________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
विश्वगुणादर्शचम्पू:- [अयोध्याअपि चकृत्वा सेतुं किल जलनिधौ खण्डयित्वा दुरध्वान्
लब्ध्वा देवीं स्फुटविदितसंशुद्धिमग्निप्रवेशात् ॥ भूयोऽप्येनां भुवनजननी भूमिकन्यामनन्या
मन्तर्वनीमनयत वनं हन्त पौलस्त्यहन्ता ॥ ४५ ॥ विश्वा०-सखे गुणिषु दोषाविष्कारं कथंकारमारचैयसि ॥१६॥ णश्च “पाषाण-प्रस्तर-ग्रावा-" इत्यमरः । तस्य भङ्गः स्फोटनं तत् लिप्सुः इच्छुः, 'डुलभष् प्राप्तौ' इति धातोः सनि “सनि मी-मा-घु-रभ-लभ.” इत्यादिना इस् आदेशः “अत्र लोप:-" इत्यभ्यासलोपश्च । निःशवं शङ्कारहितं यथा स्यात्तथा टङ्क पाषाणदारकमायुधविशेष "टङ्कः पाषाणदारणः” इत्यमरः । 'टांकी' इति महाराष्टभाषायां प्रसिद्धम् । त्यजन् सन् , पङ्कजस्य कमलस्य दलं पत्रं तस्यादानं पाषाणभेदनार्थ स्वीकारः तद्रूपो यः प्रसङ्गः संबन्धः तं कर्ते, "क्रियार्थोपपदस्य" इत्यादिना चतर्थी । कः संकल्पं विचारं कलयेत कुर्यात् ? अपि तु न कोऽपीत्यर्थः ॥ दृष्टान्तालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ४४ ॥
अन्यदपि गहणीयं कृत्यं शृण्वित्याह-अपि चेति । अपि च अन्यचेत्यर्थः । कृत्वेति । पुलस्त्यस्य अपत्यं पुमान् पौलस्त्यो रावणः "तस्यापत्यम्” इत्यपत्यार्थेऽण् । तस्य हन्ता घातकः रामः, जलनिधी समुद्रे सेतुं कृत्वा बद्धा, तथा दुरध्वान् दुष्टमार्गान् “उपसर्गादध्वनः" इति समासान्तोऽच् प्रत्ययः। खण्डयित्वा नाशयित्वा किलेति प्रसिद्धार्थम् । अग्निप्रवेशाद्धेतोः स्फुटं यथा तथा विदिता ज्ञापिता सं सम्यक् शुद्धिः सतीत्वपावित्र्यं यस्यास्तां देवीं सीतां लब्ध्वा संप्राप्यापि, भूयः पुनः एनां भुवनजननीं न तु सामान्यां, एतेन रावणस्यापीयं मातृवत्पूज्येति सूचितम् । पुनश्च अनन्यां एकाकिनी अपि च अन्तर्वत्नी गर्भिणी "अन्तर्वनी च गर्भिणी" इत्यमरः । “अन्तर्वत्-पतिवतोः-" इति नुगागमः तत्संनियोगशिष्टो ङीपू च । अनेन तस्यास्त्यागायोग्यत्वं सूचितम् । भूमिकन्यां न तु लोकवद्योनिजां किन्तु शुद्धयज्ञभूम्युत्पन्नां एतादृशीं सीतां वनं अनयत । केनचिदतिपामरेण प्रयुक्तादपवादादरण्यं प्रापयामासेत्यर्थः । हन्तेति खेदे । अनेन तदर्थ ये वानरसाहाय्य-सेतुवन्धन-रावणहननादिमहाप्रयत्नाः कृतास्ते सर्वेऽपि व्यर्थीकृता एवेति ज्ञापितम् । एवंचैतादृशविवेकविधुरस्य स्तुतिकरणमनुचितमिति भावः। अत्र सीतासंप्रापणपुनर्वननयनक्रिये विरुद्ध इति विषमोऽलंकारः। तदुक्तम्-"गुण-क्रियाभ्यां कार्यस्य कारणस्य गुण-क्रिये । क्रमेण च विरुद्धे यत्स एव विषमो मतः” इति । मन्दाक्रान्ता वृत्तम् । लक्षणमुक्तं प्राक् ( ८ श्लो० टीकायाम् ) ॥४५॥
अथ कृशानुप्रोक्तनिखिलदोषानपाकुर्वनाह विश्वावसुः-सखे इति । हे
१ 'गुणेषु'. २ 'कथमारचयसे'.
For Private And Personal Use Only