________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-वर्णनम् ३४ ] पदार्थचन्द्रिकाटीकासहिता । २२५ सविस्मयम्
सपर्या विरुद्धादपि प्राप्तुमीष्टे ___ समर्थो जगत्यां यतो रामचन्द्रात् ॥ अरं-गाधिराजोदितप्रौढभक्ते
रपि प्राप पूजां स रङ्गाधिराजः ॥ ४११ ॥ अथवा नात्र विरोध इति समर्थये ॥ १७४ ॥
कुवस्तुहानात् सद्वस्तुसंग्रही राघवः क्षमम् ॥ हन्ता कुरङ्गराजस्य रङ्गराजमपूजयत् ॥ ४१२ ॥ पुनः सभक्तिप्रकर्ष भगवन्तमुद्दिश्यश्रुतसुरनुतिघोषे शत्रुषु स्फीतरोषे
निहतविनतदोषे नित्यदास्याभिलाषे । ललितवपुषि शेषे लब्धसंपूर्णतोषे
परमपुरुष ! शेषे पर्वचन्द्राविशेषे ॥ ४१३ ॥ भगवत्कथेतरस्य प्रसङ्गेन अवसरेण अलं पर्याप्तं, स न कार्य इत्यर्थः । किंतु तं प्रसिद्धमेव च श्रीरले क्षेत्रे धाम स्थानं यस्य तं रङ्गेशं भगवन्तं अनुसंदधामि वर्णयामि ॥ १७३ ॥
सपर्यामिति । जगत्यां पृथिव्यां समर्थः संपत्तिमान , कर्तुमकर्तुमित्यादिसामर्थ्ययुक्तश्च विरुद्धात् शत्रोरपि विपरीताचारादपीति च, सपर्या पूजा, "पूजा नमस्यापचितिः सपर्या" इत्यमरः । प्राप्तुं लब्धं ईष्टे समर्थो भवति । यतो यस्मात् स प्रसिद्धः रजाधिराजः भगवान् अरङ्गाधिराजे रङ्गनाथभगवदितरस्मिन् , पक्षे 'अरे' इति छेदः । अरमतिशयितं गाधिराजे विश्वामित्रे च उदिता उत्पन्ना प्रौढा प्रगल्भा भतिर्यस्य तस्मात् रामचन्द्रादपि पूजां प्राप स्वीकृतवान् । तस्मात् इति संबन्धः । श्रीरङ्गनाथो रघुकुलदैवतमिति हि पुराणप्रसिद्धिः ॥ ४११॥
किंच कुवस्त्विति । राघवः कुवस्तूनां कुत्सितवस्तूनां हानात् त्यागात् सतां उत्तमानां प्रशस्तानां वा "सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यहिते च सत्" इत्यमरः । वस्तूनां संग्रही स्वीकारकर्ता एतत् क्षमं युक्तम् । यतः कुत्सितस्य निन्द्यस्य रङ्गराजस्य, कुरङ्गराजस्य मायामृगस्य च मारीचस्येत्यर्थः । हन्ता मारयिता राघवः इमं रङ्गराज रङ्गनाथं अपूजयत् पूजितवान् ॥ ४१२ ॥
श्रुतेति । श्रुतः आकर्णितः सुराणां देवानां नुतिघोषः स्तुतिघोषो येन तस्मिन् शत्रुषु वैरिषु स्फीतः प्रवृद्धः रोषः क्रोधो यस्य तस्मिन् , निहताः विनाशिताः विनतानां नम्राणां दोषाः पापानि येन तस्मिन् , नित्यं दास्ये भगवद्दासकर्मणि अभिलाष
१ 'अलं गाधि'. २ 'हन्ता'. ३ 'श्रित'.
For Private And Personal Use Only