________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरीभगवन् रङ्गनायक ! भवदीये सदसि भाषितुमपि वयं बिभीमः ॥१७५॥ तथाहिकर्तृ व्याकरणस्य वाममितरद्यस्य प्रवक्रीक्षणम् _ भाष्यं व्याकरणस्य साधु विदधे शय्या यदीया पुनः ॥ यद्वाहो द्विजशेखरः श्रुतिमयो यस्य स्नुषा भारती
गोष्ठयां त्रस्यति तस्य ते कविजनो रङ्गेश ! कर्तुं स्तुतिम् ४१४ पुनरञ्जलिं बद्धवा सप्रार्थनम्वरगुणगणसीमा वारिदश्यामधामा
सततममररामासंघसंगीतनामा ।। परिहृतभवदामा भासिताकल्पहेमा
मम कलयतु भूमा मङ्गलं रङ्गधामा ॥ ४१५ ॥
इच्छा यस्य तस्मिन् , लब्धः प्राप्तः संपूर्णस्तोषः संतोषो येन भगवदृढभक्तयेत्यर्थः । तस्मिन् , ललितं मृदु सुन्दरं वा वपुः शरीरं यस्य तस्मिन् , पर्वणि पौर्णमास्यां यश्चन्द्रः तस्मादविशेषे विशेषरहिते तत्सदृशे इत्यर्थः । एतादृशे शेषे अनन्ते, हे. परमपुरुष भगवन् रङ्गनाथ ! शेषे शयनं करोषि ॥ ४१३ ॥
भगवनिति । हे भगवन् रङ्गनायक ! भवदीये त्वत्संबन्धिनि सदसि सभायां भाषितुं वक्तुमपि वयं विभीमः भयं प्राप्नुमः ॥ १७५ ॥
भयकारणमेवोपपादयति-कर्षिति । यस्य भगवतः वामं सव्यं ईक्षणं नेत्रं चन्द्ररूपमित्यर्थः । व्याकरणस्य चान्द्रव्याकरणस्य कर्तृ उत्पादकं, तथा इतरत् वामात् भिन्नं दक्षिणनेत्रं सूर्यरूपं सौरव्याकरणशास्त्रस्य प्रवक्त प्रणेत, पुनश्च यस्य रङ्गनाथभगवतः इयं यदीया भगवत्संबन्धिनीत्यर्थः । शय्या शेषरूपा व्याकरणस्य पाणिनीयव्याकरणशास्त्रस्य भाष्यं महाभाष्यरूपं व्याख्यानं साधु यथा तथा विदधे चकार, तथा यस्य भगवतो वाहो वाहनं श्रुतिमयो वेदरूपः द्विजानां ब्राह्मणानां पक्षिणां च श्रेष्ठः गरुडः, यस्य भगवतः स्नुषा पुत्रपत्नी भारती सरस्वती, तस्मात् हे रङ्गेश रङ्गनाथ भगवन् ! तस्य एतादृशगुणविशिष्टस्य ते तव गोष्ट्या सभायां कविजनः काव्यकर्तृसमुदायः स्तुतिं स्तवं कर्तुं त्रस्यति बिभेति ॥ ४१४ ॥
पूर्वोक्तगुणविशिष्टा देवता मम कल्याणं विदधातु इति मनसि निधाय प्रार्थयते -वरगुणेति । वराणां श्रेष्ठानां गुणगणानां गुणसमुदायानां सीमा मर्यादा, वारिदस्य मेघस्येव श्यामं नीलवर्ण धाम देहो यस्य सः, “गृह-देह-त्विट्-प्रभावा धामानि" इत्यमरः । सततं निरन्तरं अमररामाणां देवस्त्रीणां सङ्घन समुदायेन संगीतं उत्तम
१ रङ्गचन्द्र ! भवदीयसंमुखे'. २ 'वक्त'. ३ 'नुति'.
For Private And Personal Use Only