________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३४] पदार्थचन्द्रिकाटीकासहिता। इदं च पुनर्बोद्धव्यम्- (श्रियमुद्दिश्य-) हन्तुबन्धुजनान् धनार्थमनघान् गन्तुः परस्त्रीशतम्
रन्तुर्जन्तुविहिंसकैः सह जनैः संतुष्यतो वञ्चनैः ।। वक्तुस्तीक्ष्णमयुक्तमेव वचनं पक्तुर्मितं चौदनम्
नित्यं नृत्यसि मन्दिरेषु कमले ! कत्यं तवैतन्मतम् ॥४२१॥ अन्यच्चयेषामन्यकलत्रदर्शनकलाव्युत्पत्तिशून्ये दृशौ
मूढं हृच्च पैरार्थचिन्तनविधौ मिथ्यानभिज्ञं मुखम् ॥ अप्रज्ञातपशून्बुभुक्षितशिशूनभ्रोदकैस्ताम्यत
स्तेषां लक्ष्मि गृहान् दृशी च भयभीतेवेह नावेक्षसे ॥ ४२२ ॥ अपि च हन्तुरिति । हे कमले लक्ष्मि ! धनार्थं द्रव्याथै अनघानू निरपराधान बन्धुजनान् हन्तुः, परस्त्रीणां शतं, अनेकपरस्त्रीरित्यर्थः । गन्तुः उपभोगार्थ गच्छतः, जन्तुविहिंसकैः प्राणिवधकर्तृभिः जनैः सह रन्तुः विहारशीलस्य, वञ्चनैः परप्रतारणैः संतुष्यतः, किंच अयुक्तं सभ्यजनानामयोग्य तीक्ष्णं कठोरं च वचनं भाषणं वक्तुः, मितं स्त्रोदरपूर्तिमात्रमेव ओदनमनं च पक्तः, “आत्मार्थ पाचयेनानं' इत्यादिशास्त्रात् आत्मपर्याप्तिमात्रान्नपचनमयुक्तमिति भावः । एतादृशजनस्य मन्दिरेषु गृहेषु नित्यं नृत्यसि । एतत् तव मतं वसं कुत उत्पन्नम् ? नान्यतः कुतोऽपि तु त्वत्त एवोत्पन्नमित्यर्थः ॥ ४२१ ॥
अथ ये तावत् सदाचरणतत्परास्तेषां गृहे नैव तिष्ठसीति वदन् लक्ष्मी दूषयतियेषामिति । येषां निर्मलमानसानां जनानां दृशौ लोचने अन्यकलत्राणामन्यस्त्रीणां दर्शनरूपा या कला तस्याः व्युत्पत्तिानं तेन शून्ये रहिते, कदापि परस्त्रीदर्शनवर्जिते इत्यर्थः । तथा येषां, इदमेव सर्वत्राग्रिमवाक्येषु योज्यम् , हृत् हृदयं च परार्थचिन्तनविधौ अन्यद्रव्यग्रहणविचारकरणे मूढं, सर्वदा सत्कार्यपरतया परद्रव्यापहाराद्यसत्कर्मविचारशून्यमित्यर्थः । क्वचित् 'परार्तिचिन्तनविधौ' इति पाठः । तत्पक्षे परपीडाकरणविचाररहितमित्यर्थः । तथा मुखं मिथ्यानभिज्ञ असत्यभाषणरहितं, सर्वदा सत्यभाषणपरमेवेत्यर्थः । तेषां जनानां अप्रज्ञाताः कदाप्यदृष्टाः पशवो गोमहिष्यादयो येषु तान् , बुभुक्षिताः क्षुधिताः शिशवो बालाः येषु तान् , अभ्रोदकैः वर्षाकालिकमेघजलैः ताम्यतः सम्यक् जलवारणाभावात् दुःखप्रदांश्च गृहान् प्रति हे लक्ष्मि ! इह भयभीतेव दृशा न अवेक्षसे नैव पश्यसि । सदाचारसद्विद्यादिसंपन्नान जनान् सततं दारिद्यावस्थायामेव वर्तयसीत्यर्थः ॥ ४२२ ॥
१ 'कृत्यं'. २ 'कथा'. ३ 'पराति'. ४ 'दृशा भवसरिन्नावेह'.
For Private And Personal Use Only