________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३४ ] पदार्थचन्द्रिकाटीकासहिता।
२२३
अन्यदद्धतमुद्भूतमत्र श्रीरङ्गधामनि ॥
यचन्द्राभिख्ययाप्येषा शोभते पुष्करिण्यहो ॥ ४०६ ॥ समन्तादवलोक्य सश्लाघम्रङ्गक्षेत्रमिदं रमेशितुरभिव्यक्तिस्थलेप्वादिमम्
तीर्थ सैव मरुद्वधा भगवती यां तोष्टवीति श्रुतिः ॥ सर्वात्मा नगरस्य चास्य जगतां निर्वाहको नायको
वासश्चेदिह लभ्यते जगति को वैकुण्ठमुत्कण्ठते ? ॥४०७॥ कृ०-सार्धाङ्गीकारम्सोऽयं यद्यपि हृद्य एव विषयः सायन्तनेन्दीवर
श्यामाङ्गेन सनायकः कृततमोभङ्गेन रङ्गेन्दुना ।। भ्रान्ताः किंतु चरन्ति हन्त पिशुनाः शान्तात्मनां तापदाः
श्रीमन्तो यदुदञ्चनाद्बत न खल्वत्रासमत्रासते ॥ ४०८ ॥ किंच अन्यदिति । अत्र श्रीरङ्गस्य भगवतः धामनि स्थाने क्षेत्रे अन्यत् उक्ता. दितरत् अद्भुतमाश्चर्य उद्भूतमुत्पन्नम् । किं तत् यत् एषा पुष्करिणी कमलिनी चन्द्रस्य अभिल्यया नाम्ना, कान्त्या चन्द्रिकया चापि शोभते । तत् अद्भुतमिति संबन्धः ४०६
रङ्गक्षेत्रमिति । इदं रङ्गक्षेत्रं रमेशितुर्लक्ष्मीपतेर्विष्णोः अभिव्यक्तिस्थलेषु प्रकटीभावस्थानेषु मध्ये आदिमं प्रथमं, वर्तत इति शेषः । किंच यां नदीं श्रुतिः वेदः "इमं मे गङ्गे यमुने-' इत्यादिरूपा इत्यर्थः । तोष्टवीति पुन:पुनर्भृशं वा स्तौति, टुञ् स्तुतौ' इत्यस्माद्धातोर्यङ्लु कि लटि रूपम् । सैव भगवती मरुदृधा कावेरी नदी अत्र तीर्थ विरजाभिधं प्रसिद्धम् । अस्य च नगरस्य नायकोऽधिपतिस्तु जगतां सर्वेषां लोकानां निर्वाहको रक्षिता, सर्वेषां प्राणिनां आत्मा अन्तर्यामी, भगवान् विष्णुरित्यर्थः । अस्ति । तस्मात् इह क्षेत्रे वासः सततं वसतिः लभ्यते प्राप्यते चेत् जगति कः पुरुषः वैकुण्ठं लोकं, गन्तुमिति शेषः । उत्कण्ठते ? अपि तु न कोऽपीत्यर्थः ।। ४०७ ॥
सोऽयमिति । सायं भवानि सायंतनानि यानि इन्दीवराणि नीलकमलानि तेषामिव श्यामं अङ्गं मध्यभागश्च यस्य तेन, कृतः तमसोऽज्ञानस्य अन्धकारस्य च भङ्गो येन तेन, रङ्ग क्षेत्रे इन्दुरिव चन्द्र इव तेन रङ्गनाथेन, पक्षे रङ्गयुक्तेन रागयुक्तेन इन्दुना चन्द्रेण च सनायकः सनाथः नायकेन शृङ्गारिणा च सहितः सः प्रसिद्धः अयं विषयो देशः यद्यपि हृद्य एव मनोहर एव वर्तते, किंतु तथापि भ्रान्ताः परधनलुब्धत्वेन अनवस्थितचित्ताः अत एव शान्तः आत्मा चित्तं येषां तेषां तापदाः संतापजनकाः पिशुनाः खला: "पिशुनौ खल-सूचकौ” इत्यमरः । एतादृशश्चोरा इत्यर्थः । चरन्ति परिभ्रमन्ति । हन्तेति खेदे । येषां दुष्टानामुदञ्चनात् सर्वतः संचाराद्धेतोः
For Private And Personal Use Only