________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरी
तथाहिप्रापर्यमधिष्ठितोपि मृदुलं पालाशशय्यामपि
प्रायः प्रार्थयते कदन्नमिव यः क्षीरोदनं भुक्तवान् ॥ प्राश्नात्येष कदुष्णिकाममृतवत् प्रागौप्तपीताम्बरः
कन्यां याचति भृत्यति क्षितिपतिर्लक्ष्मीकटाक्षात्यये ॥ ४१९ ॥ अन्यच्चावधेयम्दातुभरि य एष वारणमगात्तद्वार्यहो वारणम्
पश्याम्यद्य चिरादशेत भुवि यो भूस्तस्य शेते भुजे ॥ नाहारानपि लेभिरे यदबला हारानमूस्तत्प्रिया
विन्दन्ते कमलाहगूर्मिभिरहो निन्ने भवत्युन्नतिः ॥ ४२०॥
लक्ष्म्याश्चञ्चलत्वमेव तावत्सविस्तृतमाह-प्रागिति । यः क्षितिपतिः पृथ्वीपती राजा, प्राक् लक्ष्म्याः कृपाकटाक्षसमये मृदुलं मृदुतरं पर्यत अधिष्टितः आरूढोऽपि सन् , लक्ष्म्याः कटाक्षस्य नेत्रापाङ्गदर्शनस्य अत्यये नाशे सति लक्ष्मीप्रसादाभावे इत्यर्थः । एतदेवाग्रेष्वपि वाक्येषु योज्यम् । पलाशानां पर्णानामियं पालाशी तां पर्णनिर्मितामित्यर्थः । शय्यामपि प्रायः प्रार्थयते वाञ्छति । तथा यः प्राक् क्षीरीदनं दुग्धयुक्तं भोजनं भुक्तवान् बुभोज, सः एषः कष्णिकां कुत्सितां यवागू अमृतवत् प्रकर्षण अनाति भुनक्ति । तथा यः प्राक् आप्तं परिहितं पीतं कौशेयं अम्बरं वस्त्रं येन सः तथाभूतः आसीत् , स एव कन्थां बहुवस्त्रखण्डरचितां याचति, अत एव मृत्यति दासवदाचरति च ॥ ४१९ ॥
किंच दातुरिति । यः एषः याचकः दातुः उदारधनिकस्य द्वारि द्वारदेशे वारणं निवारणं अन्तर्गमननिषेधं अगात् प्राप्तवान् , तस्य याचकस्य द्वारि वारणं निवारणं, गजं वा पश्यामि अवलोकयामि । अहो इत्याश्चर्ये । तथा यः चिरात् बहुकालपर्यन्तं भुवि केवलभूमावेव अशेत शयनं करोति स्म, तस्यैव भुजे बाही अद्य भूः पृथ्वी शेते । भुजबलात् भुवं लब्धवानित्यर्थः । तथा यस्य दरिद्रस्य अवलाः स्त्रियः आहारान् भोजनान्यपि न लेभिरे न प्राप्तवत्यः, तस्य दरिद्रस्य प्रियाः अमूः स्त्रियः हारान् मुक्ताफलमणिरचितान् विन्दन्ते प्राप्नुवन्ति । तस्मात् कमलाया लक्ष्म्याः दृशः दृष्टय एव ऊर्मयः तरङ्गास्तैहेतुभिः निम्ने नीचेऽपि उन्नतिः उच्चता संपत्त्यादिनेति भावः । भवति ॥ ४२० ॥
१ मणिमय'. २ 'दृष्टवान्'. ३ 'प्रागात्त'. ४ 'कन्यां याचति च क्षितेरधिपतिलक्ष्मी'. ५ 'भृत्यवत्'. ६ निनो भवत्युन्नतः'.
For Private And Personal Use Only