस्य, गौप्यस्येत्यर्थः । “रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु ।" इत्यमरः । अनभिज्ञः अभिजानातीत्यभिज्ञः तथा न भवतीत्यनभिज्ञः, तन्न जानातीत्यर्थः ॥ १६५ ॥ अनभिज्ञत्वमेवाह-पाठीनीयमित्यादिना। कैटभारिः कैटभनामकासुरशत्रुः श्रीविष्णुः, पाठीनस्य सहस्रदंष्ट्राभिधमत्स्यविशेषस्येदं पाठीनीयं 'तस्येदम्' इत्यर्थे छ: तस्य च इयादेशः । “सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ ।" इत्यमरः । कमठस्य कूर्मस्येदं कामठं पूर्वोक्तेऽर्थे एवाण् । “ कूर्मे कमठ-कच्छपौ” इत्यमरः । वाथवा किटेर्वराहस्येदं कैटं कण्ठीरवस्य सिंहस्येदं काण्ठीरवं वा रूपं यातु प्राप्नोतु, अन्यत् अश्वादिरूपं वा यातु तथापि यद्यद्भगवान् रूपं धत्ते, तत्सर्वं अप्राकृतं प्रकृ. तिसंबन्धरहितं, यद्यस्मात् असौ भगवान् तेषु रूपेषु खीकृतेष्वपि खस्य स्वभावं सामर्थ्य न उज्झति न त्यजति । यथा-मत्स्यरूपेण वेदोद्धारणं, कूर्मरूपेण मन्दराचलधारणं, वराहेण धरण्युद्धारणमित्यायूह्यम् । नैतत् प्राकृतेन रूपेण कर्तुं शक्यमिति भावः ॥ ३८६ ॥ पुनरपि तमेव वराहं वर्णयति-कोलमिति । जगतः आलम्बं आश्रयं कोलं वराह " कोल: पोत्री किरिः किटिः ।" इत्यमरः । भुवि अवैतुं ज्ञातुं, अवपूर्वकातू १ योऽयम्'. २ 'नैव धत्ते'. ३ 'असुरात्ताम्'. For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३२ ] पदार्थचन्द्रिकाटीकासहिता । वाशिगभीराम्भसि काराभवनेऽभि - प्रस्तामिह मुस्तामिव यस्तामुदहार्षीत् ॥ ३८७ ॥ सभक्तिप्रकर्षं यज्ञवराहमभिध्यायन् तमामन्त्र्य - द्राघिष्ठं कुहनावराह ! भगवन्दंष्ट्रात्मकं ते हेटस्तम्भं संप्रति चिन्तयामि जलधिस्नेहौघसंपूरिता || यस्मिन्विन्दति दीपभाजनविधामामोदिनी मेदिनी चित्रस्तत्र च रत्नसानुरयते निष्कम्पदीपाकृतिम् ॥ ३८८ ॥ २११ ' इण् गतौ' इत्यादादिकात् तुमुन् । “ एत्येधत्यूट्सु – ” इति वृद्धिः । कः पुरुषः अलं समर्थः ? । कोपि नैवेत्यर्थः । यतः यः शुभानि भक्तकल्याणानि कामयते वाञ्छति तच्छीलः स्वामी सकलजगदधिपतिः वराहः, असुरेण हिरण्याक्षनामक दैत्येन आर्ता पीडितां भूमिं पृथ्वीं, वाराशेः समुद्रस्य गभीरे निम्ने अम्भसि उदके तद्रूपे इत्यर्थः । काराभवने बन्धनालये " कारा स्याद्बन्धनालये" इत्यमरः । स्थितां तां पृथ्वीं अभिग्रस्तां भक्षितां मुस्तामिव वराहभक्ष्यदूर्वा सदृशद्रव्यविशेषमिव 'नागरमोथा' इति महाराष्ट्रभाषाप्रसिद्धमिवेत्यर्थः । इह लोके उदाहार्षीत् समुद्दधार । तं कोलमिति संबन्धः । अस्य वृत्तस्य वृत्तरत्नाकरादौ लक्षणं नोपलभ्यते । चित्रवृत्ते - वस्यान्तर्भावः (?) ॥ ३८७ ॥ एवं संवर्ण्य भक्त्या तमेव चिन्तयति - द्राधिष्ठमिति । कुहनया दम्भेन कपटेनेति यावत् " कुहना दम्भचर्यायामीर्ष्याला कुहनस्त्रिषु । इति मेदिनी । वराहः सूकररूपधरः तत्संबोधने हे कुहनावराह हे भगवन्, ते दंष्ट्रात्मकं दंष्ट्रारूपं द्राघिष्ठ अतिदीर्घ दृढस्तम्भं अशिथिलस्तम्भं संप्रति इदानीं चिन्तयामि स्मरामि । यस्मिन् स्तम्भे जलधिः समुद्र एव स्नेहौघः तैलपूर: तेन संपूरिता, अत एव आमोदिनी आनन्दवती मेदिनी पृथ्वी दीपभाजनस्य दीपपात्रस्य विधां प्रकारं विन्दति प्राप्नोति । किंच तत्र पात्रे चित्रः चित्रवर्णः रत्नसानुः सुमेरुः " मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः । इत्यमरः । निष्कम्पः चलनरहितः अकृत्रिमत्वाज्जडत्वाच वातादिभयाभावादित्यर्थः । स चासौ दीपश्च तस्य आकृति आकारं अयते प्राप्नोति । तं स्तम्भमिति संबन्धः ॥ ३८८ ॥ " १ " न्यस्तामिव यस्तामिव मुस्तामिद'. २ ' तद्दृढम्', 'ते दृढम्' ३ 'संपू • रितम्'. For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ [कावेरी विश्वगुणादर्शचम्पू:अथ कावेरीवर्णनम् ३३. इत्यन्यत्राभिक्रामन् मन्दानिलस्पर्शसुखमभिनीय सानन्दम्कहारोत्पलतल्लजोल्ललनवत्कल्लोलनिर्लोलन क्रीडापाटवगाढरूढहिमतासौरभ्यविभाजितः ॥ कावेरीसलिलावगाहरसिकः कस्यैष नेड्यो मरुत् क्लान्तानां पुनरध्वनीनवपुषां यन्निधुनीते श्रमम् ॥ ३८९ ॥ कावेरीझरी निरीक्ष्य सशिरःकम्पम् हन्त रङ्गपुरसङ्गतमत्राहं तरङ्गचलपङ्कजसङ्घम् ।। सह्यजायतझरं बहु मन्ये स ह्यजायत तमःशमनार्थम् ॥ ३९०॥ अथ कावेरी वर्णयितुमुपक्रमते-इतीत्यादि । अभिक्रामन् अभिगच्छन् “वा. भ्राश-भ्लाश-" इत्यादिना श्यनभावपक्षे शप् । “क्रमः परस्मैपदेषु” इति दीर्घः । अभिनीय प्रकटीकृत्य__ कहारेति । कहाराणि सुगन्धीनि यानि उत्पलानि कमलानि तानि कहारोत्पलानि प्रशस्तानि च कहारोत्पलानि कहारोत्पलतल्लज्जाः “प्रशंसावचनैश्च" इति समासः । “मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि" इत्यमरः । तेषां उल्ललनं उन्नयनं विद्यते यस्मिन् तथाभूतं यत् कल्लोलेषु महातरङ्गेषु निोलनं ऊर्ध्वाधोभ्रमणं तद्रूपा या क्रीडा तस्यां यत्पाटवं कुशलत्वं तेन गाढं अतिमात्रं रूढाभ्यां हिमता शीतलता च सौरभ्यं सौगन्ध्यं च ताभ्यां विभ्राजितः विराजितः, एतादृशः कावेर्याः नद्याः सलिले जले योऽवगाहः स्नानं तस्मिन् रसिकः अनुरक्तः एषः मरुत् वायुः, " मरुतौ पवनामरौ" इत्यमरः । कस्य पुरुषस्य ईज्यः स्तुत्यः न भवति ? यत् यस्मात् कारणात् क्लान्तानां अतिमार्गक्रमणश्रान्तानां अध्वनीनानां पथिकानां, अध्वन्शब्दात् “ अध्वनो यत्खौ” इति अलंगच्छतीत्यस्मिन्नर्थे खः "आत्माध्वानौ खे" इति टिलोपो न । “अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ।" इत्यमरः । वपूंषि शरीराणि तेषां श्रमं क्लमं निर्धनीते निवारयति । अतः स मरुत् सर्वस्यापि स्तुत्य इति भावः ॥ ३८९ ॥ पुनरपि तामेव कावेरीझरी वर्णयति-हन्तेति । हन्तेति हर्षे । अत्र पुरोवर्तिभागे रजपुरेण श्रीरङ्गनाथक्षेत्रेण संगतं मिलितं तरङ्गैर्लहरीभिः चलाश्चञ्चलाः पङ्कजानां कमलानां संघाः समुदाया यस्मिंस्तं एतादृशं, सह्यजायाः सह्याद्रेत्पन्नायाः कावेर्याः आयतं दीर्घ झरं प्रवाहं, अहं बहु अतिशयेन मन्ये मानयामि । हि यस्मात् सः १ 'ललनकृत्'. २ ‘सरित'. ३ 'निरूप्य'. For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३३] पदार्थचन्द्रिकाटीकासहिता । २१३ एषा खलु दोषाकुलसकलमनुजकुलसकलकलुषशोषणबद्धकैकणा। निजतटनिबिडतमबँकुलधवलकुलतिलकामलकाविरलसरलकुन्दचन्दनमन्दारसहकारकेरलकेसैरसरलबदरकदम्बकदम्बकगम्भीरजम्बीरजम्बूसंपूर्णपर्णकुसुमपलाशसमृद्धकपित्थलोध्रनीरन्ध्रशिलीन्ध्रपाटलपटलजटिलक्रमुकप्रमुखविशङ्कटविटपिमञ्जरीपुञ्जसञ्जरीजृम्भदुरुतरश्रमशमकरमकरन्दरस कावेरीप्रवाहः तमसः अज्ञानस्य पापस्य वा शमनार्थ विनाशार्थ अजायत प्रकटीबभूव ॥ ३९० ॥ एषेति । एषा कावेरी नदी खलु दोषैः पापैराकुलानि व्याप्तानि यानि सकलमनुजकुलानि निखिलमनुष्यवृन्दानि तेषां सकलकलुषाणां सकलपातकानां शोषणे नाशने बद्धं कङ्कणं यया सा, तदर्थ कृतनिश्चयेति यावत् । निजतटे स्वकीयतीरे निबिडतमाः अतिसान्द्राः ये बकुला बकुलवृक्षाश्च धवलकुलानि अर्जुनवृक्षसमूहाश्च तिलकाः क्षुरकाश्च "तिलकः क्षुरकः श्रीमान्" इत्यमरः । आमलकाश्च अविरला निबिडाः सरलाः पीतसंज्ञकवृक्षाश्च "पीतद्रुः सरलः पूतिकाष्ठं" इत्यमरः । कुन्दाश्च चन्दनाश्च मन्दाराः पारिजातकाच “मन्दारः पारिजातकः" इत्यमरः । सहकारा आम्रवृक्षाच केरलाश्च वृक्षविशेषाः केसराश्च सरलाच, कचित् सरस इति पाठः । तत्पक्षे बदरविशेषणम् । बदराश्च कदम्बा नीपाश्च "तूलं च नीप-प्रियक-कदम्बास्तु हलिप्रिये ।" इत्यमरः । तेषां वृक्षविशेषाणां कदम्बकं समूहः तथा गम्भीरा ये जम्बीराश्च जम्ब्वः जम्बूवृक्षाश्च, जम्बूशब्दः स्त्रीलिङ्गः । “बार्हतं च फले जम्ब्वा जम्बू स्त्री जम्बु जाम्बवम् ।” इत्यमरात् । संपूर्णानि समग्राणि निबिडानीति यावत् । पर्णानि कुसुमानि पुष्पाणि च येषु तादृशाः पलाशाः किंशुकाः "पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे ।" इत्यमरः । समृद्धाः ये कपित्थाः लोध्राश्च तैः नीरन्ध्राः सान्द्राः शिलीन्ध्राः पाटलाश्च तेषां पटलानि समूहाः “ समूहे पटलं न ना" इत्यमरः । तैश्च जटिला निबिडाः अन्योन्यसंमिश्रा इत्यर्थः । ये क्रमुकाः पूगवृक्षाश्च " घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु ।" इत्यमरः । ते सर्व प्रमुखा मुख्याः येषु ते ये विशङ्कटाः विशालाः “ विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् ।" इत्यमरः । विटपिनो वृक्षाः तेषां मञ्जरीपुळेभ्यः मअरीसमूहेभ्यः संजरीज़म्भन् अत्यन्तं प्रवहन् , जृम्भतेर्यलुकि द्वित्वे च "रीगृदुपधस्य च” इत्यभ्यासस्य रीगागमः। उरुतरः अतिबहुलः श्रमशमकरः ग्लानिनिवारकः मकरन्दरसः पुष्परससारं तस्य सुग्रसने सुष्ठु पाने तात्पर्य अत्यन्तासक्तत्वं तेन पर्यटन्तः परितो भ्रमन्तः अदभ्राणां बहूनां. विभ्रमाणामालम्बा आश्रयभूताः रोलम्बा भ्रमरास्तेषां निकुरम्बै समूहैः १ किल'. २ 'दोषाकुलमनुज'. ३ 'बद्धकङ्कणकङ्कणा'. ४ 'बकुलबकुल', 'बकुलधरबकुल', 'बकुलधवलबकुलकुल'. ५ 'सहकारकेसरं'. ६ 'सरसकदम्बकदम्बकबदर'. For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . . - -. -...--- --- - ----- Aurr-.---- -.--.- - - .. - - - - - -.- - .--..- ---- २१४ विश्वगुणादेशचम्पू:- [ कावेरीसुग्रसनतात्पर्यपर्यटददभ्रविभ्रमालम्बरोलम्बनिकुरम्बकरम्भिततया कलिन्दनन्दिनीप्रतिच्छन्दतामनुविन्दन्ती । निशाकलितविशालसुरतदशाभवश्रमशालिक्षितीशालिनिशान्तकृशाङ्गीजनमजनवेलादोलायितपृथुलहारप्रत्युप्तमुक्ताफलरुचिनिचयपरिचयरचितया शुचितया पीताम्बरपदाम्बुरुहसम्भवसरिदम्बुडम्बरं विडम्बयन्ती । संततमन्तर्गतचिरन्तनपुरुषतल्पीभवदनन्तफणामणिघृणिश्रेणीशोणीभूततया सरखतीमनुकुर्वन्ती । पार्श्वद्वय्यामपि नैयमिककर्मानुष्ठानश्रद्धाबद्धासनशुद्धावनीसुरारब्धानवद्युब्रह्मयज्ञसमयसमधिगतमन्त्रब्राह्मणाम्रेडनपूर्वकमजस्रं सहस्रपत्रमध्यमध्यासीनानां श्रीरङ्गराजनाभिसरोजविराजमाननिखिलनिगमपठनमुखरचतुर्मुखवैख"समुदायः समुदयः समवायश्चयो गणः । स्त्रियां तु संहतिवृन्दं निकुरम्बं कदम्बकम्। समूहे" इत्यमरः। करम्भिततया व्याप्ततया कलिन्दनन्दिनी यमुना तस्याः प्रतिच्छन्दतां तुल्यतां अनुविन्दन्ती प्राप्नुवती । तथा निशायां रात्रौ आकलितं आचरितं यत् विशमलं सुरतं बहुव्यवायः तस्य दशायामवस्थायां भवो जातो यः श्रमः तेन शाली युक्तः क्षितीशालीनां राजसमूहानां निशान्तकृशाङ्गीजनः अन्तःपुरस्त्रीसमूहः तस्य मज्जनवेलायां स्नानवेलायां दोलायिताः दोलावदाचरिताः ये पृथुला महान्तो हाराः तेषु प्रत्युप्तानि खचितानि यानि मुक्ताफलानि मौक्तिकानि तेषां रुचिनिचयस्य कान्तिसमूहस्य परिचयेन रचितया निर्मितया शुचितया शुभ्रत्वेन पीताम्बरस्य विष्णोः पदाम्बुरुहात् चरणकमलात् संभव उत्पत्तिर्यस्याः सा तादृशी या सरित् गङ्गानदी तस्याः अम्बुडम्बरं उदकाडम्बरं विडम्बयन्ती अनुकुर्वती। तथा संततं निरन्तरमन्तर्गतः अन्तः स्थितो यश्चिरन्तनपुरुषः श्रीरङ्गनायकाख्यो भगवान् तस्य तल्पीभवन् शयनरूपीभवन् योऽनन्तः शेषः तस्य फणामणीनां घृणिश्रेणीभिः किरणपतिभिः "किरणोऽस्र-मयूखांशु-गभस्ति-घृणि-रश्मयः ।" इत्यमरः । शोगीभूततया रक्तीभूतत्वेन सरखतीं नाम नदीमनुकुर्वन्ती, तथा पार्श्वद्वय्यां तीरद्वयेऽपीत्यर्थः । द्वय्यामित्यत्रायचः स्थानिवद्भावेन तयप्प्रत्ययान्तत्वात् “टिवाणञ्-" इत्यादिना ङीप् । नैयमिकानि नियमसंबन्धीनि यानि कर्माणि तेषामनुष्ठाने या श्रद्धा आस्तिक्यबुद्धिः तया बद्धानि रचितान्यासनानि यैस्ते अत एव शुद्धाः पवित्रा ये अवनीसुरा ब्राह्मणास्तैरारब्धो यो ब्रह्मयज्ञः तत्समये समधिगतानि प्राप्तानि मन्त्रब्राह्मणानि वेदमन्त्रा इत्यर्थः । तेषां आनेडनपूर्वकं द्विस्त्रिरुच्चारणपूर्वकं “आमेडितं द्विस्त्रिरुक्तम्" इत्यमरः । अजस्रं निरन्तरं सहस्रपत्रमध्यं कमलमध्यमध्यासीनानां श्रीरङ्गराजस्य भगवतः नाभिसरोजे नाभिकमले विराजमानस्य शोभमानस्य निखिलनिगमानां चतुर्णामपि १ 'लोलम्ब'. २ 'राम्भित'. ३ 'सुरतदशानुभव'. ४ 'क्षितीशनि'. ५ 'सरितं विडम्बयन्ती', 'सरिज्झरं विडम्बयन्ती'. ६ फणामणिश्रेणी'; 'अनघ'. ७ 'अनर्घ'. ८ समेधित'. ९ 'सहस्रपत्रपत्र'. For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता। २१५ री व्याचक्षमाणानां मदकलमरालयूनां वरटापरिरम्भचुम्बनमुखानङ्गसङ्गरप्रक्षोभसमुत्सृत्वैरैरभिरामतामरसपरागैरभिनवचन्दनरसमसृणशरीरेव । सलीलमाकण्ठनिमममूर्तीनां सुगात्रीणां वदनैरदसीये पयसि विहायसाध्यासेन समागतश्चन्द्रमाः सन्निहितश्रीरङ्गधामा खसमाननामा विधुर्विरचितानेकावतार इतीर्ण्यया खयमपि बहूनि रूपाणि विदधानो विराजत इति भ्रान्त्यां सत्यामनुरागमान्द्यसंपादिकायामितरेतरदृढाश्लेषविशेषोन्मिषत्तोषाभिः कोकदम्पतीपरम्पराभिर्निराकृतायामकुण्ठोत्कण्ठेन युवलोकेन निर्निमेषमवलोक्यमानैरलंकृता सरर्खत्याभिमुख्येन कवेरात्मजेति प्रसिद्धिं सार्थवेदानां पठनेन मुखरा शब्दायमाना या चतुर्मुखवैखरी ब्रह्मवाणी तो व्याचक्षमाणानां स्पष्टीकुर्वतां मदकलानां मदोत्कटानां “मदोत्कटो मदकल:" इत्यमरः । मरा. लयूनां तरुणहंसानां वरटाभिः योषिद्भिः सह "हंसस्य योषिद्वरटा" इत्यमरः । परिर. म्भः आलिङ्गन चुम्बनं च मुखं मुख्यं यस्मिस्तादृशं यदनङ्गसंगरं मदनयुद्धं सुरता. चरणमित्यर्थः । तस्य प्रक्षोभेन समुत्सृत्वरैः निःसृतैः, समुत्पूर्वकात्सर्तेः "इण-नश्जि-सर्तिभ्यः-" इति क्वरप् प्रत्ययः; पित्त्वात्तुगागमः । अभिरामतामरसपरागैः मनोहरकमलरजोभिः अभिनवचन्दनरसेन मसृणमुपलिप्तं शरीरं यस्याः सेव, तथा सलील यंथा तथा आकण्ठं कण्ठपर्यन्तं निमग्नाः जलाच्छादिताः मूर्तयो देहा यासां तासां सुगात्रीणां सुन्दरशरीराणां स्त्रीणां वदनैः मुखैः, हेतौ तृतीया । अदसीये अस्याः कावेर्याः संबन्धिनि पयसि जले विहायसाध्यासेन आकाशभ्रान्या समागतश्चन्द्रमाः संनिहितं समीपं श्रीरङ्गस्य भगवतः धाम स्थानं यस्य सः तथाभूतः सन्, आत्मना समानं तुल्यं नाम विधुरिति यस्य सः, विधुः विष्णुः “विधुर्विष्णौ चन्द्रमसि" इत्यमरः । विरचिताः धृताः अनेके बहव अवतारा येन तथोक्तः इति एवंरूपया ईयेया अक्षमया स्वयं चन्द्रमा अपि बहूनि रूपाणि विदधानः धारयन् सन् विराजति शोभते । इत्येवंरूपायां अनुरागस्य प्रेम्णः मान्द्यसंपादिकायां मन्दत्वोत्पादिकायां भ्रान्त्यां सत्यां, ततः इतरेतरदृढाश्लेषे परस्परदृढालिङ्गने विशेषेणातिशयेन उन्मिषन् उत्पद्यमान: तोषः संतोषो यासां ताभिः कोकदम्पतीपरंपराभिः चक्रवाकमिथुनपङ्किभिः निराकृताया, 'यद्येते सर्वे चन्द्राः स्युस्तर्हि नास्माकं परस्परालिङ्गनं संभवति, परं चेदानीमेतत्संभवति, तस्मानेमे चन्द्राः, किंतु स्त्रीणां मुखान्येव' इति निवारिताया सत्यां, अकुण्ठा अप्रतिहता उत्कण्ठा यस्य तेन युवलोकेन तरुणजनेन निर्निमेषं नेत्रमीलनरहितं यथा स्यात्तथा अवलोक्यमानैः स्त्रीमुखैरिति शेषः । अलंकृता, सरखत्याः वेदशास्त्रवाण्याः सरखति समुद्रे च आभिमुख्येन सांमुख्येन पण्डितबाहुल्यात् १ 'आचक्षमाणानां'. २ परिचुम्बचुम्बन'. ३ 'विसृत्वैरः. ४ 'मसृणित'. ५ 'वैहायसाध्वना'. ६ 'भ्रान्तावनुराग'. ७ 'अवलोकनैः' 'अवलो कमानेन'. ८ 'सारस्वत्याभिमुख्येन'. For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ विश्वगुणादर्शचम्पूः [ कावेरी यन्ती । शान्तनवास्पदतया गाङ्गेयतरङ्गिणीति संज्ञामन्वर्थयन्ती । संमज्जनदुरितहराऽपि नमज्जनदुरितहरा निराकृतपथिकश्रान्तिः सर्वन्तीयं कंदलयति चक्षुषोरमन्दमानन्दम् ॥ १६६ ॥ प्रहसति भवशोषकरी भवेन परितोषिता सुवर्णनदी ॥ दुर्वर्णरैचिरफेनैः सह्यसुता जाह्नवीमसह्यसुताम् ॥ ३९१ ॥ पुनः सश्लाघम् - स्वर्णवन्तं विदुः कान्तं रामां हेमापगामिमाम् || दाम्पत्यमनयोरेतदनुरूपं विशोभते ॥ ३९२ ॥ प्रयत्नमन्तरा संपादनेन, समुद्रे च प्रेमातिशयेन चेत्यर्थः । कवेः पण्डितस्य आत्मजा कवेरस्य सह्याद्रेः आत्मजा कन्येति च प्रसिद्धिं ख्यातिं सार्थयन्ती यथार्थीकुर्वन्ती । शन्तनोरपत्यं शान्तनवो भीष्मः तस्य, शान्तानां शमयुक्तानां नवाः स्तुतयश्च तासां च आस्पदतया स्थानतया योग्यतया च गाङ्गेयतरङ्गिणी भीष्मजननी गङ्गेत्यर्थः । पक्षे गाङ्गेयं सुवर्णे तन्मयी तरङ्गिणीति च " स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् | तपनीयं शातकौम्भं गाङ्गेयं भर्म कर्बुरम् । " इत्यमरः । संज्ञां नाम अन्वर्थयन्ती अर्थयुक्तां कुर्वन्ती । संमज्जनेन स्नानमात्रेण दुरितहरापि पापहरापि, मज्जनदुरितहरा न भवति इति विरोधः, नमतां नमस्कुर्वतां जनानां दुरितहरा इत्यर्थेन च तत्परिहारः । निराकृता निवारिता पथिकानां पान्थानां श्रान्तिः श्रमो यया सा इयं कावेरी नाम स्रवन्ती नदी चक्षुषोर्ने त्रयोः अमन्दं बहुलं आनन्दं कन्दलयति उत्पादयति ॥ ११६ पूर्वस्मिन् गद्ये गङ्गासाम्यं प्रतिपादितं कावेर्याः, अधुना गङ्गाया अप्याधिक्यं प्रतिपादयति उत्प्रेक्षया - प्रहसतीति । भवस्य संसारस्य शोषकरी नाशकरी भवेन शिवेन संसारेण च परितोषिता, सह्यस्य सह्याद्रेः सुता कन्या तत्रोत्पन्नेत्यर्थः । सुवर्णा शोभन वर्णयुक्ता, सुवर्णा कनकमयी च नदी कावेरी, दुर्वर्णै: कृष्ण ताम्रादिरागैः, दुर्वर्णमिव रजतमिव च “दुर्वर्ण रजतं रूप्यम्" इत्यमरः । रुचिराः मिश्रिताः सुन्दराव फेनाः तैः असह्यस्य निन्द्यत्वात् सोढुमशक्यस्य " अकारो वासुदेवः स्यात्" इति कोशात् अस्य विष्णोः सह्यां मनोहरत्वात् सहनीयां लालनीयामिति यावत् । सुतां कन्यां जाह्नवीं गङ्गां प्रहसति उपहसत्येवेति । श्लेषमूलिका गम्योत्प्रेक्षेयम् ॥ ३९१ ॥ पुनरपि सश्लाघमाह - स्वर्णवन्तमिति । इमं कान्तं पतिं स्वर्ण कनकमस्यास्तीति तद्वन्तं तं प्रसिद्धं अर्णवं समुद्रं च विदुः जानन्ति । इमां कावेरीं हेमापगां सुवर्णनदीं रामां कान्तां च विदुः जानन्ति । अत एव एतत् अनयोर्जायापत्योः दांपत्यं अनुरूपं योग्यं विशोभते विशेषेण राजते ॥ ३९२ ॥ १ 'सज्जन, ' ' ससज्जन' २ ' स्रवन्ती चक्षुषोरमन्दं कन्दलयत्या मोदम् ' ३ 'रुचि: '. • For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् ३३ ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिका टीकासहिता । कृ० - साक्षेपम् — परिशोभिताम्रपार्श्वा मध्येमहितरङ्गराजतः स्फुरिता ॥ कथमिव दधाति कीर्ति कावेरी कनकनिम्नगेत्येषा ॥ ३९३ ॥ विश्वावसुः - आपातदूषणमिदं निरूप्यमाणमस्या गुण एव स्यात्पश्य तावदेतस्या रामणीयकम् ॥ १६७ ॥ - पीताम्बरालंकृतमध्यभागा कहारमालाकमनीयवेणी || सह्याद्रिकन्या जनकस्य गेहात्पत्युः समीपं व्रजति प्रसन्ना ॥ ३९४ ॥ पुनैर्निर्वर्ण्य उद्गच्छंदैच्छतमगुच्छलसच्छिरस्कास्तीरद्वयेऽपि तरवः प्रतिभान्त्यमुप्याः || २१७ अत्राक्षिपति कृशानुः– परिशोभीति । परितः आसमन्तात् शोभिनौ ताम्रमय पार्श्वं यस्याः सा, परितः आसमन्तात् शोभिताः फल- पुष्पसंपन्नत्वेन विराजिताः आम्राः आम्रवृक्षाः ययोस्तथाभूतौ च पार्श्वों यस्याः सा इति च मध्ये मध्यभागे महिताभ्यां महद्भ्यां रङ्गं त्रपु " त्रपु पिच्चटम् । रङ्गवङ्गे अथ पिचुः " इत्यमरः । राजतं रजतसमूहश्च ताभ्यामिति ततः स्फुरिता, मध्ये महितेन पूज्येन रङ्गराजतः श्रीरङ्गराजेन च, सार्वविभक्तिकस्तसिः । स्फुरिता शोभिता एतादृशी एषा कावेरी नदी कनकनिम्नगा सुवर्णनदी इति कीर्ति कथमिव दधाति धारयति ? व्यथैवेयं कीर्तिरस्या इति भावः ॥ ३९३ ॥ समाधत्ते - आपातेति । इदं पूर्वोक्तं निरूप्यमाणं त्वया दीयमानं आपातदूपणं अतात्त्विकं श्लेषमूलकमितियावत्, यद्दूषणमित्यर्थः । तदस्याः कावेर्याः गुण एव स्यात् । तावत्तस्मात् तत्त्वतः एतस्या रामणीयकं रमणीयत्वं पश्य ॥१६७॥ तदेवाह - पीताम्बरेति । इयं सह्याद्रिकन्या कावेरी पीतं च तत् अम्बरं वस्त्रं तेन, पीतकौशेय वस्त्रेणेत्यर्थः । पीताम्बरेण विष्णुना च " पीताम्बरोऽच्युतः शार्ङ्ग" इत्यमरः । अस्मिन् पक्षे च बहुव्रीहिः समासः । अलंकृतः मध्यभागो मध्यप्रदेशो नितम्बप्रदेशश्च यस्याः सा, कहाराणां रक्तकमलानां मालया पतया च कमनीया सुन्दरा वेणी केशपाशः प्रवाहश्च यस्याः सा तथाभूता "वेणी सेतु प्रवाहयोः । देवताडे केशबन्धे” इति हैमः । प्रसन्ना प्रसन्नान्तः करणा स्वच्छजला च सती, जनकस्य पितुः, सह्याद्रेश्च गेहात् गृहात्, प्रदेशाच्च पत्युः भर्तुः, समुद्रस्य च समीपं व्रजति गच्छति ॥ ३९४ ॥ किंच उद्गच्छदिति । अमुष्याः कावेर्यास्तीरद्वयेऽपि, स्थिता इति शेषः । उद्ग १ 'मध्यमितरङ्ग', 'मध्यमतोरङ्ग'. २ 'निरूप्यमाणाया अस्या' ३ ' एनां परमरमणीयाम्'. ४ 'निरूप्य' ५ ' उच्चतम '. १९ For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरी एनां तरीतुमिह यत्नजुषः खशीर्ष बद्धावदातवसनाः पथिका इवामी ॥ ३९५ ॥ . अथ श्रीरङ्गनगरीवर्णनम् ३४. किंचिदन्तरमुपसृत्य अधस्तादवलोक्य सहर्षम्सारङ्गडिम्भनयनानवकेलियोग्यनारङ्गमुख्यतरुपुष्कलनिष्कुटेयम् ।। श्रीरङ्गदिव्यनगरी प्रथते नयाब्धिपारंगतैर्बुधजनैः परिसेव्यमाना ॥३९६॥ निपुणं विभाव्य सशिरःकम्पम् हंसा निष्कुटदीर्घिकावसतयः प्रक्रान्ततर्कावहा . लीलोद्यानचरः पतञ्जलिगिरा पुंस्कोकिलः खेलति । द्वैताद्वैतकथा यथा विदधति क्रीडामयूरा इह खैरं तान्त्रिककारिकाः परिपठन्त्येता मुहुः सारिकाः ३९७ च्छन्तः उत्पद्यमानाः अच्छतमाः अतिखच्छाः ये गुच्छाः पुष्पपुजाः तैः लसन्ति शोभमानानि शिरांसि शाखाग्राणि येषां ते लसच्छिरस्काः तरवो वृक्षाः भान्ति शोभन्ते । कथंभूताः । इह अस्यास्तीरे एनां नदी तरीतुं पारं गन्तुं 'तृ प्लवन-तर. णयोः' इति धातोः “तुमुन्-ण्वुलौ-" इत्यादिना तुमुनि इटि च तस्य "वृतो वा" इति दीर्घः। यत्नजुषः प्रयत्नं कुर्वाणाः सन्तः अमी वृक्षाः स्वशीर्षे निजमस्तके बद्धानि जलस्पर्शभयेन वेष्टितानि अवदातानि शुभ्राणि वसनानि परिधानवस्त्राणि यैस्तथाभूताः पथिकाः पान्था इव, प्रतिभान्तीति संबन्धः । उत्प्रेक्षालंकारः ॥३९५॥ - सारङ्गेति । सारङ्गाडिम्भस्य हरिणशिशोरिव नयने नेत्रे यासां तासां हरिणनयनानां स्त्रीणां नवकेलीनां नवीनशृङ्गारक्रीडानां "हेला लीलेल्यमी हावाः क्रियाः शृङ्गा. रभावजाः । द्रव-केलि-परीहासाः क्रीडा लीला च नर्म च।" इत्यमरः । योग्याः नारङ्गा नारङ्गवृक्षा मुख्या येषु ते ये तरवो वृक्षास्तैः पुष्कलाः परिपूर्णाः निष्कुटाः गृहारामा यस्यां सा तथाभूता, तथा नयाः न्यायशास्त्राण्येव, नीतिशास्त्राणि वा अब्धिः समुद्रः तस्य पारंगतैः परतीरप्राप्तैः, संपूर्णनयशास्त्रनिपुणैरित्यर्थः । बुधजनैर्विद्वज्जनैः परिसेव्यमाना इयं पुरो दृश्यमाना श्रीरङ्गसंज्ञा दिव्यनगरी प्रथते प्रकाशते ॥३९६॥ किंच अत्र क्षेत्रे पक्षिणोऽपि विविधशास्त्रनिपुणा इत्याह-हंसा इति । इह श्रीरङ्गनगयों निष्कुटेषु गृहोद्यानेषु या दीर्घिका वाप्यस्तासु वसतिर्निवासो येषां ते १ 'नग'. २ 'परिभूष्यमाणा', परिहृष्यमाणा'. ३ 'तो अहो', 'तर्कच्छटा'. ४ 'युधा'. For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३४] पदार्थचन्द्रिकाटीकासहिता। किंचप्रातःप्रातः पयसि विमले पावने सह्यपुत्र्याः नायंस्नायं सकलविषयत्यागिनो योऽगिनोऽमी ॥ वारंवारं भुजगशयनं लोचनाभ्यां पिबन्तः क्षेमंक्षेमं क्षणवदखिलं कालमत्र क्षिपन्ति ॥ ३९८ ॥ कृशानुः-वयस्य विरुद्धमेव भाषसे ॥ १६८ ॥ सारङ्गदृष्टिं कथमुत्सृजभ्यः सा रङ्गदृष्टिः खदते मुनिभ्यः ॥ कवेरजासंगतिमुत्सिसृक्षोः कवेरजासङ्गरुचिः कथं स्यात् ? ॥३९९॥ तथोक्ताः प्रक्रान्तान् स्वसमुदाये वक्तुमुपक्रान्तांस्तान न्यायशास्त्राणि वहन्ति धारयन्तीति तद्वहाः । न्यायशास्त्रनिपुणा इत्यर्थः । हंसाः सन्ति । तथा लीलोद्याने क्रीडोपवने चरतीति तच्चरः पुंस्कोकिल: कोकिलपुरुषः । अत्र 'पुम् कोकिलः' इति स्थिते "पुमः खयि-" इति रुत्वे विसर्गे सत्वे 'अनुनासिकात् परः-" इत्युकारस्यानुखारे च सिद्धमिदम् । पतञ्जले: गिरा व्याकरणमहाभाष्यरूपया खेलति क्रीडति । तथा क्रीडामयूराः द्वैतं जीवेश्वरयोर्भेदः अद्वैत तयोरैक्यं च तयोः कथाः खसमुदाये संवादरूपा इत्यर्थः । यथा विदधति कुर्वन्ति, तथैव एताः सारिकाः शुकस्त्रियः तान्त्रिककारिकाः मीमांसाशास्त्रकारिकाः खैरं खच्छन्दं यथा तथा मुहु. वारं वारं परिपठन्ति उच्चारयन्ति ॥ ३९७ ॥ अथ तत्रत्यजनानां सदाचारं वर्णयति-प्रातः प्रातरिति । अत्र नगयाँ सकलविषयत्यागिनः ऐहिकसकलकामाद्युपभोगत्यागिनः, अत एव योगिनः योगाभ्यासिनः अमी जनाः प्रातः प्रातः प्रतिप्रातःकालं सह्यपुत्र्याः कावेर्याः नद्याः पावने पवित्रे विमले निर्मले च पयसि उदके, स्नायं स्नायं स्नात्वा नात्वा "आभीक्ष्ण्ये-" इत्यादिना पौनःपुन्यार्थे णमुल द्वित्वं च । वारं वारं निरन्तरं भुजगः शेषः शयनं यस्य तं श्रीरङ्गेशं, लोचनाभ्यां पिबन्तः अवलोकयन्तः सन्तः, क्षेमंक्षेमं निरन्तरकल्याणकारकं अखिलं सकलं कालं क्षणवत् क्षिपन्ति निर्यापयन्ति ॥ ३९८ ॥ अथ दूषयितुमुपक्रमते-वयस्येत्यादि ॥ १६८ ॥ विरुद्धत्वमेवाह-सारङ्गदृष्टिमिति । सारङ्गस्य हरिणस्येव दृष्टी नयने यस्याः सा तां स्त्रियं, जातावेकवचनम् । उत्सृजन्यः त्यजन्यः मुनिभ्यः योगिभ्यः सारङ्गदृष्टिः स्त्री, सा प्रसिद्धा रङ्गस्य रङ्गनाथस्य दृष्टिः दर्शनं च कथं स्वदते रोचते ? तथा कं ब्रह्म वेत्तीति कविः तस्य ब्रह्मविदः "को ब्रह्मणि शरीरे च” इति कोशः । अजायाः मायायाः मायामयसंसारस्येत्यर्थः । संगतिं संबन्धं, कवेरजायाः कावेर्याश्च संगति उत्सिसृक्षोः त्यक्तमिच्छोः कवेः पण्डितस्य अजासङ्गे मायासमागमे, कवेरजासङ्गे कावेरीसंबन्धे च रुचिः प्रीतिः कथं स्यात् ? अपि तु नैव भवेदित्यर्थः । अत्र 'सा १ 'क्षामक्षेमाः', 'क्षामाक्षेमाः'. २ 'दृष्टीः'. For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरीवि०-सखे भवता भणितानां पदानां व्यासेनैव विरोधः समाधेयः १६९ इत्यग्रतः पश्यन्नञ्जलिं बवा--- श्रीरङ्गे शोभते यस्य श्रीरङ्गे शोभते च यः॥ नमोऽहं कलये तस्मै न मोहं कलये ततः ॥ ४०० ॥ किंचप्रणिपतिकर्मीकुर्मः फणिपतिभोगेशयं रथाङ्गशयम् ।। कारणमेकं जगतां वारणपतिभीतिवारणं ज्योतिः ॥ ४०१ ॥ कृशानु:-किमस्मिन्नपि महाभुजङ्गशायिनि क्रियन्ते त्वया प्रणामाः १ ॥ तथाहि रणदृष्टिं कवेरजासंगति' इति लियाभ्यां पदाभ्यां विरोधाभासोऽलंकारः, वास्तवार्थेन च तत्परिहारः । दूषणमपि श्लेषणैव नतु वास्तवार्थेनेति ज्ञेयम् ॥ ३९९ ॥ सख इति । हे सखे, भवता भणितानां उच्चारितानां पदानां शब्दानां विरोधः विरोधाभासः व्यासेनैव, न त्वन्येनेति सूचनार्थमेवशब्दः । समाधेयः समाधातुं शक्यः परिहारार्ह इत्यर्थः ॥ १६९ ॥ अहं तु केवलं भगवन्तं नमस्करोमीति सूचयनाह-श्रीरङ्ग इति । यस्य भगवतः अङ्गे वक्षःस्थले श्रीलक्ष्मीः शोभते, खयं च यः श्रीरङ्गे नाम क्षेत्रे च शो. भते । तस्मै श्रीरङ्गनाथाय अहं नमः नमस्कारं कलये करोमि । कुतः, ततः नमस्काराचरणात मोहं प्रपञ्चासक्तिरूपं अविचारं, न कलये न खीकरोमि ॥ ४०० ॥ किंच प्रणिपतीति । फणिपतेः सर्पराजस्य शेषस्य भोगे शरीरे "अहेः शरीरं भोगः स्यात्" इत्यमरः । शेते इति तथाभूतः तं शेषशायिनमित्यर्थः । “शयवासवासिष्वकालात्" इति सप्तम्या अलुक् । रथाङ्गं चक्र शये हस्ते यस्य सः तं, चक्रपाणिमित्यर्थः । “पञ्चशाखः शयः पाणिः" इत्यमरः । जगतां एकमद्वितीयं मुख्यमित्यर्थः । कारणं, वारणपतेर्गजेन्द्र स्य भीतिवारणं भयनिवारकं ज्योतिः तेजो. रूपं, प्रणिपतेः प्र-नि-इत्येतदुपसर्गपूर्वकस्य पतधातोः अर्थात् प्रणिपातस्य नमस्कारक्रियाया इत्यर्थः । कर्मीकुर्मः, ईप्सिततमरूपं कुर्मः । तं प्रति नमस्कुर्म इत्यर्थः ४०१ पुनरपि दूषयति-किमिति । अस्मिन् महांश्वासौ भुजङ्गः विटः महाभुजङ्गः शेषश्च "भुजङ्गो विट सर्पयोः” इति कोशान्तरम् । तस्मिन् शेते तस्मिन्नपि त्वया प्रणामा नमस्काराः क्रियन्ते किम् ? अहो शेषशायिभगवन्नमस्कारकरणान्महद्भाग्यं तवेति वास्तवोऽर्थः ॥ १७ ॥ १ 'धाम'. २ किमस्मिन् महाभुजङ्गे'. For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३४ ] पदार्थचन्द्रिकाटीकासहिता। . २२१ श्यामोत्तुङ्गपयोधरोज्ज्वलरुचिस्तन्वन्भुजङ्गान्वयम् श्रीरङ्गस्थलनित्यवासरसिकः शृङ्गारिणामग्रणीः ॥ प्राकारप्रकरान्तरस्थितिमती या राजपद्मिन्यहो निःशङ्क परपूरुषश्चिरमसौ निद्राति तत्सन्निधौ ।। ४०२ ।। विश्वावसुः-श्लेषावलम्बना दोषा इमे न मे रोषावहाः, प्रत्युत तोषावहा इति नाहमत्रोत्तरयामि ॥ १७१ ॥ तदेव सविस्तृतमुपपादयति-श्यामेति । श्यामानां षोडशवर्षवयस्कानां तरुणीनां "श्यामा षोडशवार्षिकी" इति तल्लक्षणम् । उत्तुङ्गयोरुचयोः पयोधरयोः स्तनयोः उज्जवला अतिशयिता रुचिरासक्तिर्यस्य सः श्यामस्य नीलवर्णस्य उत्तुङ्गस्योन्नतस्य च पयोधरस्य मेघस्येव "स्त्रीस्तनाब्दौ पयोधरौ” इत्यमरः । उज्ज्वला भासमाना रुचिः कान्तिर्यस्य सः इति च तत्त्वार्थः । शृङ्गारः ख्यासक्तिरूपो विद्यते येषां ते शृङ्गारिणस्तेषां अग्रणीः अग्रेसरः । शृङ्गारलक्षणमुक्तं रससुधाकरे-“विभावैरनुभा. वैश्व स्वोचितैयभिचारिभिः । नीता सदस्यरसत रतिः शृङ्गार उच्यते ।" इति । स्त्रीपुरुषयोरन्योन्यासक्तिरूपेच्छाविशेषो रतिरित्युच्यते । तल्लक्षणमपि तत्रैव- "यून रन्योन्यविषयस्थायिनीच्छा रतिः स्मृता।" इति । अन्यत्रापि- "शृङ्गं हि मन्मथोद्वेदस्तदागमनहेतुकः । पुरुषः प्रमदाभूमिः शृङ्गार इति गीयते ।" इति । भरतोऽप्याह- "ऋतुमाल्यालंकारैः प्रियजनगान्धर्व-प्रणय-सेवाभिः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति । नयन-वदनप्रसादैः श्रुतिमधुर-वचो-धृति-प्रमोदैश्च । ललितैश्चाङ्गविहारैस्तदभिनयः संप्रयोक्तव्यः ।" इति । अत एव भुजङ्गानां विटानां भुजङ्गस्य शेषस्य च "भुजङ्गो विटसर्पयोः" । अन्वयं संबन्धं, अन्यत्र शयनरूपं च तन्वन् कुर्वन् , श्रीमति रङ्गस्थले रङ्गशालायां नाट्यस्थले इत्यर्थः । नित्यवासे सततनिवासे रसिकः, पक्षे श्रीरङ्गस्थले नाम क्षेत्रे नित्यवासरसिकः तत्र नित्यनिवासीत्यर्थः । असौ परः पत्युरन्यः जार इति यावत् । पूरुषः, पक्षे पर उत्तमः पुरुषश्च या प्राकाराणां पाषाणादिभित्तीनां शैवलादिवेष्टनानां च प्रकरस्य समूहस्य अन्तरे मध्ये स्थितिमती स्थितिशीला राज्ञः चक्रवर्तिभूपतेः पद्मिनी तल्लक्षणोपेता पत्नी, पक्षे राज्ञः चन्द्रस्य पद्मिनी कमलिनी “द्विजराजः शशधरः” इति कोशोक्तद्विजराजशब्दस्य राजेत्येकदेशेन ग्रहणम् । अथवा “सोमो वै राजा ब्राह्मणानाम्" इति श्रुतेश्चन्द्रस्य राजसंज्ञा । चन्द्रोदये विकासशालिनी कमलिनीत्यर्थः । तस्याः संनिधौ समीपे निःशकं निर्भयं यथा तथा चिरं बहुकालपर्यन्तं निद्राति । अहो इत्याश्चर्ये ॥ ४०२ ॥ एवं श्लेषगर्भितं भाषणं श्रुत्वा संतुष्टः सन्नाह विश्वावसुः-श्लेषावलम्बना इति । इमे 'श्यामोत्तुङ्ग-' इत्यादिना प्रतिपादिताः दोषाः श्लेषावलम्बनाः अर्थद्व १ निःशङ्कः'. २ 'दोपावहाः'. For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरीपुननिरूप्य---- क्षितिभृद्भिर्निजमौलिषु धृतपादो विरहितापकारी च ॥ इन्दुरिव रङ्गबन्धुर्दोषाभावे विलोक्यते किंतु ॥ ४०३ ॥ यद्वा--- न विधौ शुभरङ्गलक्षिताङ्गे समुदाप्यायनकारिणीह दृष्टे ॥ कलयामि कुरङ्गलक्षिताङ्गं कुमुदाप्यायनकारिणं विधुं तम् ॥ ४०४ ।। पुनः संचिन्त्य सविस्मयम् रङ्गेशसेवको युक्तं नातरीतिं भजेदिति ॥ चित्रमेतदसङ्गीति व्यपदेशं यदश्नुते ॥ ४०५ ॥ यावहशब्दाश्रयाः, अत एव मे मम रोष क्रोधं आवहन्ति संपादयन्ति तथाभूताः रोषोत्पादका इति यावत् । न भवन्ति । प्रत्युत तर्हि तोषावहाः संतोषजनका एव सन्तीति नाहमत्र त्वदुक्तदूषणेषु उत्तरयामि, प्रत्युत्तरं न ददामि ॥ १७१ ॥ क्षितिभृद्भिरिति । क्षितिमृद्भिः राजभिः पर्वतैश्च निजमौलिषु खकीयमस्तकेछु शिखरेषु च धृती पादौ चरणौ यस्य सः, पक्षे धृताः पादाः किरणाः यस्य सः इति चे, अविः पर्वतः मेरुखरूपः, सूर्यो वा "अवयः शैल-मेषाऽर्काः' इत्यमरः । अथवा विः पक्षी गरुडः भगवद्विभूतिरूपः “मेरुः शिखरिणामहम्" "आदित्यानामहं विष्णुज्योतिषां रविरंशुमान् ।" "वैनतेयोऽस्मि पक्षिणाम् ।” इति भगवद्गीतायां भगवतैवोक्तत्वात् । अहितानां शत्रूणां अपकारी नाशकर्ता, पक्षे विरहिणां प्रियजनवियोगयुक्तानां तापकारी संतापजनकश्च रङ्गबन्धुः श्रीरङ्गनाथः इन्दुरिव चन्द्र इव, किंतु दोषाणां कामक्रोधादीनां अभावे सति, दोषाभावे निशाभावे च विलोक्यते दृश्यते ॥ ४०३ ॥ किंच नेति । शुभे कल्याणगुणयुक्त रङ्गे क्षेत्रे लक्षितं अझं मूर्तिर्यस्य तस्मिन् , सुष्ठ शोभना अत्यन्तकल्याणावहा या मुत् आनन्दः तया आप्यायनकारिणि सुखकारिणि इह क्षेत्रे, विधौ चन्द्रे विष्णौ च "विधुर्विष्णौ चन्द्रमसि" इत्यमरः । दृष्टे सति, पुनः कुत्सितेन निन्दितेन रङ्गेण लक्षितं अङ्गं यस्य सः तं कुरङ्गेण मृगेण च लक्षितं चिह्नितं अङ्गं शरीरं यस्य सः तं च, कुत्सितया मुदा आनन्देन, कुमुदानां चन्द्रविकासिकमलानां च आप्यायनकारिणं विकासकारिणं च तं प्रसिद्धं विधुं चन्दं न कलयामि न पश्यामि ॥ ४०४ ॥ रङ्गेशेति । रङ्गेशस्य श्रीरङ्गनाथस्य उत्तमरङ्गस्य च सेवको भक्तः आश्रितश्च आर्तस्य दुःखिन: रीतिं प्रकारं न भजेत् न सेवेत । नाती नृत्यसंबन्धिनी रीतिं च भजेदिति च युक्तं योग्यमेव । किं तु रङ्गेशसेवकः असङ्गी स्यादिभोगासक्तिरहितः इति व्यपदेशं व्यवहारं अश्नुते प्राप्नोति इति यत् , एतदेव चित्रमाश्चर्यम् ॥४०५॥ १ 'पिलोक्यते'. २ 'सुहृदाप्यायन'. ३ 'विचिन्त्य'. For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३४ ] पदार्थचन्द्रिकाटीकासहिता। २२३ अन्यदद्धतमुद्भूतमत्र श्रीरङ्गधामनि ॥ यचन्द्राभिख्ययाप्येषा शोभते पुष्करिण्यहो ॥ ४०६ ॥ समन्तादवलोक्य सश्लाघम्रङ्गक्षेत्रमिदं रमेशितुरभिव्यक्तिस्थलेप्वादिमम् तीर्थ सैव मरुद्वधा भगवती यां तोष्टवीति श्रुतिः ॥ सर्वात्मा नगरस्य चास्य जगतां निर्वाहको नायको वासश्चेदिह लभ्यते जगति को वैकुण्ठमुत्कण्ठते ? ॥४०७॥ कृ०-सार्धाङ्गीकारम्सोऽयं यद्यपि हृद्य एव विषयः सायन्तनेन्दीवर श्यामाङ्गेन सनायकः कृततमोभङ्गेन रङ्गेन्दुना ।। भ्रान्ताः किंतु चरन्ति हन्त पिशुनाः शान्तात्मनां तापदाः श्रीमन्तो यदुदञ्चनाद्बत न खल्वत्रासमत्रासते ॥ ४०८ ॥ किंच अन्यदिति । अत्र श्रीरङ्गस्य भगवतः धामनि स्थाने क्षेत्रे अन्यत् उक्ता. दितरत् अद्भुतमाश्चर्य उद्भूतमुत्पन्नम् । किं तत् यत् एषा पुष्करिणी कमलिनी चन्द्रस्य अभिल्यया नाम्ना, कान्त्या चन्द्रिकया चापि शोभते । तत् अद्भुतमिति संबन्धः ४०६ रङ्गक्षेत्रमिति । इदं रङ्गक्षेत्रं रमेशितुर्लक्ष्मीपतेर्विष्णोः अभिव्यक्तिस्थलेषु प्रकटीभावस्थानेषु मध्ये आदिमं प्रथमं, वर्तत इति शेषः । किंच यां नदीं श्रुतिः वेदः "इमं मे गङ्गे यमुने-' इत्यादिरूपा इत्यर्थः । तोष्टवीति पुन:पुनर्भृशं वा स्तौति, टुञ् स्तुतौ' इत्यस्माद्धातोर्यङ्लु कि लटि रूपम् । सैव भगवती मरुदृधा कावेरी नदी अत्र तीर्थ विरजाभिधं प्रसिद्धम् । अस्य च नगरस्य नायकोऽधिपतिस्तु जगतां सर्वेषां लोकानां निर्वाहको रक्षिता, सर्वेषां प्राणिनां आत्मा अन्तर्यामी, भगवान् विष्णुरित्यर्थः । अस्ति । तस्मात् इह क्षेत्रे वासः सततं वसतिः लभ्यते प्राप्यते चेत् जगति कः पुरुषः वैकुण्ठं लोकं, गन्तुमिति शेषः । उत्कण्ठते ? अपि तु न कोऽपीत्यर्थः ।। ४०७ ॥ सोऽयमिति । सायं भवानि सायंतनानि यानि इन्दीवराणि नीलकमलानि तेषामिव श्यामं अङ्गं मध्यभागश्च यस्य तेन, कृतः तमसोऽज्ञानस्य अन्धकारस्य च भङ्गो येन तेन, रङ्ग क्षेत्रे इन्दुरिव चन्द्र इव तेन रङ्गनाथेन, पक्षे रङ्गयुक्तेन रागयुक्तेन इन्दुना चन्द्रेण च सनायकः सनाथः नायकेन शृङ्गारिणा च सहितः सः प्रसिद्धः अयं विषयो देशः यद्यपि हृद्य एव मनोहर एव वर्तते, किंतु तथापि भ्रान्ताः परधनलुब्धत्वेन अनवस्थितचित्ताः अत एव शान्तः आत्मा चित्तं येषां तेषां तापदाः संतापजनकाः पिशुनाः खला: "पिशुनौ खल-सूचकौ” इत्यमरः । एतादृशश्चोरा इत्यर्थः । चरन्ति परिभ्रमन्ति । हन्तेति खेदे । येषां दुष्टानामुदञ्चनात् सर्वतः संचाराद्धेतोः For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ . विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरीकिं बहुनानित्यं काञ्चनसिन्धुमध्यरुचिरो निष्कम्पसंपन्निधि र्निस्तुल्यामपि काञ्चनश्रियमुरोमध्ये दधानः स्वयम् ॥ बिभ्यत्किं पिशुनेभ्य एष बहुलप्राकारसंवेष्टिते शेते धामनि रङ्गनायक इति खाख्यामिह ख्यापयन् ॥४०९॥ वि०-सखे न जातु श्रीमतां हानिः, प्रत्युत तद्वेष्टणां पिशुनानामेव भवन्त्यनाः ॥ १७ ॥ परवित्तजिहीर्षया प्रवृत्तः पिशुनस्तु खयमेव नाशमेति ॥ सुलभः शलभस्य किं न दाहः पृथुदीपग्रसनाय जृम्भितस्य ॥४१०॥ अलमन्यप्रसङ्गेन, तमेवं च रङ्गेशं श्रीरङ्गधामानमनुसंदधामि॥१७३॥ अत्र क्षेत्रे श्रीमन्तः संपत्तिमन्तो जनाः अत्रासं भयरहितं यथा तथा न खलु आसते तिष्ठन्ति, न वसन्तीत्यर्थः । बतेति खेदे ॥ ४०८ ॥ किंच नित्यमिति । नित्यं संततं काञ्चनसिन्धोः सुवर्णसमुदायस्य कावेर्या नद्याश्च मध्ये रुचिरः सुन्दरः, तत्र वसान इत्यर्थः । अत एव निष्कम्पायाश्चलनरहितायाः शाश्वताया इत्यर्थः । संपदः संपत्तेः निधिः, तत एव च निस्तुल्यां निरुपमां काचनस्य सुवर्णस्य सुवर्णालंकारस्येत्यर्थः । श्रियं, पक्षे कांचन अनिवाच्यगुणयुक्तामित्यर्थः । श्रियं लक्ष्मी च उरसो वक्षस्थलस्य मध्ये मध्यभागे दधानः धारयन् सन्नपि स्वयं एष भगवान् पिशुनेभ्यः खलेभ्यः बिभ्यत् किं भयं प्राप्नुवनिवेत्युत्प्रेक्षा । बहुलाः अनेके ये प्राकाराः शिलादिनिर्मिताः प्रासादभित्तयः तैः संवेष्टिते परितो वृते धामनि स्थाने रङ्गस्य एतत्क्षेत्रस्य वङ्गस्य च नायकः पतिः इति स्वस्य आख्यां नाम, चोरभयात् वर्णनायक इति नाम निढुवन्नित्यर्थः । इह प्रदेशे ख्यापयन् प्रकथयन प्रसिद्धीकुर्वन्निति यावत् । शेते निलीय तिष्ठति निद्रातीति च ॥ ४०९ ॥ सख इति । जातु कदाचिदपि श्रीमतां संपत्तिमतां लक्ष्मीवतां च पिशुनेभ्य इति शेषः । न हानिः, प्रत्युत किं तु तान् लक्ष्मीवतः द्विषन्ति ते तद्भेटारस्तेषां पिशुनानामेव अनर्थाः शिक्षादिरूपाः भवन्ति ॥ १७२ ॥ एतदेव सविस्तरमाह-परवित्तेति । यस्तु पिशुनः परेषामन्येषां वित्तस्य द्रव्यस्य जिहीर्षया हर्तुमिच्छया प्रवृत्तः उद्यतः, सः खयमेव नाशं एति प्राप्नोति । एतदेव सदृष्टान्तमाह-पृथोहितः दीपस्य ग्रसनाय भक्षणाय जृम्भितस्य उद्यतस्य शलभस्य कीटविशेषस्य दाहो दहनं भस्मीभाव इत्यर्थः । सुलभः न किम् ? किंतु स एव सुलभः नान्यत् किमपीति भावः ॥ ४१० ॥ अत एव भगवदन्यकथाप्रसङ्गो मास्त्विति सूचयन्नाह-अलमिति । अन्यस्य १ विहस्य, सखे'. २ 'द्रोहिणां'. ३ 'परमेश'. For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - -वर्णनम् ३४ ] पदार्थचन्द्रिकाटीकासहिता । २२५ सविस्मयम् सपर्या विरुद्धादपि प्राप्तुमीष्टे ___ समर्थो जगत्यां यतो रामचन्द्रात् ॥ अरं-गाधिराजोदितप्रौढभक्ते रपि प्राप पूजां स रङ्गाधिराजः ॥ ४११ ॥ अथवा नात्र विरोध इति समर्थये ॥ १७४ ॥ कुवस्तुहानात् सद्वस्तुसंग्रही राघवः क्षमम् ॥ हन्ता कुरङ्गराजस्य रङ्गराजमपूजयत् ॥ ४१२ ॥ पुनः सभक्तिप्रकर्ष भगवन्तमुद्दिश्यश्रुतसुरनुतिघोषे शत्रुषु स्फीतरोषे निहतविनतदोषे नित्यदास्याभिलाषे । ललितवपुषि शेषे लब्धसंपूर्णतोषे परमपुरुष ! शेषे पर्वचन्द्राविशेषे ॥ ४१३ ॥ भगवत्कथेतरस्य प्रसङ्गेन अवसरेण अलं पर्याप्तं, स न कार्य इत्यर्थः । किंतु तं प्रसिद्धमेव च श्रीरले क्षेत्रे धाम स्थानं यस्य तं रङ्गेशं भगवन्तं अनुसंदधामि वर्णयामि ॥ १७३ ॥ सपर्यामिति । जगत्यां पृथिव्यां समर्थः संपत्तिमान , कर्तुमकर्तुमित्यादिसामर्थ्ययुक्तश्च विरुद्धात् शत्रोरपि विपरीताचारादपीति च, सपर्या पूजा, "पूजा नमस्यापचितिः सपर्या" इत्यमरः । प्राप्तुं लब्धं ईष्टे समर्थो भवति । यतो यस्मात् स प्रसिद्धः रजाधिराजः भगवान् अरङ्गाधिराजे रङ्गनाथभगवदितरस्मिन् , पक्षे 'अरे' इति छेदः । अरमतिशयितं गाधिराजे विश्वामित्रे च उदिता उत्पन्ना प्रौढा प्रगल्भा भतिर्यस्य तस्मात् रामचन्द्रादपि पूजां प्राप स्वीकृतवान् । तस्मात् इति संबन्धः । श्रीरङ्गनाथो रघुकुलदैवतमिति हि पुराणप्रसिद्धिः ॥ ४११॥ किंच कुवस्त्विति । राघवः कुवस्तूनां कुत्सितवस्तूनां हानात् त्यागात् सतां उत्तमानां प्रशस्तानां वा "सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यहिते च सत्" इत्यमरः । वस्तूनां संग्रही स्वीकारकर्ता एतत् क्षमं युक्तम् । यतः कुत्सितस्य निन्द्यस्य रङ्गराजस्य, कुरङ्गराजस्य मायामृगस्य च मारीचस्येत्यर्थः । हन्ता मारयिता राघवः इमं रङ्गराज रङ्गनाथं अपूजयत् पूजितवान् ॥ ४१२ ॥ श्रुतेति । श्रुतः आकर्णितः सुराणां देवानां नुतिघोषः स्तुतिघोषो येन तस्मिन् शत्रुषु वैरिषु स्फीतः प्रवृद्धः रोषः क्रोधो यस्य तस्मिन् , निहताः विनाशिताः विनतानां नम्राणां दोषाः पापानि येन तस्मिन् , नित्यं दास्ये भगवद्दासकर्मणि अभिलाष १ 'अलं गाधि'. २ 'हन्ता'. ३ 'श्रित'. For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरीभगवन् रङ्गनायक ! भवदीये सदसि भाषितुमपि वयं बिभीमः ॥१७५॥ तथाहिकर्तृ व्याकरणस्य वाममितरद्यस्य प्रवक्रीक्षणम् _ भाष्यं व्याकरणस्य साधु विदधे शय्या यदीया पुनः ॥ यद्वाहो द्विजशेखरः श्रुतिमयो यस्य स्नुषा भारती गोष्ठयां त्रस्यति तस्य ते कविजनो रङ्गेश ! कर्तुं स्तुतिम् ४१४ पुनरञ्जलिं बद्धवा सप्रार्थनम्वरगुणगणसीमा वारिदश्यामधामा सततममररामासंघसंगीतनामा ।। परिहृतभवदामा भासिताकल्पहेमा मम कलयतु भूमा मङ्गलं रङ्गधामा ॥ ४१५ ॥ इच्छा यस्य तस्मिन् , लब्धः प्राप्तः संपूर्णस्तोषः संतोषो येन भगवदृढभक्तयेत्यर्थः । तस्मिन् , ललितं मृदु सुन्दरं वा वपुः शरीरं यस्य तस्मिन् , पर्वणि पौर्णमास्यां यश्चन्द्रः तस्मादविशेषे विशेषरहिते तत्सदृशे इत्यर्थः । एतादृशे शेषे अनन्ते, हे. परमपुरुष भगवन् रङ्गनाथ ! शेषे शयनं करोषि ॥ ४१३ ॥ भगवनिति । हे भगवन् रङ्गनायक ! भवदीये त्वत्संबन्धिनि सदसि सभायां भाषितुं वक्तुमपि वयं विभीमः भयं प्राप्नुमः ॥ १७५ ॥ भयकारणमेवोपपादयति-कर्षिति । यस्य भगवतः वामं सव्यं ईक्षणं नेत्रं चन्द्ररूपमित्यर्थः । व्याकरणस्य चान्द्रव्याकरणस्य कर्तृ उत्पादकं, तथा इतरत् वामात् भिन्नं दक्षिणनेत्रं सूर्यरूपं सौरव्याकरणशास्त्रस्य प्रवक्त प्रणेत, पुनश्च यस्य रङ्गनाथभगवतः इयं यदीया भगवत्संबन्धिनीत्यर्थः । शय्या शेषरूपा व्याकरणस्य पाणिनीयव्याकरणशास्त्रस्य भाष्यं महाभाष्यरूपं व्याख्यानं साधु यथा तथा विदधे चकार, तथा यस्य भगवतो वाहो वाहनं श्रुतिमयो वेदरूपः द्विजानां ब्राह्मणानां पक्षिणां च श्रेष्ठः गरुडः, यस्य भगवतः स्नुषा पुत्रपत्नी भारती सरस्वती, तस्मात् हे रङ्गेश रङ्गनाथ भगवन् ! तस्य एतादृशगुणविशिष्टस्य ते तव गोष्ट्या सभायां कविजनः काव्यकर्तृसमुदायः स्तुतिं स्तवं कर्तुं त्रस्यति बिभेति ॥ ४१४ ॥ पूर्वोक्तगुणविशिष्टा देवता मम कल्याणं विदधातु इति मनसि निधाय प्रार्थयते -वरगुणेति । वराणां श्रेष्ठानां गुणगणानां गुणसमुदायानां सीमा मर्यादा, वारिदस्य मेघस्येव श्यामं नीलवर्ण धाम देहो यस्य सः, “गृह-देह-त्विट्-प्रभावा धामानि" इत्यमरः । सततं निरन्तरं अमररामाणां देवस्त्रीणां सङ्घन समुदायेन संगीतं उत्तम १ रङ्गचन्द्र ! भवदीयसंमुखे'. २ 'वक्त'. ३ 'नुति'. For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra –वर्णनम् ३४ ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir → पदार्थचन्द्रिकाटीकासहिता । अन्यतो वीक्ष्य सश्लाघम्- स्वामिनीं स्तौमि नीलाब्जमद मोचनलोचनाम् || अङ्गनां रङ्गनाथैस्य दीप्तिं मूर्तिमतीमिव ॥ ४१६ ॥ देवीमुद्दिश्यमोहोन्मूलनमूलिका भवजुषां मोक्षाध्वनिःश्रेणिका, चेत. शुद्धिविधान सिद्धगुलिका चिन्तातमश्चन्द्रिका || विद्याविभ्रमसौरिकासि कमले ! विष्णोरुरोमालिका मातस्त्वं मम पारिजातलतिका मोदाम्बुधेर्वीचिका ॥ ४१७॥ कृ० - कान्त्येव हन्त वृत्त्याऽपि कमलामपि चञ्चलाम् ॥ अशिष्टेष्वेव रज्यन्तीमभिष्टौति कथं बुधः ॥ ४९८ ॥ ● २२७ प्रकारेण गानेन वर्णितं नाम यस्य सः परिहृतं निवारितं भवस्य संसारसंबन्धि दाम बन्धनपाशो येन सः, समस्त संसारबन्धनोच्छेदक इत्यर्थः । भासितं प्रकाशितं आकल्पानां भूषणानां हेम सुवर्ण यस्य सः, रङ्गे रङ्गक्षेत्रे धाम स्थानं यस्य सः भूमा महात्मा भगवान् रङ्गनाथः, मम मत्संबन्धि मङ्गलं कल्याणं कलयतु करोतु ॥ ४१५ ॥ एवं भगवन्तं रङ्गनाथं स्तुत्वा तत्पत्नीं भगवतीं महालक्ष्मीं स्तौति – स्वामिनीमिति । नीलाब्जस्य नीलकमलस्य मदमोचने सौन्दर्यगर्वनिवारणे लोचने नेत्रे यस्याः सा तां मूर्तिमतीं प्रत्यक्षशरीरधारिणीं दीप्तिं कान्तिमिव स्थितां खामिनीं सर्वजनानामीश्वरी, रङ्गनाथस्य भगवतः अङ्गनां पत्नीं लक्ष्मीं स्तौमि वक्ष्यमाणप्रकारेण स्तुतिं करोमि ॥ ४१६ ॥ मोहोन्मूलनेति । भो मातः सकललोकजननि ! कमले महालक्ष्मि ! त्वं भवजुषां संसारिणां मोहस्याज्ञानस्य उन्मूलने निर्मूलने मूलिका मूली, अत एव मोक्षाध्वनः मोक्षमार्गस्य निःश्रेणिका अधिरोहणी, चेतसः अन्तःकरणस्य शुद्धिविधाने पवित्रीकरणे सिद्धगुलिका सिद्धगुटिका, चिन्तारूपस्य तमसः अन्धकारस्य चन्द्रिका चन्द्रकान्तिः, विद्याविभ्रमस्य विद्याक्रीडायाः सारिका, विष्णोर्भगवतः उरोमालिका वक्षःस्थलमाला, मम पारिजातलतिका कल्पवल्ली, अत एव मोदाम्बुधेरानन्दसमुद्रस्य वीचिका लहरी च असि । एतदेव क्रियापदं पूर्वविशेषणेष्वपि योज्यम् ॥ ४१७ ॥ | एवं लक्ष्मीवर्णनमाकर्ण्य चपलत्वरूपं दोषं तस्यामुद्भाव्य कृशानुः प्राह-कान्त्येवेति । हन्तेति खेदे । कान्त्या प्रभयेव वृत्त्या स्थित्या स्वभावेन चापि चञ्चलां चपलां विद्युतं चापि, किंच अशिष्टेष्वेव असभ्येष्वेव रज्यन्तीं रममाणां कमलां लक्ष्मीमपि बुधः पण्डितः कथमभिष्टौति प्रशंसति ? अपि तु नैव स्तौतीत्यर्थः । "उपसर्गात् सुनोति --" इत्यादिना षत्वम् ॥ ४१८ ॥ १ 'सप्रश्रयम्'. २ 'नौमि ' ३ 'रङ्गधाम्नोऽस्य' ४ 'गुटिका' ५ ' शालिका ' ६ 'कमलामति', For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरी तथाहिप्रापर्यमधिष्ठितोपि मृदुलं पालाशशय्यामपि प्रायः प्रार्थयते कदन्नमिव यः क्षीरोदनं भुक्तवान् ॥ प्राश्नात्येष कदुष्णिकाममृतवत् प्रागौप्तपीताम्बरः कन्यां याचति भृत्यति क्षितिपतिर्लक्ष्मीकटाक्षात्यये ॥ ४१९ ॥ अन्यच्चावधेयम्दातुभरि य एष वारणमगात्तद्वार्यहो वारणम् पश्याम्यद्य चिरादशेत भुवि यो भूस्तस्य शेते भुजे ॥ नाहारानपि लेभिरे यदबला हारानमूस्तत्प्रिया विन्दन्ते कमलाहगूर्मिभिरहो निन्ने भवत्युन्नतिः ॥ ४२०॥ लक्ष्म्याश्चञ्चलत्वमेव तावत्सविस्तृतमाह-प्रागिति । यः क्षितिपतिः पृथ्वीपती राजा, प्राक् लक्ष्म्याः कृपाकटाक्षसमये मृदुलं मृदुतरं पर्यत अधिष्टितः आरूढोऽपि सन् , लक्ष्म्याः कटाक्षस्य नेत्रापाङ्गदर्शनस्य अत्यये नाशे सति लक्ष्मीप्रसादाभावे इत्यर्थः । एतदेवाग्रेष्वपि वाक्येषु योज्यम् । पलाशानां पर्णानामियं पालाशी तां पर्णनिर्मितामित्यर्थः । शय्यामपि प्रायः प्रार्थयते वाञ्छति । तथा यः प्राक् क्षीरीदनं दुग्धयुक्तं भोजनं भुक्तवान् बुभोज, सः एषः कष्णिकां कुत्सितां यवागू अमृतवत् प्रकर्षण अनाति भुनक्ति । तथा यः प्राक् आप्तं परिहितं पीतं कौशेयं अम्बरं वस्त्रं येन सः तथाभूतः आसीत् , स एव कन्थां बहुवस्त्रखण्डरचितां याचति, अत एव मृत्यति दासवदाचरति च ॥ ४१९ ॥ किंच दातुरिति । यः एषः याचकः दातुः उदारधनिकस्य द्वारि द्वारदेशे वारणं निवारणं अन्तर्गमननिषेधं अगात् प्राप्तवान् , तस्य याचकस्य द्वारि वारणं निवारणं, गजं वा पश्यामि अवलोकयामि । अहो इत्याश्चर्ये । तथा यः चिरात् बहुकालपर्यन्तं भुवि केवलभूमावेव अशेत शयनं करोति स्म, तस्यैव भुजे बाही अद्य भूः पृथ्वी शेते । भुजबलात् भुवं लब्धवानित्यर्थः । तथा यस्य दरिद्रस्य अवलाः स्त्रियः आहारान् भोजनान्यपि न लेभिरे न प्राप्तवत्यः, तस्य दरिद्रस्य प्रियाः अमूः स्त्रियः हारान् मुक्ताफलमणिरचितान् विन्दन्ते प्राप्नुवन्ति । तस्मात् कमलाया लक्ष्म्याः दृशः दृष्टय एव ऊर्मयः तरङ्गास्तैहेतुभिः निम्ने नीचेऽपि उन्नतिः उच्चता संपत्त्यादिनेति भावः । भवति ॥ ४२० ॥ १ मणिमय'. २ 'दृष्टवान्'. ३ 'प्रागात्त'. ४ 'कन्यां याचति च क्षितेरधिपतिलक्ष्मी'. ५ 'भृत्यवत्'. ६ निनो भवत्युन्नतः'. For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३४] पदार्थचन्द्रिकाटीकासहिता। इदं च पुनर्बोद्धव्यम्- (श्रियमुद्दिश्य-) हन्तुबन्धुजनान् धनार्थमनघान् गन्तुः परस्त्रीशतम् रन्तुर्जन्तुविहिंसकैः सह जनैः संतुष्यतो वञ्चनैः ।। वक्तुस्तीक्ष्णमयुक्तमेव वचनं पक्तुर्मितं चौदनम् नित्यं नृत्यसि मन्दिरेषु कमले ! कत्यं तवैतन्मतम् ॥४२१॥ अन्यच्चयेषामन्यकलत्रदर्शनकलाव्युत्पत्तिशून्ये दृशौ मूढं हृच्च पैरार्थचिन्तनविधौ मिथ्यानभिज्ञं मुखम् ॥ अप्रज्ञातपशून्बुभुक्षितशिशूनभ्रोदकैस्ताम्यत स्तेषां लक्ष्मि गृहान् दृशी च भयभीतेवेह नावेक्षसे ॥ ४२२ ॥ अपि च हन्तुरिति । हे कमले लक्ष्मि ! धनार्थं द्रव्याथै अनघानू निरपराधान बन्धुजनान् हन्तुः, परस्त्रीणां शतं, अनेकपरस्त्रीरित्यर्थः । गन्तुः उपभोगार्थ गच्छतः, जन्तुविहिंसकैः प्राणिवधकर्तृभिः जनैः सह रन्तुः विहारशीलस्य, वञ्चनैः परप्रतारणैः संतुष्यतः, किंच अयुक्तं सभ्यजनानामयोग्य तीक्ष्णं कठोरं च वचनं भाषणं वक्तुः, मितं स्त्रोदरपूर्तिमात्रमेव ओदनमनं च पक्तः, “आत्मार्थ पाचयेनानं' इत्यादिशास्त्रात् आत्मपर्याप्तिमात्रान्नपचनमयुक्तमिति भावः । एतादृशजनस्य मन्दिरेषु गृहेषु नित्यं नृत्यसि । एतत् तव मतं वसं कुत उत्पन्नम् ? नान्यतः कुतोऽपि तु त्वत्त एवोत्पन्नमित्यर्थः ॥ ४२१ ॥ अथ ये तावत् सदाचरणतत्परास्तेषां गृहे नैव तिष्ठसीति वदन् लक्ष्मी दूषयतियेषामिति । येषां निर्मलमानसानां जनानां दृशौ लोचने अन्यकलत्राणामन्यस्त्रीणां दर्शनरूपा या कला तस्याः व्युत्पत्तिानं तेन शून्ये रहिते, कदापि परस्त्रीदर्शनवर्जिते इत्यर्थः । तथा येषां, इदमेव सर्वत्राग्रिमवाक्येषु योज्यम् , हृत् हृदयं च परार्थचिन्तनविधौ अन्यद्रव्यग्रहणविचारकरणे मूढं, सर्वदा सत्कार्यपरतया परद्रव्यापहाराद्यसत्कर्मविचारशून्यमित्यर्थः । क्वचित् 'परार्तिचिन्तनविधौ' इति पाठः । तत्पक्षे परपीडाकरणविचाररहितमित्यर्थः । तथा मुखं मिथ्यानभिज्ञ असत्यभाषणरहितं, सर्वदा सत्यभाषणपरमेवेत्यर्थः । तेषां जनानां अप्रज्ञाताः कदाप्यदृष्टाः पशवो गोमहिष्यादयो येषु तान् , बुभुक्षिताः क्षुधिताः शिशवो बालाः येषु तान् , अभ्रोदकैः वर्षाकालिकमेघजलैः ताम्यतः सम्यक् जलवारणाभावात् दुःखप्रदांश्च गृहान् प्रति हे लक्ष्मि ! इह भयभीतेव दृशा न अवेक्षसे नैव पश्यसि । सदाचारसद्विद्यादिसंपन्नान जनान् सततं दारिद्यावस्थायामेव वर्तयसीत्यर्थः ॥ ४२२ ॥ १ 'कृत्यं'. २ 'कथा'. ३ 'पराति'. ४ 'दृशा भवसरिन्नावेह'. For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३० विश्वगुणादर्शचम्पू: [ श्रीरङ्गनगरी |-- विश्वा० - सखे ! मानसखेदजननी तवेयं वाणी । यतो दुःशीलेषु दृश्यमानाः साधुजनानुपयुक्ताः संपदाभासाः, प्रत्युत मृत्युतरणकारणभुवनजननीकृपाकटाक्षवैधुर्यनिबन्धना एव । उक्तं हि गुणहानेरुदधिदुहितृवैमुख्यनिबन्धनत्वमुचितज्ञेन केनचिद्विदुषा ॥ १७६ ॥ C सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ॥ पराङ्मुखी जगद्धात्रि! यस्य त्वं विष्णुवल्लभे ! ॥ ४२३ ॥' इति । सख इति । हे सखे मित्र ! मानसस्य मनसः खेदजननी तव इयं 'कान्त्येव इन्त—' इत्यारभ्य ——नावेक्षसे' इत्यन्ता वाणी । यतो यस्मात् कारणात् दुःशीलेषु दुष्टस्वभावाचारेषु जनेषु दृश्यमानाः संपदः द्रव्यादिसमृद्धेः आभासाः, न तु सत्याः, चिरकालस्थायित्वाभावात् । अत एव साधुजनानां अनुपयुक्ताः प्रत्युत विचारे कृते तु मृत्योः जन्म-मरणादिपरंपरायुक्तस्य संसारस्य तरणे पारगमने कारणरूपा ये भुवनजनन्या लक्ष्म्याः कृपाकटाक्षाः तेषां वैधुर्य शून्यत्वं निबन्धनं प्रयोजकं येषां तथाभूता एव । सदाचार - सद्विद्यादिसंपन्नसज्जनानां जन्ममरणादिराहित्य-चिरसुखस्थायित्वादिदर्शनात् तद्विरुद्धाचाराणां च धनादिसंपन्नत्वेऽपि पुनः पुनर्जन्म-मरण- दुर्गतिप्रापणादिश्रवणाच्च । उक्तार्थे विद्वत्संमतिमाह – उक्तं हीति । गुणानां दया- दाक्षिण्यादीनां हानेः उदधिदुहितुः क्षीरसागरकन्यकायाः लक्ष्म्याः वैमुख्यं पराङ्मुखत्वमेव निबन्धनं प्रयोजकं यस्य तस्य भावस्तत्वं केनचित् उचितं लक्ष्मीकटाक्षस्य भवसागरमोचनमेव सत्यं फलमिति योग्यं जानातीति तज्जज्ञस्तेन विदुषा पण्डितेन । उक्तं हि कथितमेव । क्वचित् 'नमुचिद्विषा' इति पाठः । तत्पक्षे इन्द्रेणेत्यर्थः । इममेव पाठमनुसृत्याग्रिमपये ' इयं हि ( 'सद्यो वैगुण्यमायान्ति' इत्यादिरूपा ) इन्द्रायैरावतारूढाय राजोपहारकारणीभूता केनचित् स्वस्मै समर्पिता पुष्पमाला सहजमन्युना दुर्वाससा मध्येमार्गमेव दत्ता | शश्व तां गृहीत्वा गजेन्द्रगण्डस्थलोपरि निक्षिप्तवान् । स चैरावतस्तां पुष्करेण गृहीत्वा छिन्नामकरोत् । तद्दृष्ट्वा परमकोपनो मुनिराद इन्द्राय ' त्वत्पालितेषु भुवनेषु लक्ष्मीर्न वत्स्यति' इति शापमदात् । ततश्च सर्वत्र लक्ष्मीप्रादुर्भावाभावे यज्ञादिसंपत्त्यभावे च देवानां हविर्भागाद्यप्राप्त्या चिन्ताविष्टतया ब्रह्मादिकृतस्तवन संतुष्टाया लक्ष्म्याः सर्वलो - कहिताव प्रादुर्भावे शककृत लक्ष्मीप्रशंसारूपा प्रासङ्गिकी उक्तिः विष्णुपुराणे दृश्यते ।' इति टिप्पणी मुद्रितपुस्तके दृश्यते ॥ १७६ ॥ तामेवोक्तिं दर्शयति-सद्य इति । हे विष्णुवल्लभे विष्णुप्रिये, जगद्धात्रि जगन्मातः ! त्वं यस्य पुरुषस्य पराङ्मुखी भवसि तस्य शीलं सद्वृत्तं आद्यं मुख्यं येषां ते गुणाः सदाचरणपरोपकारादयः सकला अपि सद्यः सपद्येव विगुणानां दोषाणां भावः वैगुण्यं दोषरूपत्वं यान्ति प्राप्नुवन्ति ॥ ४२३ ॥ १ 'नमुचिद्विषा'. For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३४] पदार्थचन्द्रिकाटीकासहिता । २३१ ततश्च संपत्तिः किंपचानानां संप्राप्ता कापथेन या ॥ नरकानुभवोदको न सा लक्ष्म्याः कृपाफलम् ॥ ४२४ ॥ तथाहिधन्यंमन्यतया तृणीकृतबुधा धर्मेषु दुर्मेधसः सेव्स्तामसपुण्यलेशविलसत्संपल्लवाः पल्लवाः ॥ पश्यासूनपहाय पञ्चषदिनान्याकल्पमल्पा इमे ___ भोक्ष्यन्ते बत यातना बहुविधाः कार्तान्तगर्तान्तरे ॥४२५॥ यच्च भणितं भवता तत्रभवतः शिष्टान् लक्ष्मीन वीक्षत इति तदज्ञानोपबृंहितमेव । यतः साधुजनेभ्यो मुक्त्यैश्वर्यपर्यन्तनिरन्तरभगव संपत्तिरिति । किंपचानानां कृपणानां "कदर्ये कृपण-क्षुद्र-किंपचान-मितं. पचाः।" इत्यमरः । संपत्तिः या कापथेन कुत्सितमार्गेण प्राप्ता, सा नरकानुभव: उदर्कः उत्तरं फलं यस्याः सा तथाभूता । अत एव सा लक्ष्म्याः कृपाफलं न भवति । नहि खलु लोकमातुः कृपारसाईचित्ताया लक्ष्म्याः प्रसादेन दुर्गत्युदर्काणि फलानि भवन्तीति भावः ॥ ४२४ ॥ नरकानुभवोदकत्वमेव प्रपञ्चयति-धन्यंमन्यतयेति । आत्मानं धन्यं मन्यन्ते ते धन्यमन्यास्तेषां भावो धन्यंमन्यता तया हेतुना तृणीकृतास्तृणवत्तुच्छीकृता बुधाः पण्डिता यैस्ते तथाभूताः अत एव दुर्मेधसो दुष्टबुद्धयः, धर्मेषु सेाः धर्मनिबन्धनान्यसहमाना इत्यर्थः । पल्लवाः परदारासक्ताः जाराः “पल्लवः किसले बले । विटपे विस्तरेऽलक्तरागे शृङ्गार-षिङ्गयोः।” इति कोशः । अल्पाः क्षुद्राः पञ्चषदिनानि पञ्चषदिनपर्यन्तमित्यर्थः । “बहुव्रीहौ संख्येये-" इत्यादिना डचि टिलोपः । तामसः तमो. गुणप्रभवः यः पुण्यस्य लेश: अंशः तेन विलसन् संपदः धनादिसंपत्तेः लवो लेशो येषां ते तथोक्ताः इमे जनाः अन्ते असून प्राणानपहाय त्यक्त्वा आकल्पं कल्पपर्यन्तं बहुविधाः यातनाः तीवनरकवेदनाः कृतान्तस्य यमस्य अयं कार्तान्तः स चासौ गर्तः नरकरूपः तस्य अन्तरे मध्ये भोक्ष्यन्ते; पश्य । बतेति खेदे ॥ ४२५ ॥ एतावता 'दातुरि य एष-' इत्यादिना 'हन्तुबन्धुजनान्-' इत्यादिना चोक्तं दृषणं.परिहत्य ' येषामन्यकलत्रदर्शन-' इत्यादिनोक्तं दूषणं परिहर्तुमाहयश्चेति । यच्च तत्रभवतः पूज्यान् शिष्टान् जनान् प्रति लक्ष्मीर्न वीक्षते नावलो १ 'लक्ष्मीकृपा'. २ पञ्च'. ३ 'पञ्चषदिनैराकल्पकल्पा'. ४'विन्दते'. ५ 'अज्ञानोपशमवज्ञातुमेवाईम्'. For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ विश्वगुणादर्शचम्पू: [ श्रीरङ्गनगरी द्भक्तिसंपदं प्रदत्ते दूरापास्तमारामयविकारा वाराशिदुहितुरुदारकटाक्षसा धुसुधाधारा ॥ ९७७ ॥ संभोगारम्भजृम्भन्मदकितवपरीरम्भसम्पीड्यमानप्रौढस्त्रीरत्नहारप्रशिथिल गुणवद्भङ्गुराः सम्पदोघाः ॥ साधूनां मा स्म भूवन्सुरपुरनिरसीकारक्षं हि लोके भोक्ष्यन्ते मोक्षमन्ते स्थिरनिरवधिका नन्दधारात्मकं ते ॥ ४२६ ॥ किंच लक्ष्मीकटाक्षपूरः स जयति यदुपचयतारतम्येन ॥ नरसुरपशुप्रजानां पतयः स्युर्हन्त जन्तवः केऽपि ॥ ४२७ ॥ यति इति भणितं ' येषामन्यकलत्र - ' इत्यादिना प्रतिपादितं तदज्ञानेन तत्त्व - तोऽवबोधाभावेन उपबृंहितमुपवृद्धमेव । यतो हेतोः वाराशिदुहितुः समुद्रकन्याया लक्ष्म्याः दूरं अपास्तस्त्यक्तः मारः काम एव आमयो रोगस्तस्य विकारो यया सा उदारा मोक्षपर्यन्तानन्तसुखप्रदत्वान्महान्तो ये कटाक्षास्तद्रूपा या साध्वी उत्तमा सुधाधारा अमृतसंपातः मुक्त्यैश्वर्य मोक्षरूपा भूतिः पर्यन्ते अवसाने यस्यास्तादृशीं निरन्तरां अविच्छिन्नां भगवति विष्णौ भक्तिसंपदं प्रदत्ते प्रददाति ॥ १७७ ॥ , 'दूरापास्तमारामयविकारा' इति यलक्ष्मीकटाक्षाणामुदारत्वमुक्तं तदेव सहेतुकमुपपादयति-संभोगेति । संभोगस्य सुरतसुखस्य आरम्भे जृम्भन्तः उद्यन्तः मदयुक्ताश्च ये कितवा धूर्तास्तेषां परीरम्भेणाश्लेषेण संपीड्यमानाः प्रौढस्त्रीणां तरुस्त्रीणां रत्नहाराणां प्रशिथिला अतिशयशिथिला ये गुणाः सूत्राणि तद्वत् भङ्गुरा विनाशिनः क्षणमात्रनश्वरा इत्यर्थः । संपदां ओघाः समूहाः साधूनां सततपरोपकारतत्पराणां सज्जनानां मा स्म भूवन् मा भवन्तु, एतादृशनश्वरसंपदां नैव तेषामपेक्षेति भावः । हि यस्मात् कारणात् लोके ते साधवः सुरपुरस्य स्वर्गस्य निरसीकारे नीरसीकरणे तुच्छीकरणे इत्यर्थः । दक्षं समर्थ, तस्याप्यनित्यत्वात् । तदुक्तं भगवतैव - " त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ॥ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।" इति । श्रुतिरपि - " तद्यथेह कर्मजितो लोकः क्षीयते एवमेवामुत्र पुण्यजितो लोकः क्षीयते' इति । किं तर्हि स्थिरसुखं यत्साधुभिरुपभुज्यते इत्याकाङ्क्षायामाह - स्थिरा कालत्रयेऽप्यनश्वरा अत एव निरवधिका निःसीमाच अनुत्तमेत्यर्थः । आनन्दस्य धारैव आत्मा स्वरूपं यस्य तं मोक्षं मुक्ति अन्ते देहावसाने भोक्ष्यन्ते ॥ ४२६ ॥ लक्ष्मीति । सः पूर्वोक्तरीत्या प्रसिद्धः लक्ष्म्याः भगवत्याः कटाक्षाणां पूरः अति १ 'संप्रदत्ते दूरापास्ततमोमयविकारा वाराशिदुहितुरुदाराः कटाक्षाः साधुसुधाधाराः '. २ 'निरयीकार' ३ 'दक्षा'; 'दक्षो. ' For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org watering Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३४] पदार्थचन्द्रिकाटीकासहिता । २३३ कु० - कमलाकटाक्षातिशयो विभवोपचय हेतुरिति नोपपद्यते । यतस्तदल्पीयस्त्वमेव सम्पदुत्कर्षसम्पादकम् ॥ १७८ ॥ तथाहि गजशिविकातुरगाः स्युर्नरस्य तन्व्या दृशा हरेस्तन्व्याः || तद्भूनि भवति वाहो नीरद उक्षा च हन्त पक्षी च ॥ ४२८ ॥ वि० - विहस्य - ईदृशीमुत्कर्षपिशुना मरविन्दालयाया निन्दामभिनन्दामि ॥ १७९ ॥ किं दर्पदायकधनोपचयप्रमत्तैः कन्दर्पसाय कहतैः क्षितिपैरिहेति ॥ सन्तः पुरन्दरनुतं त्वरविन्दनाभेरन्तःपुरं तदवनावनुचिन्तयन्ति ॥ ४२९ ॥ : शयः जयति सर्वोत्कर्षेण वर्तते । कथंभूतः सः । यस्य कटाक्षपूरस्य उपचयो वृद्धिः तस्य तारतम्येन न्यूनाधिकभावेन हेतुना केऽपि पूर्व हीनदशापना अपि जन्तवः प्राणिनः नराणां मनुष्याणां सुराणां देवानां नरसुराणां ब्राह्मणानां वा पशूनां सर्वजीवानां गोमहिष्यादीनां च प्रजानां च पतयः पालकाः खामिनश्च हन्तेत्यानन्दे । नृपति इन्द्र- रुद्र-ब्रह्माणो वा स्युः ॥ ४२७ ॥ कमलेति । कमलाकाकाणां लक्ष्मीकटाक्षाणामतिशयो विभवस्यैश्वर्यस्य उपचयहेतुवृद्धिकारणमिति नोपपद्यते नैव युज्यते । यतः कारणात् तेषां लक्ष्मीकटाक्षाणामल्पीयस्त्वमेव अत्यल्पत्वमेव संपदः संपत्तेः उत्कर्षसंपादकं भवति ॥ १७८ ॥ तदेवोपपादयति- गजशिबिकेति । हरेः विष्णोस्तन्व्याः कान्तायाः लक्ष्म्याः तन्व्या अल्पयैव दृशा कटाक्षरूपया नरस्य गजा हस्तिनश्च शिबिका आन्दोलिकाश्च तुरगा अश्वाश्च ते स्युः भवन्ति । तेषां लक्ष्मीकटाक्षाणां भूम्नि अतिशये सति क्रमेण नीरदो मेघः वाहो वाहनं भवति । एतदेव पदद्वयमपि योज्यम् । अनेन चेन्द्रस्वरूपमुक्तम् । उक्षा वृषभश्च, अनेन शिवखरूपं, पक्षी गरुडश्च, एतेन विष्णुस्वरूपं वोक्तम् । एतद्यथोत्तरमाधिक्ये ज्ञेयम् । हन्तेत्यानन्दे ॥ ४२८ ॥ ईशीमिति । ईदृशीं शब्दमात्र विरोधदर्शिनीं वस्तुतस्तत्त्वार्थप्रतिपादिनीं अत एवोत्कर्षस्यातिशयस्य पिशुनां सूचकां अरविन्दालयायाः पद्मालयायाः लक्ष्म्याः निन्दामप्यभिनन्दामि मुदानुमन्ये ॥ १७९ ॥ यतः सज्जनाः क्षणभङ्गुरत्वं लौकिकराज्याद्यैश्वर्यस्यालोच्य मोक्षमार्गमेवानुसरन्तीत्याह- किमिति । दर्पदायकः गर्वसंपादको यो धनस्य द्रव्यस्योपचयो वृद्धिः तेन प्रमत्तैः सदसद्विवेकशून्यैः केवलं कन्दर्पस्य मदनस्य सायकैः बाणैः करणैः हतैः, सततं कामास कैरित्यर्थः । क्षितिपै राजभिः इह लोके किं कर्तव्यमस्ति ? इत्यालोच्य सन्तः पुरंदरेणेन्द्रेणापि नुतं स्तुतं अरविन्दं कमलं नाभौ यस्य तस्य विष्णोः तत् १ 'हृतैः', For Private And Personal Use Only , Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ विश्वगुणादर्शचम्पू:- [ श्रीरङ्गनगरीपुनरनुध्याय साञ्जलिबन्धम्मातस्ते मधुसूदनप्रणयिनि ! प्रातः सरोजच्छटा मुष्टीमुष्टिविचक्षणे शुभगुणे दृष्टी नमस्कुर्महे ।। अष्टाभिः किल दृष्टिभिश्च तिर्सेभिर्जुष्टाः सहस्रेण वा देवा द्वादशभिश्च यद्विषयतामेवार्थयन्ते क्षणम् ॥ ४३० ॥ इत्यन्यतो वीक्ष्य सामोदम्उपरिपुनिग्रहपैविग्रहदिवौकश्चक्रवृतशक्रमदविक्रमनिहन्ता ॥ मोदरसमादरसमेत इह पूर्णः प्रक्षिपतु पक्षिपतिरक्षियुगले मे ॥४३१॥ कृ०—किं वर्णयसि सुपर्णममुमतिक्रान्तमर्यादम् ? ॥ १८० ॥ शाश्वतसुखप्रदत्वेन प्रसिद्ध, तुरवधारणार्थकः । अन्तःपुरं स्त्री लक्ष्मी, अवनौ पृथिव्यां अनुचिन्तयन्ति ध्यायन्ति ॥ ४२९ ॥ मातरिति । हे मधुसूदनस्य विष्णोः प्रणयिनि, मातः लक्ष्मि ! ते तव प्रातः प्रातःकाले सरोजानां कमलानां छटा समूहः तया मुष्टीमुष्टि मुष्टिभ्यां मुष्टिभ्यां प्रहृत्य प्रवृत्तं युद्धं तस्मिन् “ इच् कर्मव्यतिहारे" इति समासान्त इच्प्रत्ययः । विचक्षणे कुशले, कमलशोभामपि तुच्छीकुर्वन्त्यावित्यर्थः । शुभगुणे कल्याणगुणयुक्ते दृष्टी नम. स्कुर्महे । किंवा दृष्ट्योरेतावन्माहात्म्यं यत्ते नमस्करोषि इति चेदाह-ययोदृष्ट्योः विषयतां गोचरता, अष्टाभिरष्टसंख्याकाभिः दृष्टिभिः, अनेन चतुर्मुखब्रह्मावबोधः, तिसृभिश्च दृष्टिभिः, अनेन त्र्यम्बकस्य शिवस्य प्रहणं, सहस्रेण दृष्टिभिः सहस्रसंख्याकलोचनैरित्यर्थः । अनेनेन्द्रः, द्वादशभिर्दृष्टिभिश्च अनेन षडाननश्चोक्तः, जुष्टा युक्ता देवाः क्षणं क्षणमात्रमपि अर्थयन्ते याचन्त एव ॥ ४३० ॥ उप्रेति । उग्राणामपि रिपूणां शत्रूणां निग्रहः पराभवो यस्मात् तादृशः यः पविर्वजं तस्य प्रहःखीकारो यस्यास्ति तादृशो दिवौकसां देवानां चक्रेण समूहेन वृतो यः शक इन्द्रस्तस्य मदस्य गर्वस्य विक्रमस्य पराक्रमस्य च, मदकरो गर्वोत्पादको यो विक्रम इति वा तस्य निहन्ता विनाशयिता । अमृताहरणसमये इत्यर्थः अत एव पूर्णः सकलगुणैः परिपूर्णः आदरेण प्रेम्णा समेतः युक्तः पक्षिपतिर्गरुडः इह मे अक्षियुगले नेत्रयुग्मे मोदरसमानन्दरसं प्रक्षिपतु योजयतु। इन्दुवदना वृत्तम् “ इन्दुवदना भ-ज-स-नैः सगुरुयुग्मैः” इति वृत्तरत्नाकरे तल्लक्षणात् ॥ ४३१॥ किमिति । अतिक्रान्ता उल्लचिता मर्यादा स्थितियेन तममुं सुपर्ण गरुडं किं कुतः कारणात् वर्णयसि ? ॥ १८ ॥ १ देवीमुद्दिश्य'. इ० अ० २ 'चतसृमि'. ३ 'दविग्रह'. ४ 'पूर्ण'. ५ प्रक्षिपति'. For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् ३४] तथाहि www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिकाटीकासहिता । २३५ अधिगतनिगमाङ्गोऽपि द्विजराजोऽप्यच्युतं दधानोऽपि ॥ निजगार ? कथंकारं निःशङ्कं भिल्लपल्लिकां गरुडः ॥ ४३२ ॥ वि० – पक्षिराजस्य भिल्लपल्लीनिगरणेन साधुजनानुग्रहासाधुजननिग्रहसामर्थ्य सदसद्विवेचनचातुर्ये च व्यञ्जितमेतत्कथं भूषणमेव दूषयसि ! ॥ १८१ ॥ शृणु गरुड गर्ल कमपि किल्बिषाविलं खलभिल्लजालैमुषितं तदन्तरे ॥ निरजीगल न्निजगला दिलासुरं भवतः प्रपन्नमिव पन्नगेशयः ॥ ४३३ ॥ हन्त शकुन्तपुरन्दरस्यास्य खच्छन्दविहारावसरेष्वप्यभङ्गुरमेव खामिकैङ्कर्यम् ॥ १८२ ॥ अतिकान्तमर्यादत्वमेवाह-अधिगतेति । अधिगतानि ज्ञातानि निगमा वेदाश्च अङ्गानि शिक्षा-व्याकरणादीनि च येन, अधिगतानि प्राप्तानि निगममयान्यङ्गानि हस्तपादाद्यवयवा येनेति वा, तथाभूतोऽपि द्विजानां ब्राह्मणानां पक्षिणां च राजा श्रेष्ठः अधिपतिश्वापि, अच्युतं विष्णुं दधानोऽपि धारयन् सन्नपि गरुडः भिल्लपल्लिको भिल्ल गोधिकां, हिरण्यपुराभिधं शबरग्रामं चेति भावदर्पणकारः । निःशङ्कं भयरहितं यथा तथा कथंकारं कथं निजगार भक्षितवान् । एतदेवातिक्रान्तमर्यादत्व • मित्यर्थः ॥ ४३२ - पक्षिराजस्येति । भिल्लपल्लयाः निगरणेन भक्षणेन साधुजनेषु अनुग्रहः कृपा च असाधुजनेषु दुष्टजनेषु च निग्रहः शिक्षा च तयोः सामर्थ्य, तत एव च सदसतोः सत्यासत्ययोः विवेचने चातुर्यं नैपुण्यं च पक्षिराजस्य गरुडस्य व्यञ्जितं प्रकटीभूतं, एतच्च भूषणमेव तत् त्वं कथं दूषयसि ! ॥ १८१ ॥ गरुड इति । गरुड: कमपि किल्बिषैः पापैः आविलं मलिनं दूषितमित्यर्थः । खलभिल्लानां दुष्टशबराणां जालं समूहं गिलन् भक्षयन् सन् तस्य भिल्लसमूहस्य अन्तरे मध्ये उषितं स्थितं निजगलात् स्वकण्ठात् इलासुरं भूसुरं ब्राह्मणमित्यर्थः । भवतः संसारात् प्रपन्नं शरणागतं भक्तं पन्नगे शेषे शेतेऽसौ पन्नगेशयः विष्णुरिव निरजीगलत् बहिर्निःसारितवान् । अनेन तस्य दुष्टेष्वेव निग्रहो द्योतितः ॥ ४३३ ॥ हन्तेति । शकुन्तानां पक्षिणां पुरंदरस्य इन्द्रस्य पक्षिश्रेष्ठस्येत्यर्थः । " शकुन्त- पक्षि-शकुनि -" इत्यमरः । अस्य गरुडस्य स्वच्छन्दाः स्वतन्त्रा ये विहाराः क्रीडाः तेषां अवसरेषु समयेष्वपि स्वामिनो भगवतो विष्णोः कैङ्कर्य दास्यं अभडरमेव विच्छेदरहितमेव । वर्तत इति शेषः ॥ १८२ ॥ १ 'निगरणे', २ ' विजृम्भितं' ३ ' दूषयति भवान्' ४ 'गिरन्' ५ ' भिलजात'. • For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरी - यतःखज्येष्ठप्रेर्यहर्याश्रितरथघृणिमन्मण्डलस्थाच्युताप्यम् सन्मार्ग पक्षवातोद्गतधरणिरजश्छन्नमेतज्जवेन ॥ कल्लोलैरुल्लसद्भिः प्रचलजलनिधेः क्षालयन्पूर्णदर्णः प्रेडड्डिण्डीरखण्डच्छलकुसुमकुलैमण्डयत्यण्डजेन्द्रः ॥४३४॥ पुनरभिध्यायन्यद्वीक्षा धैर्यरक्षां किल पुलकभृतां धावतां दैवतानाम् __ सेवासंमर्दकाले गिरिशफणिगणाद्विभ्यतामभ्यतानीत् ।। सोऽयं गाङ्गेयपृथ्वीधरवरशिखरच्छायदायाँदकाय श्छिन्दन्वृन्दं रिपूणां कलयतु कुशलं छान्दसो नः शकुन्तः।।४३५॥ स्वज्येष्ठेति । अण्डजेन्द्रः पक्षीन्द्रः गरुडः पक्षयोः पत्रयोर्वातेन उद्गतं ऊर्ध्व गतं यद्धरण्याः पृथ्व्याः रजस्तेन छन्नं आच्छादितं खस्य ज्येष्ठेन ज्येष्ठभ्रात्रा अरु. णेन प्रेर्याः प्रेरणीयाः ये हरयोऽश्वाः “यमाऽनिलेन्द्रचन्द्राकविष्णुसिंहांशुवाजि. षु । शुकाहि-कपि-भेकेषु हरिर्ना कपिले त्रिषु ।" इत्यमरः । तैराश्रितो रथो यस्य स चासौ घृणिमान किरणवान् सूर्यश्च तस्य मण्डले तिष्ठतीति तत्स्थः यः अच्युतो विष्णुः तेन आप्यं प्राप्यं अत एव सन्मार्गमुत्तमाध्वानमाकाशं च एतस्य पक्षवातस्य जवेन वेगेन प्रचलः प्रकर्षण चञ्चल: यः जलनिधिः समुद्रः तस्य उल्लसद्भिः उद्भ. यमानैः कल्लोलैः महातरङ्गैः क्षालयन् सन् , घूर्णतः क्षुभ्यतः अर्णसः समुद्रोदकात् प्रेक्षन्ति निर्गच्छन्ति यानि डिण्डीरस्य फेनस्य खण्डानि शकलानि तेषां छलं व्याजो येषां तथाभूतानि यानि कुसुमकुलानि पुष्पवृन्दानि तैः मण्डयति भूषयति च॥४३४॥ यद्वीक्षेति । सेवायां भगवत्पूजायां यः संमर्दः युगपदेकत्र बहुजनानां समागमः तत्काले गिरिशस्य शंकरस्य फणिगणात् सर्पसमुदायात् बिभ्यतां अत एव पुलकभृतां भयाद्रोमाञ्चयुक्तानां अत एव च धावतां पलायमानानां दैवतानां देवानां यस्य गरुडस्य वीक्षा दर्शन धैर्येण रक्षा रक्षणं अभ्यतानीत् विस्तारयामास चका. रेति यावत् । किल निश्चयेन । गाङ्गेयपृथ्वीधरस्य सुवर्णपर्वतस्य मेरोः वरशिखराणां उत्तमशृङ्गाणां छाया इति वरशिखरच्छायं "छाया बाहुल्ये' इति नपुंसकत्वम् । तस्य दायादः भागहरः कायः शरीरं यस्य सः, मेरुशिखरवत् वर्णकान्तिरित्यर्थः । सः अयं छान्दसः वेदप्रतिपाद्यः शकुन्तः पक्षी गरुडः नोऽस्माकं रिपूणां शत्रूणां वृन्दं समूहं छिन्दन् विनाशयन् सन् कुशलं कल्याणं कलयतु करोतु॥४३५॥ १ रुळलद्भिः'. २ याचताम्'. ३ च्छायसच्छायकायो भिन्दन्'. For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् ३४ ] पुनः सविस्मयम्— www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिकाटीकासहिता । २३७ नगरूपमुपैति युक्तमङ्गीकृतशाखोऽपि सुपर्ण उन्नतोऽपि ॥ विनतैकविधेय एष चित्रं स्थिरमामोदमगीन्मधोर्विपक्षात् ॥४३६ ॥ अथ सर्वतः पुरीं निरीक्ष्य साञ्जलिबन्धम् -- श्रीवल्लभदासेभ्यः श्रीरङ्गक्षेत्रनित्यवोसेभ्यः ॥ त्रुटितभवत्रासेभ्यो नमोऽस्तु कृतशिष्यधीविकासेभ्यः ।। ४३७ ॥ कृ० – सखे! सर्वानेतत्पुरवास्तव्यान्मा स्म भवान्नमस्कार्षीत् ॥ १८३ ॥ निबिरीसगुणस्तोमैर्हरिदासैरलंकृते ॥ अट्टशूलाः कतिपये पट्टनेऽस्मिन्प्रतिष्ठिताः ॥ ४३८ ॥ नगेति । अङ्गीकृताः स्वीकृताः शाखाः शिफाः ऋग्वेदादिशाखाश्च येन सः तथाभूतोऽपि अत एव उन्नतः उच्चोऽपि सुष्ठु पर्णानि पलाशानि पक्षाश्च यस्य सः गरुडः नगस्य वृक्षस्य मेरुपर्वतस्य च रूपं साम्यं उपैति प्राप्नोतीति तु युक्तं योग्यमेव । परंतु एषः विनतानां नम्राणां विनताभिधायाः स्वमातुश्व एकः अद्वितीयः विधेयः वचनग्राही आज्ञाधारक इत्यर्थः । " विधेयो विनयग्राही" इत्यमरः । मधोर्वसन्तस्य मधुनामकदैत्यस्य च विपक्षात् शत्रोः विष्णोश्च स्थिरमनश्वरं आमोदं सुगन्धं आनन्दं च अगात् प्राप्तवानिति यत्, एतदेव चित्रमाश्चर्यम् । श्लेषमूलको विरोधाभासोऽलंकारः ॥ ४३६ ॥ श्रीति । श्रीवल्लभस्य भगवतो विष्णोः दासेभ्यो भक्तेभ्यः श्रीरङ्गक्षेत्रे नित्यं वस्तुं शीलं येषां तथाभूतेभ्यः अत एव त्रुटितः भवस्य संसारस्य त्रासो येषां तेभ्यः कृतः शिष्याणां धियो बुद्धेः विकासः विविधशास्त्राध्यापनेन प्रकाशो यैस्तेभ्यश्च नमः अस्तु ॥ ४३७ ॥ सख इति । सर्वान् एतत्पुरस्थान् रङ्गक्षेत्रनिवासिनो जनान् भवान् मा स्म नमस्कार्षीत् मा नमस्करोतु ॥ १८३ ॥ निबिरीसेति । निबिरीसा: अतिसान्द्राः अत्र सान्द्रार्थे “नेर्बिडज्बिरीसचौ” इति सूत्रेण तद्धितो बिरीसच् प्रत्ययः । ये गुणाः सौशील्यादयः तेषां स्तोमः समूहो येषां तैः अतिगुणवद्भिरित्यर्थः । हरिदासैर्भगवद्भकैः अलंकृते विराजितेऽप्यस्मिन् पट्टने श्रीरङ्गक्षेत्रे कतिपये जनाः अट्टशूलाः अन्नविक्रयिण: "अट्टमन्नं शिवो वेद: शूलो विक्रय उच्यते ।" इति कोशः । प्रतिष्ठिताः स्थिताः सन्तीति शेषः ॥ ४३८ ॥ १ 'मधात्'. २ 'नियतवासिभ्यः. For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरीनिरूप्य सविस्मयम् शक्राद्यर्थ हविरघहरं शौरिणाऽऽखादितं यत् __ दत्तं वित्तग्रहणचपलाः केऽपि विक्रीणते तत् ।। धाम श्रीमद्यदि मधुजिता दीयते खीयमेते नो त्रस्यन्ते धनकणतृषा तच्च विक्रेतुमज्ञाः ॥ ४३९ ॥ वि०-मन्दमते मैवं भाणीः ॥ १८४ ॥ किं किं न जीर्यति मुकुन्दपदारविन्द द्वन्द्वाभिवन्दनकृतामिह देहभाजाम् ॥ अत्यद्भुतौषधविशेषनिषेवकाणा मापादयेत ? किमनर्थमपथ्यसेवा ॥ ४४०॥ -- 'अदृशूला' इत्युक्तमेव सविस्तरमुपपादयति-शकाद्यर्थमिति । यत् हविः शौरिणा विष्णुना आखादितं भक्षितं, तस्मै समर्पितमिति यावत् । अत एव तदघहर पापनिवारकं हविः शक्र इन्द्रः आदिमुख्यो येषां अमिवरुणादीनां तदर्थ दत्तं समर्पितं च तत् हविः केऽपि नीचाः वित्तग्रहणचपलाः द्रव्यसंपादनलोलुपाः सन्तः विक्रीणते । नैतावदेव किंतु मधुजिता विष्णुना यद्यपि श्रीमत् संपत्तियुक्त लक्ष्मीयुक्तं वा स्वीयं धाम वैकुण्ठस्थानं दीयते समर्म्यते, तथापि एते अज्ञा मूर्खाः धनकणे अल्पीयस्यपि द्रव्ये इत्यर्थः । तृषा वाञ्छा तया तच विष्णुपदमपि, विकेतुं नो त्रस्यन्ते नैव बिभ्यति । तस्मान्नैतेभ्यो द्रव्यार्जनकपरेभ्यः अन्ये नीचा इति भावः ॥ ४३९॥ कि किमिति । इह रणक्षेत्रे मुकुन्दस्य भगवतो विष्णोः पादारविन्दयोश्चरणकमलयोर्द्वन्द्वस्य अभिवन्दनं अभिवादनं कुर्वन्तीति तथाभूतास्तेषां देहभाजां प्राणिनां किं किं पापाचरणं न जीयति न नश्यति ? अपि तु सर्वमेव जीर्यसेवेत्यर्थः । एतदेवार्थान्तरन्यासेनाह-अत्यद्भुतेति । अत्यद्भुतः सत्वररोगनिवारकत्वादयाश्वर्यावहः य औषधविशेषः तस्य निषेवकाणां पानं कुर्वतां रोगिणां अपथ्यसेवा अपथ्यभक्षणं अनर्थ रोगवृद्धिकरणरूपं आपादयेत संपादयेत किम् ? अपि तु नैव संपादयेदित्यर्थः । पथ्यसेवनं हि क्षुद्रौषधखीकारे, न दिव्यौषधखीकारे इति भावः । तथैव दृढभगवदासक्तिसत्वे एतादृशक्षुद्रपापाचरणं नैव दोषायेति ज्ञेयम् ॥ ४४० ॥ १ 'धीयते'. २ 'नो त्रप्स्यन्ते'. ३ विक्रीणतेऽज्ञाः'. For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३५] पदार्थचन्द्रिकाटीकासहिता । समन्तात् पुरी निरीक्ष्य सश्लाघम्रङ्गादन्यदनगारेः कंसारेर्वा स्थलेष्वहो ।। किं दृष्टं ? किमपि क्षेत्रं सप्तप्राकारवेष्टितम् ॥ ४४१ ॥ अथ श्रीजम्बूकेश्वरवर्णनम् ३५. कु०-वयस्य मैवं वोचः ॥ १८५ ॥ अभ्यर्णेस्य पुरस्यैतदधिसह्यात्मजातटम् ॥ शैवक्षेत्रमवेक्षेथाः सप्तप्राकारसंवृतम् ॥ ४४२ ॥ वि०-विहस्य - सत्यं जटाधरप्राकारसंवृतस्यास्य श्लेषनैपुण्येनैव रङ्गसाधये समर्थनीयम् ।। निपुणं निरूप्यनन्दत्कंदर्पदर्पक्षपणनिपुणदृग्वह्निसम्पन्नभाला रुण्यः फण्यग्रगण्यप्रकरमयतया भीषणैर्भूषणैर्यः ।। किंच रङ्गादिति । अनगारेमंदनशत्रोर्महादेवस्य कंसारेविष्णोर्वा स्थलेषु स्थानेषु अहो हे कृशानो ! रङ्गात् श्रीरङ्गक्षेत्रात् अन्यदितरत् सप्तभिः प्राकारैः सालैर्वेष्टितं क्षेत्रं किमपि कुत्रापि वा दृष्टं किम् ? अपि तु नैवेत्यर्थः ॥ ४४१ ॥ अभ्यर्ण इति । यस्मादस्य पुरस्य श्रीरङ्गक्षेत्रस्य अभ्यणे समीपे “समीपे निकटासन्न-सन्निकृष्ट-सनीडवत् । सदेशाभ्याश-सविध-समर्याद-सदेशवत् । उपकठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोव्ययम् ।" इत्यमरः । अधिसह्यात्मजातटं कावेरीनदीतीरे, विभक्त्यर्थेऽव्ययीभावः । सप्तभिः प्राकारैः संवृतं वेष्टितं, पक्षे सप्तस्य जटाधरस्य (१) प्राकारैः संवृतं च एतत् प्रसिद्धं शैवक्षेत्रं शिवस्थानं जम्बूकेश्वराभिधं अवेक्षेथाः अवलोकय ॥ ४४२ ॥ सत्यमिति । सत्यं त्वदुक्तमित्यर्थः । यतः जटाधरस्य शंकरस्य प्राकारैश्चतु:संख्याकैः संवृतस्यास्य जम्बूकेश्वरक्षेत्रस्य श्लेषस्य सप्तशब्दसंबन्धिनोऽर्थद्वयस्येत्यर्थः । नैपुण्येनैव नतु वास्तवार्थेन संख्यापरेणेत्यर्थः । रङ्गस्य रङ्गक्षेत्रस्य साधय सादृश्यं समर्थनीयम् प्रतिपादनीयम् ॥ १८६ ॥ एवं कृशानुं प्रत्युत्तरय्य भगवन्तं शंकर वर्णयति-नन्ददिति । नन्दन, सकलविश्वजयेनानन्दं प्राप्नुवन् यः कन्दो मदनस्तस्य यो दर्पो गर्वस्तस्य क्षेपणे - - - १ 'पुण्याग्रगण्य'. २ 'भीषणो'. For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२४० विश्वगुणादर्शचम्पू:- [श्रीजम्बूकेश्वर सान्तःपुरस्सन्कवलितगरलो राजते राजतेऽद्रौ मह्यां सह्यात्मजाग्रे विहरति सुचिरं शंकरः शङ्खरोचिः ॥४४३॥ कृ०-सखे! नात्र स्थातव्यम् । यदिहं विश्वविलक्षणा रीतिरालक्ष्यते।। पश्य ये तोयैर्नादयैरभिषिक्तास्ते हि तापमुज्झन्ति ॥ प्रत्युत जहाति तापं कावेरी शंकराभिषेकेण ॥ ४४४ ॥ वि०-कुत एवम् ? ॥ कु०-शृणु तावत् गङ्गानुषङ्गाद्यमुना सदर्पत्यसयतापा बत सह्यकन्या ॥ गङ्गाधरे खैरभिषिच्यमाने तोयैः खयं तापमियं जहाति।।४४५॥ नाशने निपुणा चतुरा समर्थत्यर्थः । या दृक् तृतीयनेत्रं तस्यां यो वह्निरनिस्तेन संपन्नं जातं भालारुण्यं यस्य सः फण्यग्रगण्यानां सर्पश्रेष्ठानां महासर्पाणामि यर्थः । प्रकरमयतया समूहात्मकतया भीषणैः भयंकरभूषणैरलंकारैर्यः कान्तो मनोहरः। क्वचित् 'भीषणो' इति पाठः । तत्पक्षे भूषणैर्भीषण इति शंकरस्य विशेषणम् । अपि च कवलितं भक्षितं गरलं कालकूटं येन सः राजते रौप्यमये अद्रौ कैलासपर्वते यो राजते शोभते, स एव शङ्खवत् श्वेतवर्ण रोचिः कान्तिर्यस्य सः, सान्तःपुरः अन्तःपुरेण पत्न्या भगवत्या पार्वत्या सहितः सन् शंकरः शिवः, पूर्वोकैरलौकिकविशेषणैरतिसामर्थ्य कृपालुत्वं च शंकरस्य सूच्यते। मह्यां पृथिव्यां सह्यात्मजायाः कावेर्याः अग्रे तीरप्रदेशे जम्बूकेश्वरक्षेत्रे इत्यर्थः । सुचिरं बहुकालपर्यन्तं विहरति क्रीडति ॥४४३॥ सख इति । नात्र स्थातव्यम् । यत् यतः इह क्षेत्र विश्वविलक्षणा लोकविरुद्धा रीतिः आलक्ष्यते अवलोक्यते ॥ १८७ ॥ य इति । हि यस्मात् कारणात् ये जनाः नद्या इमानि नादेयानि तैः नदीशब्दात् "स्त्रीभ्यो ढक्' इति ढकू प्रत्ययः । तोयैरुदकैरभिषिक्ताः स्नाताः भवन्ति, ते तापं संतापं उज्झन्ति त्यजन्ति । प्रत्युत तद्विरुद्धत्वेनेत्यर्थः । कावेरी नदी शंकरस्य अभिषेकेण तापं जहाति त्यजति ॥ ४४४ ॥ कुत इत्यादि । कस्मात् कारणादेवं भवतीति प्रश्नः ॥ १८८ ॥ तदेव कारणमाह-गङ्गानुषङ्गादिति । गङ्गायाः अनुषङ्गात् संगमाद्धतोः यमुना नदी सदा गर्वसहिता इति, विचार्येति शेषः । इति हेतोर्वा । सह्यकन्या कावेरी असह्यः सोढुमशक्यस्तापश्चित्तसंतापो यस्याः सा तथाभूता सती, बतेति . १ स चिरं'. २ 'यदीह'. mona For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३६] पदार्थचन्द्रिकाटीकासहिता। वि०-ईदृशं दूषणं गुणग्राहिणामभिमतमेव ॥ १८९ ॥ अथ चोलदेशवर्णनम् ३६. इत्यन्यतो विमानं प्रस्थाप्य सानन्दम् अमी खलुव्यालाधिपेशयशुभस्थलभूषितेलाः क्ष्वेडाशनायतनसान्द्रतरान्तरालाः ॥ चोला विभान्ति पवमानविहारवेला दोलायमानसहकारनवप्रवालाः ॥ ४४६ ॥ निपुणं विभाव्य सोत्कण्ठम् नागवल्लीमतल्लीभिः सुर्मुखीभिरिवादरात् ॥ परिरब्धाः प्रमोदन्ते क्रमुकाः कामुका इव ॥ ४४७ ॥ खेदे । गङ्गाधरे शिवे स्वैस्तोयैरुदकैः अभिषिच्यमाने सति इयं वयं तापं मनस्तापं जहाति त्यजति । तत्र गङ्गासंबन्धादिति भावः ॥ ४४५ ॥ ईदृशमिति । ईदृशं गुणोत्कर्षव्यञ्जकं दूषणं गुणग्राहिणामभिमतमेवेष्टमेव ॥१८९॥ व्यालाधिपति । व्यालानां सर्पाणामधिपे शेषे शेते इति व्यालाधिपेशयो विष्णुस्तस्य शुभैः मङ्गलप्रदैः स्थलैः स्थानैः भूषिता अलंकृता इला भूमिर्येषां ते तथाभूताः, यद्देशे भगवतो विष्णोर्बहूनि स्थानानि सन्तीति भावः । तथा श्वेडाशनः विषभक्षकः शंकरः "वेडस्तु गरलं विषम्" इत्यमरः । तस्य आयतनैः मन्दिरैः सान्द्रतराणि अतिनिबिडानि अन्तरालानि मध्यभागा येषां ते तथोक्ताः पवमानस्य वायोः विहारवेलासु वहनकालेषु दोलायमानाः दोलावदाचरन्तः, चञ्चला इत्यर्थः । सहकारस्य आम्रवृक्षस्य नवप्रवाला नूतनपल्लवा येषु ते "प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे ।" इति विश्वः । चोलाः देशाः विभान्ति विराजन्ते ॥४४६ ॥ नागवल्लीति । किंच अस्मिन् देशे इति शेषः । नागवल्लीमतल्लीभिः प्रशस्तनागवल्लीभिः आदरात् प्रेमातिशयातू सुमुखीभिः स्त्रीभिः इव परिरब्धाः वेष्टिताः आलिङ्गिताश्च क्रमुकाः पूगवृक्षाः कामुका इव प्रमोदन्ते आनन्दयन्ति ॥ ४४७ ॥ १ 'कामिनीभिः'. २१ For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २.४२ विश्वगुणादर्शचम्पू: इतश्च भवानवेक्षताम् — अभ्रंलिहानहह पश्य मरुद्वृधाया drive: पृथुफलानिह नारिकेलान् ॥ आगच्छते सवितृमण्डलमाश्रिताय देवार्य भक्तित इवात्तनवोपहारान् ॥ ४४८ ॥ मम तु एवं मतिः लोलद्दीर्घदला बृहत्तरफला वातोल्ललडूलिभि रछन्नाः प्रांशुतमाः स्फुरन्ति पुरंतो ये नारिकेलद्रुमाः ॥ धूमाखादनपात्रधारिण इमे द्राघिष्ठचञ्चज्जा [ चोलदेश भस्मोद्धूलितमूर्तयो विवसनाः पाखण्डिभेदा इव ॥ ४४९ ॥ सहासमन्यतो निर्दिश्य - पद्मिन्याकर्षोचितगन्धप्रसॆवान् प्रपश्य पुन्नागान् ॥ अभ्रंलिहानिति । मरुद्वृधायाः कावेर्याः रोधसि तीरे रुहन्ति उत्पद्यन्ते इति रोधोरुहः अभ्रं आकाशं लिहन्ति स्पृशन्तीति तथाभूतास्तान्, अत्युच्चानित्यर्थः । पृथूनि महान्ति फलानि येषां तानू नारिकेलान् तालवृक्षान् इह देशे पश्यावलोकय अहहेत्यानन्दे । कथंभूतान् । सवितृमण्डलं सूर्यविम्बं आश्रिताय आगच्छते देवाय भगवते नारायणाय, समर्पयितुमिति शेषः । भक्तितः भक्त्या आत्ताः स्वीकृताः नवाः नूतनाः उपहारा उपायनानि यैस्तथाभूतानिव स्थितान् ॥ ४४८ ॥ ममेति । मम तु एवं मतिरभिप्राय:--- लोलदिति । लोलन्ति वातेन चलन्ति दीर्घाणि दलानि पर्णानि येषां ते, बृहत्तराणि अतिमहान्ति फलानि येषां ते तथोक्ताश्र वातेन उल्हलन्तीभिरूर्ध्वं गच्छन्तीभिर्धूलिभिः छन्नाः आच्छादिताः प्रांशुतमाः अतिशयोन्नताः नारिकेलद्रुमाः तालवृक्षाः ये पुरतः अग्रभागे स्फुरन्ति विलसन्ति, त इमे नारिकेलद्रुमाः द्राधिष्ठाः दीर्घतमाः चञ्चन्त्य - चञ्चलाच जटा येषां ते धूमाखादनस्य पात्रं धारयन्तीति तथाभूताः भस्मना उद्धू'लिताः मूर्तयः शरीराणि येषां ते तथोक्ताः विवसनाः दिगम्बराश्च पाखण्डिनां नास्ति - कसंन्यासिनां भेदा इव स्फुरन्ति प्रकाशन्ते । अत्र 'नागवली - ' इत्यादिश्लोकत्रयवर्णनेन चोलदेशस्य बहुलाम्र-नारिकेल- कमुकादिवृक्षसंपन्नत्वं सूचितम् ॥ ४४९ ॥ सहासमिति । अत्रास्य पूर्व विश्वावसुरिति दृश्यते । तदत्र निष्प्रयोजनमेवेति भाति । तस्यैव भाषणस्य प्रचलितत्वात् । एवं सति केनचित् तत्समर्थनार्थ 'इयं चासूयाविरहेण यथार्थोक्तितया कृशानुकर्तव्याक्षेपमन्तरेणैव विषयान्तरप्रक्रान्ततयैकस्यैवोक्तिप्रक्रमेऽपि पुनरुक्तिर्न दोषाय भवति' इति यदुक्तं तदप्यविचाररम 1 १ 'नाथाय २ ' परितो'. ३ 'पाषण्ड'. ४ ' प्रसरानू'. For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org -वर्णनम् ३६ ] पदार्थचन्द्रिकाटीका सहिता । अतनूग्राशुगकलनात्संप्राप्तानधिकरेणुसंपर्कम् || ४५० ॥ पश्य Acharya Shri Kailassagarsuri Gyanmandir पार्श्वतो वीक्ष्य अहो महोन्नता जनपदानाममीषामभिजातता ॥ १९० ॥ - ज्योतिष्टोमस्तोम उक्थ्योऽतिरात्रो - Sप्याप्तोर्यामः षोडशी वाजपेयः ॥ प्रौढा यज्ञाः पौण्डरीकादयो ये चोलेप्वेते चित्रमोपासनन्ति ॥ ४५१ ॥ णीयमेव । अग्रिमश्लोकमारभ्य तद्भाषणसमाप्तिपर्यन्तं नैव कुत्राप्यसूया, सर्वत्र यथार्थोक्तिरेव विद्यते । विषयान्तरप्रक्रान्तिरपि नैव पूर्वोक्तवर्णनस्यैवापि सत्त्वात् । तस्मादियं पुनरुक्तिरेव सा च दोषायैवेत्यलमप्रकृतेन ॥ २४३ पद्मिनीति | पद्मिनीनां कमलिनीनां स्त्रीणां च आकर्षे आकर्षणे स्पर्धायामिति भावत् । अतिशय सौरभ्यद्योतनार्थमिदम् । वशीकरणे च उचितानि योग्यानि गन्धप्रसवानि सुगन्धिपुष्पाणि गन्धस्य मदस्य च प्रसव उत्पत्तिश्च येषां येभ्यश्च तान् अतनोर्महतः अत एवोग्रस्य भयंकरस्य च आशुगस्य वायोः अतनोर्मदनस्य च उग्राणामसह्यानां आशुगानां बाणानां च "आशुगौ वायु-विशिखौ " इत्यमरः । कलनात् संबन्धात् अधिकस्य रेणोः धूल्याः संपर्क स्पर्श, करेणुषु गजस्त्रीषु चेत्यधिकरेणु इति च । अस्मिन् पक्षे विभक्त्यर्थेऽव्ययीभावः । संप्राप्तान् पुन्नागान् एतन्नामकवृक्षान् पुरुषगजांश्च प्रपश्यावलोकय । यद्वा पद्मिनीनां पद्मिनीजातिस्त्रीणां आकर्षोचितानि वशीकरणयोग्यानि गन्धप्रसवानि सुगन्धपुष्पाणि येषां तान् अधिकः रेणुः रजो यासां तासामधिकरेणूनां स्त्रीणां संपर्क स्पर्श संभोगरूपमिति यावत् । संप्राप्तान् पुरुषेषु नागान् श्रेष्ठान् तांश्च प्रपश्येति तृतीयार्थोप्यत्र संभवति ॥ ४५० ॥ अहो इति । अमीषां चोलानां जनपदानां देशानां महोन्नता अभिजातता रमणीयता च अस्तीति शेषः ॥ १९० ॥ ज्योतिष्टोमेति । ज्योतिष्टोमानां नाम यज्ञविशेषाणां स्तोमः समूहः, उक्थ्यः, अतिरात्रः, आप्तोर्यामः, षोडशी, वाजपेयश्चापि । एते सर्वेपि यज्ञविशेषाः क्रमात् पञ्चचतुस्त्रि द्वयेक रात्रकालसाध्याः । प्रौढाः बहुकालसाध्यत्वान्महान्तः, पौण्डरीकादयश्च ये प्रसिद्धा यज्ञाः सन्ति, त एते चोलेषु देशेषु औपासनन्ति औपासनवत् गृह्यामिहोमवत् आचरन्ति । तद्वन्नित्यं भवन्तीत्यर्थः । आचारे क्विप् । एतचित्रमा श्चर्यम् ॥ ४५१ ॥ १ 'ज्योतिष्टोमः साङ्ग उवथ्यो ऽतिरात्रोप्या'. २ 'आप्तोर्यामाः’. ४ 'नित्यमेव क्रियन्ते'. For Private And Personal Use Only ३ ' वा'. Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २४४ किंच— www. kobatirth.org विश्वगुणादर्शचम्पूः Acharya Shri Kailassagarsuri Gyanmandir गृहे गृहे पश्य कृताग्निहोत्राः शास्त्रौषधोलादो विदोषाः || [ चोलदेश पुण्योत्तराः पण्डितपुण्डरीकाः पुनन्ति वेदैकधना जगन्ति ॥ ४५२ ॥ कु० - एतद्विषयविषया लोघा शाखानुशाखं न कर्तव्या । एतद्देशे वसतां सतामप्यनेकप्रकारा दुराचारा उपलभ्यन्ते ॥ १९१ ॥ स्वान्ति प्रातरधिस्रवन्ति विधिवत्संध्यादि कर्माचरन्त्यम्मीनादधते मखान्विदधते शास्त्राणि चाधीयते ॥ अभ्यर्चन्ति सुरान्पैरार्ध्यकुसुमैर्चन्ति किंचातिथी - नन्नैः किंतु पुरातनैस्तनुममी पुप्यन्ति दुष्यन्त्यतः ॥४५३ ॥ गृहे गृह इति । शास्त्राण्येवौषधानि तैः उल्लाघानि नीरोगाणि हन्दि अन्त:करणानि येषां ते, विविधशास्त्राभ्यासेन निर्मलान्तःकरणा इत्यर्थ: । उल्लाघ इति " अनुपसर्गात् फुल-क्षीब-" इत्यादिनिपातनात् साधुः । “ वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ।" इत्यमरः । “उल्लाघो निपुणे हृटे शुचि-नीरोगयोरपि ।" इति हैमश्च । अत एव विदोषाः पापरहिताः वेदा एव एकं मुख्यं धनं संपादनीयं द्रव्यं येषां ते पुण्योत्तराः अतिशयपुण्यवन्तः पण्डितानां पुण्डरीका: श्रेष्ठाः गृहे गृहे प्रतिगृहं कृतं अग्निहोत्रं यैस्ते तथाभूताश्च सन्तः जगन्ति पुनन्ति पवित्रयन्ति पश्य ॥ ४५२ ॥ एतदिति । एषः विषयः चोलदेशः विषयः प्रतिपाद्यो यस्याः सा श्लाघा प्रशंसा शाखानुशाखं तत्रत्यान् प्रातिखिकरूपेणोपादाय न कर्तव्या । यतो यस्मात् एतद्देशे चोलदेशे वसतां वासं कुर्वतां सतां विदुषामपि अनेकप्रकारा नानाविधाः दुराचारा उपलभ्यन्ते दृश्यन्ते ॥ १९१ ॥ के ते दुराचारा इत्याकाङ्क्षायामाह - स्नान्तीति । अमी चोलदेशवासिनो जनाः प्रातः स्रवन्त्यां कावेर्या नद्यामित्यधिस्रवन्ति, विभक्त्यर्थेऽव्ययीभावः । "स नपुंसकम्” इति नपुंसकत्वम् । स्नान्ति स्नानं कुर्वन्ति, संध्यादि कर्म च विधिवत् शास्त्रोकविधिमनुसृत्य आचरन्ति कुर्वन्ति, अग्नीन् गार्हपत्यादीन् आदधते स्थापयन्ति सततमग्निहोत्रं पालयन्तीत्यर्थः । मखान् दर्श-पूर्णमासादीन् विदधते कुर्वन्ति, शास्त्राणि धर्मप्रतिपादकानि पूर्वमीमांसादीनि च अधीयते अभ्यस्यन्ति, सुरान् विष्णुशिवादिदेवान् परार्ध्यकुसुमैः सुगन्धिपुष्पैः अभ्यर्चन्ति पूजयन्ति किंच अतिथी १ ' औषधोल्लास'. २ 'वाघानुश्लाघा न कर्तव्या' ३ ' अनर्घ्य ४ ' अञ्चन्ति '. 'पुष्णन्ति'. For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३६] पदार्थचन्द्रिकाटीकासहिता। २१५ पुनर्निरूप्य सविस्मयम्कष्टमेतद्देशवासिनीनां विलासिनीनां नित्यमेव लज्जाव्युत्पत्तिराहित्यम् ।। तथाहि अपि हन्त चोलवासस्थैर्यवतीनां चिराय युवतीनाम् ॥ अपकञ्चुलिकाबन्धौ कुचकुम्भाविति विरुद्धमुपलब्धम् ॥४५४॥ किंच अगूढगाढम्तनकुम्भिकुम्भमम्भोजदम्भोदयजैत्रनेत्रम् ॥ चित्ते निधत्ते बत चोलदेशस्त्रैणं प्रवीणं रतिकान्तबाणम् ॥४५५॥ अपि चनवार्तवमहोत्सवे ननु सहस्रशः संगता गृहाद्वहिरशङ्कितं गदितकामगाथाशताः ॥ नपि अर्चन्ति सत्कुर्वन्ति । किंतु स्वयं पुरातनैः पर्युषितैरनैः तनुं शरीरं पुष्यन्ति पुष्टीकुर्वन्ति । अतः पर्युपितान्नभक्षणात् दुष्यन्ति दोषयुक्ता भवन्ति । शास्त्रे तस्य निषिद्धत्वादिति भावः ॥ ४५३ ॥ किंच कष्टमिति । एतद्देशवासिनीनां विलासिनीनां स्त्रीणां नित्यमेव सततमेव, अनेन सुरताद्युपभोगस्थले तथा करणं न दोषायेति सूचितम् । लज्जायाः व्युत्पत्तिनिं तस्या राहित्यं अभाववत्त्वमिति यत् तत् कष्टम् ॥ १९२ ॥ तदेवाह-अपीति । चोलस्य कूर्पासकस्य "चोल: कूर्षासकोऽस्त्रियां" इत्यमरः । वाससः वस्त्रस्य च, चोले देशे वासस्य निवासस्य च स्थैर्य स्थिरत्वं विद्यते यासां तथाभूतानां 'वासस्थैर्य-' इत्यत्र "खपरे शरि वा विसर्गलोपो वक्तव्यः" इति पक्षे विसर्गलोपः । युवतीनां स्त्रीणामपि कुचौ स्तनौ कुम्भाविव तौ चिराय बहुकालपर्यन्तं अपगतः कञ्चलिकायाः बन्धो बन्धनं ययोस्तौ इति एतत् विरुद्धं इतरजन विरुद्धं उपलब्धं दृष्टम् । हन्तेति खेदे ॥ ४५४ ॥ अगूढेति । अगूढी अनाच्छादितौ गाढौ कठिनौ च स्तनौ कुचौ कुम्भिनः हस्तिनः कुम्भौ गण्डस्थले इव यस्य तत् अम्भोजस्य कमलस्य दम्भोदयस्य गर्वोत्पत्तेः जैत्रे जेतृणी नेत्रे यम्य तत् चोलदेशसंबंधि स्त्रैणं स्त्रीसमूहः, प्रवीणं रतौ कुशलं सत् , मोहने कुशलं वा, अस्मिन् । पक्षे रतिकान्तबाणस्यैतद्विशेषणम् । रतिकान्तस्य मदनस्य वाणं चित्ते निधत्ते नितरां धारयति । सततस्तनानावृतत्वात्कामासक्तमिव भातीति भावः । वतेति खेदे ॥ ४५५ ॥ नवार्तवेति । नवं प्रथमप्राप्तं यत् आर्तवं स्त्रीरजः तत्संबन्धी यो महानुत्सवः १ 'देशवासिनीनां नित्यमेव'. २ 'न धत्ते, 'विधत्ते'. For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ विश्वगुणादर्शचम्पू:- [चौलदेशअहार्यकठिनस्तनप्रकटनादनागखिनो .... मुनेरपि धनां धृति चुलुकयन्ति चोलाङ्गनाः ॥ ४५६ ॥ वि०-वयस्य मा म निन्द चोलमण्डलवासिनो जनान् ॥१९३।। याभिः सर्वपदार्थशुद्धिरुदिता ताखप्सु देवार्पितम् निक्षिप्तं निशि रक्षितं शुचि हविर्भक्ष्येत चेत्का क्षतिः १ ॥ त्याज्यं शास्त्रनिषेधतस्तदिति चेत्साज्यं सतैलं च त भोज्यं पर्युषितं स्मरन्ति यदतो योज्यं न तद्दूषणैः ॥४५७॥ तस्मिन् गृहात् बहिःप्रदेशे सहस्रशः सहस्रसंख्याकाः संगताः एकत्र मिलिताः अशङ्कितं भयरहितं यथा तथा गदितानि परस्परं भाषितानि कामगाथानां व्यवायाभिलाषोत्पादककथानां शतानि याभिस्ताः चोलाङ्गनाः चोलदेशीयस्त्रियः अहार्यवत् पर्वतवत् “महीधे शिखरि-क्ष्माभृदहार्य-धर-पर्वताः" । इत्यमरः । कठिनौ यौ स्तनौ तयोः प्रकटनात् अनाच्छादनतया व्यक्तं प्रदर्शनात् अनागखिनः कामादिवास. नारहितत्वान्निरपराधिनः मुनेः मननशीलस्यापि घनां निबिडां अतिशयितामित्यर्थः । धृति धैर्य ननु निश्चयेन चुलुकयन्ति चुलुकवत् कुर्वन्ति त्याजयन्तीत्यर्थः ॥ ४५६ ॥ एतदने मुद्रितैकस्मिन् पुस्तके श्लोकद्वयमधिकं दृश्यते, परंतु तस्य प्राचीनादर्शपुस्तके अन्यपुस्तकेषु चानुपलम्भात् प्रकृतवर्णनासंगतत्वाच तन्मूले नैव निवेशितमत एव तत्र टीकामपि कर्तुं नोत्सहे । किंतु लोकबोधनार्थ यथास्थितं टीकायामेव निवेश्यते न केशेषु स्नेहो न च नयनयोरञ्जनकथा न वा वीटी वक्रे न च कुचतटे चन्दनरसः॥ न चाल्पोऽप्याकल्पो न च सुवसनं नैव कुसुमम् स्नुषात्वं पापानां फैलमधनगेहेषु सुदृशाम् ॥ १॥ अपि चअंसौ चेदुदकुम्भभारकिणितावडी पुनर्गोमय स्फायनाट्यमलीमसौ करतलं घासच्छिदाकर्कशम् ।। पाकाम्युत्थितधूममेलनगलद्वाप्पाविले लोचने कष्टं रिक्तगृहिस्नुषात्वनरकः स्त्रीणामहो दुस्सहः ॥२॥ वयस्येति । मा स्म निन्द निन्दा मा कुरु इत्यर्थः ॥ १९३॥ अथ क्रमेण दृषणानि निराकुर्वन् प्रथमं तावत् ‘स्लान्ति प्रातरधिस्रवन्ति' इत्यादिनोक्तं पर्युषितान्नभक्षणरूपं दो निराकरोति-याभिरिति । याभिरद्भिः सर्वपदार्थानां शुद्धिरागन्तुकानागन्तुकदोषनिवृत्तिरुदिता कथिता तास्वेवाप्सु जलेषु निक्षिप्तं एकस्मिन् पात्रे जलं संपूर्य तस्मिंस्थापितं, कुलस्त्रियः औदनिका वा उर्वरिता. १ 'मनोधृति'. २'मा दूषय'. ३ 'अतिदुस्सहमन्यत्'. ४ फलमिह बतात्रत्य सुदृशां.' For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३७ ] पदार्थचन्द्रिकाटीकासहिता । २४७ पातिव्रत्यमुपेत्य नित्यमनघाचारावदातात्मनाम् चोलीनां यदि कञ्चुकी न कुचयोर्मालीमसी का ततः ? ॥ नारीणां सुरतोपयोग्यवयवस्पष्टीकृतिदोष इ त्युक्तं चेदधरापिधानमपि किं न स्यात् सदा वाससा ? ॥४५८॥ अथ कुम्भघोणशाईपाणिवर्णनम् ३७. इति पार्श्वतोऽवलोक्य सश्लाघम्--- ... अस्य देवस्य भाग्यवत्ता खल्वियत्तापरित्यक्ता ॥ १९४ ॥ नपात्रं जलपूरितपात्रे पिपीलिकादिभ्यो रक्षणार्थ स्थापयन्तीति सुविदितमेव गृहस्थानाम् । तच्च देवेभ्यः अर्पितं नैवेद्यादिरूपेण निवेदितं सत् निशि रात्रौ रक्षितं मूषकमार्जारादिभ्य इत्यर्थः। अत एव शुचि प्रकारत्रयेण पवित्रं हविरन्नं भक्ष्येत चेत् तस्मात् का क्षतिः को वा दोषः ? तर्हि शास्त्रनिषेधस्य का व्यवस्था इत्याकाङ्क्षायामाह-शास्त्रनिषेधतः तनिशि रक्षितमन्नं त्याज्यं इति चेत् साज्यं घृतयुक्तं सतैलं तैलपक्कं च यदन्नं तत् पर्युषितमपि भोज्यं भोजना, स्मरन्ति । तथा च मनु:-"यत्किंचित् स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् । तत् पर्युषितमप्याचं हविःशेषं च यद्भवेत् ।" इति । अतः कारणात् तत् पर्युषितानभक्षणं दूषणैः न योज्यम् । एतेषां शास्त्रविहितानस्यैव भक्षणात् ॥ ४५७ ॥ अथ स्त्रीणां कञ्चुकीराहित्यरूपं दूषणं निराकरोति-पातिव्रत्येति । पतिव. तानां भावः पातिव्रत्यं पतिसेवापरत्वं उपेत्य प्राप्य अत एव नित्यं संततं अननिदोषैराचारैः अवदातः शुद्धः आत्मा चित्तं यासां तासां चोलीनां चोलदेशीयस्त्रीणां कुचयोः स्तनयोः यदि कञ्चुकी न भवति, ततः कञ्चुक्यभावात् मालीमसी मलिनता का ? अपि तु कापि नास्तीति । पातिव्रत्येन शुद्धाचाराणां अवयवगोपनेऽगोपने वा न कोऽपि दोषः समुजम्भत इति भावः । अथ सुरते रतिकाले उपयोगिनामवयवानां स्पष्टीकृतियक्तीकरणं नारीणां दोषः इति उक्तं, शास्त्रे इति शेषः । तस्माद्दोष एवायं स्तनानाच्छादनरूप इति चेत् वाससा वस्त्रेण अधरस्याधरोष्ठस्यापिधानमाच्छादनं तस्य सुरतोपयोगित्वात् किं कुतो हेतोर्न स्यात् ? सर्वासामपि स्त्रीणामिति भावः । एतेन चोलीनां देशाचारात् कञ्जुक्यभावो न दोषायेति सूचितम् ॥ ४५८ ॥ अस्येति । अस्य पुरोदृश्यमानस्य देवस्य शाईपाणिनः भाग्यवत्ता ऐश्वर्यवत्त्वं, इयत्तापरित्यक्ता परिमितिरहिता निःसीमेत्यर्थः ॥ १९४ ॥ १ 'कञ्चकम्'. २ 'उक्तश्चेत्'. ३ 'देशस्य'. For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४८ विश्वगुणादर्शचम्पू:- [चंप० राजगो०यतोऽत्र-- मणिमयफणितल्पे मल्लिकापुञ्जकल्पे शमितजगदभद्रां संश्रयन्योगनिद्राम् ।। दहरकुहरवर्ती देवताचक्रवर्ती दलितरितबाणे दृश्यते कुम्भघोणे ॥ ४५९ ॥ अन्तर्नागरिकी जनतामवेक्ष्य सशिरःकम्पम्नात्वा सह्यसुताजले शुचितमा भूत्वा जपादिक्रमै र्तुत्वामौ च हविः कृतेतरगिरां कृत्वा च पारायणम् ।। नत्वा शार्ङ्गधरं भवामयहरं स्तुत्वा च तं भक्तितः श्रेष्ठाः कालममी क्षिपन्ति बहवः श्रीकुम्भघोणे द्विजाः ॥४६०॥ अथ चम्पकारण्यश्रीराजगोपालवर्णनम् ३८. इतश्च. कुटीषु गोपीरुचिरासु योऽर्कभूतटीषु गोपाल इति श्रुतोऽचरत् ॥ मणिमयेति । मलिकापुञ्जकल्पे मल्लिकाकुसुमराशितुल्ये तद्वन्मृदुनीत्यर्थः । मणिमयो रत्नप्रचुरः फणी शेष एव तल्पं शय्या तस्मिन् शमितं जगतो विश्वस्य अभद्रममङ्गलं यया तो योगः वृत्तिनिरोधरूपः समाधिः तद्रूपां निद्रां प्रलयकाले सर्वमात्मनि प्रविलाप्य स्वस्थस्थितिमिति यावत् । संश्रयन् | आश्रयन् सन्, किंच दहरमन्तराकाशस्तदेव कुहरं विवरं तद्वर्ती अन्तर्यामीत्यर्थः । देवतानां चक्रवर्ती श्रेष्टो भगवान् , दलितः भग्नः दुरितं पापमेव बाणः, (बाणवत् पीडाकरत्वात् ) येन तस्मिन् कुम्भघोणे नाम क्षेत्रे दृश्यते अवलोक्यते, जनैरिति शेषः ॥ ४५९ ॥ अन्तरिति । अन्तः पुरमध्ये नगरे भवा नागरिकी तां जनतां जनसमूहम् मात्वेति । श्रीकुम्भघोणे नगरे श्रेष्ठाः अमी बहवो द्विजाः ब्राह्मणाः सह्यसु. तायाः कावेर्याः जले स्नात्वा जप: गायत्र्यादिमन्त्राणामुपांशुपाठः आदिमुख्यो येषु तैः क्रमैः संध्यादिभिः कर्मक्रमरित्यर्थः । शुचितमाः पवित्रतरा भूत्वा, अग्नौ च हविघृतादिकं हुत्वा विधिवत् प्रक्षिप्य, कृतेतराः रचितभिन्नाः नित्याः या गिरः वाण्यः तासां, वेदवाचामित्यर्थः । पारायणं पठनं च ब्रह्मयज्ञसमये इत्यर्थः । कृत्वा, भवामयहरं संसाररोगहरं शार्ङ्गधरं विष्णुं नत्वा नमस्कृत्य तं विष्णु भगवन्तं च भक्तितः स्तुत्वा च कालं क्षिपन्ति निर्यापयन्ति ॥ ४६० ॥ कुटीविति । अर्कभुवः सूर्योत्पन्नायाः यमुनायाः तटीषु तीरेषु गोपीभिर्गोपस्त्री१ 'श्रुतश्चरन् । For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३८ ] पदार्थचन्द्रिकाटीकासहिता। २४९ अकम्पकारुण्यमुपेत्य मोदते स चम्पकारण्यमगण्यवैभवः ॥ ४६१॥ अत्र किल राजगोपालपादकमलमुपाश्रयतः साधुजनस्येत्थमनुसंधानम् ॥ १९५॥ कोपाटोपदशाविशालपरुषालापादिरूपाशुभ व्यापारग्लपितार्थिलोकहृदयैर्भूपालपाशैरकम् ॥ तापाविष्टसकृत्प्रपन्नजनमुक्त्यापादने दीक्षितम् पापानामपनोदनाय कुहनागोपालमेवाश्रये ॥ ४६२ ॥ कृ०--अत्रापि मे विरोध एव प्रतिभाति ॥ १९६ ॥ यतः न्यस्तपादः सुमनसां शीर्षेषु मधुहार्यहो! ॥ मुरारातिद्विरेफोऽपि चम्पकारण्यमाश्रितः ॥ ४६३ ॥ भी रुचिरासु सुन्दरासु कुटीषु लतागृहेषु यः गोपालः इति नाम्ना श्रुतः प्रसिद्धः सन् अचरत् बभ्राम, स एव भगवान् , सांप्रतमिति शेषः । अगण्यं संख्यातुमशक्यं वैभवमैश्वर्यं यस्य सः अचिन्त्यैश्वर्य इत्यर्थः । तथाभूतः सन् , अकम्पं निश्चलं शाश्वतमित्यर्थः । कारुण्यं यस्मिंस्तत्तथाभूतं चम्पकारण्यं नाम क्षेत्रं उपेत्य आगत्य मोदते क्रीडति ४६१ अत्रेति । अत्र चम्पकारण्यक्षेत्रे राजा त्रिलोक्यधिपतिश्चासौ गोपालश्च तस्य भगवतः पादकमलमुपाश्रयतो भजतः साधुजनस्य इत्थं वक्ष्यमाणप्रकारेण अनुसंधानम् ॥ १९५॥ कोपेति । कोपस्य क्रोधस्य आटोपदशायामतिशयावस्थायां ये विशाला बहुलाः परुषाः कठोराश्च आलापाः भाषणानि आदौ प्रथमतो येषु तद्रूपा ये अशुभाः दुष्टाः व्यापाराः कर्माणि तैलपितं दुःखाकृतं अर्थिलोकानां याचकजनानां हृदय. मन्तःकरणं यैस्तैः अत एव भूपालपाशैर्दुष्टनृपैः अलं पर्याप्तम् । न तेऽनु. सार्या इत्यर्थः । किंतु तापाविष्टानां आध्यात्मिकादितापतप्तानां अत एव सकृदेकवारमपि प्रपन्नानां जनानां मुक्त्यापादने मुक्तिसंपादने दीक्षितं गृहीतव्रतं कुहना गोपालं कपटगोपालवेषं भगवन्तं पापानां दुरितानामपनोदनाय निवारणार्थ आश्रय भजे ॥ ४६२॥ अत्रापीति । अत्र गोपालसवनेऽपि मे विरोध एव प्रतिभाति ॥ १९६॥ तमेवोपपादयति-न्यस्तपाद इति । सुमनसा देवानां पुष्पाणां च शीर्षेषु मस्तकेषु अग्रभागेषु च न्यस्तौ पादौ येन तथाभूतः सन् , मुरारा तिर्भुरनामकदैत्यशत्रुः विष्णुः द्विरेफोऽपि रेफद्वययुक्तो मुरारातिरिति शब्दः भ्रमरश्चापि मधुहारी मधु. १ 'साधुजनस्येदमित्थम्'. For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० विश्वगुणादर्शचम्पू:- [चम्पराजगो०वि०-विरुद्धानामपि सहावस्थितिसंपादके देवे वासुदेवे का नाम विरोधकथा ? ॥ १९७ ॥ यस्मिन्विलोचनतया सह पुष्पवन्तौ पर्यवाहनतया फणि-पक्षिराजौ ॥ तेजखिनौ प्रमुदितौ स्थितिमाश्रयेते तस्मिन्नहो भगवति क विरोधगन्धः ? ॥ ४६४ ॥ इति परिक्रम्यावलोक्य प्राञ्जलि:-- परिगतसहकारैः प्रांशुभिर्नारिकेलै दिनकरकरधारादुष्प्रवेशान्तरेभ्यः ॥ चुलकितदुरितेभ्यश्चोलदेशस्थितेभ्यो नम इदमखिलेभ्यो नाथदिव्यस्थलेभ्यः ॥ ४६५ ॥ नामकदैत्यविनाशकः मकरन्दहारकश्च चम्पकारण्यं नाम क्षेत्रं चम्पकवनं च आ. श्रितः । अहो इत्याश्चर्ये । तच्च चम्पक-भ्रमरयोः खभावविरोधित्वादिति भावः ॥४६३॥ __ अनुकूलमेवैतदस्मन्मतस्येति सूचयन्नाह-विरुद्धानामिति । विरुद्धानां निसर्गविरोधिनामपि सहावस्थितिः एकत्र सहवासः तस्याः संपादके निर्मातरि देवे भगवति वासुदेवे विरोधकथा विरोधवार्ता का नाम भवति ? ॥ १९७ ॥ यस्मिन्निति । यस्मिन् भगवति तेजस्विनौ विरुद्धशीतोष्णतेजोयुक्तौ पराक्रमयुक्तौ च प्रमुदितौ आनन्दयुक्तौ च पुष्पवन्तौ सूर्य-चन्द्रौ "एकयोक्त्या पुष्पवन्तौ दिवाकर-निशाकरौ।" इत्यमरः । विलोचनतया नेत्ररूपेण, फणिराजः शेषः पक्षिराजो गरुडश्च तौ, द्वन्द्वान्ते श्रूयमाणस्य प्रत्येकमभिसंबन्धात् राजशब्दस्योभयत्राप्यन्वयः। पर्यङ्कवाहनतया अत्रापि पूर्ववदेव । शयनतया वाहनतया चे. सर्थः । स्थितिं वासं सह युगपदेव आश्रयेते कुरुतः । तस्मिन् भगवति गोपाले, अहो हे कृशानो ! विरोधस्य गन्धः लेशोऽपि “गन्धो गन्धक आमादे लेशे संबन्धगर्वयोः ।" इति विश्वः । व अस्ति ? अपि तु नास्त्येव ॥ ४६४ ॥ एवं भगवन्तं गोपालं स्तुत्वा तत्रत्यभगवनिवासस्थानानि स्तौति-परिगतेति । परिगताः सर्वतः संगताः सहकारा आम्रवृक्षा येषु तैः प्रांशुभिरुन्नतैः नारिकेलेतालवृक्षैः दिनकरस्य सूर्यस्य कराणां किरणानां धारायाः दुष्प्रवेशं प्रवेष्टुमशक्यं अन्तरं मध्यभागो येषां तेभ्यः चुलुकितं विनाशितं दुरितं पापं यैस्तेभ्यः चोलदेशस्थितेभ्यः अखिलेभ्यः सर्वेभ्यः नाथस्य भगवतो गोपालस्य दिव्यस्थलेभ्यः दिव्यमन्दिरेभ्यः, इदं नमः तेभ्यो नमस्करोमीत्यर्थः ॥ ४६५ ॥ १ सहावस्थान'. For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५१ -वर्णनम् ३८ ] पदार्थचन्द्रिकाटीकासहिता । कृ०-भवतु तैवैतेषु नमस्कर्तृता । मम तु दवलकादिदेवालयोपजीविदुराचारानालोकयतो न भवति नमश्चिकीर्षा ॥ १९८ ॥ तथाहि वारस्त्रीकुचमर्दिभिर्विरचयन्त्यादिदानं करै___ स्तद्वीटीरॅसवासितैश्च वदनै ल्पन्ति मन्त्रानमी।। द्रव्यं देवलका हरन्त्यचकिता देवस्य तत्पूजिता खेतासु प्रतिमासु हन्त भविता किं देवतासंनिधिः॥४६६॥ किंचआघ्राता बत पण्ययौवतकथा नो कर्म संध्यादिकं यैरभ्यस्तमभूसभ्यवचनं न त्वेव वेदाक्षरम् ॥ अन्धश्चौर्यपरैर्दुरन्वयभवैः सूदैरमीभिः कृता न्येन्नौघानि निवेदितानि भगवानङ्गीकरोत्येष किम्? ॥४६७|| भवत्विति । एतेषु नाथस्थलेषु तव नमस्कर्तृता नमस्काराचरणं भवतु । मम तु देवलकाः वेतनादिना देवपूजकाः “देवाजीवस्तु देवलः" । इत्यमरः । आदयो मुख्याः येषु तादृशा ये देवालयोपजीविनः देवालयोत्पन्नधन-फलादिभिः खोदरपूरकाः अत एव दुराचारास्तान् आलोकयतः पश्यतः सतः नमश्चिकीर्षा नमस्कर्तुमिच्छा न भवति नैवोत्पद्यते ॥ १९८ ॥ वारस्त्रीति । अमी देवलकाः वारस्त्रीणां वेश्यानां कुचमर्दिभिः स्तनमर्दिभिः करैर्हस्तैः देवस्य, देवाय भगवते इत्यर्थः । अयं आदिः प्रधानं येषामावाहनादिषोडश. पूजोपचाराणां तेषां दानं समर्पणं विरचयन्ति कुर्वन्ति । तासां वेश्यानां वीव्याः मुखसम्बन्धिताम्बूलस्य रसेन वासितैः सुगन्धयुक्तैर्वदनैर्मुखैश्च मन्त्रानाद्युपचारसमर्पणमन्त्रान् जल्पन्ति पठन्ति । तथा अचकिताः परलोकभयरहिताः सन्तः द्रव्यं कैश्चिद्भक्तैः समर्पितं फलादिक हरन्ति खयमेव गृह्णन्ति । तैर्देवलकैः पूजितासु एतासु प्रतिमासु देवमूर्तिषु देवतानां संनिधिः सामीप्यं भविता भविष्यति किम् ? अपि तु नैवेत्यर्थः । हन्तेति खेदे ॥ ४६६ ॥ एवं देवलकानां स्थितिमुक्त्वा तन्नैवेद्यान्नपाचकानां सूदानामाचरणमाह-आघ्रातेति । यैः सूदैः पण्ययुवतीनां वारस्त्रीणां समूहः पण्ययौवतं तस्य कथा आघ्राता अभ्यस्ता संध्यादिकं कर्म तु नो नैवाघ्रातम् । बतेति विषादे । तथा असभ्यवचनं अश्लीलभाषणं अभ्यस्तमधीतमभूत् , वेदस्य अक्षरमपि, किमुत मन्त्रादिकं तु नैवाभ्यस्तम् । किंच अन्धसोऽन्नस्य "भिःसा स्त्री भक्तमन्धोऽनमोदनः" इत्य १ 'भवत एतेषु'. २ 'आलोचयतो'. ३ 'रसभासितैश्च'. ४ 'मदभ्र', ५ 'अन्नाद्यानि'. For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ विश्वगुणादर्शचम्पू:- [चम्प०राजगो०विमृश्यअहो कलिमाहात्म्यादखिलजनानामनिवार्यो विवेकविपर्ययः ॥१९९॥ यतः सद्मवादरतोऽर्पितानि हरये सत्त्वोत्तरैर्भूसुरै रन्नान्यत्र न मानयन्ति विधिवसिद्धानि वृद्धा अपि ॥ देवस्यायतने स्वदेन्ति विभया वात्यैः कृतानोदनान् ___ स्पृष्टान्दुष्टजनेन कष्टमखिलैदृष्टानशिष्टाहतान् ॥ ४६८ ।। वि०-मादृशेभ्यो हि दिव्यक्षेत्रमाहात्म्यवेदिभ्यो भवदीयमत्र दूषणं न रोचते ॥ २० ॥ मरः । चौर्यपरैः चौर्यतत्परैः यतो दुरन्वयभवैः दुष्कुलोत्पन्नैः अमीभिः सूरैः ओदनपाचकैः कृतानि पाचितानि अनौघानि विविधान्नसमूहाः, अत्रौघशब्दस्य नपुंसकत्वं "स्तोमौघ-निकर-बात-वार-संघात-संचयाः ।" इत्यमरानुशासनात् प्रामादिकमिति भाति । क्वचित् 'अन्नाद्यानि' इति पाठान्तरं दृश्यते तत्तु युक्तमेवेति मन्या. महे । तत्पक्षे च अन्नं भकं आद्यं मुख्यं येषु सूप-शाकादिवस्तुषु तानीत्यर्थः । परंतु प्राचीनबहुतरपुस्तकेषु अस्यैव पाठस्य स्वीकृतत्वादस्माभिरपि स एवाङ्गीकृतः । निवेदितानि समर्पितानि सन्ति, एष भगवान् अङ्गीकरोति स्वीकरोति किम् ?॥४६७॥ अहो इति। कलिमाहात्म्यात् कलियुगप्रभावात् अखिलजनानां, नतु केवलं देवलकादीनामेव, विवेकस्य विधि-निषेधविवेचनस्य विपर्ययः वैपरीत्यम् ॥ १९९ ॥ सद्मखिति । सत्त्वेन सत्त्वगुणेन उत्तरैः श्रेष्ठतां प्राप्तैः भूसुरैर्ब्राह्मणैः सद्मसु खगृहेषु आदरतः सत्कारेण हरये भगवते अर्पितानि निवेदितानि अत एव विधिवद्यथाशास्त्रं सिद्धानि पक्रानि अन्नानि अत्र चोलदेशे वृद्धा अपि, किमुतेतरे न मानयन्ति नैव स्वीकुर्वन्ति । किंतु देवस्यायतने देवालये व्रात्यैः पूर्वोक्तरीत्या विद्यादिसंस्कारहीनैः कृतान् पाचितान् , किंच दुष्टजनेन दुराचारिणा मनुष्येण स्पृष्टान् कृतस्पर्शान् , अखिलैः सर्वैः शूद्रादिभिर्जनदृष्टान् , अशिष्टैरसभ्यैः आहृतान् आनीतान् ओदनान् अन्नानि 'ओदनोऽस्त्री' इत्यनुशासनादोदनशब्दस्य पुंलिङ्गतापि । विभयाः भयरहिताः सन्तः वदन्ति आस्वादयन्ति भक्षयन्तीत्यर्थः ॥ ४६८ ॥ मादृशेभ्य इति । मादृशेभ्यः मत्सदृशेभ्यः दिव्यक्षेत्रस्य माहात्म्यवेदिभ्यः प्रभावविद्भयः हि भवदीयं त्वत्संबन्धि, त्वयोक्तमित्यर्थः । अत्र श्रीराजगोपालविषये दूषणं न रोचते ॥ २० ॥ १ विपर्यासः' २ 'आयतनेष्वदन्ति'; 'त्वदन्ति'. ३ 'नूनमखिलैः', ४ 'शिष्टावृतान्' For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णनम् ३८] पदार्थचन्द्रिकाटीकासहिता । २५३ यतःउषस्येव सानादुचितशुचिताशालिवपुषो विनीताः स्वे शास्त्रे विगतवृजिनाः पूजकजनाः ॥ परित्रातुं लोकान्विधिवदपतन्द्रा विदधते __ पवित्रैरन्नाद्यैः परमपुरुषाराधनममी ॥ ४६९ ॥ आकर्ण्यतामिदमपि यदभ्युपगम्याप्यभिधास्यामि रहस्यम् ॥ २०१॥ विधिवदविधिवद्वा भक्तितोऽभक्तितो वा ननु शुचिरशुचिर्वा नाथमर्चत्विहत्यः ।। अनुदिनमुपयातैरज़मानासु देवै ररुचिरजितमूर्तिष्वास्तिकस्यास्ति कस्य ? ॥ ४७० ॥ इंदं चावधेयम् केचिच्चक्रधरापराधचकिताः मापालभीताः परे श्रद्धातः कतिचित्पचन्त्यवहिताः शुद्धाश्च दिव्यं हविः ॥ उषसीति । अमी पूजकजनाः उषस्येव प्रातःकाले एव सानाद्धेतोः उचिता यथाशास्त्राचारतया योग्या या शुचिता पवित्रता तया शालि शोभमानं वपुः शरीर येषां ते, स्वे आत्मीये शास्त्रे विनीताः शिक्षिताः, स्वशास्त्रकृताभ्यासा इत्यर्थः । अत एव विगतं विनष्टं वृजिनं दुष्कृतं येषां ते लोकान् परित्रातुं संरक्षितुं अपगता तन्द्रा मन्दता येषां ते, संततं जागरूका इत्यर्थः । विधिवद्यथाशास्त्रं पवित्रैः अन्नाद्यैः परमपुरुषस्य भगवतो गोपालस्य आराधनं पूजनं विदधते कुर्वन्ति ॥ ४६९ ॥ आकर्ण्यतामिति । किंच यत् अभ्युपगम्य भवदीयदूषणं स्वीकृत्यापि रहस्य गोप्यं अभिधास्यामि कथयामि, तत् आकर्ण्यतां श्रूयताम् । त्वयेति शेषः ॥ २०१॥ 'वारस्त्रीकुचमर्दिभिः-' इत्यादिनोक्तं दूषणमुद्धर्तुमाह-विधिवदिति । इहत्यः एतद्देशीयः जनः शुचिः पवित्रः अशुचिः अपवित्रो वा सन् , नाथं गोपालं भगवन्तं विधिवद्यथाशास्त्रं वाऽथवा अविधिवत् शास्त्रविरुद्धतया, भक्तितः अभक्तितो वा अर्चतु पूजयतु । किंतु अनुदिनं प्रतिदिनं उपयातैः आगतैः देवैरिन्द्रादिभिः अय॑मानासु पूज्यमानासु अजितमूर्तिषु भगवन्मूर्तिषु कस्य अस्ति परमात्मा इति मतिर्यस्य स आस्तिकः "अस्तिनास्तिदिष्टं मतिः" इति ठक् प्रत्ययः । तस्य पुरुषस्य अरुचिः अप्रीतिः अस्ति ? अपि तु सततमिन्द्रादिदेवैः पूजितत्वाद्देवतासंनिधानात्सर्वस्याप्यास्तिकस्य श्रद्धा जागरूकैवेति भवाशनास्तिकस्य तु अश्रद्धैवेति च भावः ३७० 'आघ्राता बत-' इत्यादि लोकद्वयेनोक्तं दूषणं परिहरति केचिदिति । १ विजित'. २ 'मपि'. ३ 'अभिधास्यामि'. इत्येव क्वचिदृश्यते. ४ 'पचार'. २२ For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ विश्वगुणादर्शचम्पू:- . [चंपराजगो०अग्रे न्यस्तमिदं मुदैव भगवानालोकनैः स्वीकरो- . .. त्यंहःसंहरणास्थया च तदिदं प्राश्नन्ति भाग्योत्तराः ॥ ४७१॥ पश्य तावत् स्वानुभवसिद्धौ प्रकर्ष-निको भगवदायतन-तदितरस्थलपरिकल्पितयोरन्नयोः ॥ २०२ ॥ उपस्कारैः स्फारैरुपचितरसामोदभरम प्यवैत्यन्नं गेहे कृतमनतिभोग्यं बुधजनः ॥ अभूयःसंस्कारिण्यपि हविषि देवालयभवे त्वनल्पं भोग्यत्वं पुनरघहरत्वं च मनुते ॥ ४७२ ॥ केचित् सदादयः चक्रधरस्य विष्णोः अपराधात् चकिताः यदि तावत् अशुचितया. उन्नादिकं पाचितं तर्हि भगवतोऽपराधः स्यादिति भीताः, परे अन्ये ये तावदीश्वरा. द्रयं न मन्यन्ते ते इत्यर्थः । क्ष्मापालात् राज्ञः सकाशात् भीताः यदि तावदनवहितत्वेनाशुचित्वेन च पाकनिष्पत्तिः कदाचिद्राज्ञा राजपुरुषेण वा केनचिदृष्टा स्यातदा वयं दण्ड्या भवेमेति शङ्किताः सन्तः, अत एव अवहिताः पाककर्मणि दत्तचित्ताः, तत एव च शुद्धाः स्नानादिना पवित्राश्च सन्तः कतिचिदौदनिकाः श्रद्धातः आस्तिक्यबुद्ध्या दिव्यं सम्यग्विहितत्वेन तेजोयुक्तं हविरन्नादिकं पचन्ति । ततश्च इदं सावधानतया पवित्रतया च निष्पादितमन्नं अग्रे न्यस्तं नैवेद्यार्थ पुरःस्थापितं सत् भगवान् मुदैव आनन्देनैव आलोकनैरवलोकनैः स्वीकरोति । तच्चेदं भगवदी. क्षणेनात्यन्तपरिशुद्धमन्नादिकं अंहसां पापानां संहरणास्थया विनाशाशया भाग्योत्तराः अतिशयभाग्यवन्तो जनाः प्राश्नन्ति भक्षयन्ति ॥ ४७१॥ नन्वनुभवमन्तरेण व्यर्थमेवेदं सर्व त्वद्भाषणमिति चेदाह-पश्येति । भगवतः आयतने स्थाने तदितरस्मिंश्च स्थले कस्यचिद्गृहे परिकल्पितयोः पाचितयोरन्नयोः खानुभवेनात्मीयानुभवेनैव नतु मत्सदृशान्येन केनचित्कथितमात्रेण, सिद्धौ प्रकर्षः देवालयनिष्पादितस्योत्कर्षः निकर्षः तदितरस्थलनिर्मितस्य चापकर्षश्च ती पश्य तावत् ॥ २०२॥ उपस्कारैरिति । स्फारैर्बहुलैः उपस्कारैः वेसवारादिव्यञ्जनैः उपचितः वृद्धः रसस्य तिक्ताम्लादेः आमोदस्य सुगन्धस्य च भरः अतिशयः यस्मिन् तथाविधमप्यन्नं गेहे गृहे कृतं पक्वं चेत्, तत् बुधजनः अनतिभोग्य अतीव भोजनानह अ. वैति जानाति । किंच देवालयभवे भगवन्मन्दिरपक्के न विद्यन्ते भूयांसो बहुलाः संस्कारा व्यजनादयो यस्मिन् तथाभूतेऽपि, किं पुनर्बहुतरसंस्कारवति हविषि अन्ने अनल्पं बहुतरं भोग्यत्वं भोजनयोग्यत्वं, न त्वेतावदेव, पुनः अघहरत्वं पापनिवर्त. कत्वं चापि मनुते । अयं हि केवलमीश्वरस्थानप्रभाव एवेति भावः ॥ ४७२ ॥ १ 'संहरणाशया'. २ प्रकर्षापकाँ'. ३ 'कृतमयमभोग्यं'. For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३९] पदार्थचन्द्रिकाटीकासहिता । २५५ - इदं च बोद्धव्यम् देवागारनिषेविणः किल जना दुष्यन्तु शुध्यन्तु वा तेऽमी खामिपरिग्रहेण नियतं मान्या मनीषाजुषाम् ॥ प्रायेणाश्रयगौरवेण लभते हीनोऽपि मानार्हताम् कुब्जक्लीबमुखो जनोऽपि भजते पूजां हि राजाश्रयात् ४७३ अथ सेतुवर्णनम् ३९. इत्यन्यतः परिक्रामन्नग्रतोऽवलोक्य सहर्ष साञ्जलिबन्धनम् पातुं पातकिनो जनानशरणान् पातुं तमःसागरम् __यातुं यातुपुरीमरीन् रणमुखे जेतुं दशास्यादिकान् ॥ ....... नेतुं भूतनयां मुदं विरहिणीमेतुं यशः शाश्वतम् ... दातुं शर्म च राघवेण रचितं सेतुं नमस्कुर्महे ॥ ४७४ ॥ किंच देवागारेति । देवागारे देवमन्दिरस्य निषेविणः पूजनाननिष्पादनादिरूपेण सेवकाः जनाः प्रातःकालस्नानादिना शुधन्तु, संध्यानाचरणादिना दुष्यन्तु दोषयुक्ता भवन्तु वा । परंतु ते उभयविधा अपि अमी जनाः स्वामिनः भगवतः परिग्रहेणानुग्रहेण मनीषाजुषां बुद्धिमतां नियतं नियमेन मान्याः पूज्याः भवन्ति । अत्रार्थान्तरमुपन्यस्यति-लोके प्रायेण बहुधा हीनोऽपि नीचोऽपि जनः आश्रयस्थाधारस्य गौरवेण महत्त्वेन मानार्हतां पूज्यतां लभते प्राप्नोति । हि यस्मात् कुब्जः वक्राङ्गः क्लीवश्च तौ मुखौ प्रमुखौ यस्मिन् तथाभूतो जनोऽपि, जातावेकवचनम् । राजाश्रयात् पूजां इतरजनेभ्यः सत्कारं, भजते प्राप्नोति ॥ ४७३ ॥ ' अथ दक्षिणतः श्रीरामकृतं सेतुं दृष्ट्वा तं नमस्कुर्वनाह-पातुमिति । अशरणान् रक्षकहीनान् पातकिनश्च जनान् पातुं रक्षितुं, तमःसागरमज्ञानसमुद्रं पातुं तस्य पानं कर्ते, पूर्व 'पा रक्षणे' इति धातो रूपमत्र च 'पा पाने' इति धातोश्च रूपमिति बोध्यम् । तेन सकलाज्ञानं विनाशयितुमित्यर्थः । यातूनां रक्षसां "यातुधानः पुण्यजनो नैर्ऋतो यातु-रक्षसी ।" इत्यमरः । पुरीं लङ्कानगरी यातुं गन्तुं, रणमुखे युद्धमध्ये दशास्यादिकान् रावणप्रमुखान् अरीन् शत्रून् जेतुं पराभावयितुं विरहिणीं खवियोगिनीं भूतनयां सीतां मुदमानन्दं नेतुं, प्रापयितुं, शाश्वतं विनाशरहितं यशः कीर्ति एवं संपादयितुं, शर्म सुखं दीनजनेभ्य इति शेषः । दातुं च राघवेण श्रीरामचन्द्रेण रचितं निर्मितं सेतुं नमस्कुर्महे वन्दनं कुर्मः ॥ ४७४ ॥ . १ निर्मितं भगवता'. For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ विश्वगुणादर्शचम्पू:- [सेतु__ हन्त कठिनानामप्यमीषामतिमहती प्रीतिरनुबन्धिजने ॥ २०३ ॥ यतः लङ्कापुरे पक्किमुखेन रुद्धां भूमेः सतां भूमिभृतोऽनुबन्धात् ॥ पति पुनः प्रापयितुं पयोधौ सेतूभवन्तः खयमाप्लवन्ति ॥ ४७५ ॥ निरूप्य पयोधिमध्ये प्लवमानमूर्तयस्तरङ्गवेगार्पितफेनचिहिताः ।। हसन्ति किं मन्दरमन्तरर्णवं निमममेते नलसेतुभूधराः ॥ ४७६ ॥ पुनर्विमृश्य लकापुरावासिरघूद्वहारिसंपर्कपापादिव सिन्धुराजः ॥ सपक्षभूभृन्निबिडान्तरोऽपि विपक्षभूभृद्भिरबन्धि कष्टम् ॥ ४७७ ।। शुद्धाः संश्रितधर्मसेतव इमे सोढोनवर्षातपाः स्थित्वा सिन्धुजले सदा क्षितिभृतो घोर तपः कुर्वते ॥ हन्तेति । कठिनानां कठोराणामपि अमीषां सेतुसंबन्धिनां शिला-पाषाणादिका. नामिति शेषः । अनुबन्धिजने खसंबन्धिजने अर्थात् सीताविषये अतिमहती प्रीतिः प्रेम, अस्तीति शेषः । हन्तेयानन्दे ॥ २०३ ॥ प्रीतिमेव विशदयति-लकापुर इति । भूमिभृतः सेतुसंवन्धिपर्वताः अनु. बन्धात् भूमिकन्यात्वात्सोदरसंबन्धादित्यर्थः । लङ्कापुरै दशानननगर्यो पनिमुखेन रावणेन रुद्धां भूमेः पृथिव्याः सुतां सीतां पुनः पतिं श्रीरामचन्द्रसंनिधि प्रापयितुं पयोधौ समुद्रे स्वयं सेतूभवन्तः सन्तः, आप्लवन्ति तरन्ति ॥ ४७५ ॥ किंच पयोधिमध्य इति । पयोधेः समुद्रस्य मध्ये प्लवमानाः तरन्तः मूर्तयो येषां ते, तरङ्गाणां ऊर्मीणां वेगैः जवैः अर्पितैः समर्पितैः फेनैः चिह्निताः कृतलाञ्छनाः एते नलो नाम रामसैनिकानां वानराणामेकतमः तन्निर्मितसेतुसंबन्धिनो भूधराः पर्वताः, अन्तरर्णवं समुद्रमध्ये निमनं मन्दरं नाम पर्वतं हसन्ति किं, उप. हासं कुर्वन्त्येवेति किमित्युत्प्रेक्षा ॥ ४७६ ॥ पुनरिति । विमृश्य विचार्य लङ्केति । सिन्धुराजः समुद्रः लकापुरावासिनः रघूद्वहस्य रघुश्रेष्ठस्य रामचन्द्रस्य अरेः शत्रो रावणस्य संपर्कपापात् स्पर्शदोषादिव सपक्षाः समानमतस्थाः सुहृद इत्यर्थः । पक्षसहिताश्च ये भूभृतः राजानः पर्वताश्च तैः निबिडं धनं अन्तरं मध्य. भागो यस्य सः तथाभूतोऽपि विपक्षभूभृद्भिः शत्रुभूतराजभिः पक्षरहितैश्च पर्वतैः अबन्धि बद्धः, कष्टमिति खेदे ॥ ४७७ ॥ शुद्धा इति । संश्रितः आश्रितः धर्मस्य सेतुमर्यादा यैस्ते, पक्षे संश्रितः धर्मेण For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३९] पदार्थचन्द्रिकाटीकासहिता । नृत्यन्तीरिह नित्यमेव ललितास्तीक्ष्णैरतन्वाशुगै लावण्यं दधतीः कदापि न चलन्त्यालोक्य वीचीरमूः ॥४७८॥ क्षणमभिध्यायन्नञ्जलिं बवाअस्तोकप्तिरपि वारिधिरेष यस्मात् त्रस्तो बिभर्ति विपुलोपलसान्द्रसेतुम् ॥ गोपायते दुरितवन्ति जगन्ति तस्मै - कोषाय ते रघुपते महते नमोऽस्तु ॥ ४७९ ॥ कु०-साक्षेपम् काकुत्स्थकोपेचकितः कमिता नदीना___ मासीद्यदानघुगुरुप्लवनाहतोयः ॥ शक्यस्तदैष तरितुं हरिभिः पदाभ्याम् किं वा फलं कथय सेतुकृतिश्रमस्य ? ॥ ४८० ॥ धर्मरूपेण रामेण रचितः सेतुर्यैस्ते इति च, सोढौ मर्षितौ उग्रौ वर्षे वृष्टिः आतपः सूर्यप्रकाशश्च तौ द्वौ यैस्ते अत एव शुद्धाः पवित्राः सदा सर्वदा सिन्धुजले समुद्रोदके स्थित्वा क्षितिभृतः राजानः पर्वताश्च घोरं भयंकरं तपः कुर्वते कुर्वन्ति । अतः इमे पर्वताः राजानश्च इह लोके समुद्रे च लावण्यं सौन्दर्य लवणस्य भावः लावण्यं क्षाररसमित्यर्थः । दधतीः धारयन्तीः तीक्ष्णैस्तिग्मैः अतनुभिः बहुभिः आशुगैः वायुभिः अतनोर्मदनस्य च आशुगैर्बाणैश्च "आशुगौ वायु-विशिखौ” इत्यमरः । लुलिताः क्षुभिताः पीडिताश्च अत एव नित्यमनवरतमेव नृत्यन्तीः वर्द्धिताः नृत्यमाचरन्तीश्च अमूः वीची: लहरी: आलोक्यावलोक्य कदापि न चलन्ति न मुह्यन्ति ने भ्रमन्ति च ॥ ४७८ ॥ अस्तोकेति । एष वारिधिः समुद्रः अस्तोका बहुला दृप्तिर्गर्यो यस्य तथाभूतः धन्नपि, यस्मात् कोपात् त्रस्तो भीतः सन् विपुला बहुला ये उपलाः पाषाणास्तैः सान्द्र निबिडं सेतुं बिभर्ति धारयति, तस्मै दुरितवन्ति पापयुक्तानि जगन्ति गोपायते रक्षते, 'गुपू रक्षणे' इत्यस्मात् "गुपू-धूप-" इत्यादिना आयप्रत्यये शतृप्रत्ययः । हे रघुपते भगवन् रामचन्द्र ! ते तव महते कोपाय क्रोधाय नमः अस्तु ॥ ४७९ ॥ 'वारिधिस्त्रस्तो बिभर्ति विपुलोपलसान्द्रसेतुं' इत्यत्राक्षिपति-काकुत्स्थेति । नदीनां कमिता पतिः समुद्रः ककुत्स्थस्य गोत्रापत्यं पुमान् काकुत्स्थः रामचन्द्रः तस्य कोपात् चकितो भीतः यदा अनघानां निर्मलानां गुरूणां महतां, सोढुमशक्यानामित्यर्थः । अर्थात् पाषाणानां प्लवनाय तरणाय अहं योग्यं तोयमुदकं यस्य तथाभूतः आसीत् , तदा तर्हि एषः हरिभिः वानरैः पदाभ्यां १ चपला'. २ रोष'. ३ 'गुरुनग', 'ननु गुरु'. For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ विश्वगुणादर्शचम्पू:- [ सेतु वि०-तत् कथितमेव मया । भवता तु न सम्यगवधारितम् । शृणु तर्हि पुनः सावधानम् ॥ २०४ ॥ अम्भोराशिं वानरा लङ्घयन्त्वित्येतद्वयाजीकृत्य राजीवनेत्रः ।। अहोराशेर्लङ्घनाथै नराणामम्भोराशौ सेतुमुच्चैरबन्नात् ॥ ४८१ ॥ पुनर्निरूप्य न सागरोऽसौ नभ एव फेनव्रजा न चामी विपुलोडुवर्गाः ।। न सेतुरेषोऽपि निशाचराणां नृपातकानामपि धूमकेतुः ॥४८२॥ पश्यात्र जलचरभ्रमचमत्कारम् ॥ २०५॥ गजेन्द्रबुद्ध्या नलसेतुशैलान्याहा असन्ते जलधौ वसन्तः ॥ तदासजायाससमुत्थदंष्ट्राव्यथाः प्रधावन्ति यथागतं ते ॥ ४८३॥ वरणाभ्यां तरितुं लङ्घयितुमपि शक्यः स्यात् । तस्मात् सेतुकृतिश्रमस्य सेतुरचनाप्रयत्नस्य किं वा फलमुपयोगः ? कथय ।। ४८०॥ तदिति । तत् सेतुकृतिश्रमफलं मया कथितं 'दातुं शर्म च राघवेण रचितं' इत्यादिनोक्तमेव । भवता तु पुरोभागितया न सम्यक् अवधारितं ज्ञातम् । तर्हि पुनः कथयामीति शेषः । सावधानं केवलपुरोभागित्वं त्यक्त्वा तत्त्वजिज्ञासया मनःपूर्वकं यथा तथा शृणु ॥ २०४ ॥ अम्भोराशिमिति । वानराः अम्भोराशिं समुद्रं लङ्घयन्तु तरन्तु इत्येतत् व्याजीकृत्य निमित्तीकृत्य, राजीवनेत्रः कमलनयनः श्रीरामचन्द्रः नराणां अंहसां पापानां राशेः समुद्रस्य लङ्घनार्थ उल्लङ्घनार्थ अम्भोराशौ समुद्रे उच्चैर्महान्तं सेतुं अबध्नात् बबन्ध ।। ४८१॥ नेति । असौ दृश्यमानः सागरः समुद्रो न, किंतु नभ आकाश एव । अमी सा. गरतरङ्गेषु विलसन्तः फेनवजाः फेनसमुदायाः न, किंतु विपुलानां बहूनां उडूनां नक्षत्राणां वर्गाः समुदाया एव । तथा एषः सागरे श्रीरामनिबद्धः सेतुर्न, अपि तु निशाचराणां राक्षसानां नृणां मनुष्याणां संबन्धिनां पातकानामपि च धूमकेतुः विनाशसूचकग्रहविशेषः । अत्र सागरादीनां प्रकृतस्वरूपं निषिध्य नभआदीनामप्रकृतानां साधनादपद्भुतिरलंकारः । तदुक्तम्-"प्रकृतं यनिषिध्यान्यत् साध्यते सा त्वपह्नुतिः। इति ॥ ४८२ ॥ पश्येति । अत्र समुद्रे जलचराणां मत्स्यादीनां भ्रमस्य मिथ्याज्ञानस्य चमस्कारं आश्चर्य पश्य ॥ २०५॥ गजेन्द्रति । जलधौ समुद्रे वसन्तो वासं कुर्वन्तः ग्राहाः नकाः, गजेन्द्रा महा. हस्तिन इति या बुद्धिस्तया नलस्य नलनिर्मितस्य सेतोः संबन्धिनो ये शैलाः पाषा: १ 'सावधानः'. २ 'उद्गां राशौ', 'पाथोराशौ'. For Private And Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३९] पदार्थचन्द्रिकाटीकासहिता। २५९ पुनर्विचिन्त्यडिण्डीरखण्डान्वयपाण्डुराभं द्रा घिष्ठमुच्चैःपरिणाहवन्तम् ॥ काकुत्स्थसेतुं कलये गुणाढ्यं धौतोत्तरीयं धृतमर्णवेन ॥ ४८४ ।। यद्वाचिराद्धराभूरिभरातमूर्तिहरित्करिष्वर्पितनैजकृत्यः ॥ श्रमक्षयायार्णववारि शीते शेते स किं सेतुमिषेण शेषः ।।४८५।। विमृश्य सश्लाघम् यः पुरा पापदशकच्छेदे साधनतां गतः ॥ ___ स सेतुर्न कथं शक्तः ? पापपञ्चकभञ्जने ॥ ४८६ ॥ णास्तान प्रसन्ते भक्षयन्ति । ततः तेषां ग्रासाजाता ये आयासाः प्रयत्नाः तेभ्यः समुत्था उत्पन्ना दंष्ट्राणां व्यथा येषां ते तथाभूताः सन्तः, यथागतं आगतस्थानमनतिक्रम्य, खस्थानमित्यर्थः । प्रधावन्ति शीघ्रगत्या गच्छन्ति ॥ ४८३ ॥ डिण्डीरेति । डिण्डीरखण्डानां फेनशकलानां अन्वयेन स्पर्शसंबन्धेन पाण्डुरा श्वेतवर्णा आभा कान्तिर्यस्य तं द्राधिष्ठं अतिदीर्घ उच्चैःपरिणाहवन्तं अतिविशालतासंपन्नं च गुणैः प्रणतजनदुःखनिहरणादिभिः, सूत्रैश्च आन्यं संपन्नं काकुत्स्थसेतुं श्रीरामनिर्मितं सेतुं, अर्णवेन समुद्रेण धृतं परिधृतं धौतं प्रक्षालितं उत्तरीयं उपवस्त्रं, कलये अवगच्छामि ॥ ४८४ ॥ __ अथवा एवं कल्पनीयमित्याह-चिरादिति । चिरात् बहुकालपर्यन्तं धरायाः पृथिव्याः भूरिभरेणातिभारेण आता पीडिता मूर्तिः शरीरं यस्य सः, अत एव हरित्करिषु दिग्गजेषु अपितं समर्पितं नै स्वकीयं कृत्यं पृथ्वीधारणरूपं येन तथाभूतः सन् श्रमक्षयाय पृथ्वीधारणायासपरिहाराय, सः प्रसिद्धः शेषः अनन्तः सेतुमिषेण सेतुव्याजेन शीते अर्णववारि समुद्रजले, रेफान्तोयं शब्दः । शेते शयनं करोति किम् ? उत्प्रेक्षालंकारः ॥ ४८५॥ - य इति । यः सेतुः पुरा रामावतारे पापानां दशकं, तस्य त्रिविधकायिकचतुर्विधवाचिक-त्रिविधमानसिकेति भेदेन दशसंख्याकपापानामित्यर्थः । तानि स्कान्दे यथा-" अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिक त्रिविधं स्मृतम् ॥ पारुष्यमनृतं चैव पैशून्यं चापि सर्वशः । असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥” इति । दशसंख्यानि कानि शिरांसि यस्य सः दशकः पापश्चासौ दशको रावणस्तस्य च छेदे विनाशे साधनतां निखिलवानरसै: न्यस्य लङ्कायां प्रापणात् साहाय्यत्वं गतः, सः सेतुः पापानां ब्रह्महत्यादीनां पञ्चकं तस्य भजने विनाशे कथं न शक्तः न समर्थः ? अपि तु शक्त एव स्यादिति तत् एंव च स स्तुत्य एवेति च भावः ॥ ४८६॥ .. For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २६० www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:अथ ताम्रपर्णीवर्णनम् ४०. [ शठकोपमुनि इति परावृत्यान्यतोऽवलोक्य सामोदम्तापं विलुम्पति नृणामिह ताम्रपर्णी - त्याख्यां वहन्नघर्दवानलजृम्भणोत्थम् ॥ पाथोनिधेस्त्रिजगति प्रथितोऽवरोधो रोघोलसत्परमहर्षमहर्षियूथः ॥ ४८७ ॥ अथ कुरुकानगर श्रीशठकोपमुनिवर्णनम् ४१. तदभ्यर्ण निर्वर्ण्य चकास्ति कुरुकापुरी शुचिनि ताम्रपर्णीतटे विरक्तिपरिपक्त्रिमत्रियुगभक्तिभिर्वैष्णवैः 11 दृढव्रतशठार्युरोबकुलसंपतद्बम्भर - ध्वनिद्विगुणजृम्भणद्रविडवेदघोषोज्ज्वला ॥ ४८८ ॥ एवं सेतुं संवर्ण्य ततो निवृत्य ताम्रपर्णीत्याख्यां नदीं वर्णयतीत्याहइतीत्यादि । adid तापमिति । रोधसोस्तीरयोः लसन्ति शोभमानानि परमहर्षाणां अतिशयानन्दकानां महर्षीणां यूथानि समूहाः यस्य सः, अत एव त्रिजगति त्रैलोक्ये प्रथितः प्रसिद्धः पाथोनिधेः समुद्रस्य अवरोधः अन्तःपुरस्त्री ताम्रपर्णी इति प्रसिद्धां आख्यां नाम वहन् धारयन् सन् इह लोके नृणां मनुष्याणां अघानि पापान्येव दवानलस्तस्य जृम्भणात् प्रज्वलनात् उत्थमुत्पन्नं तापं आध्यात्मिकादिरूपं विलुम्पति विनाशयति ॥ ४८७ ॥ For Private And Personal Use Only एवं ताम्रपर्णी प्रस्तूय तत्समीपवर्तिश्रीशठकोपमुनिं वर्णयितुं प्रस्तौति-तदित्यादि । अभ्यर्ण समीपदेशम् चकास्तीति । शुचिनि पवित्रे ताम्रपर्ण्या नद्यास्तटे तीरे दृढव्रतस्य निर्भर - नियमसंपन्नस्य शठारेः एतन्नामकवैष्णवगुरोः उरः स्थिते बकुले बकुलमालायां संपतन्तः संप्राप्नुवन्तः ये बम्भराः भ्रमरास्तेषां ध्वनिभिः गुञ्जारवशब्दैः द्विगुणं जृम्भणं ध्वनिप्रसारणं येषां तैर्द्रविडपठितैर्वेदघोषैः उज्ज्वला कान्तिमती कुरुकाख्या पुरी १ ‘वहन्भवदवानलजृम्भितोत्थांम्. Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वर्णनम् ४१] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिकाटीकासहिता । २६१ अत्रत्यानां धर्मनिरतानां हरिभृत्यानामित्थमनुसंधानम् ॥२०६॥ परिदृष्टवते सहखशाखां परमां द्राविडसंहितां हितां नः ॥ गुरवे करवाम नित्यमस्मै शठकोपाय महर्षये प्रणामान् ॥ ४८९ ॥ अञ्चाम चिञ्चातरुमद्भुतं तं पञ्चामरद्र्नवधीरयन्तम् ॥ शठारिसंज्ञं किल यस्य मूले तपः फलं किंचिदुदञ्चितं नः ॥ ४९० ॥ दिशन् श्रितानाममृतात्मकं फलम् विलक्षणो भाति स तिन्तिडीतरुः ॥ सहस्रशाखं द्रविडागमं सृजन् स यस्य मूलं समुपाश्रितो मुनिः ॥ ४९१ ॥ नगरी विरक्तैर्विषयवैतृष्ण्याद्धेतोः परिपनिमा फलाभिमुखा त्रियुगे विष्णौ भक्तिर्येषां तथाभूतैर्वैष्णवैः विष्णुभक्तैः करणैः चकास्ति प्रकाशते ॥ ४८८ ॥ नत्रत्यानामिति । अत्रत्यानां कुरुकापुरनिवासिनां धर्मनिरतानां पुण्यकर्मतत्पराणां हरेर्भृत्यानां सेवकानां इत्थं वक्ष्यमाणप्रकारकमनुसंधानं चिन्तनम् ॥ २०६॥ परीति । सहस्रं चतस्रः शाखा विभागाः यस्यास्तां, सहस्रसंख्यायाश्चतुर्थंस्थानत्वाच्चतुर्षु सहस्रशब्दस्यौपचारिकः प्रयोगः । अत एव परमां महतीं द्राविडैः पठनीयां संहितां, नः अस्माकं वैष्णवानां हितां हितकारिणीं परिदृष्टवते सम्यगवगच्छते, 'परिसृष्टवते' इत्यपि पाठः तत्पक्षे परिसृष्टवते उत्पादयित्रे इत्यर्थः । शठकोपाय गुरवे महर्षये अस्मै नित्यं प्रणामान् नमस्कारान् करवाम कुर्मः । क्रियार्थोपपदस्य - " इत्यादिना चतुर्थी । 'स्वयंभुवे नमस्कृत्य' इत्यादिवत् । तेन शठकोपायेत्यस्य तमनुकूलयितुमित्यर्थः ॥ ४८९ ॥ a ८८ अञ्चामेति । यस्य चिश्चातरोर्मूले नः अस्माकं वैष्णवजनानां किंचिदनिर्वाच्यं शठारिसंज्ञं शठारिमुनिरूपमित्यर्थः । तपःफलं उदञ्चितं प्रकटीभूतं किल, तं पश्च अमरहून् मन्दार- पारिजातादिदेववृक्षान् । “पञ्चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ।" इत्यमरः । अवधीरयन्तं तिरस्कुर्वन्तं अत एव अद्भुतमाश्चर्यावहं चिचात्तरुं तिम्तिडीवृक्षं अञ्चाम पूजयाम | 'अक्षु गति - पूजनयो:' इलस्य लोडत्तमपुरुषः ॥ ४९० ॥ दिशन्निति । यस्य तिन्तिडीतरोः मूलं सः प्रसिद्धः सहस्रशाखं द्रविडागमं द्रविडवेदं सृजन्नुत्पादयन् मुनिः शठारिसंज्ञः समुपाश्रितः, सः श्रितानामाश्रितानां अमृतात्मकं मोक्षरूपं पीयूषरूपं च फलं दिशन् समर्पयन् अत एव विलक्षण: आचर्यावहः स्वस्य आम्लमयत्वात् अमृतफलप्रदत्वेनेति भावः । तिन्तिडीतरुः भाति शोभते ॥ ४९१ ॥ १ 'धर्मनित्यानां', 'धर्मनित्यानां इरिभृत्याना' २ 'परिसृष्टवते'. • For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org २६२ Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: [ शठकोपमुनि हरिमिव कृतावतरणं बकुलाभरणं वृणीमहे शरणम् ॥ ध्येयं यं विदुरार्या मुमुक्षुभिर्यत्प्रबन्धमध्येयम् ॥ ४९२ ॥ तस्मिन्मतिर्मेऽस्तु दृढा शठारौ गायन्त उच्चैरिह यस्य गाथाः ॥ हाय देहं प्रथयन्ति दिव्ये पदेहमन्नाद इति प्रगीते ॥ ४९३ ॥ कृतदुरितनिरोधानां कलितश्रुतिमौलिभावबोधानाम् ॥ वशितरमानाथानां न सुधाऽपि समा शठारिगाथानाम् ॥ ४९४ ॥ जनानुद्दिश्य कठिनशठनरेन्द्रस्तावकान् श्लोकपाशान् जठरपिठरपूर्त्यै जातु मा संगिरैध्वम् ॥ हरिमिवेति । हरिमिव श्रीविष्णुमिव कृतं अवतरणमवतारो येन सः तं भगवन्तं विष्णुमिव लोकोपकारार्थमाविर्भूतमित्यर्थः । बकुलाभरणं श्रीशठकोपमुनिं शरणं रक्षितारं वृणीमहे अङ्गीकुर्मः । किं वा तस्मिन् रक्षणसामर्थ्यं यस्मात्तदङ्गीकार इत्याकाङ्क्षायामाह - यं शठकोपमुनिं आर्याः श्रेष्ठजनाः मुमुक्षुभिः ध्येयं ध्यातुं योग्यं यत्प्रबन्धं यस्य शठकोपस्य ग्रन्थं अध्येयं अभ्यसनीयं च विदुः जानन्ति । एतदेव शरणत्वेन स्वीकारे बलवत्तरं प्रमाणमित्यर्थः ॥ ४९२ ॥ तस्मिन्निति । इह लोके यस्य शठारेः गाथाः संहितारूपाः उच्चैरुच्चस्वरेण गायन्तः सन्तः देहं प्रहाय त्यक्त्वा अहमन्नादः इति प्रगीते वर्णिते, यजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवयां दशमेऽनुवाके "य एवं वित् । अस्माल्लोकात्प्रेत्य " इत्युपक्रम्य “ एतत्साम गायन्नास्ते । हा३वु हा ३ बुहा ३ वु । अहमन्त्रमहमन्नमहमन्नम् । अहमन्नादोऽहमन्नादोऽहमन्नादः ।" इत्युपसंहारपरया श्रुत्येति शेषः । अत एव दिव्ये तेजः संपन्ने पदे वैकुण्ठस्थाने प्रथयन्ति प्रसिद्धा भवन्ति । तस्मिन् शठारौ शठकोपमुनौ मे दृढा अनन्यविषया मतिः अस्तु ॥ ४९३ ॥ • एवं शठकोपं वर्णयित्वा तगाथामाहात्म्यं वर्णयति---कृतेति । कृतं दुरितानां पापानां निरोधो वारणं याभिस्तासां कुतः यतः कलितः प्रकटीकृतः श्रुतिमौलीनां उपनिषदां भावस्याभिप्रायस्य बोधो ज्ञानं याभिस्तासां अत एव वशितः वशीकृतः रमानाथो भगवान् विष्णुर्याभिस्तासां शठारिगाथानां सुधा अमृतमपि समा तुल्यान, का पुनरितरेषां वार्तेति भावः ॥ ४९४ ॥ कठिनेति । भो भो जनाः भवन्तः कठिनाः निष्ठुरा: अत एव शठाः दुस्तरकरभारादिग्रहणेन वञ्चकाश्च ये नरेन्द्रा राजानः तेषां स्तावका: वृथैव श्लाघाकारिणस्तान् अत एव श्लोकपाशान् निन्द्यश्लोकान् केवलं जठरपिठरस्य उदरकुण्डस्य “पिठरः स्थाल्युखा कुण्डं” इत्यमरः । पूलैं भरणार्थे जातु कदाचिदपि मा १ 'प्रव्हाय वेद'. २ ' प्रपठन्ति' ३ 'संगदिष्ठाः '. For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४१] पदार्थचन्द्रिकाटीकासहिता । २६३ लुठत दृढतमस्के मा च संसारकूपे पठत शठजिदुक्तीरश्रमानीतमुक्तीः ॥ ४९५ ॥ कृशानुमामत्र्यननु शठकोपाय त्वं प्रणति प्राप्ताय भावकोपायत्वम् ।। विमलमते ! कुरु कायान्निरसितुमहो विराजते कुरुकायाम् ॥४९६॥ किंच बकुलाभरणीयानां गाथानां सन्मुखेन भरणीयानाम् ॥ हरिगृहमध्ये तारस्वरेण पुनते प्रपञ्चमध्येतारः ॥ ४९७ ॥ सश्लाघम्----- विरक्तेरास्थानी मधुमथनभक्तेर्नटनभू विमुक्तेनिःश्रेणी सुकृतपरिपक्तेः फलमसौ ॥ प्रपत्तेरुद्यानक्षितिरकृतकोक्तेः प्रियसखी चिदङ्करक्षोणी बकुलधरवाणी विजयते ॥ ४९८ ॥ संगिरध्वम् मा उच्चारयत । तथा दृढं गाढं तमोऽज्ञानं यस्मिन् तथाभूते संसारकूपे च मा लुठत मा तिष्ठत । किंतु अश्रमेणानायासेनैव आनीता प्रापिता मुक्तिर्या. भिस्ताः शठजितः शठकोपस्य मुनेः उक्तीः गाथाः पठत उच्चारयत ॥ ४९५ ॥ __ अथ कृशानुमुपदिशति-नन्विति । हे विमलमते शुद्धबुद्धे कृशानो! त्वं कायात् शरीरात् अंहः पापं निरसितुं निवारयितुं भावुकः कुशलश्वासावुपायः साधनं च "भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च" इत्यमरात् सुखादयः शब्दाः विशेष्यनिघ्नाः । तत एवात्र भावुकशब्दस्य पुँल्लिङ्गत्वम् । सः तस्य भावः भावुकोपायत्वं प्राप्ताय कुरुकायां नाम नगर्यो विराजते शोभमानाय शठकोपाय मुनये प्रणतिं नमस्कारं कुरु । ननु निश्चयेन । मा तस्मिन् दोषारोपं कार्षीरित्यर्थः ॥ ४९६ ॥ बकुलेति । सतां सत्पुरुषाणां सता सद्विद्यादिसंस्कारवत्त्वेनोत्तमेन वा मुखेन भरितुं पठितुं योग्याः भरणीयास्तासां बकुलाभरणः शठकोपमुनिस्तस्येमाः बकुलाभरणीयाः श्रीशठकोपमुनिप्रणीता इत्यर्थः । तासां गाथानां हरिगृहस्य श्रीभगवद्विष्णुमन्दिरस्य मध्ये तारस्वरेण उच्चवरेण अध्येतारः अध्ययनकर्तारः जनाः प्रपञ्चं सकलं संसारं पुनते पवित्रीकुर्वन्ति ॥ ४९६ ॥ विरक्तेरिति । विरक्तवैराग्यस्य आस्थानी सभा “समज्या परिषद्गोष्ठी सभा-समिति-संसदः । आस्थानी" इत्यमरः । मधुमथनभक्तेविष्णुभक्तेः नटनभूः १ सन्मुखाज'. २ 'सुकृततरुपतेः'. . . For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६४ विश्वगुणादर्शचम्पू:- [शठकोपमुनिसमन्तादवलोक्य सानन्दं कृशानुमुद्दिश्य अभ्यस्तवेदमौलिभ्यः सद्भयस्तत्त्वबुभुत्सया ॥ कुरुकापुरवासिभ्यः कुरु कामं नमस्क्रियाः ॥ ४९९ ॥ कृ०--सत्यमेवम् । तथापि पुनरतिपतितश्रुतिस्मृतयो यतयोऽपि कतिचिदत्र वर्तन्त इति भातीह नातिमाननीयता ॥ २०७॥ तथाहिन संध्यासु स्नानं तिसूषु न कमण्डल्वभिधृति ने चातुर्मास्यादिव्रतमपि न भिक्षाटनविधिः ॥ न लिप्सायास्त्यागो न परिपठनं चोपनिषदाम् ___ यतित्वं नैतेषां श्रुतिमैतमतिक्रम्य चरताम् ॥ ५०० ॥ __ न केवलमेतावदेव शृणु तावदन्यदपि ॥ २०८ ॥ रङ्गभूमिः, विमुक्तेर्मोक्षस्य निःश्रेणी, अधिरोहणी, सुकृतस्य पुण्यकर्मणः परिपकेः परिपाकस्य फलं इच्छितलाभः, प्रपत्तेः शरणागतेः उद्यानक्षितिः उपवनभूमिः, विशिसुखोत्पादकत्वात् । अकृतकायाः अकृत्रिमायाः उक्तेः वेदस्य प्रियसखी, चिदड. रस्य चिन्मयनूतनप्ररोहस्य क्षोणी उत्पत्तिभूमिः, एतदभ्यासादेव चिन्मयब्रह्मज्ञानं प्रादुर्भवतीत्यर्थः । एतादृशी असौ बकुलधरस्य श्रीशठकोपस्य वाणी प्रबन्धरूपा विजयते सर्वोत्कर्षेण वर्तते ॥ ४९८ ॥ अभ्यस्तेति । हे कृशानो, त्वमिति शेषः । तत्त्वस्य आत्मयाथार्थ्यस्य बुभुत्सया जिज्ञासया हेतुभूतया अभ्यस्ताः अधीताः वेदमौलयः उपनिषदः यैस्तेभ्यः अत एव सन्यः कुरुकापुरवासिभ्यः कामं यथेच्छं नमस्क्रियाः नमस्कारान् कुरु ॥ ४९९ ॥ सत्यमिति । सत्यमित्यार्धाङ्गीकारे । एवं त्वदुक्तप्रकारेण सत्यं, तथापि अतिपतिताः अतिक्रमिताः श्रुतयः स्मृतयश्च यैस्ते कतिचित् यतयः संन्यासिनोऽपि अत्र कुरुकानगों वर्तन्ते इति हेतोः अतिमाननीयता अतिपूज्यता इह न भाति ॥२०७॥ नेति । श्रुतिमतं वेदमतमतिक्रम्य चरतां एतेषां संन्यासिनां एतत्प्रतिवाक्यान्वयि । तिसृषु संध्यासु प्रातमध्याह्न-सायाह्रासु स्नानं यतीनां वेदविहितं न, कमण्डलोः अभिधृतिर्धारणं न, चातुर्मास्यादिवतं एकस्मिन्नेव स्थाने संवासादिरूपं एतच्च यतीनां शास्त्रविहितम् । तदपि न, भिक्षाटनं भिक्षार्थे परिभ्रमणं तस्य विधिः न, लिप्सायाः धनवाञ्छायाः त्यागो न, किंच उपनिषदां पठनमपि न, अत एव एतेषां यतित्वं न । केवलं काषायवनपरिधानादिना बाह्यतः संन्यासित्वेपि न तथाऽन्तत इत्यर्थः॥५००॥ १ सहर्षम्'. २ 'अतीतं'. ३ 'न भातीह माननीयता'. ४ 'श्रुतिगति', For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४१] पदार्थचन्द्रिकाटीकासहिता । किं बहुना - संन्यासाश्रममाश्रितोऽपि सकलव्यापारलोपात्मकम् कैर्यं चपलो हरेरपदिशन्द्राग्राजधानीं विशन् ॥ अर्थार्जयति तोर्जितमठो मृष्टान्नमश्नात्यसौ को मृष्येदिह राम ! राम ! तदिदं कष्टं कैश्चेष्टितम् ५०१ अन्याय्यमस्ति किमितोऽपि हैते कलौ यत् संन्यासिनो विदधते गृहिणां प्रणामान् ॥ एतत्तु चेत इह कृन्तति वैष्णवोऽसा वित्यैत्र शुद्रममतिर्नमति द्विजो यत् ॥ ५०२ ॥ वि० - सखे मेवं संभाषिष्ठाः ॥ २०९ ॥ इच्छेन्तु हन्त यतिनः कतिचिद्धनौघ मुज्झन्तु भैक्ष्यचरणं कलयन्तु मा वा ॥ २६५ संन्यासेति । सकलाश्च ते व्यापारा धनार्जनादिरूपाश्च तेषां लोपः शास्त्रतस्त्याग एवात्मा स्वरूपं यस्य तं संन्यासाश्रमं आश्रितोऽपि चपलः द्रव्याशाधीनत्वाचञ्चलान्तःकरणः हरेर्भगवतः कैङ्कर्य दास्यं अपदिशन् निमित्तीकुर्वन् सन्, द्राक् शीप्रमेव राजधानी राजनिवासनगरीं विशन् प्रविशन् संश्च अर्थान् द्रव्याण्यर्जयति संपादयति । नैतावदेव, किंतु श्रितः निवासार्थमाश्रितः ऊर्जितः सुभगशिला भित्त्यादिसंपन्नः मठः येन तथाभूतः सन् असौ यतिः मृष्टान्नं मधुरानं अश्नाति भुनक्ति । तत् तस्मात् इदं कलेः कलियुगस्य, क्वचित् 'यतेः' इत्यपि पाठः । अर्थात् कलियुग संबन्धियतेः चेष्टितं कष्टं अन्याय्यम् । अत एव इह लोके को जनः तः परिसहेत् ? राम ! राम ! इति खेदे ॥ ५०१ ॥ जनानां किंच अन्याय्यमिति । संन्यासिनः गृहिणां गृहस्थाश्रमिणां प्रणात नमस्कारान् विदधते कुर्वन्ति इति यत्, इतोऽप्यस्मादपि हते दुष्टे कलौ युगे अन्याय्यं किमस्ति ? नान्यत् किमपीत्यर्थः । किंच एतस्मादपि अन्यद्दुश्चरितं श्रण्वित्याहपतत्त्विति । असौ शूद्रः वैष्णवः विष्णुभक्तः इति मत्वा, अत्र कुरुकानगर्यो अमतिर्मन्दबुद्धिः स्वयं द्विजो ब्राह्मणोऽपि सन्, शूद्रं नमति नमस्करोतीति इयत् एतत्तु द्विजेन शूद्रनमस्काराचरणं च, इह नगर्यो चेतः चित्तं कृन्तति त्रोटयति ॥ ५०२ ॥ अथ धनार्जनादिरूपं यतिनामारोपितं दोषमुद्धारयन्नाह - इच्छन्त्विति । हन्तेति-हर्षे । कतिचित् यतिन: न तु सर्वे । धनौघं द्रव्यसंचयं इच्छन्तु, उज्झन्तु त्यजन्तु वा । तथा भैक्ष्याचरणं च मा कलयन्तु न कुर्वन्तु । किं तु ते यतयः ४ ' मुञ्चन्तु हन्त यतयः १ 'यते श्वष्टितं'. २ ' कलौ युगे यत्' ३ ' इत्यान्ध्र'. कतिचिह्नतौघान् ' ५ 'ऋच्छन्तु'. • ६ 'कलयन्तु वामी', २३ For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ विश्वगुणादर्शचम्पू:- शठकोपमुनि हर्यद्धिपङ्करहकिङ्करतारताश्चे दकप्रसक्तिरकलङ्कहृदां क ? तेषाम् ॥ ५०३ ॥ यत्पुनरभिहितं फणिवर्यपर्यङ्ककैंकर्यार्थ पर्यटनमपि तुर्याश्रमाननुगुणमिति तदपि निपुणनिरूपणविरह विजृम्भितम् ।। २१० ॥ केचन पङ्कजलोचनकैङ्कायैव पर्यटाट्यन्ते ॥ संन्यासिन इह धन्यास्ते. हि खत उपगतस्पृहाविरहाः ॥५०४॥ इत्थं हि हेयोपादेयविद उदाहरन्ति ॥ २११ ॥ भोगायैव नितम्बिनीपरिणयो यागाहृतिः ख्यातये खार्थे पाककृतिः कुपात्रविषये त्यागार्थमर्थार्जनम् ॥ हरेर्विष्णोरङ्गी चरणावेव पङ्कहे कमले, पङ्कह इति प्रामादिकम् । “तत्पुरुषे कृति-" इत्यलुग्विधानात् । “पङ्केरहं तामरसं" इत्यमरोऽपि । बाहुल्याद्वा कथंचित् समाधेयम् । तयोः किङ्करतायां दास्ये रतास्तत्पराश्चेत् यदि भवेयुस्तर्हि, तत एव अकलई दोषरहितं हृदन्तःकरणं येषां तेषां यतीनां अकस्य कलङ्कस्य "उत्सङ्ग-चिह्नयोरङ्कः कलकोऽङ्कापवादयोः।" इत्यमरः । प्रसक्तिः संबन्धः क्व संभवति ? हरिभक्तिप्रभावादेव धनार्जनादिरूपाः क्षुद्रदोषा नश्यन्तीति भावः । तदुक्तं भगवतैव"अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः-" इत्यादि ॥ ५०३ ॥ यदिति । यत् पूर्व फणिवर्यः शेषः पर्यङ्कः शयनं यस्य तस्य विष्णोः कैकार्थ दास्यार्थ पर्यटनं परिभ्रमणमपि तुर्याश्रमस्य चतुर्थाश्रमस्य अननुगुणमयोग्यमिति "दभिहितं 'संन्यासाश्रममाश्रितोऽपि-' इत्यादिना प्रतिपादितं तत्प्रतिपादनत्सया निपुणं सविवेकं यनिरूपणं अवलोकनं तस्य विरहेणाभावेन विजृम्भितं भ्यः अनम् ॥ २१० ॥ कचनति । केचन संन्यासिनः पर्यटाट्यन्ते पुनःपुनरतिशयेन वा परिभ्रमन्ति, राजधानीमिति शेषः। 'अट गटौ' इत्यस्मात् यङि रूपम् । ते पङ्कजलोचनस्य भगवतो विष्णोः कैङ्कायैव दास्यार्थमेव, एवकारेणेतरदोषारोपव्यवच्छेदः । अत एव खतः उपगतः प्राप्तः स्पृहायाः इच्छायाः विरहः अभावो येषां तथाभूताः निःस्पृहा इत्यर्थः । सन्ति । अत एव च ते इहलोके धन्याः सुकृतिनः हि एव ५०४ इत्थमिति । हेयं त्याज्यं उपादेयं ग्राह्यं च ते उभे विदन्ति जानन्तीति तद्विदः ते, इत्थं वक्ष्यमाणप्रकारेण उदाहरन्ति कथयन्ति ॥ २११॥ भोगायैवेति । यदि नितम्विन्याः स्त्रियाः परिणयः विधिवत् पाणिग्रहः भोगायैव कामवासनापूरणायैव आचर्यते तदा दुष्येत् निन्द्यो भवेत् प्रत्यवायमुत्पादयेदिति वा । एवकारः यदि आचर्यते दुष्येदिति च प्रतिवाक्यमन्तव्यम् । न तु सं १ पङ्कप्रसक्ति'. २ पर्यटन्तेऽमी'. ३ 'खार्थः'. ४ विषय'. For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४२] पदार्थचन्द्रिकाटीकासहिता । २६७ स्वाध्यायाध्ययनं प्रतिग्रहकृते वादाय शास्त्रश्रमो दुप्येत्स्वोदरपूर्तये यदि हरेः कैर्यमाचर्यते ॥ ५०५ ॥ अन्यच्च भूयोदोषैरपि परिवृतः पूरुषः सात्विकानाम् प्रायः पूज्यो भवति भगवद्भक्तिमासाद्य हृद्याम् ॥ आक्रान्ताऽपि प्रबलभुजगैः कण्टकैरप्यनल्यैः किं नादृत्या सुरभिकुसुमा केतकी भाग्ये भाजाम् ॥ ५०६ ॥ अथ पाण्ड्य-चोलदेशनिवासिस्मार्त- शैवादिवर्णनम् ४२. इत्यन्यतोऽभिकान् समन्तादवलोक्य साञ्जलिबन्धम् - क्रियासार्थितवेदेभ्यो ग्राहयद्भ्यः श्रुतीर्बहून् ॥ पाण्ड्य - चोलनिवासिभ्यः पण्डितेभ्यो नमोऽस्तु वः ॥ ५०७ ॥ तयै अभिहोत्राद्याश्रमधर्माय वा यागानां ज्योतिष्टोमादीनां आहृतिरनुष्ठानं ख्यातये कीर्त्यर्थे न तु खर्गाद्यर्थ; पाकस्य कृतिः निष्पादनं स्वार्थे स्वभक्षणार्थं न तु पश्चयज्ञाद्यर्थ; अर्थार्जनं द्रव्यसंपादनं कुपात्रविषये कुत्सितवेश्यादिजनविषये त्यागार्थं समर्पणार्थमेव, न तु धर्मार्थ; स्वाध्यायस्य वेदस्य अध्ययनमभ्यासः प्रतिग्रहकृते परदत्तवव्यादिग्रहणार्थे, न तु स्वीयानुष्ठानोपयोगि कर्मज्ञानाद्यर्थं शास्त्रेषु व्याकरण तर्क-मीमांसादिषु श्रमोऽभ्यासः वादाय, न तु तत्त्वावबोधाय; तथा हरेः कैङ्कर्य दास्यं स्वोदरपूये आचर्यते तदा दुष्येदिति हेयोपादेयविद उदाहरन्तीति पूर्वेण संबन्धः ॥ ५०५ ॥ भूय इति । पुरुषो मनुष्यः भूयोदोषैर्बहुभिर्दोषैः संध्यादिकर्मत्यागादिभिः परिवृतः युक्तोऽपि सात्त्विकानां सत्त्वप्रधानमनसां शुद्धमानसानामित्यर्थः । जनानां हृद्यां मनोज्ञां भगवति विष्णौ भक्ति आसाय संपाद्य प्रायः बहुधा पूज्यो मान्यो भवति । एतदेव सदृष्टान्तमाह- केतकी प्रबलाः दुर्भरगरलसंपन्नत्वेन प्रकृष्टशक्तिमन्तश्च ते भुजगाः सर्पाश्च तैः अनल्पैर्बहुभिः कण्टकैश्चापि आक्रान्ता व्याप्तापि सुरभीणि सुगन्धीनि कुसुमानि पुष्पाणि यस्याः सा तथाभूता, हेतुगर्भमिदं विशेषणम् । सुरभिकुसुम संपन्नत्वादित्यर्थः । भाग्यभाजां आहत्या आदराही न भवति किम् ? अपि त्ववश्यमादर्तव्यैव भवतीत्यर्थः ॥ ५०६ ॥ क्रियेति । क्रियाभिः यागाद्यनुष्ठानैः सार्थिताः सफलीकृताः वेदाः यैस्तेभ्यः, बहून् शिष्यवर्गानिति शेषः । श्रूतीर्वेदान् ग्राहयद्भयः पाठयद्भयः पाण्ड्यश्च चोलश्च देशभेदौ तयोः निवासो वसतिरस्त्येषां तेभ्यः पण्डितेभ्यो वो युष्माकं नमः अस्तु ॥ ५०७ ॥ १ 'दुष्येचोदर'. २ 'भाग्यभाजा', For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ वेदान्ति विश्वगुणादर्शचम्पू:- अथ वेदान्तिवर्णनम् ४३. कृ०-सत्यं पुनर्मामराणामप्येषां न रोचते नमस्क्रिया । यदेतेषु मिथ्यावादिन एव बहुलमुपलभ्यन्ते । अमी खलु प्रामाणिका) दूरीकृत्याप्रामाणिकमर्थमुररीकुर्वन्ति ॥ २१२ ॥ तथाहिप्रत्यक्षगोचरमशेषमपि प्रपञ्चं मिथ्येति मायिन इमे प्रतिपादयन्ति ।। सर्वप्रमाणसरणीमतिवर्तमानं ब्रह्माश्रयन्ति च परं बत निर्विशेषम् ५०८ सत्यमिति । सत्यं 'क्रियासार्थित-' इत्यादिनो तथ्यमेव, पुनः किंतु एषां मह्यमराणामपि ब्राह्मणानामपि, अपिशब्दात्तत्वतस्तेषां पूज्यत्वं सूचितम् । नमस्किया नमस्करणं, मह्यमिति शेषः । न रोचते । यद्यस्मादेतेषु ब्राह्मणेषु मध्ये मिथ्यावादिनः प्रपञ्चमिथ्याभाषिणः, असत्यभाषणशीला एव च बहुलं उपलभ्यन्ते दृश्यन्ते । अमी ब्राह्मणाः खलु प्रमाणेन चक्षुरादीन्द्रियसंनिकर्षेण प्रत्यक्षतया सिद्धः प्रामाणिकः, शास्त्रतः सिद्धश्च तमर्थ शरीरादेः सत्यत्वादिकं कर्तव्यादिकं च दूरीकृत्य परित्यज्य, अप्रामाणिकं “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, न चक्षुषा गृह्यते नापि वाचा, नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुते. न" इत्यादिश्रुतिभिः सर्वप्रमाणागोचरं, स्वकपोलकल्पितं च अर्थ उररीकुर्वन्ति अङ्गीकुर्वन्ति ॥ २१२ ॥ उक्तमेवार्थ विशदीकरोति-प्रत्यक्षगोचरमिति । प्रत्यक्षस्य चक्षुरादीन्द्रियजातस्य गोचरं विषयीभूतमपि, सौराकीटपतङ्गमा च देवर्षिभ्यः साक्षात्क्रियमाणतया दुःशकापह्नवमपीत्यहोसाहसमिति भावः । अशेषं सकलं प्रपञ्चं चराचरात्मक जगत् इमे पुरोदृश्यमाना मायाया। अविद्यायाः संबन्धो येषां ते मायिनः, संबन्धे मतुप् । स च प्रतिपाद्यप्रतिपादकभावः । मायावादिन इत्यर्थः । पक्षे मायिनः कपटिनः मिथ्येति स्वेन रूपेण निस्तत्त्व इति प्रतिपादयन्ति । “सर्व विकारजातं माया• मात्रं" "द्वितीयकारणाभावादनुत्पन्नमिदं जगत्" "इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं जगत्" इत्यादिवचनैरिति भावः । पक्षे मिथ्येति परप्रतारणाय वास्तवरूपवि. पर्यासेन यथा-हीरकादिकं काचत्वेन प्रतिपादयन्ति महत्यारभट्या समर्थयन्ति । किं तर्हि ते परमार्थसन्न किमप्यङ्गीकुर्वन्तीत्याकालायामाह-सर्वप्रमाणेति । स. वाणि च तानि प्रमाणानि प्रत्यक्षागमादीनि तत्र प्रत्यक्षाणि चक्षुरादीन्द्रियाणि आ• गमादीनि तर्कमीमांसादीनि च तेषां सरणी पद्धति अतिक्रम्य वर्तमानं "न १ मतं'. २ 'श्रवन्ति परमं'. For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् ४३] पदार्थचन्द्रिकाटीकासहिता । पुनः सरोषम् — हन्त ! ब्रह्मबन्धव इमे ब्रह्मणे परस्मै बन्ति ॥ २९३ ॥ यतः www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - २६९ यदेव सर्वज्ञमपास्तदोषं भवार्तिहारि श्रुतमागमान्ते || अज्ञं परं ब्रह्म तदेव भुते संसारतापानिति संगिरन्ते ॥ ५०९ || तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यादन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्याचचक्षिरे ।" " नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।" इत्यादिबहुश्रुतेः सर्वप्रत्यक्षागमप्रमाणातीतमित्यर्थः । पक्षे सर्वप्रमाणबहिर्भूतत्वात्स्वकपोलकल्पित मित्यर्थः । अत एव विशिष्यते इतरव्यावृत्तत्वेन ज्ञायते यैस्ते विशेषाः प्रकाराः । धर्मा इति यावत् । ते निर्गता यस्मात् तन्निर्विशेषम् । पक्षे आदरातिशयप्रयोजकानितरसाधारणप्रशस्तगुणरहितं; परं "इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धियों बुद्धेः परतस्तु सः ।" इत्यादिभगवद्वाक्यप्रामाण्यासर्वेभ्यः श्रेष्ठतमं पक्षे कुत्रापि केनाप्यदृष्टपूर्वस्वभावकं सकललोकविलक्षणमिति यावत् । ब्रह्म आश्रयन्ति स्वीकुर्वन्ति । बतेत्यानन्दे खेदे च ॥ ५०८ ॥ ननु परं ब्रह्माश्रयन्ति चेत् का हानिः सम्यगेव तदित्याशङ्कयाह -- हन्तेति । ब्रह्मबन्धवः दुष्टब्राह्मणाः परस्मै इन्द्रियसंघातात् परत्र वर्तमानाय ब्रह्मणे परमात्मने दुन्ति ॥ २१३ ॥ द्रोहप्रकारमेवोपपादयति-यदेवेति । आगमान्ते वेदान्ते यदेव ब्रह्म सर्वे जाग्रत्-खप्न-सुषुप्त्यात्मकमवस्थात्रयं जानाति अन्तर्यामित्वेन प्रत्यक्षयतीति तथाभूतं सर्गस्थित्यादिकं वा जानातीति । तथा च श्रुतिः - " यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि ।” इति । अत एव अपास्ताः निर्गताः दोषाः जन्मादिविकारा यस्मात् तत् " न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।" इति श्रुतिरत्रार्थे प्रमाणम् । भवार्तिहारि संसारदुःखनिवर्तकं " ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्म - मृत्युप्रहाणिः ।” इति श्रुतिरपि । इति श्रुतं आकर्णितं, तदेव परं ब्रह्म अज्ञं जीववत् किंचिज्ज्ञ, अल्पार्थे नञ् । संसारतापान् जन्म-जरा-मरणादीन् भुक्ते इति संगिरन्ते । “ज्ञाज्ञौ द्वावजावनीशावजा येका भोक्त-भोगार्थंयुक्ता । अनन्तश्वात्मा विश्वरूपो ह्यकर्ता” । “द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ।" इत्यादिबहुलश्रुतिभ्यः प्रतिपादयन्ति । जीव-ब्रह्मणोरैक्यप्रतिपादकानामेतत्कथनं व्याहन्यत इति भावः ॥ ५०९ ॥ १ ‘भोक्त’. For Private And Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७०० विश्वगुणादर्शचम्पू:- [वेदान्तिभोकेविलममी परस्मै ब्रह्मणे द्रुह्यन्ति, किंतु तत्प्रमाणेभ्यः श्रुतिभ्योऽपि २१४ यतःमिथ्यार्थावेदकत्वात् श्रुतिषु कुमतिभिः कर्मकाण्डे निरस्त प्रामाण्ये ब्रह्मकाण्डैः सह गुणवचनैः शेषितो ब्रह्मशब्दः । मिथ्यास्मिन्विभक्तिः प्रकृतिरपि परं ब्रह्म नैवाभिधत्ते वाच्यत्वानाश्रयत्वात्कथमुपनिषदां मानतां जानतां ते॥५१०॥ परमेते श्रुतिभ्यो न द्रुह्यन्ति, किंतु शारीरकायापि ॥ २१५ ॥ नेति । तस्मिन् परब्रह्मणि विषये यानि प्रमाणानि यथार्थतद्भावप्रतिपादकानि तेभ्यः, श्रुतिभ्यः उपनिषद्भ्योऽपि द्रुह्यन्ति ॥ २१४ ॥ द्रोहप्रकारमेवाह-मिथ्येति । श्रुतिषु कर्म-ब्रह्मपरेषु सर्वेषु वेदवाक्येषु मध्ये मिथ्यार्थानां असत्यार्थानां "ज्योतिष्टोमेन वर्गकामो यजेत" इत्यादिश्रु. तिभिः स्वर्गप्राप्त्यादिरूपाणां आवेदकत्वाद्बोधकत्वाद्धेतोः कर्मकाण्डे मन्त्रब्राह्मणात्मके ब्रह्मकाण्डैः अपवादरूपोपनिषद्वाक्यः "तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इत्यादिभिः निरस्तं निवारितं प्रामाण्यं यस्य तथाभूते सति एभिः कुमतिभिः कुत्सितबुद्धिभिः, 'कुं कुत्सितं असत्यं प्रपञ्चं अतन्ति जानन्तीति तैः कुमतिभिः प्रपञ्चमिथ्यात्वज्ञातृभिरित्यर्थः । इति भावदर्पणव्याख्यायामर्थान्तरं दृश्यते । तत्पक्षे । 'अत सातत्यगमने' इत्यस्माद्धातोर्गत्यर्थात् औणादिक इप्रत्यय इत्यवगन्तव्यम् । गत्यर्थस्य ज्ञानार्थकत्वं च । गुणवचनैः सगुणेश्वरप्रतिपादकैः कर्मकाण्डवाक्यैः सह ब्रह्म इत्येक एव शब्दः शेषितः एकार्थीकृतः, तत्र प्रमाणत्वेन स्वीकृत इत्यर्थः । उपनिषदां कर्मकाण्डापवादरूपत्वादेतयुक्तमिति भावः। किंच अस्मिन् ब्रह्मशब्दे विभक्तिः सु औ इत्यादिरूपा मिथ्यार्थी निरर्थका । ब्रह्मणः सदैकरूपत्वात् द्वित्वबहुत्वाभावादित्यर्थः । ततश्च प्रकृतिः केवलं विभक्तिरहितं रूपं वाच्यत्वस्य शब्दप्रतिपाद्यत्वस्य अनाश्रयत्वादनधिकरणत्वाद्धेतोः परं ब्रह्म नैवाभिधत्ते नैव बोधयति । ततः ते अद्वैतवादिनः उपनिषदां मानतां प्रामाण्यं कथं जानतां विदन्तु ? नैव ज्ञातुं शक्नुवन्तीत्यर्थः ॥ ५१०॥ परमिति । किंच परं अन्यदपि, कथयामीति शेषः । एते केवलं श्रुतिभ्यो वेदेभ्य एव द्रुह्यन्तीत्येतावदेव न, किंतु शरीरमधिकृत्य कृतं शारीरकं श्रीमन्यासनिर्मितं ब्रह्मसूत्ररूपं शास्त्रं तस्मै अपि द्रुह्यन्ति । उपनिषत्प्रतिपादितार्थमेव स्पष्टीकर्तुं तत्रभवता व्यासेन ब्रह्मसूत्ररूपं शास्त्रं व्यरचि, तत्रापि द्रोहाचरणमन्याय्यमित्यपि. शब्दाबोध्यम् ॥ २१५ ॥ For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -वर्णनम् ४३ ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थचन्द्रिकाटीकासहिता । पराशरभुवा शास्त्रं ब्रह्मज्ञानाय निर्मितम् ॥ असमञ्जसतां नीतमद्वैतैब्रह्मवादिभिः ॥ ५११ ॥ किं च यादृशस्वभावः सर्वेश्वरस्तद्विपरीतमेव तैमुशन्ति विरुद्धमर्तय एते ॥ २१६ ॥ सर्वज्ञमज्ञ इति सर्वपदाभिधेयम् कस्याप्यवाच्य इति सर्वमहागुणानाम् ॥ स्थानं च निर्गुण इतीह समस्तवेद वेद्यं त्ववेद्य इति ते जगदीशमाहुः ॥५१२ ॥ किंबहुना - विविधदुरितत्रातस्फीतस्थिरव्यसनाकुलादतिमितमते जवादेवाभिदां परमेशितुः || अपगतपरिच्छेदामोदाम्बुधेरुपगच्छताम् २७१ मशकशिशुतोऽभेदो न स्यात्कुतो मदहस्तिनः || ५१३ ॥ 1 उक्तार्थमेव प्रपञ्चयति – पराशरभुवेति । पराशरभुवा श्रीमद्यासेन शास्त्रं सूत्ररूपं ब्रह्मणः ज्ञानाय ज्ञानार्थमेव, सकलजीवानामिति शेषः । निर्मितं रचितम् । तदपि द्वे जीव-ब्रह्मरूपे इते गते यस्मात् तद्वीतं द्वीतमेव द्वैतं जीव-ब्रह्मणोर्द्विरूपत्वं तन्न भवतीत्यद्वैतं जीवात्म - परमात्मनोरैक्यरूपं ब्रह्म एकमिति वदन्तीति तद्वादिभिः "आत्मा वा इदमेक एवाग्र आसीत् नान्यत् किंचन मिषत्" "एकमेवाद्वितीयम्” “तत्त्वमसि' इत्यादिबहुलश्रुत्यनुरोधेन जीवात्मनोरेकत्वप्रतिपादकैरित्यर्थः । असमञ्जसतां अयोग्यतां नीतं प्रापितम् ॥ ५११ ॥ किंचेति । किंच यादृशस्वभावः तत्त्वतो यत्प्रकाररूपो भगवान् सर्वेश्वरः तस्माद्विपरीतं विरुद्ध स्वभावमेव तं सर्वेश्वरं परमात्मानं उशन्ति इच्छन्ति । विरुद्धमतयः एते अद्वैतिनः ॥ २१६ ॥ सर्वज्ञमिति । ते अद्वैतवादिनः वस्तुतः सर्वे भूतभविष्यादि जानातीति सर्वज्ञः तं जगदीश अज्ञ: अल्पज्ञः ज्ञातुमशक्यश्च इति, आहुः कथयन्ति । एतदेव सर्वत्रान्वेतव्यम् । सर्वेषां पदानां शब्दानां अभिधेयं वाच्यं जगदीश, कस्यापि पदस्य अवाच्यः इति, सर्वेषां महागुणानां स्रष्टृत्वादीनां स्थानभूतं जगदीशं निर्गुण: सत्त्व- रजआदिगुणरहितः इति, समस्तैः सर्वैरपि वेदैर्वेद्यं ज्ञेयं, तुपदं विरोधसूचकम् । अवेद्यः “विज्ञातारमरे केन विजानीयात्" इत्यादिश्रुतिभिः अज्ञेय इति च आहुः ॥ ५१२ ॥ विविधेति । विविधानामनेकेषां दुरितानां पापानां व्रातेन समूहेन स्फीतैः १ 'भोक्त, वेद्यं'. २ 'तमुपदिशन्ति' ३ 'बुद्धयः". ४ 'तं'. For Private And Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ विश्वगुणादर्शचम्पू: (वेदान्ति अपरं च दृश्यं मिथ्या दृष्टिकर्ताऽपि मिथ्या ___ दोषो मिथ्यैवेति या धीरमीषाम् ।। साधिष्ठानांशेपि किं नेति चिन्ता साधिष्ठानां पण्डितानामुदेति ॥ ५१४ ॥ वि०-वयस्य ! मैवं महीसुरदूषणेषु विजृम्भिष्ठाः ॥ २१७ ॥ पारम्पर्यत आगतो निजकुले पन्था न हातव्य इ त्यद्वैतं परिगृह्य हन्त जगतो मिथ्यात्वमाचक्षताम् ।। प्रवृद्धैः स्थिरैश्च व्यसनैः आकुलात् पीडितात्, अत एव च अतिमितमतेः अत्यल्पबुद्धेः जीवादेव, एवकारेणात्यन्तानौचित्यं सूचितम् । अपगतः परिच्छेदः परिमि. तिर्यस्मात् तादृशः य आमोदाम्बुधिः आनन्दसागरः तद्रूपः, अपरिमितानन्दरूप इत्यर्थः । तस्य परमेशितुरीश्वरस्य अभिदामभेदं उपगच्छतां जानतां तेषामद्वैतिना मशकशिशुतः मशकबालात् मदयुक्तस्य हस्तिनः अभेदः कुतो न स्यात् ? अपितु "विद्या-विनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः सम. दर्शिनः।” इति गीताप्रामाण्यात् शरीरमात्रभेदेन विरोधेऽपि सर्वत्र जीवसाम्यात् स्थादेवाभेद इति भावः ।। ५१४ ॥ दृश्यमिति । द्रष्टुं योग्यं दृश्यं रज्जु-सादि, शुक्ति-रजतादिकं वा, मिथ्या असत्यं, दृष्टेरयं सर्पः, इदं रजतं, इत्यादिभ्रान्तेः कर्ता आश्रयो देवदत्तादिश्चापि मिथ्या, दोषः पित्तादिश्च मिथ्यैव । अत्र दृश्य-दृष्टिकर्तृ-दोषशब्दैः क्रमेण सकलप्रपश्चअन्तःकरणावच्छिन्नचैतन्य-अज्ञानानि ग्राह्याणि । तेनैतत्रयमपि ज्ञानोत्तरकाले बाध. प्रतीतेर्मिथ्यैवावभासते इत्यद्वैतवेदान्तिनामभिप्रायः । इत्युक्तप्रकारा या अमीषामद्वैतवादिनां धीनिं विद्यते, सा दृश्याग्रंशत्रयेऽपि मिध्येति बुद्धिः अधिष्टानं आश्रयः रज्जुः शुक्तिर्वा, परब्रह्म च तस्मिन्नंशेऽपि किं कुतो न भवति ? इत्येवंप्रकारा चिन्ता साधिष्ठानां श्रेष्ठानां पण्डितानां विदुषामुदेति उत्पद्यते । अत्र केचित् 'अज्ञाननाशात् सत्ये अधिष्ठानांशे सा मिथ्याबुद्धिर्नोत्पद्यते इत्यद्वैतिनामभिप्रायः। अत एव आधिना कामादिमनोव्यथया सहिताः तिष्ठन्तीति साधिष्ठाः गाढाज्ञानिनस्तेषामेवेदशी चिन्तेति न्यायावतारः' इत्याहुः ॥ ५१४ ॥ वयस्येति । एवमुक्तप्रकारेण मा विज़म्भिष्ठाः उद्युक्तो मा भव ॥ २१७॥ पारम्पर्यत इति । निजकुले खवंशे परम्परायाः श्रीमद्यास-शंकराचार्यादिप्राचीनसंप्रदायस्य भावः पारम्पर्य तस्मादिति ततः आगतः प्राप्तः पन्था अद्वैतमार्गः न हातव्यः न त्याज्यः । अन्यथा अतिप्राचीनपरंपरागतसंप्रदायत्यागदोषापातप्रस. ङ्गादिति भावः । अनेन अद्वैतसंप्रदायः माध्वरामानुजीयादिसंप्रदायवन्नाधुनिकः, केवलं खकपोलकल्पितसंकेतसिद्धश्च, किंतु अतिप्राचीनश्रुत्सर्थानुसरणपूर्वकं श्रीमद्यास For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४३ ] पदार्थचन्द्रिकाटीकासहिता। २७३ अध्येतुं निगमानशेषत ईमान् कर्माणि निर्मातुम प्यास्तिक्याच्चतुरा निकाममितरे के ? तावदेतादृशाः ॥५१५॥ किं च श्रुतीरध्येतारः किमपि विदितारः प्रतिदिनं ___ ऋतूनाहर्तारः किमपि जपितारो मनुगणम् ॥ अमी स्मार्ताः श्राद्धान्यपि रचयितारो विधुनते श्रुतेरप्रामाण्यं प्रसजदननुष्ठापकतया ॥ ५१६ ॥ शंकरप्रभृतिभिरीश्वरांशैरेव प्रवर्तित इति प्रतीयते । इति हेतोः अद्वैतं जीवेश्वरयोरैक्यं परिगृह्य जगतः मिथ्यात्वमसत्यत्वं आचक्षतां कथयताम् । एते अद्वैतवादिन इति शेषः । अतिसर्गे लोट । हन्तेति हर्षे "नेह नानास्ति किंचन" 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।" इत्यादिश्रुतिप्रामाण्यात् एकमात्मानं विनाऽ. न्यत् सर्वमपि जगन्मिथ्यैवेति भावः । किंच एते इमान् प्रसिद्धान् निगमान् वखशाखीयऋगादिवेदान् अशेषतः मूलमारभ्य समाप्तिपर्यन्तं अध्येतुं अभ्यसितुं, तदु. क्तानि कर्माणि नित्य-नैमित्तिकादीनि आस्तिक्यात अस्ति वेदविहितं सत्यमिति बुद्धियेषां ते आस्तिकाः तेषां भावस्तस्माद्धेतोः निकामं यथेच्छं निर्मातुमाचरितुमपि चतुराः कुशलाः इतरे अद्वैतिभ्योऽन्ये एतादृशाः अद्वैतिसमाः के सन्ति ? न केपीति भावः । अनेन वैष्णवादयो न तावद्वेदस्यैकं मन्त्रमपि यथार्थतया पठितुं शक्ता इति प्रसिद्धिःसूचिता । दृश्यते हि सांप्रतमप्येवं रीतिः केषुचित् कर्नाटकीयवैष्णवेषु ५१५ श्रुतीरिति । अमी स्मार्ताः अद्वैतिनः, अत्र स्मार्तपदं अद्वैतिषु योगरूढं पङ्क. जादिवदिति बोध्यम् । श्रुतीर्वेदान् , प्रतिदिनं ब्रह्मयज्ञसमये इति शेषः । अध्येतारः पठितारः । न केवलं पठितार एव, किंतु किमपि यथामति विदितारः तदुक्तमर्थमपि जानन्तः, क्रतून् ज्योतिष्टोमादियज्ञान आहर्तारः कर्तारः, किमपि यथाशक्ति मनुगणं खसंप्रदायप्रोक्तं मन्त्रसमुदायं जपितारः जपं कुर्वन्तः, क्वचित् 'ददितारः प्रतिदिनम्' इति पाठः । तत्पक्षे दानं कुर्वाणा इत्यर्थः । श्राद्धानि प्रतिवार्षिकविहितानि पितृतृप्तिकराणि, अपिः समुच्चयार्थकः । रचयितारः कुर्वन्तश्च सन्तः अननुटापकतया अध्ययन-तदर्थज्ञान-होम-जपाद्याचरणाभावतया प्रसजति निकटं प्राप्नो. तीति प्रसजत् नित्यं प्राप्नुवत् श्रुतेगादेर्वेदस्य अप्रामाण्यं प्रमाणत्वाभावं विधुनते निरस्यन्ति । यथार्थानुष्ठानाभावात् श्रुतेरप्रामाण्यं प्राप्तावसरमिति भावः । अत्र वे. दाप्रामाण्यनिरसनद्वारा अद्वैतवादिनां वेदप्रमाणकत्वेन तदुक्कानुष्ठानतया च जगन्मि. थ्यात्वादिकाः सकला अपि सिद्धान्ताः सप्रमाणास्तेनैव हेतुना पूर्वोक्तानि सकलान्यपि दूषणानि निष्फलानीति सूचितम् । एवमेव भावदर्पणकृतोप्यभिप्रायः॥५१६॥ १ इमे'. २ 'किमपि ददितारः प्रतिदिनम्'. - - - For Private And Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ विश्वगुणादर्शचम्पू:- [वेदान्ति कृ०-समन्तादवलोक्य निस्तुला अप्यमी विषयाः शैवप्रचुरतया न श्लाघामर्हन्ति । अत्र हि तत्त्वहितपुरुषार्थानयथावस्थितानभिदधानाः शैवा विदुषोऽपि विमोहयन्ति ॥ २१८ ॥ तथाहि-- मदनजनके वीतातङ्के महागुणशेवधौ परमपुरुषे नित्यासक्तां श्रुतिं कमलामिव ॥ बत पशुपतौ शूलोपेते मनोभवदाहके निहितहृदयां शैवा जल्पन्त्यभाम्यहता इवं ।। ५१७ ।। ___ उक्तार्थाङ्गीकारपूर्वकमाह कृशानुः-निस्तुला इति । अमी विषया देशाः निस्तुला वेदविहितकर्म-ज्ञानविद्वहुजनसत्त्वानिरुपमा अपि, शिवस्य भक्ताः शैवास्ते प्रचुराः बहुला येषु ते तत्प्रचुरास्तेषां भावस्तत्ता तया हेतुना श्लाघां प्रशंसां नार्हन्ति, तस्याः न योग्या भवन्ति । सन्तु नाम शैवाः किं वा तेन प्रशंसानहत्वमिति चेदाहअत्रहीति । अत्र एषु देशेषु हि तत्त्वतः सत्यतया हिता हितकरा ये पुरुषार्थास्तान् अयथावस्थितान् स्थितिमतिक्रम्य वर्तमानान् विरुद्धखभावानिति यावत् । अभिदधानाः प्रतिपादयन्तः सन्तः, क्वचित् 'तत्पदार्थ यथावस्थितमनभिदधानाः' इति पाठः तत्पक्षे तदिति पदस्य शब्दस्य अर्थ ब्रह्मरूपं यथावस्थितं स्थितिनमति. क्रम्य वर्तमानं, यथास्थितस्वभावमित्यर्थः । अनभिदधानाः अकथयन्तः सन्त इत्यर्थः । शैवा विदुषोऽपि पुरुषान् किमुतान्यान् , विमोहयन्ति विभ्रमयन्ति ॥ २१८॥ मोहनप्रकारमेव स्पष्टतयाह-मदनजनक इति । वीताः गताः आतङ्काः रोगाः दोषाश्च यस्मात् तस्मिन् , महतां स्रष्टव-पालकलादीनां गुणानां शेवधौ निधौ मदनस्य कामस्य जनके पितरि परमपुरुषे देवानामपि श्रेष्ठपुरुषे विष्णौ निलं संततमासक्तां अनुरक्तां, अत एव कमलां लक्ष्मीमिव स्थितां श्रुतिं सर्वमपि वेदं शूलेन रोगेण, शूलनामकायुधविशेषेण चोपेते युक्ते पशूनां गवादीनां ब्रह्मादिदेवानां च पतिस्तस्मिन् मनोभवस्य मदनस्य दाहके शिवे निहितं अनुरक्तं स्थापितं च हृदयं मनः अभिप्रायश्च यस्याः सा तां श्रुति अभाग्येन प्राक्तनदुष्कर्मणा हता नष्टा इव शैवाः जल्पन्ति वर्णयन्ति । अत्र शैवानां तात्पर्य वर्णितं भावदर्पणकृता तदित्थम्'महतां अगुणानां कामक्रोधादीनां शेवधिर्यस्मात्तस्मिन् राग-द्वेषादिजनके अत एव मदनस्य स्मरविकारस्य जनके अत एव विशेषेण इताः प्राप्ताः आतङ्काः तापा १ 'अत्र हि तत्पदार्थ यथावस्थितमनभिदधानाः'. २ 'हतामिव', For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४३] पदार्थचन्द्रिकाटीकासहिता । २७५ सूर्यादारोग्यमिच्छेत्कमपि हुतवहात्सम्पदुल्लासमिच्छे दीशानात् ज्ञानमिच्छेदनवधिविभवं मोक्षमिच्छेन्मुकुन्दात् ॥ — इत्याद्याः सत्यवाद्यादिममुनिभणितीराकलय्यापि विष्णोः सेवां शैवास्त्यजन्तो बत भवहतये भावयन्ते भवं ते ५१८ अपि च तद्विष्णोः परमं पदं हि तमसः पारे सदा पश्यता ___ सान्द्रं सूरिगणेन निर्मलमहानन्दात्मकं शाश्वतम् ।। अप्रेप्सन्त इमे समेतमनिशं वेतालभूतालिभि लोकं भीकरमञ्चितुं व्यवसिता माहेश्वरं नश्वरम् ॥ ५१९ ॥ स्त्रयः यस्मात्तस्मिन् तज्जनके "रुक्-ताप-शङ्काखातङ्कः" इत्यमरः । परं भृशं अपुरुषे अल्पपुरुष, अनुदरा कन्येत्यादाविव अल्पार्थे नञ्समासः । नित्यं आ ईषदशेन सक्तां अत एव के चित्ते मलं अपुरुषसंबन्धजन्यदुःखं यस्यास्तथोक्तामिव स्थितां "काश्चित्तात्म-रवि-ब्रह्म-वाताः” इति कोशः । अत एव च अभाग्यहतामिव श्रुति मनसि भवन्तीति मनोभवाः कामादयस्तद्दाहके शूलमिव शूलं अज्ञाननाशकं ज्ञानं तेनोपेते प्राप्ये इत्यर्थः । पशुपतौ सर्वेश्वरे निहितहृदयां शैवाः जल्पन्ति' इति ५१७ सूर्यादिति । सूर्यात् सूर्यमुपास्य, ल्यब्लोपे पञ्चमी । आरोग्यं इच्छेत् , हुतवहादग्नेः कमप्यनिर्वचनीयं संपदः धनादिसंपत्तेः उल्लासं विस्तारं इच्छेतू , ईशानात् भगवतः शंकरात् ज्ञानं परमात्मविषयं इच्छेत् , अनवधिनिःसीमः विभव ऐश्वर्य यस्मिन् तथाभूतं अनश्वरसुखादिसंपद्युक्तमित्यर्थः । मोक्षं मुक्तिं मुकुन्दात् भगवतः श्रीविष्णोः इच्छेत् , इत्याद्याः सत्यवादिनो यथार्थवक्तारः ये आदिमाः प्रथमाः मुनयः व्यास-वाल्मीकादयस्तेषां भणितीर्वाक्यानि “आरोग्यं भास्करादिच्छेत्" इत्याद्याः आकलय्य ज्ञावापि शैवाः भवस्य संसारस्य हतये नाशार्थ विष्णोः सेवा परिचयाँ त्यजन्तः सन्तः, ते भवं शिवमेव भावयन्ते पूजयन्ति । अत्रार्थे शैवानामेवमभिप्रायः-"तरति शोकमात्मवित् , ज्ञात्वा देवं मृत्युमुखात् प्रमुच्यते, ज्ञानादेव तु कैवल्यम्" इत्यादिवहुलश्रुति-स्मृतिप्रामाण्याज्ज्ञानेनैव मोक्षः, तज्ज्ञानं च "ईशानः सर्वविद्यानामीश्वरः" इत्यादिश्रुतिभ्यः शिवादेव प्राप्नोति ततश्च युक्तमेव तद्भजनमिति ॥ ५१८॥ तदिति । तमसः अज्ञानस्य पारे समाप्तौ सत्यां अज्ञानविनाशे सतीत्यर्थः । पश्यता अवलोकयता सूरीणां ज्ञानिनां गणेन समुदायेन सनक-नारदादिज्ञानिमुनिसमुदायेनेत्यर्थः । सान्द्रं निबिडं व्याप्तमिति यावत् । निर्मलः जन्म-मरणादिविकाररहितश्चासौ महानन्दः अतिशयानन्दश्च स आत्मा स्वरूपं यस्य सः तथाभूतं अत एव शाश्वतं विनाशरहितं अत एव च परमं सर्वोत्तमं, हिः समुच्चायकः । तत् १ 'सूरातू. २ 'सत्यवाचो हितमुनि', - For Private And Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७६ विश्वगुणादर्शचम्पू: [ वेदान्ति वि० - संखे गुणग्रहणकुतूहली भूयाः ॥ २१९ ॥ नित्यं कर्म समाचरन्ति निगमान् शास्त्राणि चाधीयते संतन्वन्ति च सप्ततन्तुनिचयं धिन्वन्ति भक्त्योतिथीन् ॥ साम्बं त्र्यम्बकमर्चयन्ति शुचयः शैवाः सदैवादरादेषामीदृशधैर्मणां कतिपये दोषा विषया न किम् ? ५२० प्रसिद्धं विष्णोः पदं वैकुण्ठं अप्रेप्सन्तः अनिच्छन्तः सन्तः वेतालः पिशाचसेनानीश्च भूतानि च तेषामालिभिः पतिभिः, वेतालो नाम पिशाचसेनापतिरिति हि रुद्रपटले पिशाचसाधनप्रकरणे दृश्यते । "वेतालो नीलदेहोऽसौ पिशाचगणनायकः । सर्वकार्यकरः शंभो: सेनानीः शवभूमिग: ।" इति । एतेन 'वेताला नाम भूतानि' इति भावदर्पणकारोक्तं व्याख्यानं परास्तम् । यद्वा वेतालस्य भूतानामाधिपत्ये सेनानीत्वे वा सत्यपि भूतत्वं पिशाचत्वं वा नापैति । यथा मनुजसेनानेः । प्रत्यक्ष शिवसंनिधौ च तदितरक्षुद्रभूतानां प्रयोजनाभावात् युक्तमेव पूर्वोक्तं व्याख्यानमिति समाधेयम् । अनिशं संततं समेतं व्याप्तं अत एव भीकरं सर्वलोकानां भयोत्पादकं, नश्वरं विनाशयुक्तं च महेश्वरस्यायं माहेश्वरः तं लोकं कैलासं अञ्चितुं गन्तुं व्यवसिताः कृतनिश्चयाः इमे शैवाः सन्ति । 'वस्तुतस्तु “यस्य ब्रह्मा च विष्णुश्च उभे भवत ओदनः । मृत्युरस्योपसेचनम् ।" इति श्रुत्या वैकारिकमूर्तित्रयावासानां त्रयाणामपि नश्वरत्वेन निर्विकार सदाशिवावासपरमकैलासकाङ्क्षिषु शेवेषूक्तदूषणमारोपितमेवेति ध्येयम्' इति भावदर्पणकारः ॥ ५१९ ॥ सख इति । गुणग्रहणे यथार्थगुणाङ्गीकारे कुतूहलं कौतुकं यस्यास्ति स तत्कुतूहली भूयाः भव ॥ २१९ ॥ " के वा शैवानां गुणा इत्यपेक्षायामाह - नित्यमिति । शुचयः पवित्राः शैवाः सदैव नित्यमेव आदरात् नित्यं संध्योपासनादिकं कर्म सं सम्यकू, न तु यथाकथंचित्, आचरन्ति, निगमान् वेदान् शास्त्राणि च अधीयते अभ्यस्यन्ति सप्ततन्तूनां नित्यनैमित्तिकादियज्ञानां निचयं समुदायं संतन्वन्ति सम्यगनुतिष्ठन्ति च भक्त्या प्रेम्णा अतिथीनभ्यागतान् धिन्वन्ति प्रीणयन्ति, अम्बया भगवत्या पार्वत्या सहितः साम्बः तं त्रीणि अम्बकानि नेत्राणि यस्य सः तं शिवं भक्त्येत्यत्रापि संबन्धनीयम् । अर्चयन्ति पूजयन्ति । ईदृशाः पूर्वोक्तरीत्या शुद्धाः धर्माः पुण्यकर्माणि येषां "धर्माः पुण्य-यम-न्याय-स्वभावाचार - सोमपाः ।" इत्यमरः । तथाभूतानां “धर्मादनिच् केवलात्” इति समासान्तो ऽनिच्प्रत्ययः । एषां शैवानां कतिपये बहुगुणसमवाये द्वि-त्राः दोषाः विषयाः विशेषेण सहनीया न किम् ? अपि तु “ एकोहि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्गः ।" इति न्यायमाश्रित्यावश्यं सह्या एवेति भावः ॥ ५२० ॥ I १ 'कौतुकी'. २ 'भृत्या तिथीन्' ३ 'कर्मणां'. For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४३] पदार्थचन्द्रिकाटीकासहिता । २७७ अन्यच्च श्रोतव्यम् ।। २२० ॥ स्सरहरपरिचर्या सांप्रतं तन्यते या जनयति हरिभक्तिं हन्त जन्मान्तरे सा ॥ शमितदुरितवर्ग सा च सूतेऽपवर्गम् ___ कुत इव फलहानिः ? कुर्वतां शर्वपूजाम् ॥ ५२१ ॥ परंतुसा रुद्रभक्तिर्वितनोति भद्रं या विष्णुविद्वेषलवासहिष्णुः ॥ त एव धर्माय भवन्ति दाराः कदापि यान्नाभिमृशन्ति जाराः ५२२ शेषशायिविद्वेष एव हि मूर्धाभिषिक्तो दोषः पुरुषाणाम् ॥ २२१ ॥ पश्यनास्तिक्यमावहति नारकमातनोति प्रौढिं निहन्ति परिलुम्पति संपदं च ॥ आयुः क्षिणोत्युपचिनोति समस्तदोषान् द्वेषो मुकुन्दविषयो विषयोगतुल्यः ॥ ५२३ ॥ किंचैतेषां शिवपूजनं हरिभक्तिजननद्वाराऽपवर्गसाधकमतो महदुपकारकं तदिति वक्तमवतारयति-अन्यञ्चेति ॥ २२० ॥ स्सरहरेति । सांप्रतमधुना स्मरहरस्य शिवस्य परिचर्या पूजा या तन्यते क्रियते, जनैरिति शेषः । सा । हन्तेति हर्षे । जन्मान्तरेऽन्यस्मिन् जन्मनि हरिभक्तिं विष्णुभक्तिं जनयति उत्पादयति । सा हरिभक्तिश्चापि शमितः विनाशितः दुरितानां पापानां वर्गः समुदायो येन स तं, सकलपापसंबन्धनिवारकमित्यर्थः । अपवर्ग मोक्षं सूते उत्पादयति । तस्मात् शर्वस्य शिवस्य पूजां कुर्वतां जनानां फलहानिः कुतो भवति ? अपि तु कुतोऽपि नैव भवतीत्यर्थः ॥ ५२१ ॥ शिवभजनेऽपि विष्णुभजनमावश्यकमन्यथानापात इति वक्तुमाह-परमिति । सेति । या रुद्रभक्तिः शिवभक्तिः विष्णौ द्वेषः अप्रीतिस्तस्य लवस्य लेशस्यापि, किमुताधिकस्य, असहिष्णुरसहनशीला, सा भद्रं मोक्षप्राप्तिरूपं कल्याणं वितनोति विस्तारयति । अन्यथाधःपातः स्यादिति भावः । एतदेवार्थान्तरेण द्रढयति-त ए. वेति । यान् दारान् त्रियः जाराः परस्त्रीलम्पटाः पुरुषाः कदापि न अभिमृशन्ति न स्पृशन्ति, ते एव दाराः स्त्रियः धर्माय धर्मसाध्यपुरुषार्थाय भवन्ति प्रभवन्ति ५२२ शेषशायीति । पुरुषाणां शेषशायि विद्वेषः विष्णुद्वेष एव हि मूर्धाभिषिक्तः सर्वदोषेभ्योऽधिकः दोषः ॥ २२१ ॥ एतदेव सप्रपञ्चमुपपादयति-नास्तिक्यमिति । विषस्य योगेन भक्ष्य-पेयपदार्थसंबन्धेन तुल्यः समः मुकुन्दविषयः श्रीविष्णु विषयः द्वेषः नास्तिक्यं नास्तिपरलोक For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ विश्वगुणादर्शचम्पू:- [वेदान्ति कु०-तथ्यमेव, तथाप्यवैदिकव्रतेष्वेव प्रयततां शिवभक्तिमभिनयतां पाषण्डविशेषाणामेषां वेष एव भीषयति हृदयम् ॥ २२२ ॥ तथाहिश्रिताभव्यमार्गाश्चिताभस्मशुष्यन्निटाला जटालाः स्फुटालापशून्याः ॥ स्मशानामिसख्या दृशा निर्दहन्तः पिशाचा इवामी दिशासु भ्रमन्ति ५२४ किंच एषामतिजुगुप्सिता रीतिः ॥ २२३ ॥ पक्षीकृत्य गिरीशं सिध्या रहिताश्च मानहीनाश्च ॥ इच्छन्त्यधिगन्तुमिमे धनंजयं लिङ्गदर्शनेनैव ॥ ५२५ ॥ इति मतिं आवहति संपादयति, नारकं दुर्गतिं आतनोति विस्तारयति । पुनः पुननरकमेव प्रापयतीत्यर्थः । प्रौढिं महत्त्वं निहन्ति विनाशयति, क्षुद्रत्वं ददातीत्यर्थः । संपदमर्थसंपत्तिमपि परिलुम्पति परिहरति । आयुर्जीवितकालं क्षिणोति क्षीणं करोति, ततश्चैवं समस्तदोषान् उपचिनोति वर्धयति ॥ ५२३ ॥ तथ्यमिति । त्वयोक्तं तथ्यमेव सत्यमेव, तथापि एतेषु शैवेष्वयं प्रकारो न दृश्यते, किंतु अवैदिकानि चेदबाह्यानि यानि व्रतानि केवलं शैवागमप्रोक्तानि तेष्वेव प्रयततां प्रयत्नं कुर्वाणानां पाषण्डविशेषाणां वेदूषकभेदानां जनानां शिवभक्ति अभिनयतां प्रकटीकुर्वतां एषां शैवानां वेषः जटा-भस्मादिधारणरूपः दिगम्बरत्खादिरूपश्च, हृदयमन्तःकरणं भीषयत्येव ॥ २२२ ॥ श्रितेति । श्रितः अङ्गीकृतः अभव्यः अकल्याणकरः मार्गः यैस्ते, चितायाः भस्मना शुष्यत् शुष्कीभवत् निटालं भालं येषां ते, जटाला: जटायुक्ताः, स्फुटः स्पष्टः श्रवणयोग्यः य आलापो भाषणं तेन शून्याः रहिताः, स्मशानानेः सख्या मित्रभूतया तत्सदृश्या अतिरक्तवर्णयेत्यर्थः । दृशा लोचनेन निर्दहन्त इव सन्तः, अमी पाषण्डाः पिशाचा इव दिशासु दशसु भ्रमन्ति पर्यटन्ति ॥ ५२४ ॥ एषामिति । एषां पाषण्डानां अतिजुगुप्सिता अतीव निन्द्या रीतिः ॥ २२३ ॥ तामेव स्पष्टतया प्रतिपादयति-पक्षीकृत्येति।मानेन प्रमाणेन श्रुत्यादिना, 'यत्र यत्र धूमस्तत्र तत्र वह्निः' इति व्याप्तिज्ञानेन च हीना रहिताः अत एव सिद्ध्या मन्त्रादिसाधनेन रहिताः, पर्वतो वह्निमान् इति निश्चयेन चार हिताः युक्ताः इमे पाषण्डाः लिङ्गस्य शिवलिङ्गस्य, धूमरूपस्य च हेतोः, दर्शनेनैव दर्शनमात्रेणैव गिरीशं शिवं पर्वतं च पक्षीकृत्य इष्टदेवत्वेनाश्रित्य, पक्षताश्रयं च कृत्वा, धनं द्रव्यं जयमुत्कर्ष च, धनंजयमग्निं च अधिगन्तुं प्राप्तुं अनुमातुं च इच्छन्ति ॥ ५२५ ॥ १ 'सत्यमेव तथाप्यवैदिकवृत्तिवेव प्रयियासतां'. For Private And Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४४] पदार्थचन्द्रिकाटीकासहिता । २७२ अन्ये चात्र दीर्घवक्रनखरं खरकल्पा उद्धरन्त इव बाहुयुगं ते ॥ शौचमाचरितुमप्यसमर्था नीचेंबुद्धिहृदया विहरन्ति ॥ ५२६ ।। वि०-विमृश्यसखे गुणग्राहिणा नैतेऽपि दूषणीयाः ॥ २२४ ॥ शीतोष्णजृम्भणसहेषु जितेन्द्रियेषु कष्टोपवासपरिशुष्ककलेवरेषु ॥ पुण्यस्थलाटनपराकृतकिल्बिषेषु जानीहि कानपि गुणान् जटिलेष्वमीषु ॥ ५२७॥ अथ ज्योतिषिकवर्णनम् ४४. इत्यन्यतो वीक्ष्य साशङ्कम्क इमे पुस्तकहस्ताः कल्य एवोत्थाय तत इतः पर्यटन्ति ? ॥ २२५ ॥ दीर्घेति । दीर्घाणि आयतानि वक्राणि कुटिलानि च नखानि यस्मिन् तत् बाहुयुगं भुजद्वयं, ते पाषण्डाः उद्धरन्तः उत्क्षिपन्त इव सन्तः, अत एव खरकल्पाः गर्दभतुल्याः शौचमप्याचरितुं असमर्थाः, नीचा हीना बुद्धिनिश्चयो यस्मिन् तादृशं हृदयमन्तःकरणं येषां तथोक्ताः सन्तः विहरन्ति इतस्ततः क्रीडन्ति ॥ ५२६ ॥ सख इति । गुणग्राहिणा "गुण-दोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति ।" इति न्यायेन दोषसत्त्वेऽपि गुणमात्रस्वीकारपरेण पुरुषेण एते पाषण्डा अपि अपिना दोषबाहुल्यं द्योत्यते । न दूषणीयाः ॥ २२४ ॥ शीतोष्णेति । शीतं वर्ष-वातादि च उष्णं आतपादि च तयोः जृम्भणं अतिशयत्वं सहन्तीति तत्सहास्तेषु, अत एव जितेन्द्रियेषु कष्टाः दुःखप्रदा ये उपवासाः प्रदोष-शिवराज्यादिवनशनव्रतरूपास्तैः परिशुष्कं कृशीभूतं कलेवरं शरीरं येषां तथाभूतेषु पुण्यस्थलेषु वाराणसी-गोकर्ण-रामेश्वरादिक्षेत्रेषु अटनेन यात्रार्थ भ्रमणेन पराकृतं निरस्त किल्बिषं पापं यैस्तेषु अमीषु जटिलेषु कानपि वक्तुमशक्यान् गु. णान् जानीहि अवगच्छ । नहि तावदेतत्कष्टोपवासादि गृहिभिविषयिजनैश्च कर्तुं शक्यं तस्मादेते पूज्या एवेति भावः ॥ ५२७ ॥ क इति । इमे पुस्तकं पञ्चाङ्गादिकं हस्ते येषां ते जनाः कल्ये प्रातःकाले एवोत्थाय तत इतः गेहाद्नेहं पर्यटन्ति, भ्रमन्ति, ते के ? ॥ २२५ ॥ १ नखराः', २ 'नीचबुद्धिहृदयं भ्रमयन्ति'. For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८० विश्वगुणादर्शचम्पू:- [ज्यौतिषिककु०-निपुणमवलोक्य सपरिहासम्ज्योतिःशास्त्रमहोदधौ बहुतरोत्सर्गापवादात्मभिः कल्लोलैर्निबिडे कणान् कतिपयान् लब्ध्वा कृतार्था इव ॥ दीर्घायुः-सुत-संपदादिकथनैर्दैवज्ञपाशा इमे गेहंगेहमनुप्रविश्य धनिनां मोहं मुहुः कुर्वते ॥ ५२८ ॥ किंचविलिखति सदसद्वा जन्मपत्रं जनानाम् फलति यदि तदानीं दर्शयत्यात्मदाक्ष्यम् ॥ न फलति यदि लग्नं द्रष्टुरेवाह मोहं हरति धनमिहेवं हन्त ! दैवज्ञपाशः ॥ ५२९ ॥ ज्योतिरिति । बहुतराः अतिबहुलाः उत्सर्गाः सामान्यवचनानि अपवादाः विशेषवचनानि च आत्मा खरूपं येषां तथाभूतैः, अतिशयोत्सर्गापवादवचनरूपैरित्यर्थः । कल्लोलैस्तरङ्गैः निविडे परिपूर्णे ज्योतिःशास्त्रं प्राणिनां ग्रहाद्यानुकूल्य-प्रातिकूल्यज्ञापनद्वारा शुभाशुभफलप्रतिपादकं ग्रहनक्षत्रस्वरूपगत्यादिज्ञापकं च शास्त्रं स एव महोदधिः समुद्रस्तस्मिन् कतिपयान् अत्यल्पान् द्वि-त्रान् कणान् लेशान् लब्ध्वा प्राप्य, अतिविशालज्योतिःशास्त्रस्य यत्किचिदंशमधीयेति यावत् । कृतार्थाः कृत. कृत्या इव वर्तमानाः इमे कुत्सिता दैवज्ञाः ज्योतिषिकाः दैवज्ञपाशाः, याप्ये पाशप् । गेहं गेहं प्रतिगृहं अनुप्रविश्य दीर्घायुः-सुत-संपदादिकथनैः कस्यचित् दीर्घायुष्यकथनेन, कस्यचित्सुतार्थिनः 'तव सद्गुणसंपन्नः पुत्रः स्यात्' कस्यचिद्दरिद्रस्य लं 'अग्रे बहुतरद्रव्यसंपन्नो भविष्यसि' इत्यादि कथनमूह्यम् । धनिनां द्रव्यवतां मुहुवारंवारं मोहं कुर्वते । इमे भविष्यच्छुभकथनेनातीव विद्वांस इति भ्रान्तिमुत्पादयन्तीत्यर्थः ॥ ५२८ ॥ विलिखतीति । किंच अयं दैवज्ञपाशः ज्यौतिषिकाधमः जनानां सत् यथार्थफलज्ञापकं असत् अयथार्थफलं वा कथमपि जन्मपत्रं विलिखति । तच्चाने यदि कदाचिदैववशतः फलति स्खलेखनानुरूपफलप्राप्तिर्भवति चेत् , तदा आत्मनः दाक्ष्यं भविष्यत्फलकथनचातुर्य दर्शयति । यदि च लग्नं न फलति तदा द्रष्टुर्जन्मका. लीनलग्नादिकं पश्यत एव मोहं अज्ञानं आह कथयति । अस्य जन्मकालीनलग्नादि सम्यक ज्ञातं भवद्भिस्तस्माद्भवतामेवायं दोषो न ममेति वदतीत्यर्थः । एवं इह लोके धनिनामिति शेषः । धनं हरति । हन्तेति खेदे ॥ ५२९ ॥ १ 'लग्नप्रष्टुरेवैष दोषो'. For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णनम् ४४] पदार्थचन्द्रिकाटीकासहिता । २८१ अपि चप्रमोदे खेदे वाऽप्युपनमति पुंसो विधिवशा न्मयैवं प्रागेवाभिहितमिति मिथ्या कथयति ॥ जनानिष्टानिष्टाकलनपरिहारैकनिरैता___नसौ मेषादीनां परिगणनयैव भ्रमयति ॥ ५३० ॥ अस्तु वा तथ्यवादी दैवज्ञस्तथापि वृथा तद्वचःश्रवणम् ॥ २२६ ॥ तथाहि असुखमथ सुखं वा कर्मणां पक्तिवेला___ खहह ! नियतमेते भुञ्जते देहभाजः ॥ तदिह पुरत एवं प्राह मौहूर्तिकश्चेत् कथय फलममीषामन्ततः किं ततः स्यात् ? ॥ ५३१ ॥ प्रमोद इति । पुंसो जनस्य विधिवशादैववशादेव न तु स्वकथनेन, प्रमोदे आनन्दे वाऽथवा खेदे दुःखे उपनमति प्राप्नुवति सति, इदं सुखं दुःखं वा मया प्रागेव प्राप्तकालात् पूर्वमेव अभिहितं कथितं इत्येवं मिथ्या असत्यं कथयति । इष्टं सुखादि अनिष्टं दुःखादि च तयोः आकलनं स्वीकारः परिहारः निवारणं च तयोः एकं मुख्यं यथा स्यात् तथा निरतानासक्तान् , सुखस्याङ्गीकारे दुःखस्य परिहारे च तत्परानिति यथायथमूह्यम् । जनान् असौ ज्यौतिषिकः मेषादीनां राशीनां परिगणनया संख्यानेनैव भ्रमयति विमोहयति । 'तव जन्मराशेः सकाशाद्रव्यादेहस्येष्टफलप्रतिपादके एकादशादिस्थाने प्रवेशात् सुखोत्पत्तिः, जन्म-चतुर्थादिस्थानप्रवेशाचा निष्टफलप्राप्तिः' इत्यादिकथनेन भ्रमयतीत्यर्थः ॥ ५३० ॥ अस्त्विति । किंच दैवज्ञः तथ्यवादी सत्यवक्ता, वाऽप्यर्थकः । अस्तु तथापि तस्य वचसो भाषणस्य श्रवणं वृथा निष्फलमेव ॥ २२६ ॥ वृथात्वमेवाह-असुखमिति । एते दृश्यमाना देहभाजः प्राणिनः कर्मणां पूर्वजन्मकृतानां पक्तिवेलासु फलनिष्पत्तिकालेषु असुखं दुःखं अथवा सुखं च नियतं नियमेनैव भुञ्जते । अहहेयाश्चर्ये । तदेव सुखं दुःखं वा मौहर्तिको ज्यौतिषिकः इह पुरतः तत्प्राप्तेः प्रागेव प्राह कथयति चेत्, ततः अग्रिमसुख-दुःखादिकथनात् अमीषां देहभाजां फलं अन्ततः पर्यवसाने किं स्यात् ? कथय । प्राणिनामिष्टानिष्टप्राप्तिः खखकर्मानुसारेणैव भविष्यति ज्यौतिषिकादिकथनेन किमप्यन्यथा न भवेदित्यर्थः ॥ ५३१॥ १ 'प्रमोदः खेदो वा'. २ 'मयेदं'. ३ 'नियतान्'. For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८२ विश्वगुणादर्शचम्पू:- [ज्यौतिषिक वि०-ऐहिकामुष्मिककारम्भोपयोगिनो नोपालम्भमर्हन्ति ज्योतिर्विदः ॥ २२७ ॥ शृणु तावत्न दैवं न पित्र्यं च कर्मात्र सिध्येन्न यत्रास्ति देशे ननु ज्योतिषज्ञः न तारा न चारा नवानां ग्रहाणांन तिथ्यादयो वा येतस्तत्र बुद्धाः ५३२ यच्च समर्थितं मौहूर्तिकवचैननिशमनं मुधेति तन्निपुणनिरूपणा न भणन्ति ॥ २२८ ॥ यतःभानोः शीतकरस्य वापि भुजगग्रासे पुरो निश्चिते तीर्थानामटनं जनस्य घटयेत्तापत्रयोच्चाटनम् ॥ ऐहिकेति । इहलोके भवान्यैहिकानि अमुष्मिन् परलोके भवान्यामुध्मिकाणि च यानि कर्माणि तेषामारम्भे उपयोगिनः भविष्यदिष्टानिष्टकथनेनेति भावः । ज्योतिर्विदः ज्योतिःशास्त्रवेत्तारः उपालम्भं निन्दा नार्हन्ति निन्दितुं न योग्या भवन्ति ॥२२७॥ ज्योतिर्विदां सर्वाण्यपि दूषणानि परिहरन् प्रथमं तावत्तेषामुपयोगमाह-नेति । ननु इति आमन्त्रणे । हे कृशानो इत्यर्थः । यत्र यस्मिन् देशे ज्योतिषं ग्रहनक्षत्रादीनां खरूप गत्यादिज्ञापकं शास्त्रं जानातीति तज्ज्ञः नास्ति न विद्यते, अत्रास्मिन् ज्योतिर्विदभाववति देशे दैवं देवसंबन्धि कर्म पूजादिकं एकादयुपवासादिकं च सम्यक् तिथ्यादिज्ञानाभावात् न सिध्येत् , तथा पित्र्यं पित्रुद्देशेन कर्तव्यं श्राद्धादिकं चापि न सिध्येत् । अत्रापि पूर्वोक्त एव हेतुईयः । किंच ताराः नक्षत्राणि न सिध्येयुः, तेषां स्वरूपज्ञानाभावादित्यर्थः । तथा नवानां नवसंख्याकानां ग्रहाणां रव्यादीनां चारा मेषादिराशिप्रवेशाश्च न सिध्येयुः, तिथ्यादयः प्रतिपदादितिथयः आदिशब्देन योग-करणादीनां संग्रहः । न सिध्येयुः । वाऽप्यर्थकः । यतः कारणात् तत्र दैव-पित्र्यादिकर्मसु ज्योतिर्विद इति शेषः । बुद्धाः ज्ञानवन्तः सन्ति । तस्मात् तेषामभावात् क्वापि दैव-पित्र्यादिकर्मोपयोगि कालज्ञानं नोत्पद्यतेत्यर्थः । क्वचित् 'यतोऽत्रैष बुद्धः' इति पाठः । पूर्वसंबन्धदर्शनेन स एव युक्त इति भाति । परं च प्राचीनपुस्तकेषु तस्याभावात् स नादृतः ॥ ५३२ ॥ यञ्चेति । मौहूर्तिकानां ज्योतिर्विदां वचनस्य भाषणस्य निशमनं श्रवणं मुधा व्यर्थमेव इति च यत् समर्थितं प्रतिपादितं तत् निपुणं युक्तायुक्त विवेकपूर्वकं निरू. पणं भाषणं येषां ते न भणन्ति न प्रतिपादयन्ति ।। २२८ ॥ तत्कारणमुपपादयति-भानोरिति । भानोः सूर्यस्य शीतकरस्य चन्द्रस्य वापि, भुजेन कौटिल्येन गच्छतीति भुजगस्तेन 'भुजो कौटिल्ये' इति धातोः 'अन्यत्रापि-' १ 'ऐहिकामुभिकारम्भो'. २ 'यतोत्रैष बुद्धः'. ३ वचःश्रवणं'. ४ 'पणायन्ति'. For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४४] पदार्थचन्द्रिकाटीकासहिता। २८३ इष्टे प्रागवधारिते सति धृतेस्तुष्टेश्च लाभो भवे दृष्टे तु व्यसनेऽत्र तत्परिहृतिः कर्तुं जपाद्यैः क्षमा ॥ ५३३ ॥ अविस्रम्भश्च दैवज्ञवचनेष्वनुपपन्नः ॥ २२९ ॥ वृद्धि-हासौ कुमुदसुहृदः पुष्पवन्तोपैरागः शुक्रादीनामुदयविलयावित्यमी सर्वदृष्टाः ।। आविष्कुर्वन्त्यखिलवचनेष्वत्र कुम्भीपुलाकन्यायाज्ज्योतिर्नयगतिविदा निश्चलं मानभावम् ॥ ५३४ ॥ इत्यनेन डप्रत्ययः । राहुणा केतुना वा ग्रासे, चन्द्र-सूर्यग्रहणे इत्यर्थः । पुरः ग्रासकालात् पूर्वमेव निश्चिते ज्ञाते सति, ज्योतिषिकेनेति शेषः । तापत्रयस्य आध्यात्मिकादिदुःखत्रयस्य उच्चाटनं निर्मूलनं यस्मात् तत् , तापत्रयनाशकरमित्यर्थः । तीर्थानां गङ्गादीनां यात्रार्थमिति शेषः । अटनं भ्रमणं जनस्य घटयेत् संपादयेत् । किंच ग्रहाणामानुकूल्येन इष्टे अभीष्टफले प्राक् तत्प्राप्तिकालात् पूर्वमेव अवधारिते निश्चिते सति धृतेधैर्यस्य तुष्टेः संतोषस्य च लाभः भवेत् । व्यसने दुःखे ग्रहाणां प्रातिकूल्येनेति शेषः। दृष्टे प्राग्गणितेन ज्ञाते सति तु, अत्र तस्य व्यसनस्य परिहृतिः परिहारः जपाद्यैः तत्तदनिष्टग्रहमन्त्रजपायैः, आद्यशब्देन दानादेर्ग्रहणम् । कर्तु क्षमा योग्या स्यात् । अनेन 'असुखमथ सुखं वा' इत्यादिनोतं दूषणं परिहृतमिति ज्ञेयम् ॥ ५३३ ॥ अत एव ज्यौतिषिकवचनमवश्यं माननीयमिति वक्तुमाह-अविस्रम्भ इति । दैवज्ञानां ज्योतिर्विदां वचनेषु भाषणेषु अविनम्भोऽविश्वासः अनुपपन्नः अयुक्तः २२९ कुत इत्यत आह-वृद्धि-हासाविति । कुमुदसुहृदश्चन्द्रस्य वृद्धिः शुक्लपक्षे प्रतिदिनमेकैककलया जायमाना पुष्टिः ह्रासः कृष्णपक्षे तत्क्रमेणैव जायमानः क्षयश्च तौ, पुष्पवन्तौ सूर्याचन्द्रमसौ “एकयोक्त्या पुष्पवन्तौ दिवाकर-निशाकरौ" इत्यमरः। तयोः उपरागः ग्रहणं "उपरागो ग्रहो राहुग्रस्ते विन्दौ च पूष्णि च।" इत्यमरः । शुक्रादीनां ग्रहाणां, आदिशब्देन गुर्वादीनां ग्रहणम् । उदयः विलयः अस्तमयश्च तो, इत्येवंप्रकारेण अमी कालविशेषाः सर्वैलेोकैः दृष्टाः, एते ज्यौतिषिकनिश्चिता एवेति शेषः । अत्र लोके कुम्भी अन्नपचनपात्रं पुलाकः धान्यकणः तयोायः एककणपचनज्ञानात् सर्वधान्यपाकज्ञानरूपः तस्मात् ज्योतिर्नयो ज्योतिःशास्त्रं तस्य गतिं लापनरीति विदन्ति जानन्तीति तद्विदस्तेषां अखिलानि सर्वाणि यानि वचनानि तेषु निश्चलं चञ्चलतारहितं सनिश्चयमित्यर्थः । मानभावं पूज्यभावं अविष्कुर्वन्ति प्रकटीकुर्वन्ति ॥ ५३४ ॥ १ कष्टे च'. २ 'बुद्धि'. ३ पुष्पवन्तोपरागौ'. ४ 'विदो'. For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ विश्वगुणादर्शचम्यू:- [भिषग्इत्थं किल नीतिविदो विदुः ॥ २३० ॥ विदैवज्ञं ग्रामं विबुधविधुरं भूपतिसंभम् मुखं श्रुत्या हीनं मनुजपतिशून्यं च विषयम् ।। अनाचारान् दारानपहरिकथं काव्यमपि च प्रवक्तृत्वापेतं गुरुमपि सुबुद्धिः परिहरेत् ॥ ५३५ ॥ अथ भिषग्वर्णनम् ४५. कृ.--अस्त्वेवम् । इत्यन्यतो वीक्ष्य सोपहासम्__मिथ्यौषधैर्हन्त ! मृषाकषायैरसह्यलेबैरयथार्थतैलैः ॥ ___ वैद्या इमे वञ्चितरुग्णवर्गाः पिचण्डभाण्डं परिपूरयन्ति ॥५३६॥ किंच न धातोर्विज्ञानं न च परिचयो वैद्यकनये __ न रोगाणां तत्त्वावगतिरपि नो वस्तुगुणधीः ॥ तथाप्येते वैद्या इति तरलयन्तो जडजना नसून्भृत्या मृत्योरिव वसु हरन्ते ! गदजुषाम् ॥ ५३७ ॥ विदैवज्ञमिति । सुष्टु विचारसंपन्ना बुद्धिर्यस्य सः सुबुद्धिः पुरुषः विदैवज्ञं ज्यौतिषिकरहितं ग्राम, विबुधविधुरं पण्डितशून्यं भूपतिसभं राज्ञः सभा, क्वचित् 'विबुधविधुरां भूपतिसभा' इति पाठान्तरं दृश्यते । तत्तु न युक्तं, "सभा राजाऽमनुध्यपूर्वा" इति राजपर्यायपूर्वसभान्ततत्पुरुषस्य नपुंसकत्व विधानात् । श्रुत्या वेदेन हीनं रहितं मुखं, मनुजपतिना राज्ञा शून्यं च विषयं देशं, अनाचारान् सतीत्वाचाररहितान् व्यभिचारसंपन्नानित्यर्थः । दारान् स्त्रियं चापि, अपगता हरिकथा यस्मात् तत् हरिगुणानुवर्णनरहित मित्यर्थः । काव्यं च, प्रकर्षेण यद्वक्तृत्वं यथार्थोपदेशरूपं तस्मादपेतं निवृत्तं गुरुमध्यापकं च परिहरेत् त्यजेत् ॥ ५३५ ॥ मिथ्येति । इमे वैद्याः मिथ्यौषधैः रोगादिसम्यकपरीक्षामन्तरा प्रयुक्तैरससौषधैः, मृषाकषायैः पूर्ववदेव वृथाप्रयुक्तैः, असधैः सोढुमशक्यैलेंद्यैः, अयथार्थैः विरुद्धरोगप्रयुक्ततया अयोग्यैस्तैलैश्च, वञ्चितः रुग्णानां रोगिजनानां वर्गः समु. दायो यैस्तथाभूताः सन्तः, पिचण्डमुदरं भाण्डमिव परिपूरयन्ति पूर्ण कुर्वन्ति ५३६ नेति । एषां वैद्यानां धातोः पारद-ताम्रादेः विज्ञानं विशेषतः शुद्धिकरणादिज्ञानं न, वैद्यकनये वैद्यकशास्त्रे चरक-सुश्रुतादिग्रन्थे परिचयोऽभ्यासः न, रोगाणां ज्वरा१ 'विधुरां'. २ 'सभाम्'. For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir —वर्णनम् ४५ ] अपि च कषायैरुपवासैश्च नृणामुल्लाघतां कृताम् ॥ निजौषधकृतां वैद्यो निवेद्य हरते धनम् ॥ ५३८ ॥ वि० – वयस्य ! विश्वोपकारिषु वैद्येषु अवद्यानि न केलयेथाः २३१ पश्य पदार्थचन्द्रिकाटीकासहिता । मस्ते दुःसहवेदनाकवलिते ममे खरेऽन्तर्गलम् तप्तायां ज्वरपावकेन च तनौ तान्ते हृषीकत्रजे ॥ २८५ दूने बन्धुजने कृतप्रलपने धैर्य विधातुं पुनः कः शक्तः कलितामयप्रशमनाद्वैद्यात्परो विद्यते ? ॥ ५३९॥ दीनां तत्त्वतः अवगतिर्ज्ञानं चापि न, वस्तूनां औषधीनां गुणाः शैत्यौष्ण्यादयः तेषां धीर्ज्ञानं नो नास्ति । तथापि औषध - रोगादिज्ञानाभावे सत्यपि वैद्या वयं इति कथयित्वा जडजनान् मूर्खलोकान् तरलयन्तो मोहयन्तः सन्तः मृत्योर्यमस्य भृत्याः दूता इवेत्युत्प्रेक्षा । गदजुषां रोगिणां वसु द्रव्यं, असून प्राणांश्चापि हरन्ते अपहरन्ति ॥ ५३७ ॥ कषायैरिति । कषायैः त्रिकटु-त्रिफलादिसाररूपैः उपवासैर्लङ्घनैश्वापि नृणां मनुष्याणां उल्लाघतां नीरोगतां " अनुपसर्गात्फुल्ल-क्षीब- कृशोलाघाः" इति निपातनात्साधुः । “उल्लाघो निर्गतो गदात्" इत्यमरः । कृतां संपादितां वैद्यः निजैः स्वकीयैः औषधैः कृतां संपादितां निवेद्य कथयित्वा धनं हरते । रोगिजनानामिति शेषः ॥ ५३८ ॥ > वयस्येति । हे वयस्य ! विश्वोपकारिषु सर्वजनोपकारकर्तृषु सदौषधप्रयोगादिभिरिति भावः । वैद्येषु अवद्यानि दूषणानि न कलयेथाः दूषणानां वृथारोपं मा कुर्वित्यर्थः ॥ २३१ ॥ 2 विश्वोपकारित्वमेवाह-मस्ते इति । रोगिण इति शेषः । मस्ते शिरसि दुःसहा सोढुमशक्या या वेदना रोगोत्पन्नं दुःखं तया कवलिते ग्रस्ते सति, खरे शब्दे च अन्तर्गलं कण्ठमध्ये एव मने लीने सति स्फुटतया कण्ठाद्बहिरप्रकटे संतीत्यर्थः । तनौ देहे च ज्वरो रोगविशेषः स एव पावकोऽभिस्तेन तप्तायां सत्यां तत एव हृषीकाणां चक्षुरादीन्द्रियाणां व्रजे समुदाये तान्ते निम्नगतत्वेन सम्यग्दर्शनाद्यक्ष मे संपन्ने च सति वन्धूनां मातृ-पितृ-भ्रातृ-पुत्रादिखजनानां जने समुदाये दूने दुःखिते च सति अत एव कृतं प्रलपनं शोको येन तथाभूते च सति पुनः धैर्य विधातुमुत्पादयितुं कलितं संपादितमामयानां रोगाणां प्रशमनं शान्तिर्येन तस्मात् वैद्यात् परोऽन्यः पुरुषः कः शक्तः समर्थः विद्यते ? अपि तु कोऽपि नास्तीत्यर्थः ॥ ५३९ ॥ १ 'न कल्पयेथाः '. २ ' दुस्तर' ३ 'ग्लाने'. For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६ विश्वगुणादर्शचम्पू: [भिषगमा बोधि वैद्यकमथापि महामयेषु प्राप्तेषु यो भिषगिति प्रथितस्तमेव ॥ आकारयत्यखिल एव विशेषदर्शी लोकोऽपि तेन भिषगेष न दूषणीयः ॥ ५४०॥ कष्टमहो कृतोपकारेप्वगदकारेषु कृतघ्न एव निर्विवेको लोकः । इत्थं हि कवयः कथयन्ति ॥ २३२ ॥ निर्वृत्ताध्वरकृत्य ऋत्विजमथोत्तीर्णापगो नाविकम् युद्धान्ते सुभटं च सिद्धविजयो वोढारमाप्तस्थलः ॥ वृद्धं वारवधूजनं च कितवो निर्वृष्टतद्यौवनो ध्वस्तातङ्कचयश्चिकित्सकमपि द्वेष्टि प्रदेयार्थिनम् ॥ ५४१ ॥ 'न धातोर्विज्ञानं नच परिचयो वैद्यकनये' इत्यादिनोक्तं दूषणं परिहर्तुमाहमा बोधीति । अयं वैद्यः वैद्यक शास्त्रं मा बोधि मा ज्ञासीत् 'बुध अवगमने' इत्यस्मात् माङयोगाल्लुङि अडागमाभावः “दीप-जन-बुध-" इत्यादिना विकल्पेन चिण् । तथापि आमयेषु रोगेषु प्राप्तेषु सत्सु विशेषदर्शी समयविशेषेण कार्याकार्यद्रष्टा अखिल एव सर्वोऽपि जनः भिषक् वैद्यः इति यो लोके प्रथितः प्रसिद्धः तमेव आकारयति आह्वयति । तेन कारणेन एष भिषक् वैद्यः न दूषणीयः । अयं भावः-वैद्यक्रिया हि न तावत्सर्वकालमेव ग्रन्थज्ञानमवलम्ब्य भवति, किंतु विशेषतः अनुभवज्ञानमवलम्बते । ततश्च यदि केषांचित् गुरुपरंपरया रोगपरीक्षणं तत्परिहत्रौषधविज्ञानं च स्यात् , तदा न ग्रन्थावगतिरावश्यकी, तत एव च तादृशां दोषारोपोऽपि वृथैवेति ॥ ५४० ॥ कष्टमिति । कृतोपकारेष्वप्यगदंकारेषु वैद्येषु विषये “अगदंकारो भिषग्वैद्यौ चिकित्सके" इत्यमरः । निर्विवेकः विचाररहितः अत एव कृतं औषधादिना संपादितमारोग्यं हन्तीति कृतन्नः लोकः, इति अहो कष्टमन्याय्यम् ॥ २३२ ॥ उक्तार्थे वृद्धसंमतिमाह-निर्वृत्तेति । निर्वृत्तं समाप्तं अध्वरकृत्यं यज्ञकृत्यं यस्य सः जनः, प्रदेयं दक्षिणादिद्रव्यं पूर्व प्रतिज्ञातं अर्थते याचते इति प्रदेयार्थी तं, एतदेव विशेषणं प्रतिद्वितीयान्तं योजनीयं द्वेष्टीति क्रियापदं च । ऋत्विजं यज्ञ कर्तारं द्वेष्टि, उत्तीर्णा लविता आपगा नदी येन सः नाविकं कर्णधार, सिद्धः विजयः शत्रोरुत्कर्षप्राप्तिर्यस्य सः, युद्धान्ते समरावसाने सुभटं वीरपुरुषं, आप्तं प्राप्तं स्थलं गन्तव्यस्थानं येन सः वोढारं वाहक, निष्टं असकृदुपभोगेन विनाशितं तस्य वारस्त्रीजनस्य यौवनं तारुण्यं येन सः कितवो धूर्तः अत एव वृद्धं वारवधूनां वेश्यानां १ 'वैद्यककलामयमामयेषु'. २ 'युध्यन्तं'. ३ 'कुविटो'. ४ निविष्ट'. For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४६] पदार्थचन्द्रिकाटीकासहिता । २८७ अथ कविवर्णनम् ४६. - - इति विमानमग्रतश्चालयन्नग्रतोऽवलोक्य सोपालम्भम्कृ०-सखेऽत्र पश्य कवीनामेषां शास्त्रैविप्रतिषिद्धां चर्याम् २३३ श्रीनाथस्तवनानुरूपकवनां वाणी मनोहारिणीम् __ कष्टं हा कवयः कदर्यकुटिलक्ष्मापालसात्कुर्वते ॥ दूरोपाहृतसौरसैन्धवपयो देवाभिषेकोचितम् संसेके विनियुञ्जते सुमतयः शाकालवालस्य किम् ? ॥५४२ ॥ किंचस्तुवद्भवनिवर्तके सति हरौ कविः सूक्तिभिः करोति वरवर्णिनीचरितवर्णनं गर्हितम् ॥ अनीतिरवनीपतिहशुनीतर्नु मौक्तिकैविभूषयति देवतामुकुटभागयोग्यैर्यथा ॥ ५४३ ॥ जनं समूहं च, ध्वस्तो विनष्टः आतङ्कानां रोगाणां चयः समुदायो यस्य सः चिकित्सकं वैद्यं चापि द्वेष्टि ॥ ५४१ ॥ अथ कविवर्णनं सूचयितुमवतारयति-इतीति । सोपालम्भं सनिन्दम् ॥ सख इति । हे सखे विश्वावसो! अत्रास्मिन् देशे एषां कवीनां शास्त्रैविप्रतिषिद्धां निषिद्धां चर्यामाचारं पश्यावलोकय ॥ २३३ ॥ श्रीनाथेति । श्रीनाथस्य भगवतो लक्ष्मीपतेः स्तवने स्तुतौ अनुरूपं योग्य कवनं शब्दनिवेशनचातुर्यं यस्याः सा तां अत एव मनोहारिणी सहृदयजनचित्ताकर्षिणी वाणी एते कवयः कदर्याः कृपणाः "कदर्ये कृपण-क्षुद्र-किंपचान-मितंपचाः।" इत्यमरः । कुटिलाः वक्रान्तःकरणाश्च ये क्षमापाला भूपालास्तेषां अधीनां कुर्वते कुर्वन्ति । हा कष्टमिति खेदे । एतदेव दृष्टान्तेन द्रढयति-दूरोपाहतेति । दूरात् शतशो योजनप्रदेशात् उपाहृतमानीतं सुरसिन्धोः गङ्गायाः इदं सौरसैन्धवं यत् पयः उदकं तत् अत एव देवस्य श्रीसेतुबन्धरामेश्वरादेः अभिषेके उचितं योग्यं सुमतयः सुबुद्धयो जनाः शाकस्य शाकवृक्षस्य आलवालं तस्य संसेके निषेचने विनियुञ्जते उपयुञ्जते किम् ? अपि तु नैवेत्यर्थः ॥ ५४२ ॥ स्तुवदिति । स्तुवतां स्तुतिं कुर्वतां जनानां भवनिवर्तके संसारनिवर्तके हरौ विष्णो सत्यपि कविः सूक्तिभिः मधुरवाणीभिः गर्हितं सद्भिनिन्यं वरवर्णिन्याः स्त्रियाश्चरितस्य वर्णनं नेत्र-वदनाद्यवयवप्रशंसारूपं करोति । किंच कतिपये कवयः For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ विश्वगुणादर्शचम्पू: [ कवि वि० – आन्तरध्वान्तहरयः कवयस्त्वया नाधिक्षेप्याः ॥ २३४ ॥ कामं वाचः कतिचिदफलाः सन्तु लोके कवीनाम् सन्त्येवान्या मधुरिपुकथासंस्तवाः कामदोरध्यः ॥ वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः || ५४४ ॥ कल्याणं भगवत्कथाग्रथनतः काव्यं विधातुः कवे स्तस्यैवाङ्गतया क्वच्चिद्रचयतः शृङ्गार - वीरादिकम् ॥ को दोषो भविता ! यदत्र कविताशीलैः समाश्रीयते पन्था व्यास- वसुन्धराश्रुतिभवग्रन्थादिषु प्रेक्षितः || ५४५ ॥ ' प्रत्यक्षं प्रन्थारम्भे मङ्गलादौ श्रीहरि - शिवादिवर्णनप्रसङ्गेऽपि व्रीडावह शृङ्गारादिवर्णनेन निजां वाण दूषयन्ति वास्तविकेश्वरसामर्थ्यं निहुवते च । यथा भट्टनारायणेन वेणीसंहारनाटके मङ्गलाचरणतृतीयपद्ये 'उत्तिष्ठन्या रतान्ते भरमुरगपती इत्या दिना भगवत्या लक्ष्म्याः संभोगोत्थानं वर्णितं, तत्किं भगवत्याः अन्यन्निरवयं माननीयं च चरित्रं नासीदेव ? परं तु तदेषां विषयवासनाम लिनान्तःकरणानां कवीनां मनः कुतः प्रवेष्टुं शक्नोति ? इत्यलमप्रस्तुतप्रवचनेन । अत्रापि दृष्टान्तमाह – अनीतिः नयशिक्षणरहितः अवनीपती राजा यथा देवतानां मुकुटस्य किरीटस्य भागेषु प्रान्तेषु योग्यैरुचितैः, खचितुमिति शेषः । मौक्तिकैः गृहे पालितायाः शुन्याः तनुं शरीरं विभूषयति । तथैवैतेषां कवीनां कृतिरिति भावः ॥ ५४३ ॥ आन्तरेति । आन्तरस्य मनोगतस्य ध्वान्तस्य अन्धकारस्य अज्ञानरूपस्येत्यर्थः । हरयः सूर्याः तत्सदृशा इत्यर्थः । कवयस्त्वया नाधिक्षेप्या न निन्दनीयाः ॥ २३४ ॥ उक्तमेव स्पष्टयति- काममिति । लोके कवीनां कतिचित् वाचः वाण्यः स्त्रीवर्णनादिरूपाः कामं अफला: निष्फलाः सन्तु । नैतादृशः सर्वा अपीत्यर्थः । किंतु अन्याः स्त्री - राजादिवर्णनादितराः मधुरिपोः श्रीकृष्णस्य कथायाः संस्तवः सम्यकस्तुतिः यासु ताः अत एव कामदोग्ध्र्यः अभीष्टसद्वत्यादिप्रदाभ्यः वाचः सन्त्येव । अत्रैतादृशो वाचः कालिदासस्य रघुवंश-कुमारसंभवादिकाः, माघस्य शिशुपालवधादिरूपाः, भवभूतेरुत्तररामचरित्रादयश्चोत्ह्याः । अत्रार्थान्तरं न्यस्यति — अश्रोत्रियेभ्यः अवैदिकेभ्यः अर्थात् कुपात्रेभ्यः दत्तं स्ववयागपूर्वकं परखत्वोत्पादनपूर्वकं च समर्पितं वित्तं द्रव्यं कामं विफलं भवतु । किंतु पात्रे सत्पात्रे अग्निहोत्रादिसंपन्ने दत्तैः समर्पितैः धनैः भूरिदातुः अतिशयदानकर्तुः पुरुषस्य धन्यता पुण्यवत्ता भवति हि एव ॥ ५४४ ॥ ' स्तुवद्भवनिवर्तके -' इत्यादिनोक्तं स्त्रीवर्णनरूपं दोषमुद्धारयन्नाह - कल्याणमिति । भगवतः श्रीविष्णोः कथानां राम-कृष्णाद्यवतारचरित्राणां ग्रथनतः रचनया कल्याणं निःश्रेयसकरं काव्यं रघुवंश-कुमारसंभव - शिशुपालवध - किरातार्जुनी For Private And Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४६] पदार्थचन्द्रिकाटीकासहिता। २८९ कृ०-नरस्तुतेर्विधातारो न वस्तुत इमे बुधैः ।। ___ श्लाघनीया इति कवीन् शास्त्राध्वन्यो विनिन्दति ॥ ५४६ ॥ वि०-धनचपलसकलपुरुषसाधारणमिदं दूषणमविवेकिभिः कविप्वेव केवलमाधीयते ॥ २३५ ॥ यतःपथैहृद्यतमैः स्तुवन्ति कवयः प्रायेण पृथ्वीपती नन्ये तान् स्तुवते वचोभिरचमत्कारैरसारैरपि । पद्यारम्भणशक्त्यशक्तिविहितो भेदः कवीनां भव त्यन्येषां च परं नरस्तुतिकृतो दोषस्तु सार्वत्रिकः ॥५४७॥ यादिकं शाकुन्तल-महावीरचरितोत्तररामचरितादिनाटकरूपं च विधातुः कर्तुः कवेः कालिदास-माघ-भारवि-भवभूत्यादेः, तस्य काव्यस्यैवाङ्गतया यत्किंचिदंशरूपत्वेन कचित् विवाहादिप्रसझे दम्पतीसमागमादिप्रसङ्गे वा, न तु सर्वत्र । यथा रघुवंशे इन्दुमत्याः वर्णनं, कुमारसंभवे भगवत्याः पार्वत्याश्च वर्णनं, सर्वतो वीररसप्रधाने वेणीसंहारनाटके च भानुमत्यादिवर्णनं चेत्यादिकं यथायथमूह्यम् । शृङ्गारः वीरश्च तौ आदी यस्मिन् तदादिकं रस, आदिशब्दात् करुणामृतादेर्ग्रहणम् । रचयतः को दोषो भविता भविष्यति ? नैवायं संप्रदायः आधुनिककवीनामेव, किंतु प्राचीनानामपीत्याह-यत् यस्मात् अत्र लोके कविताशीलैः काव्यकर्तृभिः व्यासः पाराशरः वसुंधराश्रुतिः पृथिव्याः श्रवणेन्द्रियं लक्षणया वल्मीकं तत्र भवो वाल्मीकिश्च तयोग्रन्थादिषु महाभारत-भागवत-रामायणादिपुराणग्रन्थेषु प्रेक्षितोऽवलोकितः पन्थाः कचिदङ्गतया शृङ्गारादिवर्णनरूपः, यथा महाभारते द्रौपद्यादिसमागमवर्णनं, भाग. वते च श्रीकृष्ण-गोपिकारासक्रीडादिवर्णनं, रामायणे सीतावर्णनादिकं च ज्ञेयम् । समाश्रीयते स्वीक्रियते । न तु खकपोलकल्पित इति भावः ॥५४५ ॥ पुनरपि दूषयति-नरेति । नरस्य मनुष्यस्य राजादेः स्तुतेः स्तवस्य विधातारः कर्तारः इमे कवयः, अत एव वस्तुतः तत्त्वतः बुधैः पण्डितैःन श्लाघनीयाःन प्रशंसनीयाः। इति हेतोः कवीन शास्त्राध्वन्यः शास्त्रपथिक: "अध्वनो यत्खौ" इति सूत्रेण 'अलं गच्छति' इत्यर्थे यत् प्रत्ययः। शास्त्रोक्तमार्गेण गन्तेत्यर्थः । विनिन्दति ॥५४६॥ धनेति । धने द्रव्यसंपादने चपला आसक्का ये सकलाः सर्वेऽपि पुरुषाः कवयः तदन्ये च तेषां साधारणं समानमिदं नरस्तवनरूपं दूषणं, परं तु अविवेकिभिः अवि. चारिभिः केवलं कविष्वेव, न त्वन्येषु आधीयते आरोप्यते ॥ २३५ ॥ पद्यैरिति । कवयः हृद्यतमैः अतिमनोहरैः रसालंकारादिपरिपूर्णत्वेनेत्यर्थः । पद्यैः श्लोकः पृथ्वीपतीन् राज्ञः प्रायेण स्तुवन्ति । प्रायग्रहणात् केचित् पद्यादिरचनप्रयत्नं विनैव स्तुवन्तीति ज्ञेयम् । अन्ये च तान् राज्ञः अचमत्कारैः उपमाद्यलंकाराभावात् आहादजननासमर्थैः अत एव असारैरपि वचोभिर्भाषणैः स्तुवते For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९० विश्वगुणादर्शचम्पू: [कवि क्षणमालोक्य सादरम् प्राचेतस-व्यास-पराशराद्याः प्राञ्चः कवीन्द्रा जगदञ्चितास्ते ॥ गोष्ठी नवीनापि महाकवीनां पूज्या गुणज्ञैर्भुवनोपकीं ॥५४८॥ तथा हिमाघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः श्रीहर्षः कालिदासः कविरथ भवभूत्याह्वयो भोजराजः ।। श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुभल्लटो भट्टबाणः ख्याताश्चान्ये सुबन्ध्वादय इह कृतिभिर्विश्वमाहादयन्ति ॥५४९॥ तेषां स्तुतिं कुर्वन्ति । उभयोस्तारतम्यमाह-पद्यानां श्लोकानां आरम्भणे करणे शक्तिः सामर्थ्य अशक्तिरसामर्थ्य च ताभ्यां विहितः कृतः कवीनां अन्येषां च मध्ये भेदः विशेषः अस्ति । परंतु नरस्तुतिकृतो दोषस्तु सर्वत्र कवि-तदितर-धनचपलजनेषु भवतीति सार्वत्रिक एव, न तु कवीनामेवायं दोषः, प्रत्युत चमत्कारज. नितो गुण एव संभवतीति ॥ ५४७ ॥ प्राचेतसेति । प्राचेतसः वाल्मीकिः, व्यासः सत्यवतीसुतः, पराशरश्च ते आद्याः प्रथमाः येषु ते प्राञ्चः प्राचीनाः अत एव कवीन्द्राः कविषु श्रेष्ठाः ते प्रसिद्धाः जगति अश्चिताः पूज्याः, आसन्निति शेषः । तथा तत्पथसमाश्रयणात् नवीना अर्वाचीनापि भुवनोपकत्री, विविधसृष्टपदार्थगुण-दोषवर्णनेनेति शेषः । महाकवीनां कालिदासादीनां गोष्टी सभा “समज्या परिषद्गोष्ठी सभा-' इत्यमरः । गुणज्ञैः जनैः पूज्या माननीया ॥ ५४८ ॥ 'कवीनां नवीनापि गोष्ठी पूज्या' इत्युक्तं तदन्तर्भूतानेव कांश्चित् प्रसिद्धान् नामतो निर्दिशति-माघ इति । माघः एतनामा कविः शिशुपालवधाख्यकाव्यकर्ता, चोरः एतन्नामा कविः, अस्यैव बिहण इति नामान्तरं श्रूयते । एतद्विषये अत्र. त्यमुद्रितपुस्तके टिप्पण्यामेवं वृत्तान्त उपलभ्यते-'चोरपञ्चाशिकाभिधमेकं काव्यमनेन कविना राजाकविधेयराजपुरुषकरिष्यमाणशूलारोपणप्राकालिकतद्वञ्चनलब्धावसरे कालचौरत्वापदेशेन निमित्तेन विरचितम्' इति । मयूरः, मुररिपुर्मुरारिनामा कवि: अनर्घराघव नाटककर्ता, अपरः एभ्यः अन्यः यः सारवित् काव्यनिर्माणसामग्रीभूतसाहित्यालंकारादितत्त्वज्ञः भारविनामा किरातार्जुनीयादिकाव्यनिमाता, श्रीहर्षः वत्सराजचरितादिकर्ता, कालिदासः कविकुलगुरुत्वेन प्रसिद्धः रघुवंश-कुमारसंभव-मेघदूतादिकाव्यानां, अभिज्ञानशाकुन्तल-विक्रमोर्वशीयादिनाटकानां च निर्माता, अत एवायं प्रथमं प्रथितुं योग्यः कविमालिकायां परं छन्दोऽनुरोधान तथा कृतमिति बोध्यम् । अथ भवभूतिरिति आयो नाम यस्य सः कविः मालतीमाधव-उत्तररामचरितादिनाटककर्ता, भोजराजः प्रसिद्धः, श्रीदण्डी दशकुमारचरिता १ बिल्हणो. For Private And Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४६] पदार्थचन्द्रिकाटीकासहिता । २९१ परं तु संपन्निर्मदभावयोरनघयोः साहित्य-पाण्डित्ययोः ___ सामर्थ्यान्यजनोपकारकतयोः साम्राज्य-दाक्षिण्ययोः ॥ औदार्य-प्रियवादयोश्च कथयन्त्याचार-विज्ञानयोः .. सामानाधिकरण्यमेव विबुधोत्तंसप्रशंसास्पदम् ॥ ५५० ॥ इदं चावधेयम्प्रणतचरणरेणुविष्णुचित्तः शठमथनरसो मुनिः स भूतः ॥ मधुरकविरितोपरे च धन्याः कति न पुनन्ति जगन्ति सूक्तिपूरैः ५५१ दिकर्ता, डिण्डिमाख्यः, श्रुतिमुकुटगुरुर्वेदान्ताचार्यः, भल्लटः, भट्टबाणः, कादम्बर्यादिग्रन्थकर्ता च, अन्ये उक्केभ्य इतरे सुबन्ध्वादयः कवयः, आदिशब्देन जयदेवादिग्रहणम् । ख्याताः प्रसिद्धाः सन्ति । ते कृतिभिः उपरिनिर्दिष्ट खविरचितकाव्य-नाटकादिग्रन्थैः इह लोके विश्वं आह्लादयन्ति आनन्दयन्ति ॥ ५४९ ॥ __ को वैतेषां कृतिभिर्जनानां लाभः इत्यपेक्षायामाह-परं त्विति । तुर्विरोधसूचकः । तेन तत्कृतिषु वक्ष्यमाणप्रकारेण वर्णनमपेक्षितमिति तदर्थः । संपदिति । अनघयोर्निर्दोषयोः, एतत्प्रतिषष्ठयन्तं योजनीयम् । संपदः भावः लक्ष्म्याः सत्ता निर्मदस्य अहंकारराहित्यस्य भावश्च तयोः, भावशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात् प्रत्येकं संबन्धः । साहित्यं काव्यालंकारादिज्ञानं, पाण्डित्यं तर्कादि. शास्त्रेषु प्रावीण्यं तयोः, सामर्थ्य परपराभवशक्तत्वं अन्यजनेषु उपकारकता च तयोः, साम्राज्यं सार्वभौमत्वं दाक्षिण्यं सरलत्वं च तयोः, औदार्य दातृत्वं प्रियवादः प्रियभाषणं च तयोः, आचारः शास्त्रोक्ताचरणं विज्ञानं शास्त्रज्ञानं च तयोश्च सामानाधिकरण्यमेकत्र स्थितिमेव विबुधोत्तंसानां ज्ञानिश्रेष्ठानां प्रशंसायाः स्तुतेः आस्पदं स्थानं कथयन्ति । जना इति शेषः ॥ ५५० ॥ प्रणतेति । प्रणताः प्रकर्षेण नमस्कृताः अर्थाद्भक्तैः चरणरेणवः पादपांसवो यस्य सः तथाभूतः स चासौ विष्णुश्च भगवान् तस्मिन् चित्तं यस्य सः, सततं विष्णुध्यानतत्पर इत्यर्थः । शठानां कपटवादिनां मथने पराजये रस उल्लासो यस्य सः, सः प्रसिद्धः मुनिः मधुरकविः श्रीशठकोपमुनिरित्यर्थः । तस्यैवेदं नामान्तरमिति भाति । भूतः जातः । इतः श्रीशठकोपमुनेः अपरे अन्ये तत्तद्देशभाषायां काव्यनिमातारः ज्ञानेश्वर-एकनाथ-तुलसीदास-श्रीधर-नामदेव-तुकाराम-वामनादयः धन्याः पुण्यवन्तः सन्तः सूक्तीनां मधुरभाषणानां अर्थात् भावार्थदीपिकादिरूपाणां पूरैः प्रवाहैः कति जगन्ति लोकान न पुनन्ति ? अपि तु बहव एतादृशः सन्तीत्यर्थः५५१॥ For Private And Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ तार्किक विश्वगुणादर्शचम्पू:- अथ तार्किकवर्णनम् ४७. कृ०-पुरतो विमानं प्रस्थाप्य पार्श्वतो दृष्ट्वा पश्यैतानाग्रहिणः पुरुषान् य एते व्यर्थमेव न्यायग्रन्थसंततचिन्तनेन विश्राम्यन्ति ॥ २३६॥ तथाहिकर्म-ब्रह्मविचारणां विजहतो भोगापवर्गप्रदाम् घोषं कंचन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः ॥ प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा व्याप्ति वति नैव पात्यनुमितिर्नो पक्षता रक्षति ॥ ५५२ ।। किंचहेतुः किंच विशिष्टधीरनुमितौ न ज्ञानयुग्मं मरुत् त्वाचो नेति च मोहवादमुखरा नैयायिकाश्चेद्बुधाः ॥ पश्येति । ये एते न्यायग्रन्थानां गादाधारी-जागदीशीप्रभृतितर्कशास्त्रग्रन्थानां संततचिन्तनेन निरन्तरविचारेण विश्राम्यन्ति विफलं क्लाम्यन्ति । श्रमातिरिक्तं न किंचित्फलं प्राप्नुवन्तीत्यर्थः । अत एव आग्रहिणः वादप्रसङ्गे परमतानङ्गीकारपूर्वक स्वमतस्यैव प्रतिपादकान् एतान्पुरोदृश्यमानान् पुरुषान् पश्यावलोकय ॥ २३६ ॥ कर्मेति । अमी तार्किकाः तर्कशास्त्रविदः भोगः ऐहिकामुष्मिकसुखं अपवर्गो मोक्षश्च तौ प्रददातीति तां कर्मणः ज्योतिष्टोमादिरूपस्य ब्रह्मणः परमात्मनश्च विचारणां मीमांसां, पूर्वमीमांसामुत्तरमीमांसां चेत्यर्थः । तत्र पूर्वमीमांसा कर्मकाण्डप्रतिपादिका ऐहिकामुष्मिकोंगप्रदा । उत्तरमीमांसा च जीव ब्रह्मणोर्वास्तवखरूपप्रतिपादिका मोक्षप्रदा चेति ज्ञेयम् । विजहतस्त्यजन्तः सन्तः, कंचन निष्फलं अत एव कण्ठशोष एव फलं यस्मात् स तत्फलकस्तं घोषं कलकलं कुर्वन्ति । निष्फलत्व. मेवाह-प्रत्यक्षं चक्षुरादीन्द्रियाणि प्रमाणचतुष्टयान्यतम प्रमाणं न पुनाति न पवि. त्रीकरोति, पीलूनां परमाणूनां छटा समूहः पापानि नापहरते न परिहरति, व्याप्तिः व्यापकसामानाधिकरण्यरूपा नावति न रक्षति, अनुमितिः परामर्शजन्यं ज्ञानं 'पर्वतोवह्निमान्' इत्यादिरूपं नैव पाति संरक्षति, पक्षता संदिग्धसाध्यवत्ता च न रक्षति । अत्र प्रत्यक्षादिशब्देन सर्वत्र तत्तद्विचारो ग्राह्यः ॥ ५५२ ॥ हेतुरिति । किंच अनुमितौ पर्वतो वह्निमान् इत्यादिरूपायां विशिष्टस्य साध्यव्याप्तिमत्त्वेन धूमादेर्लिङ्गस्य धीः पक्षवृत्तित्वज्ञानं तदेव हेतुः, ज्ञानयोः १ 'भ्राम्यन्ति'. - For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - वर्णनम् ४७] पदार्थचन्द्रिकाटीकासहिता । मेषस्याण्डमियत्पलं बलिभुजो दन्ताः कियन्तस्तथे त्येवं सन्ततचिन्तनैः श्रमजुषो न स्युः कथं पण्डिताः ॥ ५५३ ॥ विशिष्य चैतस्य शुष्कतार्किकस्य रीतिर्विवेकिनामुपहासास्पदम् २३७ शृणु तावत न जिघ्रत्याम्नायं स्पृशति न तदङ्गान्यपि सकृत् ___ पुराणं नाधीते न गणयति किंच स्मृतिगणम् ॥ वदन् शुष्कं तर्क परपरिभवार्थोक्तिभिरसौ नयत्यायुः सर्व निहतपरलोकार्थयतनः ॥ ५५४ ॥ अपि चप्रयत्नैरस्तोकैः परिचितकुतर्कप्रकरणाः परं वाचो वश्यान् कतिपयपदौघान्विदधतः ॥ वहिव्याप्यो धूमः धूमवांश्चायं च पर्वतः इत्यादिरूपयोः युग्मं द्वयं तु न हेतुः, मरुद्वायुः त्वाचः त्वगिन्द्रियग्राह्यः न भवति । इत्युक्तरीत्या मोहसंपादकेन भ्रमसंपादकेन वादेन मुखराः शब्दायमानाः नैयायिकाः न्यायशास्त्र विदः बुधाः पण्डिताश्चेत् स्युः, तर्हि मेषस्य अण्डं इयन्ति एतावत्परिमाणानि पलानि यस्य तत्तथाभूतं, पलं नाम कर्षचतुष्टयरूपं तोलप्रमाणम् । एतदेकद्ध्य दिसंख्याकपलप्रमाणमित्यर्थः । तथा बलिभुजः काकस्य "काके तु करटारिष्ट-बलिपुष्ट-सकृत्प्रजाः । ध्वासात्मघोष-परभृद्बलिभुग-वायसा अपि ।” इत्यमरः । दन्ताः कियन्तः कतिसंख्याकाः सन्ति ? इत्येवंप्रकारेण संततं चिन्तनैर्विचारैः श्रमजुषः प्रयत्नकर्तारः जनाः पण्डिताः कथं न स्युः ? अपि तु उभयत्रापि फलाविशेषात्स्युरेवेति भावः ॥ ५५३ ॥ विशिष्येति । विशिष्य विशेषतः एतस्य शुष्कतार्किकस्य निष्फलतर्कशास्त्रविदो रीतिविवेकिनां इतरशास्त्रविवेचनशीलानां उपहासास्पदं परिहासास्पदं भवति २६७ नेति । असौ तार्किकः आम्नायं वेदं न जिघ्रति नाभ्यस्यति, तस्य वेदस्याङ्गानि शिक्षादीनि सकृदेकवारमपि, किमु वारं वारं, न स्पृशति नाधीते, पुराणं पाद्मवैष्णवादिकं नाधीते. किंच स्मृतीनां मन्वादीनां गणं समुदायं न गणयति न मानयति । अत एव निहतं परित्यक्तं परलोकार्थ स्वर्गादिप्राप्यर्थे यतनं यत्नो येन सः तथाभूतः सन् , परेषां शास्त्रान्तरकोविदानां स्वेतरनैयायिकानां च परिभवः पराभव एव अर्थः प्रयोजनं यासां ताश्च ता उक्तयश्च ताभिः उपलक्षितं शुष्कं निष्फलं तक वदन् सन् , सर्वमायुर्जीवितकालं नयति गमयति ॥ ५५४ ॥ प्रयत्नैरिति । किंच अस्तोकैबहुभिः प्रयत्नैः श्रमैः परिचितान्यभ्यस्तानि कुत्सितानां तर्काणां प्रकरणानि वाद-जल्प-वितण्डादिपरिपूरितानि यैस्ते परं वाचो वाण्याः वश्यान् खाधीनान् असकृत् परिशीलनादित्यर्थः । कतिपयानां त्रि-चतुराणां For Private And Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२९४. विश्वगुणादर्शचम्पू: [ तार्किकसमाया वाचाटाः श्रुतिकटु रटन्तो घटपटान् __न लज्जन्ते मन्दाः वयमपि तु जिहेति विवुधः ॥ ५५५ ॥ वि०-वयस्य विविधोपकारविधायकान् नैयायिकान् मावमंस्थाः ॥ शृणु तावत्मोहं रुणद्धि विमलीकुरुते च बुद्धिम् सूते च संस्कृतपदव्यवहारशक्तिम् ॥ शास्त्रान्तराभ्यसनयोग्यतया युनक्ति तर्कश्रमो न तनुते ? किमिहोपकारम् ॥ ५५६ ॥ तथाहिप्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः पारज्ञस्याप्यपरिकलितन्यायशास्त्रस्य पुंसः ॥ वादारम्भे वदितुमनसो वाक्यमेकं सभायाम् प्रहा जिह्वा भवति कियती पश्य कष्टामवस्थाम् ॥ ५५७ ॥ पदानां अवच्छिन्नावच्छेदक-प्रतियोग्यादिशब्दानां ओघान् विद्धतः प्रयोजयन्तः सन्तः, अत एव वाचाटाः बहुगीवाचः “वाचाटो बहुगद्यवाक्" इत्यमरः । सभायां श्रुतिकटु कर्णकटु यथा तथा घटपटान् शब्दान् रटन्तः सन्तः मन्दाः मूढाः एते नैयायिकाः खयं न लज्जन्ते, अपि तु विबुधः पण्डितः जिहेति लज्जते ॥५५५॥ वयस्येति । विविधाः नानाप्रकाराः ये उपकाराः शास्त्रान्तराभ्यासे बुद्धिवैशद्यादयस्तेषां विधायकान् संपादकान् नैयायिकान् मावमंस्थाः वृथादूषणैस्तेषामपमानं मा कुर्वित्यर्थः ॥ २३८॥ मोहमिति । तर्के तर्कशास्त्रे श्रमोऽभ्यासः मोहं बुद्धिभ्रमं रुणद्धि विनाशयति, बुद्धिं च विमलीकुरुते मान्द्यादिदोषपरिहारपूर्वकं निर्दोषीकरोति, संस्कृतानि प्रौढत्व-परिशुद्धत्वादिसंस्कारयुक्तानि यानि पदानि तेषां व्यवहारे भाषणे शक्ति सामर्थ्य सूते जनयति । शास्त्रान्तरस्य व्याकरणाद्यन्यशास्त्रस्य अभ्यसने योग्यतया युनक्ति संगोजयति । ततः इह लोके तदध्येतरि वा तर्कश्रमः उपकार न तनुते न करोति किम् ? ॥ ५५६ ॥ प्राय इति । काव्यैः काव्यग्रन्थाभ्यासैः गमितं यापितं वयो येन तस्य, जन्मपर्यन्तं काव्याभ्यासशीलस्येत्यर्थः । पाणिनीयस्य पाणिनिमुनिप्रणीतव्याकरणस्य अम्बु. राशेः समुद्रस्य पारज्ञस्यापि आसमाप्तिव्याकरणशास्त्रनिष्णातस्यापीत्यर्थः । अपरिकलितमनभ्यस्तं न्यायशास्त्रं येन तस्य पुंसः पुरुषस्य सभायां वादस्य पक्षद्वयस्थपण्डितानां पूर्वपक्षोत्तरपक्षरूपस्य आरम्भे एकं वाक्यमपि, न त्वधिक, वदितुमनसः १ विविधोपाय'. २ योग्यतमं व्यनक्ति'. For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४७] पदार्थचन्द्रिकाटीकासहिता । २९५ किं बहुना अपरीक्षितलक्षण-प्रमाणैरपरामृष्ट पदार्थसार्थतत्त्वैः ॥ अवशीकृतजैत्रयुक्तिजालैरलमेतैरनधीततर्कविद्यैः ॥ ५५८ ॥ निरूप्य अद्भुतस्तर्कपाथोधिरगाधो यस्य वर्धकः ॥ अक्षपादोऽतमस्पृष्टस्त्वकलङ्कः कलानिधिः ॥ ५५९ ॥ पुनरालोच्य सश्लाघम्ज्ञानाब्धिरक्षचरणः कणभक्षकश्च श्रीपक्षिलोऽप्युदयनः स च वर्धमानः ॥ गङ्गेश्वरः शशधरो बहवश्व नव्या ग्रन्थैर्निरुन्धत इमे हृदयान्धकारम् ॥ ५६० ॥ वक्तुमिच्छोः सतः जिह्वा प्रह्वा नम्रा, वाग्रहितेत्यर्थः । भवति । एतां कष्टां दुःखप्रदां कियती अनिर्वाच्यामिति यावत् । अवस्थां पश्यावलोकय । हे कृशानो, त्वमिति शेषः ॥ ५५७ ॥ अपरीक्षितेति । अपरीक्षितानि अनवलोकितानि अनभ्यस्तानीति यावत् । लक्षणानि असाधारणलक्ष्यधर्माः प्रमाणानि प्रत्यक्षानुमानादीनि च यैस्तैः अपरा. मृष्टानि अविचारितानि पदार्थानां द्रव्यगुणादीनां सार्थस्य समूहस्य तत्त्वानि यथास्थितस्वरूपाणि यैस्तैः अत एव अवशीकृतानि अखाधीनीकृतानि जैत्राणि जयशीलानि युक्तीनां जालानि येस्तैः एतादृशैः एतैः अनधीता अनभ्यस्ता तर्कविद्या तर्कशास्त्रं यस्तैः पुरुषैरलं पर्याप्तम् ॥ ५५८ ॥ अद्भुत इति । तर्कः न्यायशास्त्रमेव पाथोधिः समुद्रः अगाधः अतलस्पर्शः अद्भुत आश्चर्यकरश्च । यतो यस्य तर्कपाथोधेः वर्धकः तमसाऽन्धकारेण राहुणा अज्ञानेन च स्पृष्टः कृतस्पर्शः न भवतीत्यतमस्पृष्टः अक्षाणीन्द्रियाण्येव पादाः किरणा यस्य सः अक्षं नेत्रेन्द्रियं पादे चरणे यस्य सः गौतममुनिश्च अकलङ्कः निष्कलङ्कः निरपवादश्च “कलकोऽङ्कापवादयोः" इत्यमरः । कलानां षोडशभागानां चतुःषष्टिकलानां विद्यानां च निधिः चन्द्रः अस्ति ॥ ५५९ ॥ ज्ञानाधिरिति । ज्ञानानां स्वर्गापवर्गसाधकशास्त्रावबोधानां अब्धिः समुद्रः सर्वज्ञ इत्यर्थः । इदमेव प्रत्येकमभिसंवन्धनीयम् । अक्षचरणः श्रीगौतममुनिः षोडशपदार्थबोधकन्यायसूत्रकर्ता, कणभक्षकः कणादमुनिः सप्तपदार्थावबोधकसूत्रकर्ता, श्रीपक्षिलः, अपिः समुच्चायकः । उदयनः, स प्रसिद्धः वर्धमानश्च, गङ्गेश्वरः तत्त्वचिन्तामणिकारः, शशधरः, बहवो नव्याः पक्षधरमिश्र-रघुनाथशिरोमणि-विश्वनाथ For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९६ [मीमांसक विश्वगुणादर्शचम्पू:- अथ मीमांसकवर्णनम् ४८. कु०-अपरत्र व्योमयानमानयन्नग्रतो निर्वर्ण्य सोपालम्भम् - मीमांसकाः कतिचिदत्र मिलन्ति वेद प्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः ।। उद्घोषितोऽप्युपनिषद्भिरशेषशेषी ___ ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः ॥ ५६१ ॥ विशिष्य च मीमांसकगोष्ठया विश्रुताः शबरादयः शबरा इव भगवद्भक्तानां विनिन्दनीयाः ॥ २३९ ॥ ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वर्षीणां सेहिरे नैव सत्ताम् ॥ चैतन्यस्यापह्नवं देवतानां चक्रुर्विश्वं नश्वरं मन्यमानाः ॥ ५६२ ।। भवानन्द-जगदीश-गदाधरप्रभृतयश्चाचार्याः ग्रन्थैः स्वस्वकृतैः शास्त्रप्रबन्धैः हृदयस्य अन्धकारं अज्ञानरूपं निरुन्धते निवारयन्ति ॥ ५६० ॥ मीमांसका इति । अत्रास्मिन् देशे कतिचित् मीमांसकाः जैमिनिमुनिप्रणीतकर्मविचारणाप्रतिपादकशास्त्रविदः मिलन्ति उपलभ्यन्ते । ते वेदे प्रामाण्यस्य स्वतःप्रामाण्यस्य साधनं व्यवस्थापनं कुर्वन्तीति तत्कृतोऽपि, अभिवन्द्याः नमस्कर्तुं योग्या न भवन्ति । यतः उपनिषद्भिः श्रुतिशिरोभागैः अशेषस्य निखिलप्रपञ्चस्य शेषी अङ्गी अधिष्ठानमिति यावत् । सकलदृश्यप्रपञ्चविलयेऽप्येक एवाविनाशीत्यर्थः । अत एव ब्रह्म परब्रह्मरूपः पुरुषोत्तमो नारायणो भगवान् उद्घोषितः “आत्मा वा इदमेक एवान आसीत् , नान्यत्किंचन मिषत् , यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः, तमेव विदित्वाऽ. तिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इत्यादिवचनैः यथार्थतया प्रतिबोधितोऽपि यैर्मीमांसकैः नाभ्युपगतः न स्वीकृतः, तत इति संबन्धः । कमैव जगजन्मादिकारणमिति हि मीमांसकानां सिद्धान्तः ॥ ५६१ ॥ विशिष्येति । मीमांसकानां गोष्ठ्यां सभायां विश्रुताः प्रसिद्धाः शबरः शबरखामी मीमांसासूत्रभाष्यकर्ता आदिमुख्यो येषां कुमारिलभट्टादीनां ते तदादयः शबराः किराता इव भगवद्भक्तानां विनिन्दितुं योग्याः विनिन्दनीयाः सन्ति॥२३९॥ ते इति । ते पूर्वोक्ताः मीमांसाशास्त्रेण, अत्र शास्त्रशब्दस्तज्ज्ञानपरः तेन मीमांसाशास्त्रज्ञानेनेत्यर्थः । लोके प्रसिद्धाः, पक्षे ते अमी किरातादयः मांसाशैः मांसभक्षकैर्जनैः अस्त्रैः बाणादिभिश्च सहिताः लोके प्रसिद्धाः इति च, सर्वर्षीणां व्यास-वसिष्ठादीनां सत्तां स्थितिं नैव सेहिरे नैव मर्षितवन्तः । तेषां कर्मानभिमानपूर्वकपरमा १ 'वीश्वरं'. For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णनम् ४८] पदार्थचन्द्रिकाटीकासहिता। २९७ - वि०-सखे ! निखिलनिगमार्थनिर्धारणबद्धादरेषु मीमांसकेषु. मा म सन्नह्येथाः ॥ २४० ॥ शृणुआदौ धर्मे प्रमाणं विविधविधिभिदां शेषतां च प्रयुक्तिम् __ पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहम् ॥ बाधं तन्त्रं प्रसङ्गं नयनयनशतैः सम्यगालोचयद्भयो भिन्ना मीमांसकेभ्यो विदधति ? भुवि के सादरं वेदरक्षाम् ॥५६३॥ स्मैकचित्तत्वात् । यतः, एते मीमांसकाः नश्वरं विनाशशीलं विश्वं मन्यमानाः सत्यत. याङ्गीकुर्वाणाः सन्तः, क्वचित् 'वीश्वरं' इति पाठः । तत्पक्षे विश्वं वीश्वरं ईश्वररहितमित्यर्थः । देवतानां अग्नीन्द्रादियज्ञियदेवानां चैतन्यस्य चिद्रूपत्वस्य अपह्नवं लोपं चक्रुः कृतवन्तः । अग्नीन्द्रादिदेवतानां विग्रहवत्त्वे युगपन्नानाकर्तृकयागेषूपस्थानासं. भवान्मन्त्राणामेव देवतारूपत्वाझीकारान्मन्त्राणां चाचेतनत्वादिति भावः ॥ ५६२ ॥ सख इति । निखिलानां निगमानां वेदानां अर्थस्य निर्धारणं नयसहस्रपुरस्कार• पूर्वकं निश्चयः तस्मिन् बद्धादरेषु कृतादरेषु मीमांसकेषु मा स्म संनयेथाः तान् दूषयितुं मोयुक्तो भव ॥ २४० ॥ प्रथमं तावन्मीमांसकानां वेदरक्षकत्वादतीव वन्द्यत्वमाह-आदाविति । आदौ द्वादशाध्यायघटितमीमांसाशास्त्रस्य प्रथमाध्याये धर्मे चोदनालक्षणेऽर्थे प्रमाणं "अग्निहोत्रं जुहोति, वसन्ते वसन्ते ज्योतिषा यजेत" इत्यादिचोदनारूपं, ततो द्वितीयाध्याये विविधाः अनेकप्रकारा ये विधयः चोदनाः तेषां भिदां भेदं, ततस्तृतीये, एवमग्रेऽप्युक्तं सर्वं प्रत्यध्यायं ज्ञेयम् । शेषतां अङ्गत्वं, प्रयुक्ति प्रयोज्यप्रयोजकभावं च, पौर्वापर्य पूर्वमिदं कर्म कर्तव्यं अनन्तरमिदमित्यादिक्रमः, अधिकारः फलखाम्यं च तौ, तदनु तदनन्तरं सप्तमाष्टमयोर्बहुविधमनेकप्रकार अतिदेशं प्रकृतितुल्यत्वं तथा ऊहं कर्मभेदे मन्त्रादिविनियोग-विपर्ययादित, बाधं उत्सर्गतः प्राप्तस्य अपवादं, तन्त्रं सकृदनुष्ठितस्याङ्गजातस्य खप्रयोजकानेकप्रधानोपकारकत्वं, प्रसङ्गं अ. न्यार्थानुष्ठिताजस्यान्येनोपजीवनं च एतान् सर्वान् नयाः तत्तदधिकरणप्रतिपादितयुक्तय एव नयनानि लोचनानि तेषां शतैः सम्यक् आलोचययोऽवलोकययः मी. मांसकेभ्यः भिन्नाः अन्ये भुवि के पण्डिताः सादरं श्रद्धया सहितं यथा तथा वेदस्य रक्षां तत्प्रतिपादितकर्मणां यथार्थनिर्णयरूपां विदधति कुर्वते ? प्रमाणादीनां यथार्थस्वरूपबोधने तावन्नान्ये मीमांसकेभ्यः शक्ता इति भावः ॥ ५६३ ॥ १ विशदमथ भिदाम्', 'प्रथितमथ भिदा', 'विविधदुरभिदा'. For Private And Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८ विश्वगुणादर्शचम्पू:- [ मीमांसक- पश्य तावद्भगवत इव जैमिनिमुनेः शासनं वैदिकैः सर्वैरप्यनतिकमणीयम् ॥ २४१॥ तथाहिनैयायिका वा ननु शाब्दिका वा त्रयीशिरस्सु श्रमशालिनो वा ॥ वादाहवे बिभ्रति जैमिनीयन्यायोपरोधे सति मौनमुद्राम् ॥ ५६४ ॥ यच्च मीमांसकेषु दोषोद्धाटनं तदज्ञानतः ॥ २४२ ॥ भगवदनभ्युपगमनं दैवतचैतन्यनिहवश्वैषाम् ॥ कर्मश्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव ॥ ५६५ ॥ - पुनरालोच्य सबहुमानम्.. आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे ॥ खामिनि जैमिनियोगिन्यपि रज्यति हृदयमसदीयमिदम् ॥ ५६६ ॥ पश्येति । भगवतः ईश्वरस्येव जैमिनिमुनेः मीमांसाशास्त्रप्रणेतुः शासनं शास्त्ररूपाज्ञां सर्वैरपि वैदिकैर्वेदविद्भिः अनतिक्रमणीयमनुल्लङ्घनीयम् ॥ २४१ ॥ - नैयायिका इति । नैयायिकास्तार्किकाः वाथवा शाब्दिकाः शब्दशास्त्रविदः वैयाकरणा इत्यर्थः । ननु वा किंवा त्रयीशिरस्सु उपनिषत्सु श्रमशालिनः अभ्यास. शीलिनश्च, वेदान्तिन इत्यर्थः । वादः परस्परपूर्वपक्षोत्तरपक्षरूपः एव आहवो युद्धं तस्मिन् जैमिनीयस्य मीमांसाशास्त्रस्य न्यायैः अधिकरणैः उपरोधे विरोधप्रदर्शने सति मौनमुद्रां बिभ्रति धारयन्ति । प्रमाणादीनां यथार्थावगमाभावान किमपि वक्तुं शक्नुवन्तीत्यर्थः ॥ ५६४ ॥ - यच्चेति । अत एव मीमांसकेषु यत् दोषाणां 'मीमांसकाः कतिचित्-' इत्यादिपद्यद्वयप्रतिपादितानां उद्घाटनमारोपणं कृतं तत् अज्ञानतः याथातथ्येन तत्वरूपानवगमादित्यर्थः ॥ २४२ ॥ • यदुक्तं 'ब्रह्मैव नाभ्युपगतः पुरुषोत्तमः' 'देवतानां चैतन्यस्यापहवं चक्रुः' इति दूषणद्वयं तदुद्धारार्थमाह-भगवदिति । एषां मीमांसकानां भगवतः परब्रह्मणः अनभ्युपगमनं अनजीकरणं दैवतानां चैतन्यस्य निहवः अपलापश्चेति द्वयं कर्मणि यज्ञादिरूपे श्रद्धायाः आस्तिक्यबुद्धेः वर्धकं यत् तस्य यज्ञादिकर्मणः प्राधान्यं मुख्यत्वं तस्य प्रदर्शनायैव, न तु वस्तुत इत्यर्थः ॥ ५६५ ॥ . आगमेति । आगमस्य वेदस्य रूपं विधि-अर्थवाद-मन्त्रविनियोगादिखरूपं विचारयति तच्छील: आगमरूपविचारी तस्मिन् , आगमैः “न जायते म्रियते वा विपश्चित् , अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः, तरति शोकमात्मवित् , तत्त्वमसि' इत्यादिश्रुतिवचनैः रूपं खकीयं अविनाशिल-सच्चिदानन्दा. १ 'तत्र तावदवधेहि'. 'तदापाततः'. For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ४९] पदार्थचन्द्रिकाटीकासहिता । २९९ किंच शबर-कुमारिल-गुरवो मण्डन-भवदेव-पार्थसारथयः ॥ अन्ये च विश्वमान्या जयन्ति संत्रायमाणतन्त्रास्ते ॥ ५६७ ॥ - अथ वैयाकरणवर्णनम् ४९. कृ०-अस्त्विति विमानमन्यतो गमयन् पार्श्वतो दृष्ट्वा सोपहासम्टिड्डाणञ्-द्वयसच्चुटू ङसिङसोस्तिप्-तस्-झि-सिप्-थस्-थ-मिब्– वस्-मस्-तानचि च ष्टुना ष्टुरत इञ् शश्छोऽट्यचोऽन्त्यादि टि ॥ लोपो व्योवलि वृद्धिरेचि यचि में दाधा घ्वदानाज्झला वित्येते दिवसान्नयन्ति कतिचिच्छब्दान् पठन्तः कटून् ॥५६८॥ त्मकत्व-मुक्तिप्रदत्वादिरूपं विचारयति सर्वत्र जगति संचारयतीति तस्मिन्निति च, अधिकरणानां शास्त्रीयनयानां, अधिकेन परपराभवसमर्थेन रणानां युद्धानां च सहस्रेण शिक्षिताः अध्यापिताः, दण्डिताश्च विपक्षाः शास्त्रान्तरीयपूर्वपक्षाः शत्रवश्व येन तस्मिन् , खामिनि वेदोक्तकर्मणां याथार्थ्यवेत्तृत्वात्सकलपण्डितानामधिपतौ जैमिनिनामके योगिन्यप्येव, अपिरवधारणार्थकः । पक्षे खामिनि भगवति, जैमिनियोगिनि चेत्यर्थः । अत्रापिः समुच्चायकः । इदमस्मदीयं मम हृदयं मनः रज्यति रमते ॥ ५६६ ॥ _ 'शबरादयो भगवद्भक्तानां विनिन्दनीयाः' इत्युक्तं निराकरोति-शबरेति । शबरः शबरखामी कुमारिल: गुरुः प्रभाकरश्च ते, मण्डनः मण्डनमिश्रश्च भवदेवः पार्थसारथिश्च ते, एते सर्वे मीमांसासूत्रभाष्य-वार्तिक-तयाख्यानादिकर्तारः । अन्ये ताताचार्य-अप्पयदीक्षितादयो बोध्याः । ते च सम्यक् त्रायमाणं रक्ष्यमाणं तन्त्रं मीमांसाशास्त्रं यैस्ते तथाभूताः सन्तः अत एव विश्वमान्याः सर्वलोकपूज्याः सन्तः जयन्ति सर्वोत्कर्षेण वर्तन्ते । सकलवैदिककर्मप्रवर्तकत्वात् अन्येभ्यस्तर्कादिशास्त्रविद्भ्योऽपि मीमांसका एव मान्या इति भावः ॥ ५६ ॥ टिडाणमिति । 'टिडाणञ् द्वयसच्' इति "टिडाणञ्-द्वयसज्-दन्नन्-मात्रच्तयपू-ठक-ठकञ्क्वरपः" इति पाणिनीयसूत्रैकदेशः, “चुटू" "डसि-ङसोः", "तिप्-तसू-झि" इत्यप्येकदेशः । “तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-ताताझ-थासाथां-ध्वमिड्-वहि-महिङ्” इति सूत्रस्य । “अनचि च" "टुना टुः" "अत इञ्" "शश्छोऽटि" "अचोऽन्त्यादि टि" ."लोपो व्योर्वलि" १ 'शबर-कुमारिल-गुरवो मण्डनयन् समुदहति सुदृशम् । वर्णादीनां धर्मान् बुद्धा विधिवत्प्रयुक्तेऽसौ'. (१) - - For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० विश्वगुणादर्शचम्पू:- [वैयाकरणझोऽन्तः शश्छोटि शेषो ध्यसखि ससजुषो रुविरामोऽवसानम् छे चेति व्यर्थवाचः सदसि यदि सतां शाब्दिकाश्चेद्बुधाः स्युः ।। किं तैरेवापराद्धं ? नट-विट-गणिकानृत्य-हस्त-प्रचारै स्तोधी तोधी तधीति त्तकिट तकिट धिक् ताहधिक् तत्तकारैः ५६९ किंचसूत्रैः पाणिनिकीर्तितैर्बहुतरैर्निष्पाद्य शब्दावलिम् वैकुण्ठस्तवमक्षमा रचयितुं मियाश्रमाः शाब्दिकाः ॥ पक्त्वान्नं महता श्रमेण विविधापूपाग्र्यसूपान्वितम् मन्दाग्नीननुरुन्धते मितबलानाघ्रातुमप्यक्षमान् ॥ ५७० ॥ "वृद्धिरेचि" "यचि भम्" "दाधा वदाप्" "नाज्झलौ" इत्युक्तप्रकारान् एते वैयाकरणाः कतिचित् कटून् कठोरत्वात् श्रवणानर्हान् शब्दान् पठन्तः सन्तः दिवसान् नयन्ति गमयन्ति ॥ ५६८ ॥ झोन्त इति । "झोन्तः" "शश्छोऽटि" "शेषो ध्यसखि" "ससजुषोरुः" "विरामोऽवसानम्" "छे च” इत्युक्तप्रकारेण व्यर्था निष्फला वाचो येषां ते शाब्दिकाः वैयाकरणाः सतां पण्डितानां सदसि यदि बुधाः पण्डिताः स्युः, तर्हि तैः प्रसिद्धः नटाः नाट्यकर्तारश्च विटाः जाराश्च गणिका वेश्याश्च तेषां नृत्यं हस्ता हस्तविक्षेपाः प्रचाराः पादविक्षेपाश्च तैः, नटानां नृत्यं, विटानां हस्ताः, गणिकानां पादविक्षेपाश्चेति क्रमेण बोध्यम् । तथा तोश्री तोधीलादिमृदङ्गादिवाद्यशब्दैः किमपराद्धम् ? नृत्यादिकर्तारोऽपि पण्डिताः कुतो न भवेयुरिति प्रश्नाभिप्रायः ॥ ५६९ ॥ सूत्रैरिति । पाणिनिना मुनिना कीर्तितः रचितैः बहुतरैः अष्टाध्यायपरिमितैः सूत्रः सुप्-तिङ्-कृत्-तद्धितादिप्रत्ययविधायकैः “ड्याप्प्रातिपदिकात्" "ल: कर्मणि च-" "तिप्-तसू-झि-" "कर्तरि कृत्" 'तस्यापत्यम्" "अत इञ्" इत्यादिभिः शब्दानां, अत्र शब्दपदं सुप्तिकुभयसाधारणम् । राम-कृष्ण-मुकुन्दादीनां, भवति, एधते, नौमि, स्तौमि, इत्यादितिङन्तानां, वासुदेव-राघवप्रभृतीनां च आवलिं पहिं निष्पाद्य साधयित्वा, वैकुण्ठस्य भगवतो विष्णोः स्तवं स्तुतिं रचयितुं गद्य-पद्यादिचमत्कृतिजनकवचनैः कर्तुं अक्षमाः असमर्थाः, प्रकृति-प्रत्ययसंयोजनेन शब्दसिद्धिज्ञानेऽपि सम्यक् तदर्थानवगमादिति भावः । अत एव मिथ्या व्यर्थ एव श्रमोऽभ्यासो येषां ते तथाभूताः शाब्दिकाः शब्दशास्त्रविदः वैयाकरणा इत्यर्थः । सन्तीति शेषः । एतदेवोपमानेन स्पष्टयति--विविधाः नानाविधाः ये अपूपाः गोधूमादिपिष्टनिर्मिता भक्ष्यपदार्थाः तैः अयं श्रेष्टं सूपादिभिरन्वितं युक्तं च अनं १ अयं लोको मुद्रितपुस्तके एव दृश्यते, अन्यत्रानुपलम्भात् प्रक्षिप्त इति भाति । २ विन्ध्य श्रमाः'. For Private And Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृतदुरितारे कनिष्ठिकाया चापि नयेऽवगाह || -वर्णनम् ४९] पदार्थचन्द्रिकाटीकासहिता । ३०१ वि०-मह्याभरणेषु वैयाकरणेषु भवान् मा म कलयतु दोषशकलम् ॥ २४३ ॥ यतःकृतदुरितनिराकरणं व्याकरणं चतुरधीरधीयानः ।। बुधजनगणनावसरे कनिष्ठिकायां परं जयति ॥ ५७१ ॥ पातञ्जले विष्णुपदापगायाः पातं जले चापि नैयेऽवगाहम् ।। आचक्षते शुद्धिदाँ प्रसूतेरा च क्षते रागमधोक्षजे च ॥ ५७२ ।। अपि चनृणामनभ्यस्तफणाभृदीशगिरां दुरापा बुधराजगोष्ठी ॥ अबुद्धचापश्रुतिपद्धतीनां युद्धक्षमेवोढ़तयोद्धृसार्था ॥ ५७३ ॥ महता श्रमेण प्रयत्नेन पक्त्वा निर्माय मितं अल्पं बलं येषां तान् अत एव मन्दः अग्निर्जाठरो येषां तान् अत एव च आघ्रातुं गन्धोपादानं कर्तुमपि, किमुत भोक्तुं, अक्षमान् असमर्थान् जनान् अनुरुन्धते अनुसरन्ति । तत्तुल्या इत्यर्थः ॥ ५७० ॥ महीति । मह्याः पृथिव्याः आभरणेषु भूषणरूपेषु वैयाकरणेषु भवान् दोषस्य शकलं खण्डमपि, किमुत संपूर्ण दोषं, मा स्म कलयतु ॥ २४३ ॥ मह्याभरणत्वमेवाह-कृतेति । कृतं दुरितानां पापानां निराकरणं निवारणं येन तत्तथोक्तं, वेदाङ्गत्वादिति भावः । तदुक्तम् पाणिनीयशिक्षायाम्-"शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।" इति । अत एव भगवान् पतञ्जलिरपि महाभाष्ये आह-"रक्षोहागमलध्वसंदेहाः प्रयोजनम्, एकः शब्दः सम्यग्ज्ञातः सम्यक् प्रयुक्तः खर्गे लोके कामधुग् भवति" इति । व्याकरणं शास्त्रं चतुरा धीर्बुद्विर्यस्य सः पुरुषः अधीयान: अभ्यस्यन् सन् , हेतौ शतृप्रत्ययः । बुधजनानां पण्डितजनानां गणनावसरे संख्यानसमये कनिष्ठिकायां परमत्यन्तं जयति सर्वोत्कर्षण वर्तते । अङ्गुलिभिः पण्डितगणने प्रथमं वैयाकरण एव गण्यते पश्चात् नैयायिका दय इति भावः ॥ ५७१॥ पातअल इति । पतजले: एतन्नामकमुनेः शेषावतारस्य अयं पातजलस्तस्मिन् , तेन रचिते इत्यर्थः । नये व्याकरणमहागाध्यरूपे शास्त्रे पातं प्रवेशं अभ्यासमित्यर्थः । तथा विष्णुपदापगायाः गङ्गायाः जले चापि अवगाहं स्नानं, अधोक्षजे भगवति विष्णौ च राग भक्तिं च आ प्रसूतेः जन्मारभ्य आ क्षतेर्मरणपर्यन्तं च शुद्धिं क्रमेण वाचिकी शारीरी मानसीं च पवित्रतां ददाति समर्पयतीति तथाभूतं आचक्षते कथयन्ति । पण्डिता इति शेषः ॥ ५७२ ॥ किंच नृणामिति । अनभ्यस्ता अनधीता फणाभृतां सर्पाणां ईशस्य शेषाव १ 'त्रय्या'. २ 'कनिष्ठिकामेव चैष रअयति'. ३ 'च'. ४ 'शुद्धिमथा प्रसूते'. ५ रित्थमधोक्षजे च'. ६ वोचतयोधसार्था'. For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: [वैयाकरण माहिनाङ्गीकृतव्याकरणौषधानामपाटवं वाचि सुगाढमास्ते ॥ कस्मिंश्चिदुक्ते तु पदे कथंचित्खैरं वपुः विद्यति वेपते च ॥५७४॥ कृ०-साक्षेपम् कथं सखे ! शतकोटिपाणिनिगदितादपि पाणिनिगदितमेव व्याकरणमौद्रियन्ते सन्तः ? ॥ २४४ ॥ वि०-पाणिनीयमेव हि व्याकरणं प्रयोगौपयिकं प्रविशदप्रतीतिकारणमिति तत्रैवादरः पण्डितानाम् ॥ २४५ ॥ तारस्य पतञ्जले: गीर्भाष्यरूपा वाणी यैस्तेषां नृणां पण्डितजनानां बुधराजानां पण्डितश्रेष्ठानां गोष्टी सभा दुरापा दुष्प्रवेशा भवति । कथमिव । अबुद्धा मझाता चापश्रुतेर्धनुर्वेदस्य पद्धतिर्मार्गो यैस्तेषां उद्धतः यो मुद्युक्तः योद्धृणां योधानां सार्थः समूहो यस्यां सा युद्धस्य समरस्य क्षमेव भूमिरिव ॥ ५७३ ॥ एतदेव स्पष्टयति-नाङ्गीकृतेति । नाङ्गीकृतं दृढाभ्यासेन न स्वीकृतं व्याक रणमेवौषधं यैस्तेषां जनानां वाचि वाण्यां अपाटवं वक्तृत्वाभावरूपमकौशलं सुगाढं दृढतरं आस्ते वर्तते । ततश्च केनचित् पण्डितेनेति शेषः । कथंचित् , न तु सम्यक् प्रकृति-प्रत्ययादिज्ञानयुक्तं कस्मिंश्चित् पदे सुप्तिङन्तादिरूपे, उक्ते सति खैर खच्छ. न्दं यथा तथा वपुः शरीरं खिद्यति धर्मयुक्तं भवति । वेपते कम्पते च । व्याकरगज्ञानाभावात् सुप्तिङन्तपदानां याथार्थ्यानवगमादिति भावः ॥ ५७४ ॥ कथमिति । हे सखे ! शतकोटिर्वजं "शतकोटिः खरुः शम्बो दम्भोलिर. शनियोः ।" इत्यमरः । पाणौ हस्ते यस्य सः तेन, इन्द्रेणेत्यर्थः । एतदुपलक्षणम् । तेन चन्द्र-काशकृत्स्नादयोऽपि व्याकरणप्रणेतारो ज्ञेयाः । निगदितात्प्रोकादपि पाणिनिना मुनिना एकेनैव गदितं प्रोक्तं व्याकरणं अष्टाध्यायपरिमितसूत्रपाठरूपमेव, सन्तः पण्डिताः कथं आद्रियन्ते सत्कुर्वन्ति ? ॥ २४४ ॥ . पाणिनीयमिति | हि यस्मात्कारणात् पाणिनेरिदं तत्प्रणीतमित्यर्थः । व्या. करणमेव प्रयोगाणां वैदिक-लौकिकानां औपयिकं यथायुक्तं प्रकृति-प्रत्ययादियो. जनेन साधकतयोपयोगि, अत एव प्रकर्षेण विशदायां निर्मलायां प्रतीतौ ज्ञाने कारणं भवति । एतस्मिन् ज्ञाते कस्मिंश्चिदपि प्रयोगसाधने न व्याकरणान्तरस्यापे. क्षेति भावः । इति हेतोः पण्डितानां तत्र पाणिनीयव्याकरण एवादरः सत्कारः २४५ १ अस्वीकृत'. २ 'आद्रियते' इत्येव क्वचिदृश्यते. ३ 'प्रायेणानौपाधिक'. For Private And Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०३ वर्णनम् ५०] पदार्थचन्द्रिकाटीकासहिता। तथाहिसूत्रं पाणिनिबद्धं कण्ठे कलयन् समुद्रहति सुदृशम् ॥ वर्णादीनां धर्मान्बुद्धा विधिवअँधः प्रयुङ्क्तेऽसौ ॥ ५७५ ॥ अथ वैदिकवर्णनम् ५०. कृ०-अस्त्विति विमानमन्यतश्चालयन् पुरोऽवलोक्यसखे ! पश्य छान्दसानर्थचापलेन विक्रीयमाणाम्नायान् ॥ २४६ ॥ आः कष्टमपहृष्टाः शिष्टा अपि वित्तचापलाविष्टाः ॥ अध्यापयन्ति वेदानादाय चिराय मासि मासि भृतिम् ॥ ५७६ ॥ वि०-वयस्य मैवं वादीः ॥ २४७ ॥ नाध्यापयिष्यन् निगमान् श्रमेणोपाध्यायलोका यदि शिष्यवर्गान् ॥ निर्वेदवादं किल निर्वितानमुर्वीतलं हन्त ! तदाभविष्यत् ॥ ५७७ ॥ सूत्रमिति । पाणिना हस्तेन निबद्धं त्रिसूत्र्यादिकरणेन निर्मितं, पाणिनिना ऋषिणा बद्धं विरचितं च सूत्रं, यज्ञोपवीतरूपं ग्रन्थरूपं च कण्ठे गले, मुखे च कल. यन् उपनयनविधिना, उच्चारणरूपेण च धारयन् सन् , अत्रोभयार्थेऽपि "लक्षणहेत्वो:-" इत्यादिना हेतौ शतृप्रत्ययः । तेन सूत्रस्य यथाविधिधारणाद्धेतोरित्यर्थः । अन्यथाऽधिकाराभावात् । सुदृशं स्त्रियं, सुष्टु ज्ञानं च, अत्र दृशिर्ज्ञानार्थकः । समुद्वहति पाणिग्रहणविधिना स्वीकरोति, प्राप्नोति च । ततः असौ बुधः पण्डितः वर्णादीना, ब्राह्मणादीनां आदिशब्देन ब्रह्मचर्याद्याश्रमग्रहणम् । अक्षरादीनां च, अ. त्रादिपदेन शब्दादिग्रहः । धर्मान् अध्ययनाध्यापनादीन् ह्रख-दीर्घ-पुंल्लिङ्ग-स्त्रीलिङ्गादींश्च बुड्डा ज्ञात्वा विधिवद्यथाविधि प्रयुके आचरति, उच्चारयति च ॥ ५७५॥ सख इति । छान्दसान् केवलं वेदमन्त्रपाठकान् , न त्वर्थज्ञान् अर्थचापलेन द्रव्यलोभेन विक्रीयमाणाः मासिकादिवेतनग्रह्णन अध्याप्यमानाः आनायाः वेदा यैस्तान् पश्य ॥ २४७ ॥ एतदेव प्रपञ्चयति-आ इति । वित्तचापलेन धनलोभेन आविष्टाः कृतप्रवेशाः, धनार्जनलालसायुक्ता इत्यर्थः । अत एव अप्रहृष्टाः संतोषरहिताः शिष्टा अपि वैदिकाः मासि मासि प्रतिमासं भृतिं वेतनमादाय चिराय संततं वेदान् अध्यापयन्ति शिक्षयन्ति । आः कष्टमिति खेदे ॥ ५४६ ॥ - नाध्यापयिष्यन्निति । उपाध्यायलोकाः अध्यापकजनाः शिष्यवर्गान् निगमान् वेदान् श्रमेण खोदरनिर्वाहार्थभृतिग्रहणयत्नेन यदि नाध्यापयिष्यन् नाशिक्षयि १ कचित् 'कण्ठे' इति पदं न दृश्यते. २ 'धनचापलेन'. For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू:- [राजसेवकविरुद्धमिदं भाषितं यद्वेदापाये सति न यज्ञाभ्युदयः स्यादिति ।। वि०-अवगच्छ तावदेतदविरुद्धमेव ॥ २४९ ॥ नाम्नायज्ञो मखे यस्मिन् यजमानतया स्थितः ॥ तत्समागमतः सोऽपि नाम्ना यज्ञो भवेन्न किम् ? ॥ ५७८ ॥ अथ राजसेवकवर्णनम् ५१. कृ०-पुनरन्यतो दृष्ट्वा सोपहासम्पश्यैतान् राजसेविनः परित्यक्तलोकद्वयसौख्यान् स्पष्टमान् पुरुषान् ॥ २५० ॥ ध्यन् , तर्हि तदा उर्वीतलं भूतलं निर्वेदवादं वेदपाठरहितं अत एव च निर्वितानं यज्ञरहितं "ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके।" इत्यमरः । अभविष्यत् किल । अत्र “लिङ्गिमित्ते लुङ् क्रियातिपत्तौ' इत्यनुवर्तमाने "भूते च" इति कियाया अनिष्पत्तिरूपेऽर्थे लङ् । हन्तेति खेदे । “वेदा हि यज्ञार्थमभिप्रवृत्ताः" इत्यादिवचनप्रामाण्याद्वेदानां यज्ञार्थत्वात्तदभावे यज्ञानामध्यभावः ततश्च भूमौ अन्नाद्यनुत्पत्तेरतीव हानिः स्यादिति भावः । तदुक्तम्-"यज्ञाद्भवति पर्जन्यः पर्जन्यादन्नसंभवः।” इति । एतदभिप्रायमेव भगवानप्याह गीतायाम्-"सहयज्ञाः प्रजाः सृष्टवा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ।” इति ॥ २४८ ।। विरुद्धमिति । वेदानां अपाये नाशे सति यज्ञानां अभ्युदयः उत्पत्तिः यथावि. ध्यनुष्ठानमित्यर्थः । न स्यादिति यत् इदं विरुद्धं भाषितं कथितम् । स्मृत्यादावपि तद्विधानादिति भावः ॥ २४८ ॥ अवगच्छेति । एतत् वेदाध्यापनाभावे निर्वेदवादं निर्वितानं भूतलमित्याद्यस्मत्प्रतिपादितमेव अविरुद्धं यथाथै, तत्पुनरिति शेषः । अवगच्छ जानीहि ॥२४९॥ नाम्नेति । यस्मिन् मखे यज्ञे आम्नायज्ञः वेदवित् यजमानतया यष्ट्ररूपेण स्थितः न भवेत् , तस्यावेदज्ञयजमानस्य समागमतः संसर्गाद्धेतोः सः यज्ञोऽपि न विद्यते आम्नायज्ञो वेदवेत्ता यस्मिन् तथाभूतः वेदविद्यजमानरहित इत्यर्थः । अथवा स यज्ञः नाना संज्ञामात्रेणैव, न तु विधिना, वेदमन्त्रपाठाभावात् । न भवेत् किम् ? अपि तु भवेदेवेति कृत्वा जगतो निर्वेदवादत्वेऽतीव महती हानिः स्यादिति भावः ॥ ५७८ ॥ पश्यति । परित्यक्तं लोकद्वय स्य ऐहिकामुष्मिकरूपस्य, तत्र यथाविधि कर्मानुष्ठानाभावात्परलोकस्य सततराजकार्यपरत्वाद्यथाकालं भोजन-सुखनिद्राद्यभावादितरलोकोपयोगाभावात्तत्तिरस्कारभाजनत्वाचास्यापि लोकस्येति बोध्यम् । सौख्यं यैस्तान् अत एव स्पष्टं अभिव्यक्तं मौख्य मूर्खत्वं येषां तान् राजसे विनः पुरुषान् पश्य २५० For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ५१] पदार्थचन्द्रिकाटीकासहिता । नैषां संध्याविधिरविकलो नाच्युतार्चाऽपि साङ्गा न स्वे काले हवननियमो नापि वेदार्थचिन्ता ॥ न क्षुद्वेलानियतमशनं नापि निद्रावकाशो न द्वौ लोकावपि तनुभृतां राजसेवापराणाम् ॥ ५७९ ॥ वि०-दुस्सहैषा बहुजनपोषकाणामेषां निन्दा ॥ २५१ ॥ अशुभपुषि कलावप्यप्रमत्ताः खधर्मा दनुदिनमुपकारानाचरन्तो बुधानाम् ॥ बहुजनपरिपुष्टौ बद्धदीक्षास्त एते तनुसुखमपि हित्वा तन्वते राजसेवाम् ॥ ५८० ॥ एतदेव स्पष्टमाह-नैषामिति । एषां राजसेवापराणां जनानां संध्यायाः विधिरनुष्टानं अविकल: यथोक्तः न भवति, एषामिति प्रतिवाक्यं योजनीयम् । अच्युतस्य भगवतो विष्णोः अर्चा पूजापि साङ्गा संपूर्णा न भवति । एतेन संध्या-पूजादिकं यद्यपि एतैः कृतं तथापि तन्मनःपूर्वकं यथाविधि न भवति, किंतु कथमपि केवलमाचमनादिमात्रेण गन्ध-पुष्पादिमात्रसमर्पणेन चेति बोध्यम् । तथा स्वे प्रातमध्याह्नादिशास्त्र. विहिते काले हवनस्य औपासन-वैश्वदेवादेर्नित्यमागन्तुसाधनस्य कर्मणः नियमः नियताचरणरूपः "नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् ।" इत्यमरः । न भवति । वेदस्य अर्थचिन्ता अभिधेयविचारोऽपि न भवति । एतावता पारलौकिकसौख्याभावमुक्त्वा ऐहलौकिकमाह-नेति । क्षुधः बुभुक्षायाः वेलायां नियतं सम्यक्पाचितं उदरपूर्तिपर्याप्तं वा अशनं भोजनं न, तथा भोजनोत्तरं निशायां वा निद्रायाः अवकाशः अवधिः निश्चिन्ततया प्रातःकालपर्यन्तः कालो वा न अस्ति । एवं राज्ञः सेवापराणां तनुभृतां जनानां द्वौ लोकावपि द्वयोर्लोकयोरपि सौख्ये इत्यर्थः । न भवतः ॥५७९॥ दुःसहेति । बहुजनानां पोषकाणां यथोक्ततया तत्कार्यकरणादित्यर्थः । एषां राजसेवकानामेषा त्वत्कृता निन्दा दुःसहा श्रोतुमशक्या ॥ २५१ ॥ अशुभेति । अशुभानि पापसंपादकानि कर्माणि पुष्णाति वर्धयतीति तत्पुषि कलौ युगेऽपि स्वधर्मात् खाचारात् अप्रमत्ताः खाचारे सावधानाः सन्त इत्यर्थः । बहूनां स्वकीयानां जनानां परिपुष्टौ परिपोषणे बद्धा स्वीकृता दीक्षा व्रतं यैस्ते एते राजसेवकाः अनुदिनं प्रतिदिनं बुधानां पण्डितानां उपकारान् आचरन्तः कुर्वन्तः सन्तः, तनुसुखं शरीरसुखं यथाकालं पर्याप्तभोजन-निद्रादिरूपमपि हित्वा त्यक्त्वा राज्ञः सेवां तन्वते कुर्वन्ति । यथाकालं भोजन-निदाद्यसेवनं संध्या-पूजाद्यनाचरणं चापि लोकोपकारार्थमेव ततश्वोत्तमलोकप्राप्तिरत्रापि मानश्चेति द्वयमपि सिध्यतीति भावः ॥ ५८० ॥ १ भवति सकला'. For Private And Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६ विश्वगुणादर्शचम्पू:- [दिव्यक्षेत्रादिअथ दिव्यक्षेत्रादिवर्णनोपसंहारः ५२. सर्वाणि दिव्यक्षेत्राण्यवलोक्य साञ्जलिबन्धं कृशानुमुद्दिश्य गङ्गाझरीपरिचितानि जगन्निदानम् __रङ्गादिधामसु चिरात्कृतसन्निधानं ।। विश्वं खतो विशदमेव विलोकमानं वन्दख वस्तु वरदार्तिहराभिधानम् ॥ ५८१ ॥ कृ०-नन्वत्र तृतीयचरणार्थो न मह्यं रोचते ॥ २५२ ॥ विलोचने विभोर्यस्य विख्याते पुष्पवत्तया ॥ साक्षात्कर्तुं स्फुटं सर्व स शक्नोति ? कथं हरिः ॥ ५८२ ॥ गङ्गेति । गङ्गायाः झर्या प्रवाहेण परिचितौ समाश्रितौ अङ्गी चरणौ यस्य तत्, पक्षे गङ्गाझा परिचिता सततनिवासरूपेणाश्रिताः अङ्ग्रयः शिफा इव अङ्ग्यः जटा इत्यर्थः । यस्य तत् इति च, जगतो विश्वस्य निदानमादिकारणं उत्पादकमिति यावत् । अत एव विश्वं वसृष्टं निखिलं जगत् स्वत एव विशदं सुप्रसन्नं यथा भवति तथा विलोकमानं रङ्गादिधामसु श्रीरङ्ग-द्वारावती-जम्बूकेश्वरप्रभृतिषु पुण्यक्षेत्रेषु चिरात् बहुकालपर्यन्तं कृतं संनिधानं सामीप्यं येन तथाभूतं अत एव वरदानि इच्छितफलप्रदानि आर्तिहराणि तापत्रयादिपीडापरिहराणि च अभिधानानि हरि. श्रीकृष्ण-हरशिव-साम्बादीनि नामानि यस्य तत् वसति निखिलप्राणिनां मनसि इति वस्तु निखिलप्राणिमात्रान्तर्यामिरूपमिति यावत् । 'वस निवासे' इति धातोः “वसे. स्तुन्" इत्यौणादिकस्तुन् प्रत्ययः । परमात्मरूपं वन्दख अभिवादय । हे कृशानो! त्वमिति शेषः ॥ ५८१ ॥ अत्रेति । अत्र श्लोके तृतीयचरणस्य 'विश्वं खतः' इत्यादेः अर्थः खत एवं जगदवलोकनकर्तृत्वरूपः मह्यं न रोचते ॥ २५२ ॥ विलोचन इति । यस्य विभोः प्रभोः विलोचने द्वे नेत्रे, अत्र द्विवचनेन तृतीयनेत्राभावः सूचितः । पुष्पं तदाकारो दृष्टिप्रतिबन्धकरः कनीनिकायां जायमानो रोगविशेषः अस्ति ययोस्ते तयोर्भावस्तत्ता तया, "पुष्पं विकास आर्तवे । धनदस्य विमाने च कुसुमे नेत्ररुज्यपि ।” इति हैमः । पुष्पवन्तौ चन्द्र-सूर्यौ तद्रूपेण चेति । विख्याते प्रसिद्ध स्तः । स हरिः विष्णुः, न तु हरः, तस्य तृतीयलोचनस्य विद्यमानखादित्यर्थः । सर्वं विश्वं साक्षात् प्रत्यक्षं स्फुटं कर्तुं स्पष्टतया द्रष्टुं कथं शक्नोति समर्थो भवति ? वस्तुतस्तु 'विलोचने विख्याते पुष्पवत्तया' इत्युपलक्षणम् । तेन श्रोत्रे दिशः, पादौ भूमिः, उदरमाकाशः, इत्यादि यथायथमूह्यम् । तेन च विश्वव्यापकतोक्ता । ततश्च य एवं तद्रूपतया व्यापकः स हरिः स्वस्मात् विश्वं पृथक् द्रष्टुं कथं शक्नोतीति प्रश्नाभिप्रायः ॥ ५८२ ॥ For Private And Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनोपसंहारः ५२ ] पदार्थचन्द्रिकाटीकासहिता । ३०७ वि०-सूर्यचन्द्रलोचनतया सचमत्कारं चक्रधरं स्तुवानीय तुभ्यं न कुप्यामि । शृणु तावदिदम् ॥ २५३ ॥ श्रेयस्तोयदसंप्रदायरसिकच्छायः सहायः श्रिय श्चिन्तारत्नसपत्नवीक्षितलवश्चक्रीयतामायतम् ॥ यो विश्वेन हि गात्रवान् हिमरुचाप्युष्णांशुना नेत्रवान् सुग्रीवेण च मित्रवान् कुश-लव-ब्रह्मादिभिः पुत्रवान् ५८३ सखे ! संक्षिप्य वक्ष्यमाणं सारभूतमिममर्थ गृहाण ॥ २५४ ॥ सूर्य-चन्द्रेति । सूर्य-चन्द्रलोचनतया तद्रूपेणेत्यर्थः । सचमत्कारं अर्थद्वयबोधकशब्दप्रयोगसहितं यथा तथा चक्रधरं विष्णुं स्तुवानाय तस्य स्तुतिं कुर्वते तुभ्यं न कुप्यामि । "क्रुध-द्रुह-" इत्यादिना चतुर्थी । वस्तुतो दूषणाभावादित्यर्थः ॥२५३॥ श्रेय इति । तोयदस्य मेघस्य संप्रदायः रीतिः वर्णरूप इत्यर्थः । तस्मिन् रसिका छाया कान्तिर्यस्य सः, पक्षे तोदयानां संप्रदायो मार्गः व्योमरूपः स एव रसिकाः स्निग्धाः छाया इव छायाः केशाः यस्य सः भगवान् व्योमकेशः शिव इत्यर्थः । श्रियः लक्ष्म्याः , अणिमाद्यष्टविधैश्वर्यस्य च "लक्ष्मी-सरखती-धा (?) त्रिवर्गसंपद्-विभूति-शोभासु । उपकरणवेशरचनाविधानेषु च श्रीरिति प्रथिता।" इति व्याडिः । सहायः पतिः, पोषकश्च अत एव चिन्तारत्नं चिन्तामणिः तस्य सपत्नः सदृशः वीक्षितस्य अवलोकनस्य लवः लेशः कटाक्ष इत्यर्थः । यस्य सः भक्तभ्य इष्टफलप्रद इत्यर्थः । आयतं विस्तृतं श्रेयः चेक्रीयतां भृशं करोतु । करोतेयडि "रीङ् ऋतः" इति रीङादेशः । कथंभूतः सः । यः प्रभुः विश्वेन गात्रवान् देहवान् “आत्मा वा इदमेक एवाग्र आसीत्" “स भूमि विश्वतो वृत्वाऽत्यतिष्ठदशाङ्गुलम् । पुरुष एवेदं सर्वे” इत्यादिश्रुतिभ्यः । हिरवधारणार्थकः । हिमा शीतला रुक् कान्तिर्यस्य सः तेन चन्द्रेण, अपिः समुचायकः । उष्णाः अंशवः किरणाः, ज्वालाश्च यस्य तेन सूर्येण, अग्निना चापि नेत्रवान चन्द्रसूर्यनेत्रो विष्णुः, अग्निनेत्रः शिवश्चेत्यर्थः । सुप्रीवेण एतनामकवानरेण मित्रवान् स्नेहसंपादकः, रामावतारे इत्यर्थः । कुशः लवश्व, एतौ रामावतारोत्पन्नौ । ब्रह्मा च ते आदयः मुख्याः येषु इन्द्रादिषु तैः, पक्षे कुशलं कल्याणं वान्ति प्राप्नुवन्तीति कुशलवाः अखण्डकल्याणसंपन्ना इत्यर्थः । ये ब्रह्मादयः आदिशब्देन विष्णु-शकादिग्रहणम् । तैश्च पुत्रवान् पुत्रयुक्तः। एतादृशमहासामर्थ्यसंपन्नः शिवो विष्णुश्चेति बोध्यम् ॥ ५८३ ॥ सख इति । संक्षिप्य सर्वमप्येकीकृत्य अत एव सारभूतं वक्ष्यमाणं अनुपदमेव कथ्यमानं अर्थमभिधेयं गृहाण शृणु ॥ २५४ ॥ १ 'स्तुवते'. For Private And Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०८ विश्वगुणादर्शचम्पू: [ यामुनतीर्थाश्रमिणौ रामानुजमुनिर्मुकुन्दश्च ॥ आद्यं त्रिवेणुधरमधिकमन्यदन्ताद्यमेकवेणुधरम् ॥ ५८४ ॥ कटाक्षलहरी मुहुः कवलितामृतस्तोमया विलोचनयुगश्रियं (या) विवृतसर्वदानव्रतम् ॥ शुकादिभिरुपासितं शुभचरित्रभाजो जनाः समस्तभयवारणं शरणयन्ति नारायणम् ॥ ५८५ ॥ नाहं नापि च मत्सुतो न च सुरास्सर्वे अभी तत्त्वतो ध्यानादौ च सचेतसो मुनिगणा जानन्ति विष्णोः पदम् ॥ इन्धन्नाभिसरोजशायिपृथुलखास्तारमाकर्णयन् शेते पन्नगसार्वभौमशयने श्रीपद्मनाभः श्रिया ॥ ५८६ ॥ [ दिव्यक्षेत्रादि इतः परं ' यामुनतीर्थ - इत्यादयो द्वादश श्लोकाः अस्मत्संपादितादर्शपुस्तकेऽन्येषु पुस्तकेषु च नैवोपलभ्यन्ते । किन्तु अत्रत्यमुद्रितैकस्मिन् पुस्तके एव दृश्यन्ते । अत एव ते रामानुजीयमतपक्षपातिना केनचित्प्रक्षिप्ता एवेति भाति, तेषु कतिचिदतीव विसंबद्धाः पूर्वापरसंबन्ध र हिताश्च कतिचिच सुसंबद्धाः इति ये प्रतीतास्ते एवात्र मूले निवेशिताः यथामति व्याख्याताश्चापि -- यामुनेति यामुनतीर्थेन एतन्नामकगुरुणा प्रोक्तः उपदिष्ट इति यावत् । आश्रमः चतुर्थः संन्यासः अस्यास्तीति तदाश्रमी, यमुनैव यामुनं तच्च तत्तीर्थं च यामुनतीर्थं तत्र तत्संनिधावित्यर्थः । आश्रम : निवासः यस्यास्तीति तदाश्रमी तौ, एकः रामानुजमुनिः अन्यश्च मुकुन्दः श्रीकृष्णः । द्वयोस्तारतम्यमाह - आयं प्रथमं श्रीरामानुजरूपं त्रिवेणुधरं संन्यासाश्रमित्वात् त्रिदण्डधरं अत एव अधिकं अन्यस्मात् श्रेष्ठं, अन्यन्मुकुन्दात्मकं च एकस्यैव वेणोः वाद्यविशेषस्य धरं धारकं अत एव अन्तः लुप्तः आद्य इति शब्दो यस्मात् तथाभूतं पूर्वस्मान्न्यूनमित्यर्थः । वस्तुतस्तु अन्तः प्रलयः आद्यः सर्गश्च अर्थाज्जगतः तौ यस्मात् तत् एतदुपलक्षणं स्थितेरपि । तेन जगतः सर्ग-स्थितिलय कर मित्यर्थः ॥ ५८४ ॥ > कटाक्षेति । कटाक्षाणां अपाङ्गदर्शनानां लहरीभिः मुहुर्वारंवारं कवलितः प्रस्तः अमृतस्य स्तोमः निधिर्यया तया विलोचनयोर्नेत्रयोर्युगस्य द्वयस्य श्रिया विवृतं प्रकटीकृतं सर्वदानस्य भक्तेभ्यः सर्वस्वार्पणस्य व्रतं येन तं शुकादिभिः, आदिशब्देन नारद सनकादिमुनिग्रहणम् । मुनिभिः उपासितं सेवितं, समस्तानां सकलानां भयानां वारणं निवारणं यस्मात् तं नारायणं शुभानि कल्याणावहानि चरित्राणि भजन्तीति तद्भाजः सत्कर्मकर्तार इत्यर्थः । जनाः शरणयन्ति शरणं कुर्वन्ति, स्वरक्षकं ज्ञात्वा भजन्तीत्यर्थः ॥ ५८५ ॥ नाहमिति । इन्धत् दीप्तिमत् यन्नाभिसरोजं नाभिकमलं तस्मिन् शायिनः निवासिन: अर्थाद्ब्रह्मणः पृथुलं महान्तं उच्चैरुच्चारितमित्यर्थः । स्वास्तारं वेदमन्त्रयुक्तं For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - वर्णनोपसंहारः ५२] पदार्थचन्द्रिकाटीकासहिता । उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् ॥ शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् ||५८७|| कपर्दिमतकर्दमं कपिलकल्पनानाटकैः कुमारिल कुभाषितैर्गुरुनिबन्धनग्रन्थिभिः || ३०९ तथागतकथा शतैस्तदनुसारिजल्पैरपि प्रतारितमिदं जगत्प्रगुणितं यतीन्द्रोक्तिभिः ॥ ५८८ ॥ सावित्रान्वयसंभवेन भवता मुक्तश्शराशीविषः संवर्तोदितसप्तसप्त (प्ति)पटलीसब्रह्मचारी हठात् ॥ आखाद्य क्षितिजापहारिहृदयक्रीडारतं मारुतं तत्संतोष कथाभिधानकुतुकी मन्ये जगाहे महीम् ॥ ५८९ ॥ निजस्तवं आकर्णयन् शृण्वन् पन्नगसार्वभौमशयने श्रीशेषशयने श्रीपद्मनाभः विष्णुः श्रिया लक्ष्म्या सह शेते खपिति कीदृशं स्वास्तारं विष्णोर्भगवतः पदं अहं न जानामि, मम सुतः पुत्रोऽपि न जानाति, किंच अमी शकादयः सुरा देवा अपि न जानन्ति, किंतु ध्यानादौ तद्रूपैकतानचित्तवृत्त्यादौ आदिशब्देन धारणा-समाध्यादेग्रहणम् । सचेतसः सावधानान्तःकरणाः मुनिगणा एव तत्त्वतो जानन्तीति ॥ ५८६॥ उपवीतिनमिति । उपवीतिनं यज्ञोपवीतयुक्तं, रामानुजीय संप्रदाये संन्यासि - नामपि यज्ञोपवीत धारणविधानात् । ऊर्ध्वपुण्ड्रेण भाले ऊर्ध्ववर्तिगोपीचन्दनतिलकेन युक्तं त्रिजगतः त्रैलोक्यस्य पुण्यफलं मूर्तिमत्, त्रयो दण्डाः " वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥" इत्यनेन संन्यासिनो विहितास्ते हस्ते स्वाधीना यस्य सः तं शिखया शेखरिणं शिरोभूषणयुक्तं शरणागतानां सार्थवाहं धनिकं अभीष्टपूरकत्वात् । यतीनां संन्यासिनां पतिं श्रीरामानुजं ईडे स्तौमि । एतद्वर्णनेन श्रीरामानुजयतीनां शिखात्यागो नोक्त इति भाति ॥५७७॥ कपर्दीति । कपर्दिनः शिवस्य यन्मतं शैवागमप्रोक्तं जटा - कौपीना दिधारणरूपं यथाशास्त्राचारराहित्यादिकं च तेन कर्दमं कर्दमसदृशकालुष्ययुक्तं, एतद्वर्णनं केवलमेकदेशि पक्षपातयुक्तं तत्त्वविवेकशून्यं चेति ज्ञेयम् । कपिलस्य मुनेः कल्पना नाटकैः श्रुत्यादिप्रामाण्याङ्गीकारपूर्वकं केवलं मनः कल्पितलोकमोहकैः सांख्यशास्त्रवचनरूपैः, कुमारिलस्य मीमांसाशास्त्रप्रवर्तकस्य कुत्सितैर्भाषितैः, ईश्वरास्तित्वानङ्गीकारात् । अत एव गुरूणि महान्ति बन्धनानि पुनः पुनर्जन्म-मरणादिरूपाणि येभ्यस्तथाभूतैर्ग्रन्थिभिः तत्सदृशैरित्यर्थः । तथागतस्य बुद्धस्य " सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः” इत्यमरः । कथाशतैः, तदनुसारिणां बुद्धमतानुयायिनां जस्तैर्भाषणैश्चापि इदं जगत् प्रतारितं वञ्चितं, तत् यतीन्द्रस्य रामानुजस्य उक्तिभिः उपनिषद्भाष्यादिग्रन्थरूपाभिः प्रकर्षेण गुणितं व्यवस्थापितम् ॥ ५८८ ॥ सावित्रेति । हे राम ! इति शेषः । सवितुः सूर्यस्यायं सावित्रः स चासावन्वयो For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यक्षेत्रादि विश्वगुणादर्शचम्पू:- दलितदुरितजाले दन्दशूकेन्द्रशैले कवलितभवगन्धे कालिमा कश्चिदिन्धे ॥ कुवलयमुदहारी कुञ्जरेन्द्रोपकारी __ मुनिहृदयविहारी मुक्तसंतोषकारी ॥ ५९० ॥ ध्यातं योगिकलाविलासरसिकैः शीतं दयास्रोतसा __ ख्यातं मौलिषु कृत्रिमेतरगिरां वातंधयक्ष्माधरे ॥ जातं धाम पराकरोतु जगतामातङ्कमकरितम् वेतण्डेन्द्रविपद्विमोचनचणं क्रीतं रमाविभ्रमैः ॥ ५९१ ॥ वंशश्च तत्र संभव उत्पत्तिर्यस्य तेन भवता त्वया, दशाननवधेच्छयेति शेषः । शरो बाण एव आशीविषः सर्पः यो मुक्तः खशरासनात्प्रेरितः सः संवर्ते प्रलये "संवर्तः प्रलयः कल्पः" इत्यमरः । उदिता उदयं प्राप्ता ये सप्त सप्तसंख्याकाः सप्तयोऽश्वा येषां ते "घोटके वीति-तुरग-तुरङ्गाश्व-तुरङ्गमाः । वाजि-वाहार्व-गन्धर्व-हय-सैन्धव. सप्तयः।" इत्यमरः । सप्तसप्तयः सूर्याः तेषां पटली समुदायः तया सब्रह्मचारी सदृशः सन् , हठात् प्रसह्य क्षितिजापहारिणः सीतापहर्त रावणस्य हृदयक्रीडायां रत. मासक्तं मारुतं प्राणवायुं आखाद्य भक्षयित्वा, रावणप्राणमपहृत्येत्यर्थः । तेन रावण. हृत्स्थवाताखादनेन यः संतोषस्तस्माद्धेतोः कथाभिधानस्य श्रीरामचरितकथनस्य कुतुकं कौतुकं यस्यास्तीति तत्कुतुकी सन् , महीं पृथ्वी जगाहे लुलोड इति अहं मन्ये । स एवायं सांप्रतं रामानुजरूपेणावततारेति मन्ये इत्यर्थः ॥ ५८९ ॥ दलितेति । दलितं विनाशितं दुरितानां पापानां जालं समूहो येन तस्मिन् कवलितः भक्षितः विनाशित इति यावत् । भवस्य संसारस्य गन्धः संबन्धो येन तस्मिन् "गन्धो गन्धक आमोदे लेशे संबन्ध-गर्वयोः।” इति यादवः । दन्दशूके. न्द्रशैले शेषाद्रौ कुवलयानां कमलानां मुदं हरतीति यथाभूतः कुञ्जरेन्द्रोपकारी गजे. न्द्रोद्धारकः मुक्तानां संतोषं करोतीति तत्कारी अत एव मुनीनां मननशीलानां हृदयेऽन्तःकरणे विहर्तुं शीलं यस्येति तथाभूतः कश्चिदलौकिकः कालिमा नीलिमा श्रीनिवासरूपः इन्धे प्रकाशते ॥ ५९० ॥ ध्यातमिति । दयायाः स्रोतसा प्रवाहेण शीतं अत एव योगिनां कलानां ध्यान-धारणादीनां ये विलासा आनन्दास्तेषु रसिकैः, सततं योगाभ्यासासक्तचित्तैरित्यर्थः । ध्यातं कृत्रिमेतरगिरां वेदवाणीनां मौलिषु उपनिषत्सु ख्यातं प्रसिद्धं वेतण्डेन्द्रस्य गजेन्द्रस्य विपद्विमोचनेन ग्राहकृतदुःखनिवारणेन वित्तं ख्यातमिति तचणं "तेन वित्तः-" इति चणप् प्रत्ययः । रमाया लक्ष्म्याः विनमैर्विलासैः क्रीतं वशीकृतं वातंधयक्ष्माधरे शेषशैले जातमुत्पन्नं, वातंधयेत्यत्र “वातं-शुनी-तिल-" इत्यादिवार्तिकेन वातोपपदस्य धेटः खश् “अरुर्द्विषद्-" इत्यादिना मुमागमश्च । धाम तेजः अङ्कुरितमुत्पन्नं जगतां आतङ्क तापं "रुक्-ताप-शङ्काखातङ्कः” इत्यमरः । पराकरोतु दूरीकरोतु ॥ ५९१॥ For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनोपसंहारः ५२।५३ ] पदार्थचन्द्रिकाटीकासहिता। ३११ नराः सुरा वा पशवः परेऽपि वा न निन्दनीयाः पुरुषेण भूष्णुना ॥ यतोऽपि दोषप्रचुरे जगत्रये न सन्ति ते वीतगुणाः कलावपि ॥५९२॥ कु०-अभ्युपगम्यदाव्य गुणसमृद्धेर्दूषणभणितिः समस्तवस्तूनाम् ॥ अस्माभिरुपनिबद्धा सिद्धान्तस्येव पूर्वपक्षोक्तिः ॥ ५९३ ।। कवेर्वाक्यम् ५३. इति सकलजनानामीरयन्तौ शुभं तौ ___ मधुमथनपवित्रक्षेत्रसेवाकृतार्थौ ॥ अनुपथि दृढसख्यौ हन्त गन्धर्वमुख्यौ निजसदनमगातां निर्भरानन्दसान्द्रौ ॥ ५९४ ॥ नरा इति । भूष्णुना समअसेन भूधातो: "ग्ला-जि-स्थश्च ग्नुः" इति चकारात् ग्नुप्रत्ययः । “भूष्णुभविष्णुर्भविता वर्तिष्णुर्वर्तन: समौ ।" इत्यमरः । पुरुषेण नराः मनुष्याः, वा चकारार्थकः । सुरा देवाश्च, पशवः, परे पक्ष्यादयोऽपि च न निन्दनीयाः । यतो यस्मात् कारणात् दोषैः प्रचुरे बहुलेऽपि जगत्रये त्रैलोक्ये अस्मिन् कलियुगेऽपि ये वीताः गताः गुणाः येषां तथाभूताः जनाः ते सर्वेऽपि न सन्ति । किंतु केचिद्गुणयुक्ता अपि सन्तीत्यर्थः ॥ ५९२ ॥ अभीति । अभ्युपगम्य तदुक्तं सर्वमप्यङ्गीकृत्यदाायेति । अस्माभिः उपनिबद्धा आरोपिता दूषणानां भणितिर्भाषणं समस्तानां सर्वेषां वस्तूनां पदार्थानां गुणसमृद्धेः दाव्य दृढीकरणायैव भवति, न पस्तुतः । कथमिव । सिद्धान्तस्य कस्यापि शास्त्रीयप्रमेयस्य दृढीकरणाय पूर्वपक्षोकिरिव ॥ २९३ ॥ __ एवं कथनीयमुक्त्वोपसंहरति-इतीति । इत्येवंप्रकारेण सकलानां जनानां शुभं कल्याणं, क्वचित् 'खभावान्' इति पाठः । ईरयन्तौ कथयन्तौ अनुपथि प्रतिमार्गे मधोः एतनामकदैत्यस्य, मधुशब्दस्य वसन्तवाचकतया लक्षणया तन्मित्रस्य मदनस्य च मथनः विनाशकः विष्णुः शिवश्च तयोः पवित्राणि यानि क्षेत्राणि श्रीरा-वाराणस्वादीनि तेषां सेवया कृतार्थों दृढं सख्यं, मैत्री ययोस्तौ अत एव निर्भरानन्देन अतिशयहर्षेण सान्द्रौ परिपूर्णौ हन्तेत्यानन्दे । गन्धर्वाणां मुख्यौ कृशानु-विश्वावसू निजसदनं गन्धर्वलोकं अगातां जग्मतुः ॥ ५९४ ॥ १ यतोऽति'. २ 'आस्माकमुप'. ३ 'स्वभावान्'. For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शचम्पू: [ कवेर सकलकुशलसिथै सर्वदेवस्थलेषु व्रजतु भुवि विवृद्धिं वत्सराद्युत्सवश्रीः ।। अपगतभवरोगैरध्वराणां प्रयोगैः रखिलशुभकराणामस्तु भद्रं द्विजानाम् ॥ ५९५ ॥ जयतु जगति लक्ष्मणार्यपक्षो जयतु वचः श्रुतिमौलिदेशिकानाम् । जयतु निगमवर्त्म निःसपत्नम् जयतु चिराय च मूर्तिरञ्जनाद्रौ ॥ ५९६ ॥ प्रकाशदोषप्रचुरेप्यमुष्मिन् ग्रन्थे मदीये करुणानुबन्धात् ।। प्रसादवन्तो न कृशानवन्तु परन्तु विश्वावसवन्तु सन्तः ॥ ५९७ ॥ सकलेति । सर्वदेवानां विष्णु-शिवादीनां स्थलेषु वत्सराद्युत्सवानां वत्सरादितिथौ विहितानां ध्वजारोपणादीनां श्रीः शोभा सकलानां जनानां कुशलस्य कल्याणस्य सिद्ध्यै भुवि विवृद्धिं व्रजतु गच्छतु । तथा अपगतः भवरोगः संसाररोगः येभ्यस्तथाभूतैरध्वराणां यज्ञानां प्रयोगैरनुष्ठानैः अखिलस्य सर्वस्यापि जनस्य शुभकराणां कल्याणकराणां द्विजानां ब्राह्मणानां भद्रं कल्याणं अस्तु ॥ ५९५ ॥ - जयत्विति । जगति लक्ष्मणार्यस्य श्रीरामानुजस्य पक्षो विशिष्टाद्वैतरूपः सिद्धा. न्तः जयतु, पक्षे लक्ष्मणस्य आर्यः ज्येष्ठभ्राता श्रीरामः तस्य पक्षः शिवोपासनारूपश्चेत्यर्थः । श्रुतिमौलिदेशिकानां वेदान्ताचार्याणां वचः उपदेशरूपं च जयतु सर्वोकषेण वर्ततां, निःसपत्नं शत्रुरहितं दुस्तर्कप्रतिपादनरहितमिति यावत् । निगमवर्ती वेदमार्गश्च जयतु, अञ्जनाद्रौ नीलपर्वते मूर्तिः श्रीनिवासरूपा चापि चिराय बहुकालपर्यन्तं जयतु सर्वोत्कर्षेण वर्तताम् । इति पद्यद्वयप्रतिपादितं शिष्टाचारपरिप्राप्त ग्रन्थान्ते मङ्गलाचरणं बोध्यम् ॥ ५९६ ॥ । एवं समाप्तिमङ्गलं कृत्वा विद्वत्प्रार्थनां विधत्ते-प्रकाशेति । अमुष्मिन् मदीये मया रचिते विश्वगुणादर्शनाम्नि, प्रकाशाः प्रसिद्धाः दोषाः वस्तूनां कृशानुप्रतिपादिता इत्यर्थः । यस्मिन् तथाभूतेऽपि ग्रन्थे करुणायाः दयाया अनुबन्धात् संबन्धात् सन्तो विद्वांसः प्रसादवन्तः प्रसन्नान्तःकरणयुक्ताः सन्तः न कृशानवन्तु कृशानुवत् नाचरन्तु दोषबुद्धियुक्ता न भवन्दित्यर्थः । परन्तु सर्वे विश्वावसवन्तु विश्वावसुवद्गुणमात्रग्रहणतत्परा भवन्त्वित्यर्थः। 'विश्वावसवन्तु' 'कृशानवन्तु' इत्यत्र विश्वावसु-कृशानुशब्दाभ्यामाचारविपि धातुत्वाल्लोट् । तत्र च “सार्वधातुक-" इत्यादिना गुणः ५९७ १ 'सुप्रसन्नं'. For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - वाक्यम् ५३ ] पदार्थचन्द्रिकाटीकासहिता । ३१३ इति श्रीपञ्चमतभञ्जननिबन्धन विख्याततातयज्वभागिनेयवाजपेय सार्वप्रष्टाप्तोर्यामा दियाज्यात्रेयवंशमौक्तिकीभवदप्पय्यायतनूभवश्लेष-यमकचक्रवर्तिरघुनाथाचार्यतनयस्य श्रीनिवासकृपातिशयसंविदितनयस्य सीताम्बा गर्भसंभवस्य श्रीमत्काञ्चीनगरवास्तव्यस्य महाकविश्रीमद्वेङ्कटाध्वरिणः कृतौ विश्वगुणादर्शचम्पूः समाशिमगात् ॥ इति विशदमनीषाशालिना यज्वना वा विरचित इह काव्ये वेङ्कटाचार्यनान्ना ॥ कृशतरमतियुक्तेनापि टीका कृतेयं सुगुण-सुकरुणास्तां पण्डिता मानयन्ताम् ॥ १ ॥ श्रेयः संप्रति संचिनोतु भगवान् श्रीमद्गणेशः प्रभु दूने देवगणे द्विजऋतुचये ध्वस्ते च दैत्यार्तितः ॥ आविर्भूय तदातदार्तिहरणौत्सुक्याद्भवानीपते दैत्येन्द्र परिभूय सिन्दुरमथो देवान् व्यधान्निर्वृतान् ॥ २ ॥ नमामि कमलालयापरिचिताङ्गिमानन्ददं प्रभुं मुनिजनस्तुतं भुजगशायिनं श्यामलम् ॥ करोतु जनमङ्गलं हरतु पापसंघं नृणां स्वधर्मरतिमन्तरे जनयतु स्वभूः सर्वदा ॥ ३ ॥ जयति भगवान् भर्ता देव्याः शिवः शिवदः सतां श्रुतिपथमथारुन्धन् सर्वे यदा सुगतादयः ॥ यतिवरतनुं धृत्वा बुद्धान् विजित्य च यस्तदा श्रुतिहितमथ संविन्मार्ग निरञ्जनमन्वधात् ॥ ४ ॥ अस्ति कृष्णापगासङ्गात् पावनी लोकरञ्जनी । राजधानी सुविख्याता पट्टवर्धनभूभृताम् ॥ ५ ॥ कुरुन्दवाटनगरं कीर्तिमत्तत्र विद्यते ॥ श्रीमान् गणपतिस्तस्य पुरस्याधिपतिर्महान् ॥ ६ ॥ तस्याश्रये पुरातिष्ठद्योगिवंशावतंसकः ॥ गणेशपण्डितः प्रज्ञाशाली सत्कर्मपेशलः ॥ ७ ॥ तत्सुतो ह्यकरोदेतद् व्याख्यानं बालतुष्टये ॥ इन्दुनेत्रवसुक्षोणी मिते (१८२१ ) शाके ह्यपूरि तत् ॥ ८ ॥ इति श्रीमत्पदवाक्यपारावारीणश्रीमद्योगिकुलावतंसश्रीमद्गणेशसूरिसूनुना बालकृष्णशर्मणा विरचिता पदार्थचन्द्रिकाख्या श्रीविश्वगुणादर्शचम्पूव्याख्या समाप्तिमगात् ॥ २७ For Private And Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६ ९५ ७१ १०४ । १९९ ७७ १६५ ५७ १८६ १७२ ४८ श्री: विश्वगुणादर्शस्थपद्यानामकाराद्यनुक्रमेण सूचीश्लोकाङ्काः पृष्ठाङ्काः । श्लोकाङ्काः पृष्ठाङ्काः ४५५ अगूढगाढस्तन २४५ | ३५९ अमून प्रामान् १४६ अङ्गान् वङ्गान् | ११० अमृतं विबुधेभ्यो ३२१ अङ्गानुषङ्गोदित १८० ५६ अमृतोत्साहशक्तीना १७६ अच्छर्द्विजेन्द्ररमृताभि | ४८१ अम्भोराशिं वानरा २७३ अजयज्ञोद्भवे तस्मिन् १५५ ३६५ अयज्ञाद्रिव्या १३५ अज्ञानामविराम १२२ अयुक्तं युक्तं वा ४९० अञ्चाम चिच्चातरु २६१ | २९२ अर्वन्तमास्ये ८६ अत्र देहमपवित्र १४२ अलं मङ्गु संहर्तु २६१ अत्र वसन्तः सन्त १५० १३९ अत्रापि सन्ति बहवः ३३६ अल्पोऽपि काच्या १६२ अवनावतीतपवनाश्व ५५९ अद्भुतस्तर्कपाथोधि २० अवेमव्यापाराकलन ५६ अद्भुतोत्साहशक्तीनां ३८२ अद्य प्रनं पक्रिम ३०७ अव्यादाश्रयता २०८ २८२ अधः करोत्यादिम ७२ अशिलाप्राणदपदै ४३२ अधिगतनिगमाङ्गोपि ५८० अशुभपुषि कला ३०३ अनपायरमो विष्णुः १२७ असत्क्षयार्थाभ्युदय ५३१ असुखमथ सुखं वा २८१ १८१ अनभ्यस्य वेदानहो २३८ अनल्पकं धरायां हि | १२५ अंसे सलीलमविरोप्य (२) [ अंसौ चेदुदकुम्भ] २०९ अनायासग्राह्या ४०६ अन्यदद्भुतमुद्भूत २२३ ४७९ अस्तोकदृप्तिरपि ५०२ अन्याय्यमस्ति कि ___ ७१ अस्त्रामास तृणं ५५८ अपरीक्षितलक्षण २९५ / ५७६ आः कष्टमप्रहृष्टाः १३३ अपारैर्व्यापारैरह ११९ आकिंचन्यादति ४५४ अपि हन्त चोल ९७ आक्रान्तासु वसुंधरासु २१६ अपुण्यधौरेय ४६७ आघ्राता बत ७३ अब्रह्मास्त्रीकृततृणैर् ४८ ५६६ आगमरूपविचारि ६८ अभिषिक्तो यथावच ४६ / २५१ आचारस्य दवीयसां ४२ अभीष्टघटकः क्षिता ३५ / २५६ आचार्याः पुरुषा ४४२ अभ्यर्णेऽस्य २३९ ५६३ आदौ धर्म प्रमाणं ४९९ अभ्यस्तवेदमौलिभ्यः २६४ | १८३ आवालस्थविर स्थि १०७ ४४८ अभ्रंलिहानहह २४२ २९५ आम्नायमौलिगुरुणा १६७ २५३ अमलमतिषु लोके १४६ / ११ आशापालेषु पाशा १५९ २३५ ३०५ ८१ १७१ १०६ २४६ २४५ १२४ २९७ For Private And Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra लोक २७८ आशामीशानब १६१ आश्रयितव्यो नरपति ५०३ इच्छन्तु हन्त १२१ इच्छेयस्तु सुखं २०८ इतस्तावद्भावव्यतिकर ५९४ इति सकलजनाना ३३ इदं बदरिकाश्रमस्थल २६५ इयं काञ्ची काञ्ची ३१५ इयं हि सर्वमङ्गला १९६ इष्टप्राप्तिमनिष्टभङ्ग २४१ इष्टात्स्वबान्धव ३२९ ईश: करस्थीकृत ४३१ उग्ररिपुनिग्रह १०९ उच्चैःश्रवःप्रदातुर् २३९ उच्छिष्टान्यतिदूरतः ( ४ ) [ उत्कर्ष चरमाश्रमी ] ३९५ उद्गच्छदच्छतम १३४ उपनयन-विवाहा ५८७ उपवीतिनमूर्ध्वपुण्ड्र ४७२ उपस्कारैः स्फारैरुप २४४ उपाधेयं प्राज्ञै २२२ उपेत्य वीक्षावन ४६९ उषस्येव स्नानादुचित ३७४ ऋक्सामयोश्च यजुषां ३६८ ऋलिग्विशुद्धि विश्वगुणादर्शस्थपद्यानां १८२ एकादश्यां कालयोर् १०० एतद्देश्य प्रचुर ९५ एतादृशे कलियुगेऽपि २६० एषा कैरविणी २२३ एषा भूतपुरी ५० ककुत्स्थ कुलपर्याय ५८५ कटाक्षलहरीमुहुः ४९५ कठिनशठनरेन्द्र २११ कण्ठोपरि कण्ठीरव ६ कतिचिदलसाः www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठाङ्काः | श्लोकाङ्काः १५८ | १३१ कत्यौषधीः कति ९८ ९२ कन्यां कामप्युदूह्य २६५ | ५८८ कपर्दिमतकर्दमं १२१ ७७ ५३ करुणारसकल्लोल १६५ कर्णाटदेशो यः पूर्व ३११ | ३५६ कर्णानन्दकरस्फुरन् २९ ४१४ कर्तृ व्याकरणस्य १५२५५२ कर्म ब्रह्मविचारणां १७६ | २८३ कल्पन्ते कामरामा ११४ | ५४५ कल्याणं भगवत्कथा १३५ ३८ कल्याणोल्लास सीमा १८३ | ३४४ कवित्वस्य गाम्भीर्य २३४ | ५३८ कषायैरुपवासैश्च ७० १३० कंसं ध्वंसयते मुरं १३४ | ३८९ कहारोत्पलतलजो १३९ २१ काकः शोकं व्यसृजद २१७ ४८० काकुत्स्थको पचकितः ८४ ३१२ काञ्चीनगरविभूषा ३०९ | ३३८ काञ्चीनाम्नि पुरे २५४ २ काचीमण्डलमण्डनस्य १३६ | ३१४ कान्तो विरूपाक्ष इति ४१८ कान्त्येव हन्त वृत्त्यापि २५३ ३० कामं जनाः केऽपि २०४ | ५४४ कामं वाचः कतिचिद १२७ २०१ २२४ कामादिवैरिगण ३५३ कालुष्यलेशविधुरा ८२ काशी काशी भवदिन्द्र ४४० किं किं न जीर्यति ४२९ किं दर्पदायकधनो १०७ ૬૬ ६३ १४९ १२७ १९९ किमप्युपादाय दिशन् ४१ | १३६ कुक्षेः पूर्यै यवन ३०८ | ४६१ कुटीषु गोपीरुचिरासु २६२ ६६ कुम्भकर्णमदाम्भोधि १२२ १०८ कुम्भजपीतोत्सृष्टं १४२ ४१२ कुवस्तुहानात् सद्वस्तु For Private And Personal Use Only पृष्ठाङ्काः ८३ ६१ ३०९ ४२ १००. १९५ २२६ २९२ १६० २८८ ३३ १९० २८५ ८२ २१२ १८ २५७ १७५ १८८ २ १७६ २२७ २७ २८८ १२८ १९४ ५४ २३८ २३३ ११५ ८५ २४८ ४५ ७० २२५ Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्लोकाङ्काः ३१९ कुशलीभनाथवत्र: १२ कृतत्रिदशपोषणं ५७१ कृतदुरित निराकरणं ४९४ कृतदुरितनिरोधानां ४५ कृत्वा सेतुं किल ६ कृशानुरकृशासूयः १२३ कृष्णा श्लेषविशेषिता ५०४ केचन पङ्कजलोचन ४७१ केचिच्चक्रधरापराध ४६२ कोपाटोपदशा विशाल ३८७ कोलं भुवि कोलं १५७ को वा कल्पतरोर्गुणः ५०७ क्रियासार्थितवेदेभ्यो २३ क्लेशत्यागकृतेऽर्पितेन ३५४ क्वचन समागत सिन्धुनि ४०३ क्षितिभृद्भिर्निज २८४ क्षेमारम्भनिदान ३७३ खत्रीकृताखिलहृदां ६१ खर-दूषणकिम्पाक (१०) [ खलकृत परिभाषा ] ४८१ गङ्गाझरीपरिचिताङ्गि ४४५ गङ्गानुषङ्गायमुना ३२२ गङ्गातरङ्गावलिभिः ३५१ गङ्गा - सिन्धु-सरखती ४२८ गजशिबिकातुरगाः ४८३ गजेन्द्रवुद्ध्या नलसेतु २९७ गम्भीरशब्देन ४३३ गरुडो गिलन् कमपि २१० गहन गुहाविदारि ७६ गाङ्गानि वारि ४९ गातुं क ईटे श्रितराम ८१ गाम्भीर्येणं गदाधरस्य २०१ गाम्भीर्यैकावलम्बे १७८ गायत्री सहसा जहद् ४६ गुरावसत्योक्तिनिरास www. kobatirth.org अकाराद्यनुक्रमसूची । पृष्ठाङ्काः | श्लोकाङ्काः १७९ Acharya Shri Kailassagarsuri Gyanmandir ६२ गृध्रराजस्य नाकादि १० ४५२ गृहे गृहे पश्य ३०१ | १५८ गोदावरी विमलतीर्थं २६२ । १५४ ग्रामे प्रामे निवसति ३८ | २१८ घटिकाचलं वपु ४ २३२ घण्टाघोषं त्यजन्तो ७८ ४८८ चकास्ति कुरुकापुरी २६६ ( ५ ) [ चतुर्वेदाध्यायी ] २५३ | १९० चन्द्रालोकचया २४९ १४१ चमूनियमनेन वा २१० | ३५८ चारुगुणैः सन्मणिभिर् ९६ १२९ चित्रं चित्रं २६७ | ४८५ चिराद्धराभूरिभरार्त २१ १७ चिराय संसृत्युदधौ १९४ १२८ चोरस्य चौर्य २२२ | ३७२ छागालम्भसहस्रतः १६१ २६ जनन-मरण - काधि-व्याधि २०३ | २१४ जम्भदम्भहरक्षेमा ४४ ५८ जम्भशासन जीवातुर् १४१ | ५९६ जयतु जगति लक्ष्मणार्य ३०६ | १११ जोरपत्यं जगतः २४० ३०४ जाप्रत्येव शिरांसि १८० | २५० जारान् चोरान् २२ जीवानां दृषदादिमत्त्व १९३ २३३ | ५६० ज्ञानाब्धिरक्षचरणः २५८ | ५२८ ज्योतिःशास्त्रमहोदधौ १६८ ४५१ ज्योतिष्टोमस्तोम २३५ | ३२३ ज्वलनाकलनाद् १२२ | ५६९ झोन्तः शरछोटि शेषो ५१ | ५६८ टिड्डाणञ्-द्वयसच्चु ४० ४८४ डिण्डीरखण्डान्वय ५३ | १८५ तत्तद्देश निवासि ११६ | ३५० तत्तादृगुत्तमपदे १०५ ५९ तत्तादृक्ताटका देह ३९ ३ तत्सुतस्तर्कवेदान्त For Private And Personal Use Only ३ पृष्ठाङ्काः ४४ २४४ ९७ ९४ १२४ १३१ २६० १३९ ११० ८८ १९६ ८ १ २५९ १४ ८१ २०२ २३ १२३ ४३ ३१२ ७१ १७१ १४४ १९ २९५ २८० २४३ १८१ ३०० २९९ २५९ १०८ १९३ ४३ ३ Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृष्ठावाः ९२ २८ १०२ १७१ २७२ १३५ १३८ २५५ १८७ १८६ ९२ . विश्वगुणादर्शस्थपद्यानांश्लोकाङ्काः पृष्टाङ्काः श्लोकाङ्काः ५१९ तद्विष्णोः परमं पदं २७५ १५० दुःखं च जन्मदुरितं च ३४८ तनयार्थनया १९२ / ३२ दुरितभरितक्षीवक्ष्माप ११६ तप्तवर्णसवर्ण ७४ १७० दुरितमवनतानां ३७१ तप्ताभ्यां शङ्खचक्राभ्यां २०२/ ६५ दुनिरोधधुनीनाथ ४९३ तस्मिन्मतिर्मेऽस्तु २६२/ ३०५ दुर्वादिनो विष्णु १९७ तातेत्यामध्य ११४ | ५१४ दृश्यं मिथ्या दृष्टि २७१ तापत्रयप्रशमना १५४ २४२ दृष्टं बन्धिवतरैः ४८७ तापं विलुम्पति (३) [ दृष्टे झटित्यखिल] २५७ तापादिभिः सपापां १४५ देवक्षोणीसुरहितकृते ३३१ तारकारिं वहन् ४७३ देवागारनिषेविणः ३६० तीरे तीरे स्फुरति १९७३३७ देवौ द्वावधिकाञ्चि ३६१ तुण्डीरमण्डल ११८ देशे देशे किमपि २२६ ते मीमांसाशास्त्र १४३ देशे देशे लम्पटाः ५६२ ते मीमांसाशास्त्रलोक २९६ ३३४ दैत्येभ्यो न वरान् ९८ त्यजतु विहितमेत | १४९ दोषेभ्यो नैव भेतव्यं २८६ त्रिदशाकलितस्नेह ३८८ द्राघिष्ठं कुहनावराह ३११ त्रैविक्रमन्त्रिपथगा १७४ | २६९ द्विपाचलमुपाश्रितं ८४ दत्तं साधुमुदे यदेकमपि ५६ २२० द्विरेफवर्णी सुमनोरमां ३३३ दत्त्वा वरं दानव ३३० धत्ते महो मूर्ध्नि १९५ दधती चिराय सुदती ११३ | ४२५ धन्यंमन्यतया तृणीकृत १८४ दनुजभिदभिषेकैः १०८ ४४ धिकृत्यैव दशास्यदर्प ३१३ दन्तश्रीस्तव दृश्यते १७५ / १५१ धुनोति निबिडं तमः ७० दयासमुदयालये ४७ ५९१ ध्यातं योगिकलाविलास ३४० दरानुषङ्गं च गदा १८८, ६९ ध्यायामि राममभि ३०० दाविष्टकुदृष्टि १६९ ३६२ न ऋविक्संपत्तिर् । ५९० दलितदुरितजाले ३१० (१) [न केशेषु स्नेहो] ३९ दशाननकुशासन | ४३६ नगरूपमुपैति ४२० दातुरि य एष | २३७ न गाहन्ते गङ्गामपि ११४ दारुणि संनिहिताय | ५५४ न जिघ्रत्याम्नायं ५९३ दााय गुणसमृद्धेर् ३११५३२ न दैवं न पित्र्यं ४९१ दिशन् श्रिताना २६१ ५३७ न धातोविज्ञानं २८७ दीपप्रकाशसंज्ञा १६२ / ४९६ ननु शठकोपाय लं ३८० दीप्रोतिप्रभमाश्रित |.४४३ नन्दत्कंदर्पदर्प ५२६ दीर्घवक्रनखरं १५९ नमामि गिरिनन्दिनी ३३२ दीर्घायुर्मुनिसूनवे १८५ / ५४६ नरस्तुतेर्विधातारो १५३ १८५ १२५ १८४ २३१ ३७ ९३ ३१० १९८ २४६ २३७. ८ २९३ २८२ २६३ २३९ २०७ २८९ For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्लोकाङ्काः ५९२ नराः सुरा वा पशवः ४५६ नवार्तव महोत्सवे ४०४ न विधौ शुभरङ्ग ५०० न संध्यासु स्नानं ४८२ न सागरोऽसौ नभ ४४७ नागवल्ली मल्लीभिः ५७४ नाङ्गीकृतव्याकरणौ ९३ नाधीतेऽत्र जनो ५७७ नाध्यापयिष्यन् १४७ नानाजातिभवा २९१ नानाम्नायपरिश्रमं ५७८ नाम्नायज्ञो मखे ५२३ नास्तिक्यमावहति १०६ नास्त्येषामुपयुक्तता ५८६ नाहं नापि च मत्सुतो १६० निगमपाठनिराकृत ५२० नित्यं कर्म समाचरन्ति ४०९ नित्यं काञ्चनसिन्धु २४८ नित्यं हेयगुणावधूनन ३०९ नित्यानपायिप्रमदो ३१० नित्योन्नतोऽपि ४३८ निबिरीस गुणस्तो भैर १९८ नियन्ता जन्तूनां ६४१ निर्वृत्ताध्वरकृत्य ३१६ निवस्तां वा कृत्ति ११३ निवेदितस्यात्र रमा २९६ निशमयति यः ९१ नीचैर्दुर्यवनैः शुनीभिरपि १२६ नीला राधिकया ५७३ नृणामनभ्यस्त ३७५ नैतद्विभाति नगरं ५६४ नैयायिका वा ननु २३० नैषां न्याय्य ह ५७९ नैषां संध्याविधिर् ४६३ न्यस्तपादः सुमनसां www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकाराद्यनुक्रमसूची | पृष्ठाङ्काः | श्लोकाङ्काः ३११ | ५२५ पक्षीकृत्य गिरीशं ४ पद्यं यद्यपि विद्यते २४५ २२२ | ५४७ पयैर्हृद्यतमैः स्तुवन्ति २६४ | १८८ पन्थानमनुरुन्धानः २५८ १९२ पन्नगेषु च नगेषु २४१ ४५० पद्मिन्याकर्षोचित ३०२ २७४ पद्मोल्लासविधायिनि ६१ ३३५ पम्पातरङ्गशिशिरा ३०३ | ४७६ पयोधिमध्ये लवमान ९१ ३५ परमहिमयुतत्वात् प्राप्त १६४ | ४१० परवित्तजिहीर्षया ३०४ २७७ परं वेगं सरखत्या २७७ ५११ पराशरभुवा शास्त्रं ६९ / ४६५ परिगत सहकारैः ३०८ | ४८९ परिदृष्टवते सहस्र ९७ | ३९३ परिशोभिताम्रपार्श्व २७६ || ३८६ पाठीनीयं कामठं २२४ | ५७२ पातञ्जले विष्णुपदाप १४३ ४५८ पातिव्रत्यमुपेत्य १७३ ४७४ पातु पातकिनो जनान् ८ पान्थान् दीनानहह १७४ २३७ | १०३ पामरैरप्यपेयनां ११५ | ५१५ पारंपर्यत आगतो २८६ | ३८१ पिनाकिनीं पश्य १७७ १६४ पिबन्तु मदिराममी ३९४ पीताम्बरालंकृत ७२ १६७ (९ ) [ पुण्यश्लोकः पर ] ६० २०७ पुरः पुरो घनं वनं ८० ३०१ २०४ | २८८ प्रकटितदशावतारे २९८ | ५९७ प्रकाशदोषप्रचुरे १३० २०६ प्रकाशबहुपाद ३०५ ६४ प्रगल्भवालिजीमूत २४९ २०३ प्रचण्डविश्वकण्टक ३७६ पुरातनानां हि १५२ पूताङ्गानां पुण्यगङ्गा For Private And Personal Use Only पृष्ठाङ्काः २७८ ३ २८९ ११० ११२ २४३ १५६ १८६ २५६ ३१ २२४ १५७ २७१ २५० २६१ २१७ २१० ३०१ २४७ २५५ ६ ६७ २७२ २०७ ९९ २१७ १४१ १२० २०५ ९३ १६३ ३१२ ११९ ४५ ११८ Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शस्थपद्यानां २९१ २२० २६८ ४om". ०r 2 २६० १८८ २४८ श्लोकाङ्काः पृष्ठाङ्काः | श्लोकाङ्काः पृष्ठाङ्काः ५५१ प्रणतचरणरेणु ७८ भागीरथीं प्राप्य ४०१ प्रणिपतिकर्मीकुर्मः ७९ भागीरथीं यः पटुधी १६६ प्रतिनगरमिहारामाः १०० १४ भानुभानुदलदब्ज १२ १६७ प्रतिमधुबिन्दु मिलिन्दाः १०० | ५३३ भानोः शीतकरस्य ५०८ प्रत्यक्षगोचरमशेष | ६० भार्गवाग्रहदावाग्नि ८७ प्रदोषवत्प्राप्त इह | २४० भाले शुद्धमृदूर्ध्व ५३० प्रमोदे खेदे वा २८१ १८९ भाषा-वेषाचारैर् ११० ५५५ प्रयत्नैरस्तोकैः २९३ | १८० भिक्षा कष्टमटन्ति १३ प्रशस्तगुणसिन्धवे ११ १०२ भुवनकदनक्रुध्यदृद्ध २६४ प्रसह्य न हरन्त्यमी १५१ | २७२ भुवनवहनशीला १५५ ३९१ प्रहसति भवशोषकरी २१६ | १७३ भूभृत्यस्मिन् पक्षि १०३ २१५ प्रह्लादमाहादयितुं १२३ ५०६ भूयोदोरैरपि परिवृतः ४१९ प्राक्पर्यङ्कमधि २२८, ३३९ भेत्ता गोप्ता च ५४८ प्राचेतस-व्यास-पराशरा २९० / २९० भेदाभिदाविषय १६४ २७९ प्राजापत्यमखान्तराय १५८ ५०५ भोगायैव नितम्बिनी २६६ ३७७ प्राज्ये हन्त धने २०५ (८) [मजन् जनः खचरण] १४१ ५७ प्राणप्रतिष्ठा क्लिष्टानां ४३ ४५९ मणिमयफणितल्पे ३९८ प्रातः प्रातः पयसि २१९ ५१७ मदनजनके वीतातके २७४ ८८ प्रातः प्रातर्जाह्नवी ५८ २१७ मनुष्यतिर्यक्त्व ९० प्रातर्हन्त कृताप्लवोऽपि ३१ मन्देतरस्मरमलीमस २७ १०१ प्रातश्शीतजले निमज्ज्य ६६ ३५२ मम दुग्धनदी। १९४ ५५७ प्रायः काव्यैर्गमित २९४ / ५३९ मस्ते दुःसहवेदना २३६ प्रायो येषां सकृदकरणे १३३ / १३२ महाराष्ट्राभिख्यो २०० प्रियसहचरी लक्ष्मीः ११६ | ५४९ माघश्चोरो मयूरो ५१ प्रौढपतिरथागार ४२ ४३० मातस्ते मधुसूदन २३४ ९९ प्रौढेषु गौडेषु च | २९ मांधाता च भगीरथश्च २६ ३४१ फणिपतिसरस्फुरन्ती १८९ २६७ माधुर्याध्ययनोपसन्न १५३ २४३ बकुलविभूषणेन १३६ १५५ मा नाम यक्षत मखै ९५ ४९७ बकुलाभरणीयानां २६३ | २४० मा बोधि वैद्यक २८६ २७ बालत्वे वा तरुणिमनि वा २४ / १४४ मायाचुञ्चुतया ७ ब्रह्मचर्यव्रतोत्सर्ग ५५१० मिथ्यार्थावेदकत्वात् ५६५ भगवदनभ्युपगमनं २९८ | ५३६ मिथ्यौषधैर्हन्त २८४ ३०२ भयार्तजीवातुदया १७० ५६१ मीमांसकाः कतिचिदत्र २९६ २५५ भवजलधिनिमजत् १४७, ३२७ मुक्ताश्रिता विष्णु १८२ ३७ भवसागरशोषणेन ३२ | २३१ मुश्चन्तः पञ्चयज्ञान् १३१ १२४ २८५ ८३ २९० ९० For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकाराद्यनुक्रमसूची। १७८ १४२ २४२ श्लोकाङ्काः पृष्ठाङ्काः | श्लोकाङ्काः पृष्ठाङ्काः २०४ मूकारब्धं कमपि ११८ १७५ रजतपीठपुरं ननु १०३ ५५६ मोहं रुणद्धि विपुली __ २९४ | १०५ रत्नाकरोऽपि च ४१७ मोहोन्मूलनमूलिका २२७ | ३१७ रमणीयः स हि ३५५ मोहादिदोषरहितां १९५ २४७ रहस्यव्याख्यानैः २६८ य एष राजत्कटकः १५३ | २८ रामः क्षेमस्य दाता २३३ यज्ञाः पञ्च महत्पदेन १३२ २२७ रामानुजाय गुरवे १२९ (१) [यज्ञान् पञ्च च] १३७ | २२८ रामानुजौ यामुनतीर्थ १२९ ११२ यत्तीरे पुरुषोत्तम ___७२, १५६ रोमावल्या तपनसुतया ९५ ३४ यदत्र जागति शिला ३०. ४२७ लक्ष्मीकटाक्षपूरः २३२ १० यदा न पश्यन्ति ८ ४८ लक्ष्मी वक्षसि बिभ्रद १८७ यदि कतिपये १०९ ४७७ लङ्कापुरावासि २५६ १७१ यदुगिरितटागारा १०२ ४७५ लङ्कापुरे पङ्क्तिमुखेन २५६ ५०९ यदेव सर्वज्ञमपास्त १८ लीलालोलतमा रमा ४३५ यद्वीक्षा धैर्यरक्षा | १२४ लुष्ठिला नवनीत ४८६ यः पुरा पापदशक २६९ ४४९ लोलदीर्घदला बृहत्तर १७२ यः प्रभुर्यादवक्ष्माभृत् १०३ (७) [ वद रहसि पदाम्बु ] २९३ यस्मिन्पक्षेऽस्ति १६५ २१२ वरकेतुस्थतार्थ्याय १२३ ४६४ यस्मिन्विलोचनतया २५० ४१५ वरगुणगणसीमा २२६ १७९ यस्य वापि विलोकने १०५ २७० वरदं भो भज १५४ १०७ यस्य वर्णप्रिय उरु ६९ ३८३ वरा वराहरूपिणी २०८ २३५ यस्यां नास्ति पुरस्कृतिर् १३२, ४३ वर्षीयानपि जानकीसहचरो ३६ ३७० यागं ये बत वैष्णवा २०२ | ४६६ वारस्त्रीकुचमर्दिभिर् २५१ ४५७ याभिः सर्वपदार्थ २४६ । ८५ वाराणसि त्वयि सदैव ५६ ५८४ यामुनतीर्थाश्रमिणौ ३०८ ४७ वालिनि बलोमिमालिनि ३९ १६३ युद्धाय प्रमिलन्तु हन्त | ३४५ विकचरुचिरपुण्डरीक ९६ ये कायस्थजनाश्च ६३ २३४ विदुषामपि मोह १३२ ४४४ ये तोयैर्नादेवैर ५३५ विदैवज्ञं ग्राम २८४ ८३ ये मिष्टान्नभुजो ५४ विद्याविहरणोद्यानं ४२ १३७ ये मुष्णन्ति निशि ८६ ४७० विधिवदविधिवद्वा ७५ येषां जनिश्चरणतस्तु ४९ ६७ विभीषणस्य साम्राज्य ४५ ४२२ येषामन्यकलत्रदर्शन | १४८ विमलचरिता विश्वा ३७९ रक्ते भटे रणमुखे | ४९८ विरक्तेरास्थानी ४०७ रङ्गक्षेत्रमिदं | ५२९ विलिखति सदस ४४१ रङ्गादन्यदनगारेः २३९ | ५८२ विलोचने वि ४०५ रङ्गेशसेवको युक्तं __२२२ ५१३ विविधदुरि २५३ २२९ For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वगुणादर्शस्थपद्यानां २५६ २२५ २७३ श्लोकाङ्काः पृष्ठाङ्काः श्लोकाङ्काः पृष्टाङ्काः १९३ विविधनिगमसारे ११२ ४७८ शुद्धाः संश्रितधर्म ३४७ विश्रुताश्रितवात्सल्यं १९२ २६३ शौचत्यागिषु हूण ५ विश्वावलोकस्पृहया ४ ३६३ शौचं नाचरितुं १९८ २८५ विश्वाह्लादकरी १६१ ४०२ श्यामोत्तुङ्गपयोधरो २२१ १७४ विष्णुपद्याकलनया १०३ ५२४ श्रिताभव्यमार्गा २७८ २१९ वीक्षारण्यमिदं वदन्ति १२५, ४२ श्रीनाथस्तवनानुरूप । २८७ ५३४ वृद्धि-हासौ पुष्पवन्तोप २८३ ३०८ श्रीमानपि स्वयं दैत्यात् १७३ __९ वृष्टिं घृष्टिभिरा ७ ३०१ श्रीमान् गभीरतर १७० २८१ वेगवतीसेतुतया १५९ ४०० श्रीरङ्गे शोभते यस्य २२० १६८ वेद-वैदिकविद्वेष १०१ / २८९ श्रीरङ्गेश्वरशासना १३८ वेदव्यासः स इह १ श्रीराजीवाक्ष २९८ वेदान्ताचार्यशब्दो १६८ | २२९ श्रीरामानुजदर्शनैक १३० २९४ वेदान्तार्थविशोधितं १६६ ४३७ श्रीवल्लभदासेभ्यः २३७ २९९ वेदान्तार्यगिरः १६९ ४१३ श्रुतसुरनुतिघोषे १९४ वैकुण्ठेऽपि निरुत्कण्ठ ११३ ५१६ श्रुतीरध्येतारः १९ वैकुण्ठो महता १६ ५८३ श्रेयस्तोयदसंप्रदाय १२० व्यापारान्तरमुत्सृज्य __ ७६ | ४१ श्रेयांसि भूयासि ४४६ व्यालाधिपेशयशुभ २४१ / ११५ सकर्पूरस्वादुक्रमुक ११७ व्रीडामारव्यतिकर ७५ | ५९५ सकलकुशलसिध्यै ४३९ शकाद्यर्थ हवि २३८ | ३४३ सकलजगतामीशानो १९० २८० शतमखमणिस्तोम १५९, ४० स जयति चित्रचरित्रो ३४ ५६७ शबर-कुमारिल २९९ २२५ स जयति रामानुज १२८ ६३ शबरीचित्तकुमुद ४४ १७७ सततमकृतसंध्योपास्ति १०४ ३२० शशाङ्कमौलिः सहकार १७९ १०४ संततं कन्दते सर्वो ६८ ८९ शस्त्रैर्जीवति शास्त्रमुज्झति __५९ ३८४ सदावदातनिम्नगा २०९ २४ शास्त्रं भूरि निजखरूप २२ ४६८ सद्मस्वादरतोऽर्पितानि । १५२ ७४ शिथिलितभवखेदा ४९ ४२३ सद्यो वैगुण्यमायान्ति १६९ शिरः पुरारेर्द्विजराज १०१ २५८ सद्वंशप्रभवश्चरित्र । १४८ ३२४ शिवशिरसि शीतभानुः १८१ | ५०१ संन्यासाश्रममाश्रितो । ३१८ शिवाक्ष्यालोकितः कामो १७८ ४२४ संपत्तिः किंपचानानां २३१ . शिष्यार्पितेन शुचिना १४९ ३७८ संपद्वन्यसरिज्झरी ५६५ भगः यः प्रतिगृह्य . १९९ / ५५० संपन्निर्मदभावयो २९१ ३०२ भयार्तजीवाम्भणसहेषु २७९ ४११ सपर्या विरुद्धादपि २५५ भवजलधिनिममयर १९२ ३४६ संपातिसोदर । ३७ भवसागरशोषणेन ८७ ४२६ संभोगारम्भजृम्भन् २३२ ३१२ २३० १९१ For Private And Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्लोकाङ्काः २०२ समग्राहि हरेर्वेदैः ३०६ समन्त रूढद्रुम २५४ सम्यशिष्यजनं २४५ स यासां व्याकर्ता ८० सरखत्या श्लिष्टा ५१२ सर्वज्ञमज्ञ इति ३९९ सारङ्गदृ कथमु ५२२ सा रुद्रभक्तिर् ५८९ सावित्रान्वयसंभवेन ७७ सा सर्वतोमुखवती २६६ सुमनोजनतास्थानं १९१ सुरभितमतमाल ३४२ सुरयौवतोपगीतः १५३ सुशोभनक्रमकरैः ३२६ सूक्ष्मसितांशुकला भे ५७५ सूत्रं पाणिनिबद्धं ५७० सूत्रैः पाणिनिकीर्तितैर् ५१८ सूर्यादारोग्यमिच्छेत् २७५ सेवेऽनन्तसरः www. kobatirth.org ४०८ सोयं यद्यपि हृद्य एव ३८५ सोय हे प्रत्यनीकोपि अकाराद्यनुक्रमसूची । पृष्ठाङ्काः | श्लोकाङ्काः ११७ ३२८ सर्वतोमुखसमृद्धि (२) [ सर्वाभ्यर्हितवैष्णवाह्नि] १३८ ३६९ सर्वैर्वेदैः स्मृतिगणयुतैः २०५ सर्वोत्तुङ्गः श्रितशुभगुहः ५२ संसारमार्गसंचार : २०१ ११९ ४२ ३२ ३६ साकेताय नमः पुराय ३५७ साध्वग्रेसरयूपेतः १९६ ३९६ सारङ्गडिम्भ २१८ २१९ २७७ ३०९ ५१ १५२ १११ १८९ ९४ १८२ ३०३ ३०० | ३९७ हंसा निष्कुट २७५ ३६६ हिंसाकृत् प्रत्य १५६ || ३६७ हिंसान्तरेष्वित्र Acharya Shri Kailassagarsuri Gyanmandir ५५ सौजन्य-वादान्यकयोः ३२५ सौवर्णभूधरमपि ५४३ स्तुवद्भवनिवर्तके १७२ १५६ १३७ २१३ स्थिरशङ्खादिचिह्नाय ५३ | ४६० स्नात्वा सह्यसुताजले २७१ ४५३ स्नान्ति प्रातरधि १८३ | ५२१ स्मरहर परिचर्या ४३४ खज्येष्ठप्रेर्यहर्याश्रित २५२ स्वयं तरितुमक्षमः २५ स्वर्गौकोभिरदोनिवासि ३९२ स्वर्णवन्तं विदुः कान्तं ( ६ ) [ स्वातन्त्र्यं परिवर्जयन् ] १६ स्वानुज्ञामनवाप्य १८६ खामिनि विनियुक्तानां ४१६ स्वामिनीं स्तौमि २७६ स्वावज्ञानसमु २२१ स्वेक्षासाध्यजगज्जनिः १५ खेनादौ निखिलं २४९ हवा मार्गे द्विजादीन् ३९० हन्त रङ्गपुरसंगत ४२१ हन्तुर्वन्धुजनान् ४९२ हरिमिव कृताव ९४ हर्म्यस्थानमधर्म २२३ २६२ हूणाः करुणाहीना २१० | ५५३ हेतुः किंच विशिष्टधी For Private And Personal Use Only पृष्ठाङ्काः ४२ १८२ २८७ १२३ २४८ २४४ २७७ २३३ १४६ २३ ६१६ १४० १३ १०९ २२७ १५७ १२६ १२ १४४ २१२ २ २६: દુર્ २१८ २०० २०० १५० २९२ Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... ... माधवनिदानम् - श्रीमन्माधवकरविरचितम्, श्रीमद्विजयरक्षितश्रीकण्ठदत्ताभ्यां प्रणीतया मधुकोशाख्यव्याख्यया सहितम्. मालतीमाधवनाटकम् - भवभूतिकृतम्, त्रिपुरारिकृत टीकया नान्यदेवकृत टीकया जगद्धरकृत टीकयाचसहितम् मालविकाग्निमित्रं नाटकम् - कालिदासकृतम् मुद्राराक्षसं नाटकम् - विशाखदत्तविरचितं, धुण्डिराजकृत ... १॥ .12 6 ... २ .1. टीकया सहितम् . मुहूर्तमार्तंड : - मातैडवल्लभाख्यया व्याख्यया सहितः मुहूर्तचिन्तामणिः - (पीयूषधाराख्यव्याख्यासहितः । ) मृच्छकटिकम् - शुद्धककविकृतं, पृथ्वीधरकृतव्याख्यासहितम् १ मेघदूतकाव्यम् - कालिदासकृतम्. याज्ञवल्क्यस्मृतिः - (मिताक्षराख्यव्याख्या सहिता . ) योगरत्नाकरः --- अयं नात्यर्वाचीनो ग्रन्थोऽखिलभिषरगणमान्योस्ति । अत्र सर्वेषां रोगाणां निदानपूर्विका सविस्तरा चिकित्सा सप्रमाणा प्रतिपादितास्ति । तथा विविधरसायनकषाया सवारिष्टावलेहगुटिकापाकादीनां प्रक्रियाप्रमाणानुपानादिप्रपञ्चोपि यथावत्कृतोस्तीत्ययं ग्रंथः सर्वोपयुक्तः स्यात्. २ रघुवंश काव्यम् - कालिदासकृतं, मल्लिनाथकृतया संजीविन्याख्यया टीकया सहितं, स्थूलाक्षरम्. + ४ ... 800 ... ... ... D *** ... 180 रत्नावलीनाटिका - श्रीहर्षदेवकृता. ... राक्षसकाव्यम् - (सटीकम् ) श्रीकालिदासकृतम् . लक्ष्मीहृदयं नारायणहृदयं च - ( कौशेयवद्धम् . ) ... लघुयोगवासिष्ठम् - आत्मसुखकृतया वासिष्ठचन्द्रिकाटीकया सहितम्. लघुधातुरूपसंग्रहःलौकिकन्यायाञ्जलिः नाम लौकिकन्यायसंग्रहः लौकिकन्यायाञ्जलिः - द्वितीयो भाग उपरिनिर्दिष्टसदृश एव. ... लौकिकन्यायाञ्जलिः -- तृतीयो भागः वाल्मीकि रामायणम् - आदिकविश्रीवाल्मीकि महामुनिप्रणीतं, रामकृततिलकटीकया सहितम्. विक्रमोर्वशीयं नाटकम् - कालिदासकृतं, रङ्गनाथकृतया प्रकाशिकाटीकया सहितम्... विश्वगुणादर्शचम्पूः– श्रीमद्वेङ्कटाध्वरिविरचिता, पदार्थचन्द्रिका ... ... ख्यव्याख्यासहिता. विष्णोर्नामसहस्रम् - प्रथमं मूलश्लोकाः, तदधोभागे एकपार्श्वे मूलश्लोकगतानि नामानि तत्संमुखद्वितीयपार्श्वे च नामा ? ... ... ... *** ... For Private And Personal Use Only ... ... ... ... ... *** *** ... 800 ... 034 ... ... ... मू० डा.व्य. १ २ 6=11 .11. 6 •॥ 9111= 1. 6 १॥ .11. 6 62 6= ७ १ + 62 6=11 6 ५ 64 .611 012 6 •• 6 १| ८॥ 6= *111* Dill. 6 Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्थश्लोकाश्च, एवं च १००० नाम्नां सहस्रश्लोकानां निवेशः कृतः. तेन च मूलनाम्नामर्थज्ञानं सम्यक्तया स्यात्. ... .26. वृत्तरत्नाकरः-केदारभट्टविरचितः (वृत्तरत्नाकरपञ्चिका) व्याख्यासहित. ... ... ... ... ... ... १ ४० वेणीसंहारं नाटकम्-भट्टनारायणप्रणीतं जगद्धरकृतया टी __ कया सहितम्. ... ... ... ... ... ... .. ॥ वैराग्यशतकम्-भर्तृहरिकृतं, महाबलोपाकृष्णशास्त्रिकृतया टीकया सहितम्. ... ... ... ... ... ... ..॥6॥ शार्ङ्गधरसंहिता-अंजननिदानसहिता (मूलमात्रा)... ... .- 60 शिवगीता-लक्ष्मीनरहरिसूनुकृतबालानन्दिनीव्याख्यासहिता । अस्याः १६ अध्यायाः संति । पद्मपुराणे श्रीरामागस्त्यकसंवादरूपेणास्या अनुवादोऽत्यंत सुललितोऽध्यात्मबुभुत्सूनां मनांस्याहादयति । अस्य मूल्यं १ रूप्यकपरिमितमासीत् संप्रति सुव्यवस्थया संमुद्यापि केवलं अर्धरूप्यकमेव. ... .. " शिशुपालवधं काव्यम्-माघकृतं, मल्लिनाथकृतया सर्वंकषा ख्यटीकया सहितम्.... ... ... ... ... ... २ । शुक्लयजुर्वेदमाध्यंदिनसंहिता. ... ... ... ... २ . शृङ्गारशतकम्-भर्तृहरिकृतं, महाबलोपाकृष्णशास्त्रिकृतया टीकया सहितम्. ... ... ... ... ... ... 600॥ श्रीमद्भागवतमूलमात्रम्-कौशेयबद्धम्. ... ... ... १॥ ४॥ सचूर्णिकं श्रीमद्भागवतम्-रफ, मूल्यं रु० ५ ग्लेजपत्राणि. ६ १ सत्यहरिश्चंद्रनाटकम्-प्रबन्धशतकर्तृमहाकविरामचन्द्रप्रणीतम्. 126सप्तशती (चण्डीपाठः), देवीसूक्तं त्रीणि रहस्यानि च इत्येतैः सहिता कौशेयबद्धा, स्थूलाक्षरा.... ... ... ... सप्तशती-कौशेयपट्टवेष्टिता, मध्यमाक्षरा. ... ... ... सप्तशती-कौशेयेन बद्धा सूक्ष्माक्षरा. ... ... सप्तशती-बन्धनरहिता, स्थूलाक्षरा. ... ... सप्तशती-पत्रमात्रा, मध्यमाक्षरा. ... ... ... ... .-06सप्तशती-इयं कवचार्गलाकीलकरहस्यत्रयसंपुटितास्ति । इयं लघ्वक्षरायामविस्ताराप्यतिमनोहरा कौशेयपट्टबद्धा चिक्कण पत्रैनाभिनवाक्षरैश्चाङ्किता. ... ... ... ... ४॥ समयोचितपद्यमालिका-प्रासङ्गिकश्लोकचरणान्तःपाति श्लोकानां संग्रहः.... ... ... ... ... ... . 61 सारखतव्याकरणं पूर्वार्धम्-वस्त्रबद्धम्. ... ... . . सारस्वतव्याकरणं पूर्वार्धम्-पत्रमात्रबद्धम्. ... .... .. 116, ... .. 62 For Private And Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मू० डा.व्य. सारस्वतव्याकरणं वृत्तित्रयात्मकम्-इदं पुस्तकं प्रथम हस्तलिखितपुस्तकान्येकीकृत्य संशोधय्य च मुद्रितम् । केवलं वनबद्धपुस्तकस्य. ... ... ... ... .. ४० सारखतव्याकरणम्-तिस्रोऽपि वृत्तयः-पत्रमात्रबद्धम् = 6-॥ सारस्वतव्याकरणम्-चन्द्रकीर्तिप्रणीतव्याख्यासहितम् (वृ त्तित्रयात्मकम्.) ... ... ... ... ... २॥ .. सारस्वतव्याकरणम्-चन्द्रकीर्तिव्याख्यासहितम् । पूर्वार्ध. १ ० सारस्वतव्याकरणम्-चन्द्रकीर्तिव्याख्यासहितम् । उत्तरार्ध.१॥ .. सारखतपूर्वपक्षावलिः. ... ... ... ... ... ॥ ॥ सारावलिः-कल्याणवर्मविरचिता। ... ... ... १८ 60 साहित्यसारम्-अच्युतरायकृतम्-खकृतसरसामोदाख्यव्या ख्यासहितम् । ... ... ... ... ... ... २॥ ... साहित्यदर्पण:-विश्वनाथकविराजप्रणीतः. श्रीरामचरणतर्क वागीशभट्टाचार्यकृतया टीकया समेतः. ... ... ... ३ . सिद्धान्तकौमुदी-तत्त्वबोधिनीसमाख्यव्याख्यासंवलिता. ... ४ । सुन्दरकाण्डम्-वाल्मीकिरामायणान्तर्गतं मूलमात्रं नित्यपाठ___ योग्यं कौशेयपट्टबद्धम्. ... ... ... ... ... .in. सुभाषितरत्नभाण्डागारम्.... ... ... ... ... ३॥ सुभाषितत्रिशती-अर्थात् भर्तृहरिशतकत्रयम्-श्रीरामचन्द्रबु धेन्द्रविरचितया सहृदयानन्दिन्याख्यया व्याख्यया समेता. .. स्मृतिकौस्तुभः-श्रीमदनंतदेवभट्टप्रणीतः.... ... ... २ हर्षचरितम्-बाणभट्टकृतं, शंकरकृतसंकेतटीकया सहितम्.... २ हितोपदेशः–आङ्ग्लटिप्पणीसहितः. ... ... ... ... १ ॥ हिरण्यकेशीयब्रह्मकर्मसमुच्चयः-(विषयाः ३८८) ... २॥ - .... तुकाराम जावजी, निर्णयसागराख्यमुद्रणयन्त्रालयाध्यक्षः, मुंबई. For Private And Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्णयसागरयन्त्रालये विक्रेयानि संस्कृतपुस्तकानि / ->OK--- मू. मा.व्य. चम्पूभारतम् / रामचन्द्रबुधेन्द्र विरचितया व्याख्यया समेतम्. ... 2 // .. चम्पूरामायणम् / श्रीभोजराजविरचितं पश्चमकाण्डपर्यन्तं, लक्ष्मणसूरिविरचितं षष्टकाण्डमा, रामचन्द्रबुधेन्द्रविरचितया व्याख्यया समेतम्. 2 // नलचम्पू: शिशुपारमयन्तीकथा)-त्रिविक्रमभट्टकृता, चण्डपालातविषमपर ख्य शाशटीकासहिंता. ... शुक्लयजु ... / शृङ्गारश पारिजातहरणचम्पूः / टीव सीमाहाकविश्रीशेषकृष्णविरचिता. यशस्तिलकम् / सत्यहरि सप्तश (महाकाव्यं) श्रीसोमदेवसूरिविरचितं श्रीश्रुतसागरसूरिकृतया व्याख्यया समेतं पूर्वखण्डम्. यशस्तिलकम्। (महाकाव्यं) श्रीसोमदेवमपिनियति कतव्याख्यासमेत Serving Jinshastn to F... 2 // सचूर्णिवं परसूरि वेङ्कटेशकविप्रणीत gyanmandir@kobatirth.org 025485 J... 1961 तुकाराम जावजी, निर्णयसागर छापखान्याचे मालक, मुंबई. For Private And Personal Use Only