________________
Shri Mahavir Jain Aradhana Kendra
–वर्णनम् ३४ ]
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
→
पदार्थचन्द्रिकाटीकासहिता ।
अन्यतो वीक्ष्य सश्लाघम्-
स्वामिनीं स्तौमि नीलाब्जमद मोचनलोचनाम् || अङ्गनां रङ्गनाथैस्य दीप्तिं मूर्तिमतीमिव ॥ ४१६ ॥
देवीमुद्दिश्यमोहोन्मूलनमूलिका भवजुषां मोक्षाध्वनिःश्रेणिका, चेत. शुद्धिविधान सिद्धगुलिका चिन्तातमश्चन्द्रिका || विद्याविभ्रमसौरिकासि कमले ! विष्णोरुरोमालिका
मातस्त्वं मम पारिजातलतिका मोदाम्बुधेर्वीचिका ॥ ४१७॥ कृ० - कान्त्येव हन्त वृत्त्याऽपि कमलामपि चञ्चलाम् ॥ अशिष्टेष्वेव रज्यन्तीमभिष्टौति कथं बुधः ॥ ४९८ ॥
●
२२७
प्रकारेण गानेन वर्णितं नाम यस्य सः परिहृतं निवारितं भवस्य संसारसंबन्धि दाम बन्धनपाशो येन सः, समस्त संसारबन्धनोच्छेदक इत्यर्थः । भासितं प्रकाशितं आकल्पानां भूषणानां हेम सुवर्ण यस्य सः, रङ्गे रङ्गक्षेत्रे धाम स्थानं यस्य सः भूमा महात्मा भगवान् रङ्गनाथः, मम मत्संबन्धि मङ्गलं कल्याणं कलयतु करोतु ॥ ४१५ ॥
एवं भगवन्तं रङ्गनाथं स्तुत्वा तत्पत्नीं भगवतीं महालक्ष्मीं स्तौति – स्वामिनीमिति । नीलाब्जस्य नीलकमलस्य मदमोचने सौन्दर्यगर्वनिवारणे लोचने नेत्रे यस्याः सा तां मूर्तिमतीं प्रत्यक्षशरीरधारिणीं दीप्तिं कान्तिमिव स्थितां खामिनीं सर्वजनानामीश्वरी, रङ्गनाथस्य भगवतः अङ्गनां पत्नीं लक्ष्मीं स्तौमि वक्ष्यमाणप्रकारेण स्तुतिं करोमि ॥ ४१६ ॥
मोहोन्मूलनेति । भो मातः सकललोकजननि ! कमले महालक्ष्मि ! त्वं भवजुषां संसारिणां मोहस्याज्ञानस्य उन्मूलने निर्मूलने मूलिका मूली, अत एव मोक्षाध्वनः मोक्षमार्गस्य निःश्रेणिका अधिरोहणी, चेतसः अन्तःकरणस्य शुद्धिविधाने पवित्रीकरणे सिद्धगुलिका सिद्धगुटिका, चिन्तारूपस्य तमसः अन्धकारस्य चन्द्रिका चन्द्रकान्तिः, विद्याविभ्रमस्य विद्याक्रीडायाः सारिका, विष्णोर्भगवतः उरोमालिका वक्षःस्थलमाला, मम पारिजातलतिका कल्पवल्ली, अत एव मोदाम्बुधेरानन्दसमुद्रस्य वीचिका लहरी च असि । एतदेव क्रियापदं पूर्वविशेषणेष्वपि योज्यम् ॥ ४१७ ॥
|
एवं लक्ष्मीवर्णनमाकर्ण्य चपलत्वरूपं दोषं तस्यामुद्भाव्य कृशानुः प्राह-कान्त्येवेति । हन्तेति खेदे । कान्त्या प्रभयेव वृत्त्या स्थित्या स्वभावेन चापि चञ्चलां चपलां विद्युतं चापि, किंच अशिष्टेष्वेव असभ्येष्वेव रज्यन्तीं रममाणां कमलां लक्ष्मीमपि बुधः पण्डितः कथमभिष्टौति प्रशंसति ? अपि तु नैव स्तौतीत्यर्थः । "उपसर्गात् सुनोति --" इत्यादिना षत्वम् ॥ ४१८ ॥
१ 'सप्रश्रयम्'. २ 'नौमि ' ३ 'रङ्गधाम्नोऽस्य' ४ 'गुटिका' ५ ' शालिका ' ६ 'कमलामति',
For Private And Personal Use Only