________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
विश्वगुणादर्शचम्पू:
[ श्रीरङ्गनगरी
|--
विश्वा० - सखे ! मानसखेदजननी तवेयं वाणी । यतो दुःशीलेषु दृश्यमानाः साधुजनानुपयुक्ताः संपदाभासाः, प्रत्युत मृत्युतरणकारणभुवनजननीकृपाकटाक्षवैधुर्यनिबन्धना एव । उक्तं हि गुणहानेरुदधिदुहितृवैमुख्यनिबन्धनत्वमुचितज्ञेन केनचिद्विदुषा ॥ १७६ ॥
C
सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ॥ पराङ्मुखी जगद्धात्रि! यस्य त्वं विष्णुवल्लभे ! ॥ ४२३ ॥' इति ।
सख इति । हे सखे मित्र ! मानसस्य मनसः खेदजननी तव इयं 'कान्त्येव इन्त—' इत्यारभ्य ——नावेक्षसे' इत्यन्ता वाणी । यतो यस्मात् कारणात् दुःशीलेषु दुष्टस्वभावाचारेषु जनेषु दृश्यमानाः संपदः द्रव्यादिसमृद्धेः आभासाः, न तु सत्याः, चिरकालस्थायित्वाभावात् । अत एव साधुजनानां अनुपयुक्ताः प्रत्युत विचारे कृते तु मृत्योः जन्म-मरणादिपरंपरायुक्तस्य संसारस्य तरणे पारगमने कारणरूपा ये भुवनजनन्या लक्ष्म्याः कृपाकटाक्षाः तेषां वैधुर्य शून्यत्वं निबन्धनं प्रयोजकं येषां तथाभूता एव । सदाचार - सद्विद्यादिसंपन्नसज्जनानां जन्ममरणादिराहित्य-चिरसुखस्थायित्वादिदर्शनात् तद्विरुद्धाचाराणां च धनादिसंपन्नत्वेऽपि पुनः पुनर्जन्म-मरण- दुर्गतिप्रापणादिश्रवणाच्च । उक्तार्थे विद्वत्संमतिमाह – उक्तं हीति । गुणानां दया- दाक्षिण्यादीनां हानेः उदधिदुहितुः क्षीरसागरकन्यकायाः लक्ष्म्याः वैमुख्यं पराङ्मुखत्वमेव निबन्धनं प्रयोजकं यस्य तस्य भावस्तत्वं केनचित् उचितं लक्ष्मीकटाक्षस्य भवसागरमोचनमेव सत्यं फलमिति योग्यं जानातीति तज्जज्ञस्तेन विदुषा पण्डितेन । उक्तं हि कथितमेव । क्वचित् 'नमुचिद्विषा' इति पाठः । तत्पक्षे इन्द्रेणेत्यर्थः । इममेव पाठमनुसृत्याग्रिमपये ' इयं हि ( 'सद्यो वैगुण्यमायान्ति' इत्यादिरूपा ) इन्द्रायैरावतारूढाय राजोपहारकारणीभूता केनचित् स्वस्मै समर्पिता पुष्पमाला सहजमन्युना दुर्वाससा मध्येमार्गमेव दत्ता | शश्व तां गृहीत्वा गजेन्द्रगण्डस्थलोपरि निक्षिप्तवान् । स चैरावतस्तां पुष्करेण गृहीत्वा छिन्नामकरोत् । तद्दृष्ट्वा परमकोपनो मुनिराद इन्द्राय ' त्वत्पालितेषु भुवनेषु लक्ष्मीर्न वत्स्यति' इति शापमदात् । ततश्च सर्वत्र लक्ष्मीप्रादुर्भावाभावे यज्ञादिसंपत्त्यभावे च देवानां हविर्भागाद्यप्राप्त्या चिन्ताविष्टतया ब्रह्मादिकृतस्तवन संतुष्टाया लक्ष्म्याः सर्वलो - कहिताव प्रादुर्भावे शककृत लक्ष्मीप्रशंसारूपा प्रासङ्गिकी उक्तिः विष्णुपुराणे दृश्यते ।' इति टिप्पणी मुद्रितपुस्तके दृश्यते ॥ १७६ ॥
तामेवोक्तिं दर्शयति-सद्य इति । हे विष्णुवल्लभे विष्णुप्रिये, जगद्धात्रि जगन्मातः ! त्वं यस्य पुरुषस्य पराङ्मुखी भवसि तस्य शीलं सद्वृत्तं आद्यं मुख्यं येषां ते गुणाः सदाचरणपरोपकारादयः सकला अपि सद्यः सपद्येव विगुणानां दोषाणां भावः वैगुण्यं दोषरूपत्वं यान्ति प्राप्नुवन्ति ॥ ४२३ ॥
१ 'नमुचिद्विषा'.
For Private And Personal Use Only