________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४ . विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरीकिं बहुनानित्यं काञ्चनसिन्धुमध्यरुचिरो निष्कम्पसंपन्निधि
र्निस्तुल्यामपि काञ्चनश्रियमुरोमध्ये दधानः स्वयम् ॥ बिभ्यत्किं पिशुनेभ्य एष बहुलप्राकारसंवेष्टिते
शेते धामनि रङ्गनायक इति खाख्यामिह ख्यापयन् ॥४०९॥ वि०-सखे न जातु श्रीमतां हानिः, प्रत्युत तद्वेष्टणां पिशुनानामेव भवन्त्यनाः ॥ १७ ॥
परवित्तजिहीर्षया प्रवृत्तः पिशुनस्तु खयमेव नाशमेति ॥ सुलभः शलभस्य किं न दाहः पृथुदीपग्रसनाय जृम्भितस्य ॥४१०॥
अलमन्यप्रसङ्गेन, तमेवं च रङ्गेशं श्रीरङ्गधामानमनुसंदधामि॥१७३॥ अत्र क्षेत्रे श्रीमन्तः संपत्तिमन्तो जनाः अत्रासं भयरहितं यथा तथा न खलु आसते तिष्ठन्ति, न वसन्तीत्यर्थः । बतेति खेदे ॥ ४०८ ॥
किंच नित्यमिति । नित्यं संततं काञ्चनसिन्धोः सुवर्णसमुदायस्य कावेर्या नद्याश्च मध्ये रुचिरः सुन्दरः, तत्र वसान इत्यर्थः । अत एव निष्कम्पायाश्चलनरहितायाः शाश्वताया इत्यर्थः । संपदः संपत्तेः निधिः, तत एव च निस्तुल्यां निरुपमां काचनस्य सुवर्णस्य सुवर्णालंकारस्येत्यर्थः । श्रियं, पक्षे कांचन अनिवाच्यगुणयुक्तामित्यर्थः । श्रियं लक्ष्मी च उरसो वक्षस्थलस्य मध्ये मध्यभागे दधानः धारयन् सन्नपि स्वयं एष भगवान् पिशुनेभ्यः खलेभ्यः बिभ्यत् किं भयं प्राप्नुवनिवेत्युत्प्रेक्षा । बहुलाः अनेके ये प्राकाराः शिलादिनिर्मिताः प्रासादभित्तयः तैः संवेष्टिते परितो वृते धामनि स्थाने रङ्गस्य एतत्क्षेत्रस्य वङ्गस्य च नायकः पतिः इति स्वस्य आख्यां नाम, चोरभयात् वर्णनायक इति नाम निढुवन्नित्यर्थः । इह प्रदेशे ख्यापयन् प्रकथयन प्रसिद्धीकुर्वन्निति यावत् । शेते निलीय तिष्ठति निद्रातीति च ॥ ४०९ ॥
सख इति । जातु कदाचिदपि श्रीमतां संपत्तिमतां लक्ष्मीवतां च पिशुनेभ्य इति शेषः । न हानिः, प्रत्युत किं तु तान् लक्ष्मीवतः द्विषन्ति ते तद्भेटारस्तेषां पिशुनानामेव अनर्थाः शिक्षादिरूपाः भवन्ति ॥ १७२ ॥
एतदेव सविस्तरमाह-परवित्तेति । यस्तु पिशुनः परेषामन्येषां वित्तस्य द्रव्यस्य जिहीर्षया हर्तुमिच्छया प्रवृत्तः उद्यतः, सः खयमेव नाशं एति प्राप्नोति । एतदेव सदृष्टान्तमाह-पृथोहितः दीपस्य ग्रसनाय भक्षणाय जृम्भितस्य उद्यतस्य शलभस्य कीटविशेषस्य दाहो दहनं भस्मीभाव इत्यर्थः । सुलभः न किम् ? किंतु स एव सुलभः नान्यत् किमपीति भावः ॥ ४१० ॥
अत एव भगवदन्यकथाप्रसङ्गो मास्त्विति सूचयन्नाह-अलमिति । अन्यस्य १ विहस्य, सखे'. २ 'द्रोहिणां'. ३ 'परमेश'.
For Private And Personal Use Only