________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता ।
गुरावसत्योक्तिनिरासहेतोः खराज्यमग्र्योऽपि स रामचन्द्रः ॥ तृणाय मेने निपुणायते न फणाभृदीशोऽपि पणायितुं तम् ॥ ४६॥ किंच
वालिनि बलोमिमालिनि जाग्रति सुग्रीवमग्रहीद्यदयम् ॥
अस्य श्रुतिशतविदितं सुव्यक्तं तेन दीनबन्धुत्वम् ॥ ४७ ॥ किंच. लक्ष्मी वक्षसि बिभ्रदप्यविरतं रामाकृतिः श्रीपतिसखे मित्र, गुणिषु पित्राज्ञापालनादिरूपप्रशस्तगुणयुक्तेषु, दोषाणां राज्यत्यागादिरूपदोषाणां आविष्कारं आरोपं कथंकारं कथमित्यर्थः । “अन्यथैवं-कथमित्थंसु-" इत्यादिना कथमित्युपपदे करोतेर्णमुल्प्रत्ययः । आरचयसि करोषि ॥ १६ ॥
तत्र तावत्प्रथमं 'वर्षीयानपि जानकीसहचरः-' इत्यादिनोक्तं वनवासगमनरूपं दूषणं निराकुर्वनाह-गुराविति । अग्र्यो ज्येष्ठोऽपि स पूर्वोक्तो रामचन्द्रः, गुरौ पितरि दशरथविषये, असत्योक्तेः वृषपर्वयुद्धप्रसङ्गे प्रतिश्रुतवरद्वयाप्रदानरूपायाः निरासः निवारणं तद्रूपाखेतोः कारणात्, खराज्यं ज्येष्ठत्वात् स्वसत्ताकमपि राष्ट्र, तृ. णाय मेने तृणतुच्छं मेन इत्यर्थः । “मन्यकर्मण्यनादरे-” इत्यादिना चतुर्थी । अत एव फणाः बिभ्रति धारयन्तीति फणाभृतः सास्तेषां ईशः शेषः अपि सहस्रमुखः सन्नपीत्यर्थः । तं रामचन्द्रं पणायितुं स्तोतुं 'पण व्यवहारे स्तुतौ च' इति धातोस्तुमुन् प्रत्ययः “गुपू-धूप-विच्छि-पणि-" इत्यादिनाऽऽयप्रत्ययः । न निपुणायते समर्थो न भवति । निपुणशब्दात् "कर्तुः क्यङ् सलोपश्च” इति क्यङ् । तत्रान्येषां का कथा । उपजातिवृत्तम् । लक्षणं प्राक् (५ श्लोकटीकायां) कथितम् ॥ ४६॥ .
अथ द्वितीयं 'धिकृत्यैव-' इत्यादिनोक्तं दूषणमपाकरोति-वालिनीति । बलस्य सामर्थ्यस्य (ऊर्मीणां लहरीणां मालाः सन्त्यस्येति तस्मिन् ) ऊर्मिमालिनि समुद्रे अपरिमितबलवतीत्यर्थः । वालिनि जाग्रति विद्यमाने सत्यपि, अयं श्रीरामचन्द्रः, यत् यस्मात् सुग्रीवं अग्रहीत् गृहीतवान् । अहेर्लुङ् । तेन सुग्रीवग्रहणेन अस्य श्रीरामस्य श्रुतीनां शतेन विदितं प्रतिपादितं श्रुतिशते प्रसिद्धमिति वा । दीनानां दुर्बलानां बन्धुत्वं बन्धुवद्धितकारित्वं, सुतरां व्यक्तं स्फुटीभूतं, बभूवेति शेषः । सदाचरणशीलस्य दुर्बलस्यापि बलमुत्पाद्य तत्वीकरणं, दुराचरणशीलस्य बलवतोऽपि निग्रहणं च अधिकगुणापादकमेव महतां न दोषापादकमिति भावः । आर्या वृत्तम् । “यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश साऽऽर्या ।" इति तल्लक्षणात् ॥ ४७ ॥
इदानीं तृतीयं कृत्वा सेतुं-' इत्यादिनोक्तं सीतावनवासप्रापणरूपं दूषणमपास्यनाह-लक्ष्मीमिति । रामस्य दाशरथेराकृतिरवयवसंनिवेश एवाकृतिर्यस्य सः ।
१'फणायितुं'. २ 'अवितथं'.
For Private And Personal Use Only